भारतकोश
संग्रह पर लौटें

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

सर्गः ३ ] जीवातु-मदयन्तिकासहितम् । १८५ हृत्तस्य यां मन्त्रयते रहस्त्वां तां व्यक्तमामन्त्रयते मुखं यत् । तद्वैरिपुष्पायुधमित्रचन्द्रसख्यौचिती सा खलु तन्मुखस्य ॥१०७॥ हृदिति । तस्य = नलस्य, हृत् = हृदयं कर्तृ, यां त्वां रहः = उपांशु । ‘रहश्चो- पांशु चालिङ्गे' इत्यमरः । मन्त्रयते = सम्भाषते, तां त्वां, तन्मुखं कर्तृ व्यक्तं = प्रकाशम् आमन्त्रयते । 'हे प्रिये ! क्व यासि मामनुयान्तं पश्य' इत्येवमुच्चैरूचरतीति यत् । सा तद्रहस्यप्रकाशनं, विधेयप्राधान्यात् स्त्रीलिङ्गता । तन्मुखस्य, [ तद्वैरि- पुष्पायुध-मित्र-चन्द्र-सख्यौचिती ] तद्वैरिणो नलद्वेषिणः, पुष्पायुधस्य मित्रं सखा शरच्चन्द्रः, तेन यत् सख्यं मैत्री सादृश्यञ्च तस्य औचिती औचित्यं खलु । अरि-मित्रस्याप्यरित्वानुचितमेतद्रहस्यभेदनमित्यर्थः । अत्र मुखकर्तृकरहस्योद्भेदनस्य उक्तवैरनिमित्तत्वमुत्प्रेक्ष्यते ॥१०७॥ उनका अन्तःकरण एकान्त-स्थल में जो आपसे गुप्त बात करता है ( कि हे प्यारी ! मुझे आलिङ्गन करो, चुम्बन करो आदि ), तो उसे उनका मुख स्पष्ट बता देता है । यह बात नल के वैरी कामदेव के मित्र चन्द्रमा के साथ मित्रता के अनु- कूल ही है । [ तात्पर्य यह है कि नल का मुँह पीला और मुरझाया रहता है, जिसे देखने से स्पष्ट हो जाता है कि आप का ध्यान करने के कारण ही उनका मुख वैसा हो गया है । नल का मुख चन्द्र के समान होने से चन्द्रमा का मित्र है; उधर नल का वैरी कामदेव है क्योंकि वह उन्हें सताता रहता है; कामोद्दीपन करने के कारण चन्द्रमा कामदेव का मित्र है । अस्तु, चन्द्रमा का मित्र - नल का मुख - कामदेव का सहायक हो गया है, गुप्त भेदों को बतला देता है ] ॥१०७॥ स्थितस्य रात्रावधिशय्य शय्यां मोहे मनस्तस्य निमज्जयन्ती । आलिङ्गय या चुम्बति लोचने सा निद्राऽधुना न त्वदृतेऽङ्गना वा ॥१०८॥ अथ एकेन जागरमरतिञ्चाह--स्थितस्येति । रात्रौ शय्यामधिशय्य = शय्यायां शयित्वा । 'अधिशीङ्स्थासां कर्म' इत्यधिकरणस्य कर्मत्वम् । स्थितस्य तस्य =नलस्य मनः, मोहे=सुखपारवश्ये निमज्जयन्ती सती, या आलिङ्गय, लोचने चुम्बति । सा निद्रा त्वदृते = त्वत्तो विना । 'अन्यारादितरर्ते' इत्यादिना पञ्चमी । त्वद्विरहाद्धेतोस्त्वदन्या चेति द्रष्टव्यं । अङ्गना वा अधुना नास्ति । निद्रानिषेधा- ज्जागरः, अङ्गनान्तरनिषेधाद्विषयद्वेषलक्षणा अरतिश्चोक्ता । अत्र निद्राङ्गनयोः प्रस्तुत- योरिवालिङ्गनाक्षिचुम्बनादिधर्मसाम्यादौपम्यप्रतीतेः केवलप्रकृतानां तुल्ययोगिता-

