नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
१७४ नैषधचरितम् । [ तृतीयः वराटिकोपक्रिययापि लभ्यानिभ्याः कृतज्ञानथवाद्रियन्ते । प्राणैः पणैः स्वं निपुणं भणन्तः क्रीणन्ति तानेव तु हन्त सन्तः ॥८८॥ अथवा साधुस्वभावेनापि परोपकारं कुर्यात्याह—वराटिकेति । अथवा वराटिकोपक्रियया=कपर्दिकादानेनापि, लभ्यान् = सुलभान्, कृतज्ञान् = तावदेव बहुमन्यमानान्, उपकारज्ञान्, इभ्याः = धनिकाः । 'इभ्य आढ्यो धनी स्वामी' इत्यमरः । नाद्रियन्ते = धनलोभान्नोपकुर्वन्तीत्यर्थः । सन्तः=विवेकिनस्तु स्वम्= आत्मानं निपुणं भणन्तः = व्यवहरन्तः सन्तः । एते वयं त्वदधीना इति साधु वदन्त इत्यर्थः । तानेव = कृतज्ञान् प्राणैरेव पणैः = मूल्यैः, क्रीणन्ति = आत्म- सात् कुर्वन्ति; किमुत धनैरित्यर्थः । अतस्त्वयापि सता कृतज्ञाहमुपकर्तव्येति भावः । हन्त = हर्षे ॥ ८८ ॥ अथवा—एक कौड़ी के उपकार से भी, सन्तुष्ट हो, कृतज्ञ बनने वाले का धनी लोग आदर नहीं करते (अर्थात् जो केवल एक कौड़ी पा जाने पर भी, अपने दाता का चिर-कृतज्ञ बनकर, उसकी जयजयकार मनाता है; उस याचक को, पैसे के लोभी धनी, एक फूटी कौड़ी न देकर, धुतकार बताते हैं ); पर अपने को समाज-सेवी कहने वाले सव्यक्ति तो प्राण-पण से (अर्थात् अपने प्राणरूपी मूल्य देकर) भी उन कृतज्ञ हुए जनों को खरीद लेते हैं (अर्थात् अपने वश में कर लेते हैं)। यह बड़े हर्ष (सन्तोष) की बात है (और सज्जन तथा दुर्जन में इतनी ही विभिन्नता है) ॥ ८८ ॥ स भूभृदष्टावपि लोकपालास्तैर्मे तदेकाग्रधियः प्रसेदे । न हीतरस्माद्धटते यदेत्य स्वयं तदाप्तिप्रतिभूर्यन्माभूः ॥ ८९ ॥ सेति । किञ्च, स भूभृत् = नलः, अष्टावपि लोकपालाः = तदात्मक इत्यर्थः । 'अष्टाभिर्लोकपालानां मात्राभिर्निर्मितो नृपः' इति स्मरणात् । अत एव तदेका- ग्रधियः = नलैकतानबुद्धेः । मे = मम तैः = लोकपालैः प्रसेदे = प्रसन्नम् । भावे लिट् । देवता ध्यायतः प्रसीदन्तीति भावः । कुतः ? इतरस्मात्=प्रसादादन्यथेत्यर्थः । स्वयं = स्वयमेव, आगत्य, मम तदाप्तिप्रतिभू = नलप्राप्तिलम्भकः अभूः इति यत्, तन्न घटते हि । तत्प्रसादाभावे कुतो ममेदं श्रेय इत्यर्थः ॥ ८९ ॥ वे राजा नल ( इन्द्र, यम, अग्नि आदि ) आठो लोकपालों के अंश- स्वरूप हैं। अतः उन ( नल ) में एकाग्रचित्ता होने के कारण वे (आठो लोक-
सर्गः ३ ] जीवातु-मदयन्तिकासहितम् १७५ Digitized by Sarayu Trust Foundation and eGangotri पाल, यह समझकर कि दमयन्ती मेरा ध्यान करती है ) मेरे ऊपर प्रसन्न हो गये हैं; क्योंकि ( यदि ऐसी बात न होती तो ) तुम स्वयं आकर, नल के पाने के बारे में जमानतदार न बनते और यह (आठो लोकपालों की प्रसन्नता के बिना) किसी अन्य कारण से सम्भव नहीं था ॥ ८९ ॥ अकाण्डमेवात्मभुवार्जितस्य भूत्वापि मूलं मयि वीरणस्य । भवान् मे किं नलदत्वमेत्य कर्ता हृदश्चन्दनलेपकृत्यम् ॥ ९० ॥ अकाण्डेति । हे हंस !, विः = पक्षी । 'विविष्किरपतत्रिणः' इत्यमरः । 'रोरि' इति रेफलोपे 'ढूलोपे पूर्वस्य' इति दीर्घः । भवान् अकाण्डम् = अनवसर एव । अत्यन्तसंयोगे द्वितीया । आत्मभुवा = कामेन, मयि विषये अर्जितस्य = कृतस्य रणस्य = गाढप्रहारलक्षणस्य, मूलं = हंसानामुद्दीपकत्वेन निदानं भूत्वापि; अन्यत्र, काण्डो दण्डः, तद्वर्जितमकाण्डं यथा तथा । आत्मभुवा = ब्रह्मणा, अर्जितस्य सृष्टस्य, वीरणस्य = तृणविशेषस्य, मूलं = मूलावयवो भूत्वा । अत एव नलदत्वं = नैषधदातृत्वं, अन्यत्र उशीरत्वं चेत्यर्थः । एत्य, मे हृदः । रहः चन्दन- लेपकृत्यं शैत्योत्पादनं न कर्त्ता = करिष्यत्येव परोपकारशीलत्वादिति भावः । 'काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु' । 'स्याद्वीरणं वीरतरुर्मूलेश्योरमस्त्रियां । अभयं नलदं सेव्यम्' इति चामरः । वीरणस्येति शब्दश्लेषः । अन्यत्रार्थश्लेषः । तथा च नलदत्वमेत्य चेति प्रकृताप्रकृतयोरभेदाध्यवसायेन हंसे आरोप्यमाणस्यो- शीरस्य प्रकृत्या तादात्म्येन चन्दनकृत्यलक्षणप्रकृतकार्योपयोगात् परिणामालङ्कारः । 'आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः' इति लक्षणात् स चोक्तश्लेषप्रतिबिम्बो- त्थापित इति सङ्करः ॥६०॥ असमय में ही ( इस कुमारावस्था में ही ) आत्म-भू कामदेव के द्वारा, मुझ में ( 'रणस्य' ) गाढ प्रहार, कराने के कारण हो ( अर्थात् कामवासना के बारे में इस प्रकार बातचीत करके, कामोद्दीपन कराने के कारण हुए ) । ( 'विः' ) पक्षी होते हुए भी, तुम ( नल-द ) मेरे प्रियतम नल के प्रदानकर्ता बनकर, क्या मेरे ( काम-सन्तप्त ) हृदय पर ( शीतल ) चन्दन के लेप का कार्य नहीं करोगे ? ( दूसरा अर्थ- ) आत्मभू ब्रह्मा के द्वारा उत्पन्न की गयी, तना रहित ( वीरण ) गोंडर घास की जड़ के रूप में होकर, तुम मेरे लिए (नलद) खस बन कर कामसन्तप्त हृदय पर, चन्दनात्मक अङ्गराग का लेप न करोगे क्या ? ॥६०॥
१७६ नैषधचरितम् । [ तृतीयः Digitized by Sarayu Trust Foundation and eGangotri अलं विलम्ब्य त्वरितुं हि वेला कार्ये किल स्थेयसहे विचारः । गुरूपदेशं प्रतिभेव तीक्ष्णा प्रतीक्षते जातु न कालमार्त्तिः ॥६१॥ अलमिति । हे हंस ! विलम्ब्य अलं=न विलम्बितव्यमित्यर्थः । 'अलं खल्वोः इत्यादिना क्त्वाप्रत्यये ल्यबादेशः । त्वरितुं वेला हि=त्वराकालः खल्वयमित्यर्थः । 'कालसमयवेलासु तुमुन् ।' कुतः ? स्थैर्यसहे=विलम्बसहे कार्ये, विचारः=विमर्शः किल=इति प्रसिद्धौ, अन्यथा विपत्स्यत इति भावः । तथा हि तीक्ष्णा=शीघ्रग्राहिणी प्रतिभा=प्रज्ञा गुरूपदेशमिव आर्त्तिः = आधिः जातु=कदापि काल न प्रतीक्षते = कालक्षेपं न सहत इत्यर्थः । उपमार्थान्तरन्यासयोः संसृष्टिः ॥६१॥ अब विलम्ब मत करो, क्योंकि यह समय शीघ्रता करने का है । जो कार्य विलम्ब सहन कर सके उस में ही (शुभ तिथि-नक्षत्र-वार-योगादि का) विचार किया जाता है । (देखो), जिस प्रकार (शिष्य की) कुशाग्र बुद्धि, आचार्य की शिक्षा की, प्रतीक्षा नहीं करती, वैसे ही दारुण (काम-) पीडा भी (उपयुक्त) समय की प्रतीक्षा नहीं करती ॥