भारतकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 201, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 201

सर्गः ३ ] जीवातु-मदयन्तिकासहितम् । १८५ हृत्तस्य यां मन्त्रयते रहस्त्वां तां व्यक्तमामन्त्रयते मुखं यत् । तद्वैरिपुष्पायुधमित्रचन्द्रसख्यौचिती सा खलु तन्मुखस्य ॥१०७॥ हृदिति । तस्य = नलस्य, हृत् = हृदयं कर्तृ, यां त्वां रहः = उपांशु । ‘रहश्चो- पांशु चालिङ्गे' इत्यमरः । मन्त्रयते = सम्भाषते, तां त्वां, तन्मुखं कर्तृ व्यक्तं = प्रकाशम् आमन्त्रयते । 'हे प्रिये ! क्व यासि मामनुयान्तं पश्य' इत्येवमुच्चैरूचरतीति यत् । सा तद्रहस्यप्रकाशनं, विधेयप्राधान्यात् स्त्रीलिङ्गता । तन्मुखस्य, [ तद्वैरि- पुष्पायुध-मित्र-चन्द्र-सख्यौचिती ] तद्वैरिणो नलद्वेषिणः, पुष्पायुधस्य मित्रं सखा शरच्चन्द्रः, तेन यत् सख्यं मैत्री सादृश्यञ्च तस्य औचिती औचित्यं खलु । अरि-मित्रस्याप्यरित्वानुचितमेतद्रहस्यभेदनमित्यर्थः । अत्र मुखकर्तृकरहस्योद्भेदनस्य उक्तवैरनिमित्तत्वमुत्प्रेक्ष्यते ॥१०७॥ उनका अन्तःकरण एकान्त-स्थल में जो आपसे गुप्त बात करता है ( कि हे प्यारी ! मुझे आलिङ्गन करो, चुम्बन करो आदि ), तो उसे उनका मुख स्पष्ट बता देता है । यह बात नल के वैरी कामदेव के मित्र चन्द्रमा के साथ मित्रता के अनु- कूल ही है । [ तात्पर्य यह है कि नल का मुँह पीला और मुरझाया रहता है, जिसे देखने से स्पष्ट हो जाता है कि आप का ध्यान करने के कारण ही उनका मुख वैसा हो गया है । नल का मुख चन्द्र के समान होने से चन्द्रमा का मित्र है; उधर नल का वैरी कामदेव है क्योंकि वह उन्हें सताता रहता है; कामोद्दीपन करने के कारण चन्द्रमा कामदेव का मित्र है । अस्तु, चन्द्रमा का मित्र - नल का मुख - कामदेव का सहायक हो गया है, गुप्त भेदों को बतला देता है ] ॥१०७॥ स्थितस्य रात्रावधिशय्य शय्यां मोहे मनस्तस्य निमज्जयन्ती । आलिङ्गय या चुम्बति लोचने सा निद्राऽधुना न त्वदृतेऽङ्गना वा ॥१०८॥ अथ एकेन जागरमरतिञ्चाह--स्थितस्येति । रात्रौ शय्यामधिशय्य = शय्यायां शयित्वा । 'अधिशीङ्स्थासां कर्म' इत्यधिकरणस्य कर्मत्वम् । स्थितस्य तस्य =नलस्य मनः, मोहे=सुखपारवश्ये निमज्जयन्ती सती, या आलिङ्गय, लोचने चुम्बति । सा निद्रा त्वदृते = त्वत्तो विना । 'अन्यारादितरर्ते' इत्यादिना पञ्चमी । त्वद्विरहाद्धेतोस्त्वदन्या चेति द्रष्टव्यं । अङ्गना वा अधुना नास्ति । निद्रानिषेधा- ज्जागरः, अङ्गनान्तरनिषेधाद्विषयद्वेषलक्षणा अरतिश्चोक्ता । अत्र निद्राङ्गनयोः प्रस्तुत- योरिवालिङ्गनाक्षिचुम्बनादिधर्मसाम्यादौपम्यप्रतीतेः केवलप्रकृतानां तुल्ययोगिता-