१८६] नैषधचरितम् । [ तृतीयः

लङ्कारः । 'प्रस्तुताऽप्रस्तुतानाञ्च केवलं तुल्यधर्मतः । औपम्यं गम्यते यत्र सा मता तुल्ययोगिता' इति लक्षणात् ॥१०८॥ [ निद्राच्छेद कामदशा का वर्णन-- ] आपके विना ( अर्थात् आपके वियोग में ), रात्रि में शय्या पर लेटे हुए, नल के समीप आज कल निद्रा-नायिका नहीं आ रही है—जो उनके मन को मोहित कर, उनके अवयवों पर अधिकार जमा ( आलिङ्गन ) कर, उनके दोनों नेत्रों का चुम्बन करे । अथवा न कोई दूसरी युवती ही उनके पास आती है, जो उनके चित्त को सम्भोग कार्य में फँसाकर, उन्हें अपने भुज-पाशों में आबद्ध कर, उनके युगल नयनों का चुम्बन करे ॥१०८॥ स्मरेण निस्तक्ष्य वृथैव बाणैर्लावण्यशेषां कृशतामनायि । अनङ्गतामप्ययमाप्यमानः स्पर्धां न सार्धं विजहाति तेन ॥१०९॥ अथ कार्श्यवस्थामाह-- स्मरेणेति । अयं = नलः, स्मरेण बाणैर्निस्तक्ष्य = निशात्य, वृथैव [ लावण्यशेषां ] लावण्यं कान्तिविशेषः । 'मुक्ताफलेषु छाया- यास्तरळत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ।' इति भूपालः । तदेव शेषो यस्यास्तां कृशतां = तनुतां कार्श्यमनायि = नीतः । नयतेर्द्विकर्मकत्वात् प्रधाने कर्मणि लुङ् । 'प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्' इति वचनात् । वृथात्वं व्यनक्ति अनङ्गतां कृशाङ्गतां, अनुदरेतिवदीषदर्थे नञ् समासः । आप्यमानः = नीयमानोऽपि । अत्र पूर्ववत्प्रधाने कर्मणि शानच् । तेन = स्मरेण, सार्द्धं स्पर्धां न विजहाति = तथापि तं जिगीषत्येवेत्यर्थः । अङ्गकाश्यें ऽपि स्पर्द्धाबीजलावण्य- स्याकायंर्दाङ्ककर्शनं वृथैवेति भावः । अत एव विशेषोक्तिरलङ्कारः । 'तत्सामग्र्या- मनुत्पत्तिर्विशेषोक्तिरलङ्कृतिः' इति लक्षणात् ॥१०६॥ [ तनुता कामदशा का वर्णन— ] कामदेव ने अपने बाणों से बेध-बेधकर, नल को ऐसा दुर्बल बना दिया कि अब उनमें केवल लावण्य-मात्र अव-शेष रह गया है; पर अनङ्ग (दुर्बलाङ्ग) बनाये जाने पर भी वे कामदेव के साथ सौन्दर्य की होड़ नहीं छोड़ रहे हैं ( अर्थात् शरीर से दुर्बल हो गये हैं तो क्या, फिर भी वे अनङ्ग के सम्मुख अनङ्ग ही हैं और लावण्य में उससे किसी प्रकार न्यून नहीं हैं) । अतः उसका प्रयत्न करना वृथा हुआ ॥१०६॥ त्वत्प्राप्तिकार्यव्यसनि मनस्तदपि स्वयं यदौस्थ्येऽपि न लज्जते यत् । स्मरेण बाणैरतितक्ष्य तीक्ष्णैर्लूनः स्वभावोऽपि कियान् किमस्य ॥११०॥