६१॥ अभ्यर्थनीयः स गतेन राजा त्वया न शुद्धान्तगतो मदर्थम् । प्रियास्य-दाक्षिण्य-बलात्कृतो हि तदोदयेदन्यवधूनिषेधः ॥६२॥ अथानन्तरकृत्यं सविशेषमुपदिशति-अभ्यर्थनीय इत्यादि श्लोकपञ्चकेन । गतेन=इतो यातेन, त्वया स राजा = नलः शुद्धान्तगतः=अन्तःपुरस्थः, मदर्थं=मत्प्रयोजनं, नाभ्यर्थनीयः=न वाच्यः । दुहादित्वाद्द्विकर्मकत्वम् । अप्रधाने दुहादीनामिति राज्ञोऽभिहितकर्मत्वं । कुतः ? हि=यस्मात् तदा=तस्मिन् काले, [प्रियास्य-दाक्षिण्यबलात्कृतः] प्रियाणाम् आस्यदाक्षिण्यं मुखावलोकनोत्थापितछन्दा- नुवृत्तिबुद्धिरित्यर्थः । तेन बलात्कृतो बलात्प्रतिवर्त्तितः, अन्यवधूनिषेधः उदयेत्= उत्पद्येत ॥ ६२ ॥ तुम यहाँ से जाकर, उन राजा नल से (परिणय-) प्रार्थना जब वे रनिवास की रानियों के साथ बैठे हों, तब मत करना; क्योंकि सम्भव है कि उस समय, उन प्रेयसी रानियों के मुख की उदारता (मुख के अनुरोध) के कारण, उनके चित्त में यह भावना उत्पन्न हो जाय (कि अमुक रानी से या इन सभी रानियों से मेरी कामवासना पूर्ण हो सकती है।) इससे अन्य स्त्री के साथ परिणय करने को मना कर दें ॥६२॥
सर्गः ३ ] जीवातु-मदयन्तिकासहितम् १७७ शुद्धान्त-सम्भोग-नितान्ततृप्ते न नैषधे कार्यमिदं निगाद्यम् । अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः स्वदते तुषारा ॥९३॥ शुद्धान्तेति । किञ्च, [ शुद्धान्त-सम्भोग-नितान्ततृप्ते ] शुद्धान्तसम्भोगेन अन्तःपुरस्त्रीसम्भोगेन, नितान्ततृप्ते अत्यन्तसन्तुष्टे, नैषधे = नलविषये इदं कार्यं, न निगाद्यं = न निगदितव्यं । 'ऋहलोर्ण्यत्' 'गदमद' इत्यादिना सोपसर्गाद्यतो निषेधात् । तथा हि-अपां तृप्ताय = अद्भिस्तृप्तायेत्यर्थः । 'पूरणगुण' इत्यादिना षष्ठीसमासप्रतिषेधादेव ज्ञापकात् षष्ठी । 'रुच्यर्थानां प्रीयमाणः' इति सम्प्रदानत्वा- च्चतुर्थी । स्वादुः = मधुरा सुगन्धिः = कर्पूरादि वासनया शोभनगन्धा । अत्र कवीनां निरंकुशत्वाद्गन्धस्येत्वे तदेकांतत्वनियमानादरः । तुषारा = शीतला वारि- धारा, न स्वदते = न रोचते हि । दृष्टान्तालङ्कारः ॥९३॥ जब राजा नल अपनी रनिवास की रानियों के साथ सम्भोग करके, पूर्ण सन्तुष्ट हो चुके हों तब भी इस ( परिणय-प्रार्थना ) कार्य को मत कहना, क्योंकि साधारण जल से सन्तुष्ट हुए व्यक्ति को स्वादिष्ट, सुगन्धित तथा शीतल जल की धारा भी अच्छी नहीं लगती ॥ ९३ ॥ विज्ञापनीया न गिरो मदर्थाः क्रुधा कदुष्णे हृदि नैषधस्य । पित्तेन दूने रसने सितापि तिक्तायते हंसकुलावतंस ! ॥९४॥ विज्ञापनीया इति । हे हंसकुलावतंस !, नैषधस्य = नलस्य, हृदि = हृदये, क्रुधा = क्रोधेन, कदुष्णे = ईषदुष्णे सति । 'कवं चोष्णे' इति चकारात्कोः कदादेशः । मह्यमिमाः मदर्थाः । 'अर्थेन सह नित्यसमासः सर्वलिङ्गता च वक्तव्या ।' गिरः = वाचो न विज्ञापनीयाः = न विधेयाः, न विज्ञाप्या इत्यर्थः । तथाहि, पित्तेन = पित्तदोषेण दूने = दूषिते, रसने=रसनेन्द्रिये, सिता = शर्करापि तिक्ता- यते = तिक्तीभवति । लोहितादित्वात् क्यष् । 'वा क्यषः' इति आत्मनेपदम् । अत्रापि दृष्टान्तालङ्कारः ॥ ९४ ॥ हे हंस-वंश के अलङ्कारस्वरूप ! जब नल का हृदय क्रोध के कारण कुछ- कुछ गरमा गया हो तो तुम मेरे बारे में प्रसङ्ग मत छेड़ना; क्योंकि पित्त से दूषित हुई जीभ पर चीनी भी कड़वी लगती है ॥ ९४ ॥ धरातुरासाहि मदर्थयाच्ञा कार्या न कार्यान्तरचुम्बिचित्ते । तदार्थितस्यानवबोधनिद्रा बिभर्त्यवज्ञाचरणेन मुद्राम् ॥९५॥ २३
१७८ नैषधचरितम् । [ तृतीयः धरेति । तुरं त्वरितं, सहत्यभिभवत्यरीनीति तुराषाडिन्द्रः, महतेश्चौरादि- कत्वात् क्विप् । 'नहिवृति' इत्यादिना पूर्वपदस्य दीर्घः, प्रकृतिग्रहणे ण्यन्तस्यापि ग्रहणात् । मुग्धबोधस्तु तुराशब्दं तान्तमाह । तस्मिन् धरातुरासाहि=भूदेवेन्द्रे नले, अजादिषु असाधुत्वात् 'सहेः साडः सः' इति षत्वं नास्ति । कार्यान्तरचुम्बिचित्ते= व्यासक्तचित्ते मदर्थयाच्ञा = मत्प्रयोजनप्रार्थना न कार्या । तथाहि, तदा = व्यासङ्गकाले अर्थितस्य = प्रार्थितार्थस्य [ अनवबोधनिद्रा ] अनवबोध अबोधः, स एव निद्रा सा, अवज्ञाचरणस्य = अनादरकरणस्य मुद्रां = अभिज्ञानं बिभर्त्ति = अनादरप्रतीतिं करोतीत्यर्थः । तच्चातिकष्टमिति भावः ॥६५॥ धरा ( पृथ्वी ) तल के इन्द्र राजा नल का चित्त जब किसी दूसरे कार्य में लगा हो तब भी मेरे लिए प्रार्थना मत करना; क्योंकि ऐसे समय प्रार्थना करने पर, अ-श्रवण रूप निद्रा मानों अनादर करने ( अनवधानता ) के चिह्न धारण करती है ॥६५॥ विज्ञेन विज्ञाप्यमिदं नरेन्द्रे तस्मात्त्वयास्मिन् समयं समीक्ष्य । आत्यन्तिकासिद्धि-विलम्बसिद्ध्योः कार्यस्य कार्यस्य शुभा विभाति ॥९६॥ विज्ञेनेति । तस्मात् = कारणाद् विज्ञेन = विवेकिना, त्वया समयं समीक्ष्य, इदं = कार्यम् अस्मिन् नरेन्द्रे = नले विषये विज्ञाप्यम् । नन्वेवं कार्य- विलम्बः स्यादित्याशङ्क्याह—आत्यन्तिकेति । हे हंस !, कार्यस्य आत्य- न्तिकासिद्धि-विलम्बसिद्ध्योर्मध्ये, आर्यस्य = विदुषस्ते, का = कतरा शुभा = समीचीना विभाति = प्रतिभाति । अनवसरविज्ञापने कार्यविघाताद्वरं विलम्ब- नेनापि कार्यसाधनमिति भावः ॥६६॥ तुम ( अवसर-अनवसर के ) ज्ञाता हो; अतः समय ( अनुकूल अवसर ) देखकर, उन नरपति नल से मेरी प्रार्थना निवेदन कर देना । (अनवसर कहने से) कार्य का एकदम पूरा न होना और ( अवसर देखकर कहने से ) कार्य का विलम्ब से सिद्ध होना--इन दोनों में आर्य ( तुम ) को कौनसी भली जँचती है ? ॥६६॥ इत्युक्तवत्या यदलोपि लज्जा सानौचिती चेतसि नश्चकास्तु । स्मरस्तु साक्षी तददोषतायामुन्माद्य यस्तत्तदबोधदत्ताम् ॥९७॥ इतीति । इति = इत्थम्, उक्तवत्या भैम्या, यत् = लज्जाया, अलोपि=त्यक्तेति यत्, सा विधेयप्राधान्यात् स्त्रीलिङ्गता । अनौचिती = अनौचित्यं गतमेतत् नः = अस्माकं