सर्गः ३ ] जीवातु-मदयन्तिकासहितम् । १८७ Digitized by Sarayu Trust Foundation and eGangotri अथ द्वाभ्यां लज्जात्यागमाह-त्वदित्यादि । स्मरेण तीक्ष्णबाणैः, अतितदयः शरीरमिति शेषः । अस्य = नलस्य, स्वभावोऽपि = पापभीरुत्वनीचत्वगर्हताच्छील्य- मपि, कियान् = अल्पोऽपि लूनः किम् इत्युत्प्रेक्षा यत् = यस्मात्, त्वत्प्रापकात् = त्वत्प्राप्तिसाधनात्, एनसः = पापादपि न त्रस्यति । 'भीत्रार्थानां भयहेतुः' इति अपादानत्वात् पञ्चमी । त्वयि एव दास्येऽपि = त्वदधिगतदास्यविषये न लज्जते ॥ [ त्रपानाश कामदशा का वर्णन-] ये नल आपकी प्राप्ति के लिये, (कन्या- अपहरण आदि पाप-कर्म) से भी जो नहीं डरते तथा आपका दास बनने में भी जो लज्जा नहीं करते-उससे स्पष्ट है, कि कामदेव ने तीखे तीरों से, उनके शरीर को छलनीकर, कुछ उनके स्वभाव (प्रकृति) को भी बेंच दिया है क्या ? ( अन्यथा इतना आकस्मिक परिवर्तन नहीं होता) ॥ ११०॥ स्मारं ज्वरं घोरमपत्रपिष्णोः स्निग्धागदङ्कारचये चिकित्सौ । निदानमौनादविशद्विशाला साङ्क्रामिकी तस्य रुजेव लज्जा ॥१११॥ स्मारमिति । घोरं = दारुणं, स्मारं ज्वरं कामसन्तापं, चिकित्सौ प्रतिकर्त्तरि, 'कित विवासे' इति धातोः 'गुप्तिचित्क्यः सन्' इति 'निन्दाक्षमव्याधिप्रतीकारेषु इष्यते' इति रोगप्रतीकारे सन् प्रत्ययः । 'सनाशंस भिक्ष उः' 'न लोक' इत्यादिना षष्ठीप्रतिषेधः । स्निग्धागदङ्कारचये = सिद्धवैद्यसङ्घे । कर्मण्यणि । 'कारे सत्यागदस्य' इति मुमागमः । निदानमौनात् = रोगनिदानानभिधानाद्धेतोः अपत्रपिष्णोः = लज्जाशीलस्य । 'अलङ् कृञ्' इत्यादिना इष्णुच् । तस्य = नलस्य, विशाला = महती लज्जा, संक्रमादागता सांक्रामिकी रुजेव । 'अक्षिरोगो ह्यपस्मारः क्षयः कुष्ठमसूरिका । दर्शनात् स्पर्शनाद्घानात् संक्रमन्ति नरान्नरम्' इति उक्ताक्ष्यादिरोगा इवेत्यर्थः । भिदादित्वादङ् प्रत्ययः । अविशत् ॥१११॥ [ ज्वररूप कामदशा का वर्णन-] लज्जाशील नल के भयंकर काम-ज्वर की चिकित्सा करने के लिए आए हुए, लब्ध-प्रतिष्ठ वैद्यराजों में- (ज्वर के) निदान (आदि-कारण) के बारे में चुप रहने से, स्पष्ट है कि-साक्रामक रोग (छुतही बीमारी) की तरह, भारी लज्जा (वस्तुतः उनमें) घुस गयी [अर्थात् नल की असाध्य बीमारी का समाचार सुनकर, भारत के प्रसिद्ध-प्रसिद्ध कविराज उनकी चिकित्सा करने के लिए आये । उन्हें देखकर नल को बड़ी लज्जा आ गयी कि अब तो ये वैद्यराजगण हमारे मन्मथ-विकार को जान जायेंगे । उधर वैद्यों ने

१८८ नैषधचरितम् । [ तृतीयः जो नाड़ी, नेत्र, मुख, जिह्वा आदि की परीक्षा की, शरीर का पीलापन देखा तो उनको काम-ज्वर से पीडित पाया । किन्तु भारत-नरेश के सम्मुख लज्जा के कारण वे मूल रोग को नहीं बता सके । इस पर हमारे कवि उपर्युक्त उत्प्रेक्षा करते हैं कि नल की लज्जा, छुतही बीमारी की तरह, वैद्यों को लग गयी ] ॥१११॥ बिभेति रुष्टासि किलेत्यकस्मात् स त्वां किलोपेत्य हसत्यकाण्डे । यान्तीमिव त्वामनुयात्यहेतोरुक्तस्त्वयेव प्रतिवक्ति मोघम् ॥११२॥ अथ उन्मादावस्थामाह--बिभेतीति । स = नलः, अकस्माद् = अकाण्डे रुष्टा = कुपिता असि, इति बिभेति । अकाण्डे = अनवसरे त्वां उपेत्य किल = प्राप्येव, हसति । अहेतोः अकस्माद्यान्तीं = गच्छन्तीं किल त्वामनुयाति । त्वया युक्त इव मोघं = निर्विषयं प्रतिवक्ति । सर्वोऽप्ययमुन्मादानुभावः । 'उन्मादश्चित्तविभ्रमः' इत्यमरः ॥११२॥ [ उन्माददशा का वर्णन-- ] ( हे दमयन्ती ! ) आप रुष्ट हो गयी हैं-ऐसा आपको प्रणयकुपिता अनुमान कर, वे नल एकाएक काँप उठते हैं । आप उन्हें मिल गयी हैं-ऐसी सम्भावना करके, वे अनवसर ही खिलखिला कर हँस पड़ते हैं। आप मानों चली जा रही हैं-ऐसा समझ कर, अकारण ही आपके पीछे- पीछे चलने लगते हैं। मानों आपने उन्हें सम्बोधित करके, कुछ कहा है-ऐसा जानकर, वे वृथा ही आपको प्रत्युत्तर देने लगते हैं ॥११२॥ भवद्वियोगाच्छिदुरार्तिधारा-यमस्वसुर्मज्जति निःशरण्यः । मूर्च्छामयद्वीपमहान्ध्यपङ्के हाहा ! महीभृद्भटकुञ्जरोऽयम् ॥११३॥ अथ मूर्च्छावस्थामाह--भवदिति । [ भवद्वियोगच्छिदुरार्तिधारा-यम- स्वसुः ] भवत्याः वियोगो भवद्वियोगः । सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः । तस्मिञ्- च्छिदुरा अविच्छिन्ना विदिभिदिच्छिदः कुरच् । आर्तिधारा दुःखपरम्परा, तस्या एव यमस्वसुः = यमुनायाः । [ मूर्च्छामयद्वीपमहान्ध्यपङ्के ] मूर्च्छामयं मूर्च्छा- वस्थारूपं यद्द्दीपं, तत्र यन्महान्ध्यं महामोहः, तस्मिन्नेव पङ्के अयं [ महीभृद्भट- कुञ्जरः ] महीभृद्भटो राजवीरः, स एव कुञ्जरः, निःशरण्यः = निरालम्बः सन् मज्जति । 'हा हा' इति खेदे । रूपकालङ्कारः । आर्तिधारायास्तमोविकारत्वेव रूप- साम्याद्यमुनारूपणम् ॥११३॥ [ मूर्च्छादशा का वर्णन-- ] हाय ! हाय ! अवलम्बन ( आश्रय ) हीन योद्धा