सर्गः ३ ] जीवातु-मद्यन्तिकासहितम् १७९ शृण्वतां चेतसि चकास्तु । किं तु [तद्दोषतायां] तस्य लज्जात्यागस्य अदोष- तायां, स्मरः साक्षी = प्रमाणं, यः = स्मरः तां = भैमीम्, उन्माद्य = उन्मादा- वस्थां प्राप्य, तत्तत् = अनुचितं वचनम् अबीवदत् = वादयतिस्म । वदतेर्णौ चङि 'गति-बुद्धि' इत्यादिना वदेरणि कर्तुः कर्मत्वम् । प्रकृतिस्थस्यायं दोषो न कामोपहत- चेतस इति भावः ॥६७॥ इस प्रकार (प्रगल्भा नायिका के समान निर्लज हो) कहने वाली दमयन्ती का साथ जो लज्जा ने छोड़ दिया-वह (लज्जात्याग लक्षण युक्त) अनौचित्य तो हमारे (जैसे धृष्ट कवियों आदि के) चित्त में विराजमान हुआ। पर, कामदेव तो -उस दमयन्ती की लज्जा परित्याग रूप निर्दोषता का-साक्षी (साक्षात् अपनी आँखों से देखने वाला) हुआ; जिस (काम) ने उस (दमयन्ती) को उन्मत्त (काम-विकल) करके, उसके मुँह से वैसा-वैसा कहलवाया ॥६७॥ उन्मत्तमासाद्य हरः स्मरश्च द्वावप्यसीमा मुदमुद्वहेते । पूर्वः स्मरस्पर्धितया प्रसूनं नूनं द्वितीयो विरहाधिदूर्नम् ॥६८॥ ननु कामो वा किमर्थमेवं कारयतीत्याशङ्क्य, तस्यायं निसर्गो यदुन्मत्तेन क्रीड- तीति सहृष्टान्तमाह - उन्मत्तमिति । हरः स्मरश्च द्वावपि, उन्मत्तमासाद्य नूनं असीमां = दुरन्तां मुदम् उद्वहेते = दधतुः । वहे स्वरितेत्वादात्मनेपदं । किन्तु, तत्र निर्देशक्रमात् । पूर्वः = हरः स्मरस्पर्धितया = स्मरद्वेषितया, प्रसूनं = धुत्तूर- कुसुमं, तस्यायुधतयेति भावः । अन्यत्र द्वितीयः = स्मरस्तु विरहाधिदूर्न = विरह- व्यथादुस्थमुन्मादावस्थापन्नमित्यर्थः । अन्यत्र विनोडलाभादित्यर्थः । 'उन्मत्त उन्मा- दवति धुत्तूर-मुचुकुन्दयोः' इति विश्वः । उभयोरभेदाध्यवसात् समानधर्मत्वविशेषण- मात्रश्लेषात् प्रकृताप्रकृतगोचरत्वाच्च उभयश्लेषः । तेन हरवत् स्मरोऽप्युन्मत्तप्रिय इति उपमा गम्यते ॥६८॥ कामारि महादेव जी और शङ्करारि कामदेव-ये दोनों ही 'उन्मत्त' को पाकर यह निश्चित है कि असीम आनन्द को प्राप्त होते हैं। पूर्व (अर्थात् शिवजी) को (अपने शत्रु पुष्पायुध के अस्त्र) पुष्प (धतूरे के फूल) रूप उन्मत्त पदार्थ को पाकर, असीम हर्ष होता है; क्योंकि उन्हें अपने शत्रु कामदेव के प्रति स्पर्द्धा है। दूसरे (अर्थात् कामदेव) को विरह-आधि (वियोगजन्य मानसिक क्लेश) से सन्तप्त उन्मत्त (उन्मादावस्था में निमग्न नायिका) को पाकर, परम प्रमोद
१८० नैषधचरितम् । [ तृतीयः होता है; क्योंकि उसे अपने शत्रु शिव जी के प्रति स्पर्द्धा है। (इससे वह समझता है कि मैंने शिवजी के गण उन्मत्त नामक भैरव को पकड़ लिया है ) ॥६८॥ तथाभिधात्रीमथ राजपुत्रीं निर्णय तां नैषधबद्धरागाम् । अमोचि चञ्चूपुटमौनमुद्रा विहायसा तेन विहस्य भूयः ॥९९॥ तथेति । अथ = अनन्तरं, तथा अभिधात्रीं = वक्त्रीं तां राजपुत्रीं = भैमीं [नैषधबद्धरागां] नैषधे नले, बद्धरागां निर्णय । तेन विहायसा = विहगेन विहस्य भूयः = पुनः [चञ्चूपुटमौनमुद्रा] चञ्चूपुटस्य मौनमुद्रा निर्वचनत्वम्, अमोचि = अवादीदित्यर्थः ॥ ६६ ॥ तदनन्तर पूर्वोक्त प्रकार से बोलनेवाली, राजकुमारी दमयन्ती को, निषधाधिपति नल के प्रति बद्धानुरागवाली (अनुरक्त) जानकर, वह हंस पहले तो हँस पड़ा और फिर अपने चञ्चुपुट पर लगी हुई मौन रूपी मुहर का परित्याग किया (अर्थात् कहने लगा) ॥ ६६ ॥ इदं यदि क्ष्मापतिपुत्रि ! तत्त्वं पश्यामि तन्न स्वविधेयमस्मिन् । त्वामुच्चकैस्तापयता नलं च पञ्चेषुणैवाजनि योजनेयम् ॥१००॥ इदमिति । हे क्ष्मापतिपुत्रि ! इदं = त्वदुक्तं, तत्त्वं यदि = सत्यं यदि, तत् = तर्हि, अस्मिन् = विषये स्वविधेयं = मत्कृत्यं न पश्यामि । किन्तु, त्वां नृपं च उच्चकैः = अत्यन्तं तापयता पञ्चेषुणेव इयं योजना = युवयोः सङ्घटना, अजनि = जाता । जनेः कर्मणि चिणो लुक् ॥१००॥ हे नरेन्द्रकुमारी ! यदि यह बात (जो आपने कही है) वस्तुतः सत्य है तो इस (आपकी प्रार्थना-पूर्ति) के सम्बन्ध में, मुझे अपनी ओर से, कुछ करना नहीं दीख पड़ता; क्योंकि आपको तथा नल को अतिशय सन्ताप देकर, पञ्च-बाण कामदेव ने ही यह योजना पूरी कर दी है ॥१००॥ त्वद्बद्धबुद्धेर्बहिरिन्द्रियाणां तस्योपवासिव्रतिनां तपोभिः । त्वामद्य लब्ध्वामृततृप्तिभाजां स्वं देवभूयं चरितार्थमस्तु ॥१०१॥ त्वदिति । किन्तु, त्वद्बद्धबुद्धेः = त्वदायत्तचित्तस्य, त्वामेव ध्यायत इत्यर्थः । अत एव तस्य = नलस्य, उपवासिव्रतिनां = त्वदासङ्गाद्विषयान्तरव्यावृत्तानां, तपोभिः = उक्तोत्कृष्टसाधनात्तपःसदृशैर्दर्शनमुखेन लब्धप्रायां निश्चित्य, साक्षात्कृत्येति च गम्यते । अत एव [अमृततृप्तिभाजां] अमृतेन या तृप्ति-
सर्गः ३] जीवातू-मदयन्तिकासहितम् १८१ न्द्रियाणां, बहिरिन्द्रियाणां [ स्वं देवभूयं ] स्वकीय, देवभूयं देवत्वमिन्द्रियत्वं सुरत्वञ्च । 'देवः सुरे राज्ञि देवमाख्यातमिन्द्रियम्' इति विश्वः । चरितार्थं = सफलम् अस्तु । अमृतपानैकफलत्वाद्वैवत्वं स्यादिति भावः । अर्थान्तरप्रतीतेर्ध्व- निरेवेत्यनुसन्धेयम् ॥१०१॥ आपमें मन लगानेवाले (अर्थात् आपकी अनवरत चिन्ता करने वाले ) उन नल की, उपवासरूप व्रत (नियम) करनेवाली वाह्य इन्द्रियाँ-तपस्या द्वारा आज आपको पाकर, अमृत के भोजन से तृप्त हो-अपने देवत्व को सार्थक करेंगी। अर्थात् - नल का मन आठो पहर आपमें लगा रहता है, इससे उनकी आँख, कान, नाक, त्वचा, जिह्वा, इन्द्रियाँ, अपने-अपने विषयों को ग्रहण नहीं करतीं अर्थात् वे देखने, सुनने, सूंघने, पाने, स्पर्श करने, चखने से विरत रहती हैं। इस प्रकार मानों वे व्रतोपवास करती हैं। अब आज उपर्युक्त तपस्या के कारण आपको पाकर, वे देव बन जायंगी । अर्थात् आँख आपकी रूपमाधुरी सुधा का, कान आपके वाक्यामृत का, नाक आपकी अङ्ग-सौरभसुधा का, त्वचा आपके अङ्गस्पर्शरूप अमृत का और जिह्वा आपके अधरामृत का पान करके देवत्व में परिणत हो जायंगी । जिस प्रकार परमात्मा के स्वरूप का निरन्तर ध्यान करनेवाले सामान्य मानव-व्रतोपवासादि तपस्या से अपने इन्द्रियों को सुखाकर, अन्त में ब्रह्म का साक्षात्कार करके, अमृतपद को प्राप्त करके, देवता बन जाते हैं, उसी प्रकार सूर्य आदि देवताधिष्ठान मात्र से, देवस्वरूप नल की आँख आदि इन्द्रियाँ-उपर्युक्त रूप से उपवास-तप से, आपको पाकर-देव बन जायंगी ॥१०१॥ तुल्यावयौर्मूत्तिरभून्मदीया दग्धा परं सास्य न ताप्यतेऽपि । इत्यभ्यसूयन्निव देहतापं तस्याऽतनुस्त्वद्विरहाद्विधत्ते ॥१०२॥ यदुक्तं नृपं पञ्चेषुस्तापयतीति तदाह-तुल्येति । आवयोः = नलस्य मम चेत्यर्थः । 'त्यदादीनि सर्वेर्नित्यम्'इति सर्वग्रहणात्त्यदादिना नलेन सह त्यदाद्येक- शेषः । मूत्तिः = तनुः तुल्या = तुल्यरूपाऽभूत् । तत्र मदीया सा = मूत्तिः परं = निःशेषं दग्धा = भस्मीकृता । अस्य = मूत्तिस्तनुर्न ताप्यते = तापम् अपि न प्राप्यते इति = हेतोः अभ्यसूयन् = ईर्ष्यान् । इवेत्युत्प्रेक्षा । अतनुः =
१८२ | नैषधचरितम् । | [ तृतीयः अनङ्गस्तद्वाङ्दूरहात् = त्वाद्विरहमेव रन्ध्रमन्विष्येत्यर्थः । तस्य = नलस्य देहतापं विधत्ते तस्मात् सिद्धिपदमुपतिष्ठते ते मनोरथ इति भावः ॥१०२॥ ( कामदेव सोचता है कि ) 'पहले मेरा और नल का शरीर ( सुन्दरता में एक- ) समान था; परन्तु मेरा शरीर तो ( शिवजी द्वारा ) भस्म कर दिया गया और इन नल के शरीर ( अङ्ग-लावण्य ) को भलीभाँति ताप ( आँच ) भी न आयी' - सम्भवतः इसी ईर्ष्या के कारण ( मानों ) अनङ्ग कामदेव--आपके विरह ( रूप अग्नि ) में नल के शरीर को तपा रहा है ॥१०२॥ लिपिं दृशा भित्तिविभूषणं त्वां नृपः पिबन्नादरनिर्मिमेषम् । चक्षुर्जैलैराोजितमात्मचक्षूरागं स धत्ते रचितं त्वया नु ॥१०३॥ अथास्य दशावस्था वर्णयन् चक्षुःप्रीति तावत् श्लोकद्वयेनाह-लिपिमित्यादि। हे भैमि ! स नृपो भित्तिविभूषणं = कुड्यालङ्कारभूतां लिपिं = चित्रमयीं त्वां, दृशा [ आदरनिर्मिमेषः ] आदरेणास्थया, निर्निमेषं पिबन् चक्षुझरैः = अश्रु- भिरर्पितं त्वयानु = त्वया वा रचितम् [ आत्मचक्षूरागं ] आत्मचक्षुषो रागं आरुण्यं अनुरागञ्च धत्ते । अत्रोभयकारणसम्भवादुभयस्मिन्नपि रागे जाते श्लेष- महिन्नैकत्राभिधानात् कारणविशेषः सन्देहः ॥१०३॥ [ दश प्रकार की कामोन्माद दशा में पहली चक्षुःप्रीति का वर्णन-- ] भीत पर लिखे हुए आपके चित्र को, आदरपूर्वक निर्निमेष दृष्टि से पान करते हुए, नल की आँखों से आँसू की झड़ी लग जाती है, जिस कारण उन्हें चक्षुराग हो जाता है [ अर्थात् उनकी आँखें लाल-लाल हो जाती हैं ] इससे अनुमान होता है कि सम्भवतः वह चक्षुराग ( नयनप्रीति ) आपके कारण उन्हें मिला है [ एकटक नज़र से देखने के कारण नहीं ] ॥१०३॥ पातुर्दृशालेख्यमयीं नृपस्य त्वामादरादस्तनिमील्य|स्ति । ममेदमित्यश्रुणि नेत्रवृत्तेः प्रीतेर्निमेषच्छिद्द्या विवादः ॥१०४॥ इममेवार्थं भङ्ग्यन्तरेणाह-पातुरीति । अस्तनिमील या=निर्निमेषया दृशा आलेख्यमयीं = चित्रगतां त्वां, आदरात् पातुः = दृष्टुरित्यर्थः । अत एव 'न लोक' इत्यादिना षष्ठीप्रतिषेधात् त्वामिति द्वितीया । द्रष्टुर्नृपस्य नेत्रवृत्तेः, प्रीतेः = चक्षुप्रीतेः, निमेषस्य च्छिदयाच्छेदेन सह नेत्रवृत्तेरिति शेषः । भिदादित्वादङ् प्रत्ययः ।
सर्गः ३ ] जीवातु-मदयन्तिकासहितम् १८३ अश्रूणि विषये इदम् = अश्रु । मम इति = मत्कृतमेवेति विवादः = कलहो अस्ति = भवतीत्यर्थः । अतिगाढ़ा चक्षुःप्रीतिरिति भावः ॥१०४॥ आदरपूर्वक निमेषहीन दृष्टि से, दीवाल में लिखी हुई आपकी तस्वीर का पान करते समय, राजा की आँखों से आँसू टपकने लगते हैं। तब राजा की नेत्रवृत्ति प्रीति का - निमेषहीनता के साथ - 'ये मेरे कारण निकले हैं' इस प्रकार आँसू के कारण ही, कलह छिड़ जाता है [ चक्षूराग से तथा एकटक दृष्टि से देखने पर, आँखों से आँसू टपकने लगते हैं। इस पर चक्षुप्रीति कहती है कि 'ये आँसू मेरे कारण निकले हैं' और निर्निमेष दृष्टि कहती है कि 'आँसू निकलने का कारण तो मैं हूँ।' बस, दोनों में विवाद मच जाता है ] ॥१०४॥ त्वं हृद्गता भैमि बहिर्गतापि प्राणायिता नासिकथास्य गत्या । न चित्तमाक्रामति तत्र चित्रमेतन्मनो यद्भवदेकवृत्ति ॥१०५॥ अथ मनःसङ्गमाह-त्वमिति । हे भैमि ! त्वं बहिर्गतापि हृद्गता = अन्त- र्गता । अपि विरोधे । तेन चाभासाविरोधाभासोऽलङ्कारः । कया गत्या=केन प्रकारेण अस्य = नलस्य प्राणायिता=प्राणवदाचरिता प्राणसमा, उपमानादाचारे कर्तुः क्यङ् प्रत्ययः । नासि = अस्येवेत्यर्थः । यतः प्राणोऽपि नासिकया नासाद्वारेण, आस्यगत्या मुखद्वारेण उच्छ्वास-निश्वासरूपेण, बहिर्गतोऽप्यन्तर्गतो भवतीति शब्दश्लेषः । अत एव प्राणायितेति श्लिष्टविशेषणेयमुपमा । पूर्वोक्तविरोधेन सङ्कीर्णा । किन्तु तत्र= प्राणायितत्वे चित्रम् = आश्चर्यरसः, चित्तं नाक्रामति = न किञ्चिच्चित्रमित्यर्थः । कुतः ? यत् = यस्मात्-एतन्मनः = नलचित्तं, भवती त्वमेवैका वृत्तिर्जीविका यस्य तद् भवदेकवृत्ति । भवच्छब्दस्य सर्वनामत्वाद् वृत्तिमात्रे पुंवद्भावः । जीवितभूतस्य प्राणायितत्वे किं चित्रं, जीवितस्य प्राणधारणात्मकत्वादिति भावः ॥१०५॥ [ दूसरी चित्तासक्ति दशा का वर्णन-] हे भीम-राजकुमारी ! आप बहिर्गता (बाहर रहने अर्थात् दूरस्थित) होने पर भी नल की अन्तर्गत हो (अर्थात् चिन्ता के कारण उनके चित्त के भीतर बसी हुई हो)। भला, ('कया') किस तरह कहूँ कि आप ('अस्य') उनके प्राणों के समान (प्रिय) ('नासि') नहीं हैं ? अथवा-बहिर्गता होने पर भी आप (सुग्गे की ठोर की तरह) नासिका- सौन्दर्य तथा आस्य-गति (मुखाकृति) के कारण (दूतों की मुँह-जबानी सुनने और चित्र में दर्शन करने पर) हृद्गता नासि हो, अतः उनकी प्राणप्यारी नहीं हो क्या?
१८४ नैषधचरितम्। [तृतीयः Digitized by Sarayu Trust Foundation and eGangotri अथवा उनके मुख से बाहर निकलने वाली ( श्वासोच्छ्वास- रूपा) होकर भी आप नल की प्राण-वायु हो, फिर नासिका-रन्ध्र तथा मुख के भीतर प्रवेश करने पर, उनकी हृद्गता (हृदय के भीतर रहने वाली) हो। इसी लिए उनके मन के विषय में—जो एकमात्र आपही में तल्लीन है (अथवा-उनके मन का अद्वितीय जीवनोपाय एकमात्र आप ही हैं उसके सम्बन्ध में) हमारा चित्त रञ्चमात्र भी आश्चर्यान्वित नहीं होता ॥१०५॥ अजस्रमारोहसि दूरदीर्घां सङ्कल्पसोपानततिं तदीयाम् । श्वासान् स वर्षत्यधिकं पुनर्यद्ध्यानात्तव तन्मयतां तदाप्य॥१०६॥ अथ द्वाभ्यां सङ्कल्पावस्थामाह-अजस्रमिति । दूरदीर्घा = अत्यन्तायतां, तदीयां, [ सङ्कल्पसोपानततिं ] सङ्कल्पा मनोरथा एव सोपानानि, तेषाम् ततिं पङ्क्तिम् अजस्रं त्वं आरोहसि, श्वासान् पुनः स=नलो अधिकं वर्षति= मुञ्चतीति यत् तच्छ्वासवर्षं, तव ध्यानात् तन्मयतां = त्वदात्मकत्वम् आप्य = प्राप्य । आप्नोतेराङ् समासे क्त्वो ल्यबादेशः । अन्यथा कथमन्यायासादन्यस्य श्वास- मोक्ष इति भावः । अत्र श्वाससोपानारोहणयोः कार्यकारणयोर्वैयधिकरण्योक्तेरसङ्गत्य- लङ्कारः । 'कार्य-कारणयोर्भिन्नदेशत्वे स्यादसङ्गतिः' इति लक्षणात् । तन्मूला चेयं नलस्य दमयन्ती-तादात्म्योत्प्रेक्षेति सङ्करः ॥१०६॥ [ तीसरी सङ्कल्पावस्था नामक काम-दशा का वर्णन—]अतीव लम्बी-चौड़ी उनकी कल्पना रूपी सीढ़ियों की कतार ( अर्थात् पहले दमयन्ती के साथ विवाह करूंगा, फिर क्रीड़ामन्दिर में उसके केश-कलाप को गुथूंगा, फिर उसके मान करने पर इस प्रकार मनाऊंगा आदि ) पर आप चढ़ती रहती हैं। [ यदि आप पूछें, कि यह बात तुमने कैसे जानी ? तो इसका उत्तर यह है कि ] वे आपके ध्यान में 'तन्मय' होकर, बार-बार खूब निश्वास छोड़ते रहते हैं। [ जो व्यक्ति किसी का निरन्तर ध्यान करता है तो वह उसी के रूप में मिल जाता है। इस- प्रकार आपका बराबर ध्यान करते रहने के कारण नल आपके-दमयन्ती के-रूप में मिल गये हैं। जो व्यक्ति लगातार सीढ़ी चढ़ता रहता है तो चढ़ने के परिश्रम के कारण साँस खींचने लगता है। यतः आप उनकी सङ्कल्परूप सोपान-परम्परा पर बराबर चढ़ती रहती हैं, इसलिए सीढ़ी पर चढ़ने की आपकी-थकावट लम्बी लम्बी आहें खींचने के कारण, तन्मय होने से उनमें परिलक्षित होती है ] ॥१०६॥
सर्गः ३ ] जीवातु-मदयन्तिकासहितम् । १८५ हृत्तस्य यां मन्त्रयते रहस्त्वां तां व्यक्तमामन्त्रयते मुखं यत् । तद्वैरिपुष्पायुधमित्रचन्द्रसख्यौचिती सा खलु तन्मुखस्य ॥१०७॥ हृदिति । तस्य = नलस्य, हृत् = हृदयं कर्तृ, यां त्वां रहः = उपांशु । ‘रहश्चो- पांशु चालिङ्गे' इत्यमरः । मन्त्रयते = सम्भाषते, तां त्वां, तन्मुखं कर्तृ व्यक्तं = प्रकाशम् आमन्त्रयते । 'हे प्रिये ! क्व यासि मामनुयान्तं पश्य' इत्येवमुच्चैरूचरतीति यत् । सा तद्रहस्यप्रकाशनं, विधेयप्राधान्यात् स्त्रीलिङ्गता । तन्मुखस्य, [ तद्वैरि- पुष्पायुध-मित्र-चन्द्र-सख्यौचिती ] तद्वैरिणो नलद्वेषिणः, पुष्पायुधस्य मित्रं सखा शरच्चन्द्रः, तेन यत् सख्यं मैत्री सादृश्यञ्च तस्य औचिती औचित्यं खलु । अरि-मित्रस्याप्यरित्वानुचितमेतद्रहस्यभेदनमित्यर्थः । अत्र मुखकर्तृकरहस्योद्भेदनस्य उक्तवैरनिमित्तत्वमुत्प्रेक्ष्यते ॥१०७॥ उनका अन्तःकरण एकान्त-स्थल में जो आपसे गुप्त बात करता है ( कि हे प्यारी ! मुझे आलिङ्गन करो, चुम्बन करो आदि ), तो उसे उनका मुख स्पष्ट बता देता है । यह बात नल के वैरी कामदेव के मित्र चन्द्रमा के साथ मित्रता के अनु- कूल ही है । [ तात्पर्य यह है कि नल का मुँह पीला और मुरझाया रहता है, जिसे देखने से स्पष्ट हो जाता है कि आप का ध्यान करने के कारण ही उनका मुख वैसा हो गया है । नल का मुख चन्द्र के समान होने से चन्द्रमा का मित्र है; उधर नल का वैरी कामदेव है क्योंकि वह उन्हें सताता रहता है; कामोद्दीपन करने के कारण चन्द्रमा कामदेव का मित्र है । अस्तु, चन्द्रमा का मित्र - नल का मुख - कामदेव का सहायक हो गया है, गुप्त भेदों को बतला देता है ] ॥१०७॥ स्थितस्य रात्रावधिशय्य शय्यां मोहे मनस्तस्य निमज्जयन्ती । आलिङ्गय या चुम्बति लोचने सा निद्राऽधुना न त्वदृतेऽङ्गना वा ॥१०८॥ अथ एकेन जागरमरतिञ्चाह--स्थितस्येति । रात्रौ शय्यामधिशय्य = शय्यायां शयित्वा । 'अधिशीङ्स्थासां कर्म' इत्यधिकरणस्य कर्मत्वम् । स्थितस्य तस्य =नलस्य मनः, मोहे=सुखपारवश्ये निमज्जयन्ती सती, या आलिङ्गय, लोचने चुम्बति । सा निद्रा त्वदृते = त्वत्तो विना । 'अन्यारादितरर्ते' इत्यादिना पञ्चमी । त्वद्विरहाद्धेतोस्त्वदन्या चेति द्रष्टव्यं । अङ्गना वा अधुना नास्ति । निद्रानिषेधा- ज्जागरः, अङ्गनान्तरनिषेधाद्विषयद्वेषलक्षणा अरतिश्चोक्ता । अत्र निद्राङ्गनयोः प्रस्तुत- योरिवालिङ्गनाक्षिचुम्बनादिधर्मसाम्यादौपम्यप्रतीतेः केवलप्रकृतानां तुल्ययोगिता-
१८६] नैषधचरितम् । [ तृतीयः
लङ्कारः । 'प्रस्तुताऽप्रस्तुतानाञ्च केवलं तुल्यधर्मतः । औपम्यं गम्यते यत्र सा मता तुल्ययोगिता' इति लक्षणात् ॥१०८॥ [ निद्राच्छेद कामदशा का वर्णन-- ] आपके विना ( अर्थात् आपके वियोग में ), रात्रि में शय्या पर लेटे हुए, नल के समीप आज कल निद्रा-नायिका नहीं आ रही है—जो उनके मन को मोहित कर, उनके अवयवों पर अधिकार जमा ( आलिङ्गन ) कर, उनके दोनों नेत्रों का चुम्बन करे । अथवा न कोई दूसरी युवती ही उनके पास आती है, जो उनके चित्त को सम्भोग कार्य में फँसाकर, उन्हें अपने भुज-पाशों में आबद्ध कर, उनके युगल नयनों का चुम्बन करे ॥१०८॥ स्मरेण निस्तक्ष्य वृथैव बाणैर्लावण्यशेषां कृशतामनायि । अनङ्गतामप्ययमाप्यमानः स्पर्धां न सार्धं विजहाति तेन ॥१०९॥ अथ कार्श्यवस्थामाह-- स्मरेणेति । अयं = नलः, स्मरेण बाणैर्निस्तक्ष्य = निशात्य, वृथैव [ लावण्यशेषां ] लावण्यं कान्तिविशेषः । 'मुक्ताफलेषु छाया- यास्तरळत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ।' इति भूपालः । तदेव शेषो यस्यास्तां कृशतां = तनुतां कार्श्यमनायि = नीतः । नयतेर्द्विकर्मकत्वात् प्रधाने कर्मणि लुङ् । 'प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्' इति वचनात् । वृथात्वं व्यनक्ति अनङ्गतां कृशाङ्गतां, अनुदरेतिवदीषदर्थे नञ् समासः । आप्यमानः = नीयमानोऽपि । अत्र पूर्ववत्प्रधाने कर्मणि शानच् । तेन = स्मरेण, सार्द्धं स्पर्धां न विजहाति = तथापि तं जिगीषत्येवेत्यर्थः । अङ्गकाश्यें ऽपि स्पर्द्धाबीजलावण्य- स्याकायंर्दाङ्ककर्शनं वृथैवेति भावः । अत एव विशेषोक्तिरलङ्कारः । 'तत्सामग्र्या- मनुत्पत्तिर्विशेषोक्तिरलङ्कृतिः' इति लक्षणात् ॥१०६॥ [ तनुता कामदशा का वर्णन— ] कामदेव ने अपने बाणों से बेध-बेधकर, नल को ऐसा दुर्बल बना दिया कि अब उनमें केवल लावण्य-मात्र अव-शेष रह गया है; पर अनङ्ग (दुर्बलाङ्ग) बनाये जाने पर भी वे कामदेव के साथ सौन्दर्य की होड़ नहीं छोड़ रहे हैं ( अर्थात् शरीर से दुर्बल हो गये हैं तो क्या, फिर भी वे अनङ्ग के सम्मुख अनङ्ग ही हैं और लावण्य में उससे किसी प्रकार न्यून नहीं हैं) । अतः उसका प्रयत्न करना वृथा हुआ ॥१०६॥ त्वत्प्राप्तिकार्यव्यसनि मनस्तदपि स्वयं यदौस्थ्येऽपि न लज्जते यत् । स्मरेण बाणैरतितक्ष्य तीक्ष्णैर्लूनः स्वभावोऽपि कियान् किमस्य ॥११०॥
सर्गः ३ ] जीवातु-मदयन्तिकासहितम् । १८७ Digitized by Sarayu Trust Foundation and eGangotri अथ द्वाभ्यां लज्जात्यागमाह-त्वदित्यादि । स्मरेण तीक्ष्णबाणैः, अतितदयः शरीरमिति शेषः । अस्य = नलस्य, स्वभावोऽपि = पापभीरुत्वनीचत्वगर्हताच्छील्य- मपि, कियान् = अल्पोऽपि लूनः किम् इत्युत्प्रेक्षा यत् = यस्मात्, त्वत्प्रापकात् = त्वत्प्राप्तिसाधनात्, एनसः = पापादपि न त्रस्यति । 'भीत्रार्थानां भयहेतुः' इति अपादानत्वात् पञ्चमी । त्वयि एव दास्येऽपि = त्वदधिगतदास्यविषये न लज्जते ॥ [ त्रपानाश कामदशा का वर्णन-] ये नल आपकी प्राप्ति के लिये, (कन्या- अपहरण आदि पाप-कर्म) से भी जो नहीं डरते तथा आपका दास बनने में भी जो लज्जा नहीं करते-उससे स्पष्ट है, कि कामदेव ने तीखे तीरों से, उनके शरीर को छलनीकर, कुछ उनके स्वभाव (प्रकृति) को भी बेंच दिया है क्या ? ( अन्यथा इतना आकस्मिक परिवर्तन नहीं होता) ॥ ११०॥ स्मारं ज्वरं घोरमपत्रपिष्णोः स्निग्धागदङ्कारचये चिकित्सौ । निदानमौनादविशद्विशाला साङ्क्रामिकी तस्य रुजेव लज्जा ॥१११॥ स्मारमिति । घोरं = दारुणं, स्मारं ज्वरं कामसन्तापं, चिकित्सौ प्रतिकर्त्तरि, 'कित विवासे' इति धातोः 'गुप्तिचित्क्यः सन्' इति 'निन्दाक्षमव्याधिप्रतीकारेषु इष्यते' इति रोगप्रतीकारे सन् प्रत्ययः । 'सनाशंस भिक्ष उः' 'न लोक' इत्यादिना षष्ठीप्रतिषेधः । स्निग्धागदङ्कारचये = सिद्धवैद्यसङ्घे । कर्मण्यणि । 'कारे सत्यागदस्य' इति मुमागमः । निदानमौनात् = रोगनिदानानभिधानाद्धेतोः अपत्रपिष्णोः = लज्जाशीलस्य । 'अलङ् कृञ्' इत्यादिना इष्णुच् । तस्य = नलस्य, विशाला = महती लज्जा, संक्रमादागता सांक्रामिकी रुजेव । 'अक्षिरोगो ह्यपस्मारः क्षयः कुष्ठमसूरिका । दर्शनात् स्पर्शनाद्घानात् संक्रमन्ति नरान्नरम्' इति उक्ताक्ष्यादिरोगा इवेत्यर्थः । भिदादित्वादङ् प्रत्ययः । अविशत् ॥१११॥ [ ज्वररूप कामदशा का वर्णन-] लज्जाशील नल के भयंकर काम-ज्वर की चिकित्सा करने के लिए आए हुए, लब्ध-प्रतिष्ठ वैद्यराजों में- (ज्वर के) निदान (आदि-कारण) के बारे में चुप रहने से, स्पष्ट है कि-साक्रामक रोग (छुतही बीमारी) की तरह, भारी लज्जा (वस्तुतः उनमें) घुस गयी [अर्थात् नल की असाध्य बीमारी का समाचार सुनकर, भारत के प्रसिद्ध-प्रसिद्ध कविराज उनकी चिकित्सा करने के लिए आये । उन्हें देखकर नल को बड़ी लज्जा आ गयी कि अब तो ये वैद्यराजगण हमारे मन्मथ-विकार को जान जायेंगे । उधर वैद्यों ने
१८८ नैषधचरितम् । [ तृतीयः जो नाड़ी, नेत्र, मुख, जिह्वा आदि की परीक्षा की, शरीर का पीलापन देखा तो उनको काम-ज्वर से पीडित पाया । किन्तु भारत-नरेश के सम्मुख लज्जा के कारण वे मूल रोग को नहीं बता सके । इस पर हमारे कवि उपर्युक्त उत्प्रेक्षा करते हैं कि नल की लज्जा, छुतही बीमारी की तरह, वैद्यों को लग गयी ] ॥१११॥ बिभेति रुष्टासि किलेत्यकस्मात् स त्वां किलोपेत्य हसत्यकाण्डे । यान्तीमिव त्वामनुयात्यहेतोरुक्तस्त्वयेव प्रतिवक्ति मोघम् ॥११२॥ अथ उन्मादावस्थामाह--बिभेतीति । स = नलः, अकस्माद् = अकाण्डे रुष्टा = कुपिता असि, इति बिभेति । अकाण्डे = अनवसरे त्वां उपेत्य किल = प्राप्येव, हसति । अहेतोः अकस्माद्यान्तीं = गच्छन्तीं किल त्वामनुयाति । त्वया युक्त इव मोघं = निर्विषयं प्रतिवक्ति । सर्वोऽप्ययमुन्मादानुभावः । 'उन्मादश्चित्तविभ्रमः' इत्यमरः ॥११२॥ [ उन्माददशा का वर्णन-- ] ( हे दमयन्ती ! ) आप रुष्ट हो गयी हैं-ऐसा आपको प्रणयकुपिता अनुमान कर, वे नल एकाएक काँप उठते हैं । आप उन्हें मिल गयी हैं-ऐसी सम्भावना करके, वे अनवसर ही खिलखिला कर हँस पड़ते हैं। आप मानों चली जा रही हैं-ऐसा समझ कर, अकारण ही आपके पीछे- पीछे चलने लगते हैं। मानों आपने उन्हें सम्बोधित करके, कुछ कहा है-ऐसा जानकर, वे वृथा ही आपको प्रत्युत्तर देने लगते हैं ॥११२॥ भवद्वियोगाच्छिदुरार्तिधारा-यमस्वसुर्मज्जति निःशरण्यः । मूर्च्छामयद्वीपमहान्ध्यपङ्के हाहा ! महीभृद्भटकुञ्जरोऽयम् ॥११३॥ अथ मूर्च्छावस्थामाह--भवदिति । [ भवद्वियोगच्छिदुरार्तिधारा-यम- स्वसुः ] भवत्याः वियोगो भवद्वियोगः । सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः । तस्मिञ्- च्छिदुरा अविच्छिन्ना विदिभिदिच्छिदः कुरच् । आर्तिधारा दुःखपरम्परा, तस्या एव यमस्वसुः = यमुनायाः । [ मूर्च्छामयद्वीपमहान्ध्यपङ्के ] मूर्च्छामयं मूर्च्छा- वस्थारूपं यद्द्दीपं, तत्र यन्महान्ध्यं महामोहः, तस्मिन्नेव पङ्के अयं [ महीभृद्भट- कुञ्जरः ] महीभृद्भटो राजवीरः, स एव कुञ्जरः, निःशरण्यः = निरालम्बः सन् मज्जति । 'हा हा' इति खेदे । रूपकालङ्कारः । आर्तिधारायास्तमोविकारत्वेव रूप- साम्याद्यमुनारूपणम् ॥११३॥ [ मूर्च्छादशा का वर्णन-- ] हाय ! हाय ! अवलम्बन ( आश्रय ) हीन योद्धा
सर्गः ३ ] जीवातु-मद्यन्तिकासहितम् १८९ नल रूपी गजराज - आपके विरह से उत्पन्न हुई, निरन्तर पीड़ा की धारा रूप यमुना नदी के, मूर्च्छारूपी द्वीप के, अत्यन्त अज्ञान (मोह) रूप कीचड़ में- धँसते चले जा रहे हैं (अर्थात् जिस प्रकार यमुना नदी के कछार के कीचड़ में फँस कर कोई हाथी आश्रयहीन हो जाता है, उसी प्रकार राजा नल भी मूर्च्छा के वश में होकर, बेबस हो रहे हैं। आप ही एकमात्र उन्हें उस कीचड़ से बाहर निकाल सकती हैं) ॥११३॥ सव्यापसव्यत्यजनाद्द्विरुक्तैः पञ्चेषुबाणैः पृथगर्जितासु । दशासु शेषा खलु तद्दशाया तया नभः पुष्यतु कोरकेण ॥११४॥ दशमावस्था तु तस्य कदापि माभूदित्यत आह- सव्येति । [ सव्यापसव्य- त्यजनात्] सव्यापसव्याभ्यां वाम-दक्षिणाभ्यां, त्यजनान्मोचनात्, द्विरुक्तैः = द्विगुणीकृतैः, दशभिरित्यर्थः । पञ्चेषुबाणैः पृथगर्जितासु = प्रत्येकमुत्पादितासु, दशासु । "दृङ्मनःसङ्गसङ्कल्पो जागरः कृशतारतिः । ह्रीत्यागोन्मादमूर्च्छान्ता इत्य- नङ्गदशा दश ॥” इत्युक्तासु चक्षुःप्रीत्यादिदशावस्थासु । शेषा = अवशिष्टा या तद्दशा = दशमावस्थेत्यर्थः । तयैव कोरकेण = कलिकया इति रूपकम् । नभः पुष्यतु = पुष्पितमस्तु । अस्य सा दशा खपुष्पकल्पास्तु, कदापि मा भूदित्यर्थः । तच्च त्वत्प्राप्तिलाभादिति भावः । 'पुष्प विकसने' इति धातोर्लोट् ॥११४॥ [ अन्तिम 'मरण' दशा का वर्णन-] (पाँच) बाँए और (पाँच) दाहिने हाथ से छूटने के कारण, दुगुने (अर्थात् दश) पञ्च-बाण कामदेव के बाणों से रची गयी दश दशाओं में (नौ को तो नल ने भोग लिया है, अब) जो एक अन्तिम दशा शेष बच रही है, वह (मरण) दशा पुष्पकलिका के समान (अर्थात् कली ही के रूप में) आकाश में ही विकसित होती रहे (अर्थात् आकाश-कुसुम की भाँति नल की अन्तिम दशा हो) ॥११४॥ त्वयि स्मराधेः सततास्मितेन प्रस्थापितो भूमिभृतास्मि तेन । आगत्य भूतः सफलो भवत्या भावप्रतीत्या गुणलोभवत्याः ॥११५॥ त्वयीति । त्वयि विषये, स्मराधेः = स्मरपीड़ा दुःखाद्धेतोः, सततमस्मितेन = स्मितरहितेन खिन्नेन, तेन भूमिभृता = नलेन प्रस्थापितोऽस्मि । अथ आगत्य, गुणलोभवत्याः भवत्याः = तव भावप्रतीत्या = अभिप्रायज्ञानेन, सफलो भूतः = सिद्धार्थोऽस्मीत्यर्थः ॥११५॥
१९० नैषधचरितम् । [ तृतीयः कामव्यथा से निरन्तर खिन्न रहनेवाले, राजा नल ने मुझे आपके पास भेजा है। यहाँ आकर, (नल के सौन्दर्य, शौर्य, विद्या, विनय आदि गुणों पर मुग्ध होने वाली) आप जैसी गुण-ग्राहिणी के प्रेम भाव को जान कर, मैं कृत- कृत्य हो गया ॥ ११५ ॥ धन्यासि वैदर्भि ! गुणैरुदारैर्यया समाकृष्यत नैषधोऽपि । इतः स्तुतिः का खलु चन्द्रिकाया यदब्धिमप्युत्तरलीकरोति ॥११६॥ धन्येति । हे वैदर्भि !=भैमि !; वैदभीरीतिरपि गम्यते । धनं लब्धा धन्या असि = कृतार्थासीत्यर्थः । 'धनगणं लब्धा' इति यत्प्रत्ययः । कुतः ? यया = त्वया उदारैः = उत्कृष्टैः गुणैः = लावण्यादिभिः, अन्यत्र, श्लेषैः प्रसादादिभिः, पाशेश्चेति गम्यते । नैषधः = नलोऽपि, तादृक् धीरोऽपीति भावः । समाकृष्यत=सम्यगाकृष्टो वशीकृत इति भावः । एतेन वैदर्भीत्यादिविशेषणाद्गुणैर्भावकमिवेत्युपमालङ्कारो युज्यते । तथाहि – चन्द्रिकायाः, अब्धिमपि, गभीरमपीति भावः । उत्तरली- करोति = क्षोभयतीति यत् । इतोऽपि = अभ्यधिका स्तुतिः = वर्णना । का खलु = न कापीत्यर्थः । दृष्टान्तालङ्कारः । एतेन नलस्य समुद्रगाम्भीर्यं दमयन्त्याश्चन्द्रिकाया इव सौन्दर्यं च व्यज्यते ॥ ११६ ॥ हे विदर्भ राजकुमारी ! आप धन्य हैं, क्योंकि आपने अपने महान् (सौन्दर्य, शील आदि) गुणों से (अतीव धीर, वीर, गम्भीर) निषध-राज नल को भी आकृष्ट (अनुरक्त, वशीभूत) कर लिया । [दूसरा अर्थ - हे वैदर्भी रीति ! तुम धन्य हो, क्योंकि तुमने अपने श्लेषादि अलङ्कारों तथा माधुर्य-प्रसादादि गुणों से सुप्रसिद्ध धीर नैषध के चित्त को भी अपनी ओर आकृष्ट कर लिया ] । उस चन्द्रिका (चाँदनी) की इससे अधिक और क्या प्रशंसा की जाय--जो अत्यन्त गम्भीर समुद्र को भी उतावला (ज्वारभाटायुक्त) बना देती है ॥ ११६ ॥ नलेन भायाः शशिना निशेव त्वया स भायान्निशया शशीव । पुनःपुनस्तद्युगयुग्विधाता स्वभ्यासमास्ते नु युवां युयुक्षुः ॥११७॥ फलितमाह नलेति । शशिना निशा इव त्वं नलेन भायाः = भाहि । भातेराशिरि लिङ् । सोऽपि निशया शशीव त्वया भायात् = भातु । भातेः पूर्ववदाशिषि लिङ् । किं च, अत्र दैवतानुग्रहश्चापेक्षित इत्याह--पुनः पुनः = मुहुर्मुहुः; तयोर्निशा-शशिनोर्युगं, युनक्ति योजयतीति तद्युगयुक् विधाता, युवां =
सर्गः ३ ] जीवातु-मदयन्तिकासहितम् । १९१ नलं त्वाञ्च । 'त्यदादीनि सर्वानित्यम्' इति एकशेषः । योक्तुमिच्छतीति युयुक्षुः युजेः सन्नन्तादुप्रत्ययः । स्वभ्यासं = अभ्यासस्य समृद्धौ, निरन्तराभ्यास इत्यर्थः । समृ- द्धयर्थेऽव्ययीभावः । ततः परस्याः सप्तम्या वैकल्पिकत्वादम्भावः । आस्ते नु = तथाभ्यस्यति किमित्यर्थः । अत्र तादर्थ्ये चतुर्थ्या अम्भाव इति व्याख्याने अभ्यासार्थ- मभ्यस्यतीत्यर्थः स्यात् तदात्माश्रयत्वादित्युपेक्षणीयम् । अत्र दमयन्ती-नलयोरन्योन्यशोभा- जननोक्तेरन्योन्यालङ्कारः । 'परस्परक्रियाजननमन्योन्यम्' इति लक्षणात् । 'उपमाद्व- यानुप्राणित' इति सङ्करः । तन्मूला चेयं विधातुः पुनर्निशाशशियोजनायां दमयन्ती- नलयोजनाभ्यासत्वोत्प्रेक्षेति ॥ ११७ ॥ आप की शोभा नल के साथ ऐसी हो, जैसी निशा-नायिका अपने निशा-नाथ पूर्ण चन्द्र के साथ शोभा पाती है, और नल की शोभा आप के साथ वैसी हो जैसी चन्द्रमा की शोभा रात्रि के साथ होती है। (जिस प्रकार कोई शिल्पकार किसी सुन्दर वस्तु के निर्माण के पूर्व उसका बार-बार अभ्यास करता है, उसी प्रकार) बार-बार रात्रि और चन्द्रमा का जोड़ा मिलाने वाले ब्रह्मा, मालूम पड़ता है कि आप दोनों को दम्पतिरूप में मिलाने के लिए, पूर्वाभ्यास कर रहे हैं क्या ? ॥ स्तनद्वये तन्वि ! परं तवैव पृथौ यदि प्राप्स्यति नैषधस्य । अनल्पवैदग्ध्यविवर्धिनीनां पत्राबलीनां रचना समाप्तिम् ॥ ११८॥ स्तन इति । हे तन्वि ! किञ्च, नैषधस्य = नलस्य, [ अनल्प-वैदग्ध्य- विवर्द्धिनीनां ] अनल्पेन महता, वैदग्ध्येन नैपुण्येन, विवर्धनीनामुज्जृम्भणीनां, पत्राबलीनां, रचना समाप्तिं = सम्पूर्णतां प्राप्स्यति यदि, तर्हि पृथौ = पृथुनि; भाषितपुंस्कत्वाद्विकल्पेन पुंवद्भावः । तवैवै स्तनद्वये परं प्राप्स्यति; नान्य- स्या इत्यर्थः । अन्यस्या अयोग्यत्वादिति भावः ॥११८॥ हे कृशाङ्गी ! महाराज नल के अत्यधिक प्रावीण्य को प्रकट करने वाली, पत्रा- कार चित्र परम्परा की बनावट-यदि कहीं समाप्ति प्राप्त कर सकती है तो एकमात्र आपके विशाल उरोज-युगल में (अर्थात् महाराज नल स्तनों पर पत्रावली की रचना करने में बड़े कुशल हैं; किन्तु उनकी रचनाएं विस्तृत स्थल चाहती हैं, अतएव वे रचनाएँ आपके विशाल दोनों स्तनों पर बहुत अच्छी तरह हो सकती हैं जिन से नल की प्रवीणता सिद्ध होगी । उनकी अन्य रानियों के स्तन अत्यन्त छोटे-छोटे
१९२ | नैषधचरितम् । | [ तृतीयः हैं, जिन पर न तो पत्रीवली की रचना हो सकती है और न उनकी प्रवीणता ही प्रकट हो सकती है ) ॥ ११८ ॥ एकः सुधांशुर्न कथञ्चन स्यात्तृप्तिक्षमस्त्वन्नयनद्वयस्य । त्वल्लोचनासेचनकस्तदस्तु नलास्यशीतद्युति-सद्वितीयः ॥११९॥ एक इति । एकः सुधांशुस्त्वन्नयनद्वयस्य, कथञ्चन=कथञ्चिदपि, [ तृप्ति- क्षमः ] तृप्तौ प्रीणने, क्षमो न स्यात् तत्=तस्मात् [नलास्य-शीतद्युति-सद्वितीयः] नलास्यशीतद्युतिना नलमुखचन्द्रेण सद्वितीयः सन् । [ त्वल्लोचनासेचनकः ] त्वल्लोचनयोरासेचनकतृप्तिकरोऽस्तु । 'तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात्' इत्यमरः । आसिच्यते आप्यतेऽनेनेत्यासेचनकं; करणे ल्युट् ; स्वार्थे कः ॥११६॥ अकेला चन्द्रमा किसी तरह भी आपके युगल नयनों को तृप्त करने में समर्थ नहीं हुआ, ( क्योंकि वह अकेला है, और तुम्हारे पास दो आँखें हैं, भला एक व्यक्ति दो को कैसे सन्तुष्ट कर सकता है) इसी लिए नल का मुख-रूपी दूसरा चन्द्र बनकर, आपके युगल नेत्रों को अतीव तृप्तिकारक होगा ॥११६॥ अहो तपःकल्पतरुर्नलीयस्त्वत्पाणिजाग्रस्फुरदङ्कुरश्रीः । त्वद्भ्रूयुगं यस्य खलु द्विपत्री तवाधरो रज्यति यत्कलम्बः ॥१२०॥ यस्ते नवः पल्लवितः कराभ्यां स्मितेन यः कोरकितस्तवास्ते । अङ्गमर्दिम्ना तव पुष्पितो यः स्तनश्रिया यः फलितस्तथैव ॥१२१॥ अथ द्वाभ्यां नलतपःसाफल्यमाह - अहो इत्यादिना । नलस्यायं नलीयः । 'वा नामधेयस्य' इति वृद्धसंज्ञायां, वृद्धाच्छः । तप एव कल्पतरुः = अभिनवः प्रसिद्धकल्पतरुविलक्षण इत्यर्थः । अत एव अहो = इत्याश्चर्ये । वैलक्षण्यमेवाह -- त्वदित्यादि । अत्रापि यच्छब्दो द्रष्टव्यः । यः कल्पतरुः, [त्वत्पाणिजाग्रस्फुर- दङ्कुरश्रीः ] तव पाणिजाग्रैः कररुहाग्रैर्नित्यं स्फुरन्ती, अङ्कुरश्रीर्यस्य सः, अङ्कुरवा- नित्यर्थः । यस्य त्वद्भ्रूयुगमेव, द्वयोः पत्रयोः समाहारो द्विपत्री = प्रथमोत्पन्न- पत्रद्वयं खलु । तवाधरो यत्कलम्बः = यस्य नासिकाकिसलयकाण्ड इत्यर्थः । 'अस्य तु नालिका कलम्बश्च' इत्यमरः । रज्यति=स्वयमेव रक्तो भवति । 'कुषिरजोः प्राचां सन्' 'परस्मैपदञ्च' इति कर्मकर्तरि रूपम् ॥१२०॥ य इति । यस्ते नवः कराभ्यां पल्लवितः = अभिनवः पल्लवितः सञ्जात- पल्लवः । यस्तव स्मितेन कोरकितः = सञ्जातकोरकः सन् आस्ते । यस्तव [अङ्ग-
सर्गः ३ ] जीवातु-मदयन्तिकासहितम् । १९३ प्रदिम्ना ] अङ्गानां म्रदिम्ना माईवेन, पुष्पितः = सञ्जातपुष्पः । यस्तवैव, स्तन- श्रिया=स्तनसौन्दर्येण, फलितः = सञ्जातफलः । सर्वत्र तारकादित्वादितच् प्रत्ययः । अत्र श्लोकद्वयेन नलतपसि दमयन्तीनखादिषु च कल्पतरुताद्यवयवत्वरूपणात् सावयव- रूपकं तथा अवयविनि कल्पतरोरवयवानां नखाङ्कुरादीनाञ्च मिथः कार्यकारणभूतानां भिन्नदेशत्वादसङ्गत्त्याश्रितमिति सङ्करः । 'कार्यकारणयोर्भिन्नदेशत्वे स्यादसङ्गतिः' इति लक्षणात् ॥१२१॥ महाराज नल का तपरूप कल्पवृक्ष बड़ा ही आश्चर्यजनक है । देखिए, आप की अङ्गुलियों के नखों के जो (लाल-लाल) किनारे हैं, वे ही मानों उस (कल्प- वृक्ष) की अङ्कुर-श्री है । आप की दोनों भौंहें मानों उस (कल्पवृक्ष) की ( अँखुआ फूटने के बाद, तत्तुल्य वक्र एवं कृश) दो महीन पत्तियाँ निकली हैं । आप का अधर उस (कल्पवृक्ष) का मानों लाल-लाल नाल है । आपके (रक्त) करतल उस (कल्पवृक्ष) के नवीन पल्लव हैं। आप की मन्द मुसकराहट ही मानों उस (कल्पवृक्ष) की कलियाँ खिली हैं। उस (कल्पवृक्ष) में आप के अङ्गों की सुकुमारता रूप (कोमल) पुष्प खिल रहे हैं और उस (कल्पवृक्ष) में आपके स्तनों की शोभा रूप (गोल २ बड़े २) फल लगे हुए हैं ॥१२०-१२१॥ कंसीकृताऽऽसीत् खलु मण्डलोन्दोः संसक्तरश्मिप्रकरा स्मरेण । तुला च नाराचलता निजैव मिथोऽनुरागस्य समीकृतौ वाम् ॥१२२॥ किञ्च, समानुरागत्वाच्च युवयोः समागमः श्लाघ्य इत्याशयेनाह—कंसीति । स्मरेण कर्त्री, वां = युवयोः मिथोऽनुरागस्य = अन्योन्यरागस्य, यस्तव तस्मिन्, यश्च तस्य त्वयि तयोरनुरागयोरित्यर्थः । समीकृतौ = समीकरणे निमित्ते, तदर्थ- मित्यर्थः । [संसक्तरश्मिप्रकरा ] संसक्तः संयोजितः, रश्मीनामंशूनां, सूत्राणाञ्च, प्रकरः समूहो यस्यां सा । 'किरणप्रग्रहौ रश्मी' इत्यमरः । इन्दोर्मण्डलो = बिम्बं, कंसीकृता = लोहपात्रीकृता, आसीत् । 'कंसोऽस्त्री लोहभाजनम्' इति शाब्दिक- मण्डने । मण्डले निज। नाराचलता = बाणवल्ली सैव, तुला च तुलादण्डश्च, कृतेति शेषः । तत्रेन्दुण्डलादौ कंसादिरूपणादेव स्मरस्य कार्यकारणरूपसिद्धेरेकदेश- विवर्तिरूपकम् ॥१२२॥ कामदेव ने आप दोनों के पारस्परिक अनुराग को तौलने के लिए चन्द्रमण्डल की (तराजू का) पलड़ा बनायी, किरण समूह को (तराजू की) रस्सी, और अपने १३