सर्गः ३ ] जीवातु-मद्यन्तिकासहितम् १८९ नल रूपी गजराज - आपके विरह से उत्पन्न हुई, निरन्तर पीड़ा की धारा रूप यमुना नदी के, मूर्च्छारूपी द्वीप के, अत्यन्त अज्ञान (मोह) रूप कीचड़ में- धँसते चले जा रहे हैं (अर्थात् जिस प्रकार यमुना नदी के कछार के कीचड़ में फँस कर कोई हाथी आश्रयहीन हो जाता है, उसी प्रकार राजा नल भी मूर्च्छा के वश में होकर, बेबस हो रहे हैं। आप ही एकमात्र उन्हें उस कीचड़ से बाहर निकाल सकती हैं) ॥११३॥ सव्यापसव्यत्यजनाद्द्विरुक्तैः पञ्चेषुबाणैः पृथगर्जितासु । दशासु शेषा खलु तद्दशाया तया नभः पुष्यतु कोरकेण ॥११४॥ दशमावस्था तु तस्य कदापि माभूदित्यत आह- सव्येति । [ सव्यापसव्य- त्यजनात्] सव्यापसव्याभ्यां वाम-दक्षिणाभ्यां, त्यजनान्मोचनात्, द्विरुक्तैः = द्विगुणीकृतैः, दशभिरित्यर्थः । पञ्चेषुबाणैः पृथगर्जितासु = प्रत्येकमुत्पादितासु, दशासु । "दृङ्मनःसङ्गसङ्कल्पो जागरः कृशतारतिः । ह्रीत्यागोन्मादमूर्च्छान्ता इत्य- नङ्गदशा दश ॥” इत्युक्तासु चक्षुःप्रीत्यादिदशावस्थासु । शेषा = अवशिष्टा या तद्दशा = दशमावस्थेत्यर्थः । तयैव कोरकेण = कलिकया इति रूपकम् । नभः पुष्यतु = पुष्पितमस्तु । अस्य सा दशा खपुष्पकल्पास्तु, कदापि मा भूदित्यर्थः । तच्च त्वत्प्राप्तिलाभादिति भावः । 'पुष्प विकसने' इति धातोर्लोट् ॥११४॥ [ अन्तिम 'मरण' दशा का वर्णन-] (पाँच) बाँए और (पाँच) दाहिने हाथ से छूटने के कारण, दुगुने (अर्थात् दश) पञ्च-बाण कामदेव के बाणों से रची गयी दश दशाओं में (नौ को तो नल ने भोग लिया है, अब) जो एक अन्तिम दशा शेष बच रही है, वह (मरण) दशा पुष्पकलिका के समान (अर्थात् कली ही के रूप में) आकाश में ही विकसित होती रहे (अर्थात् आकाश-कुसुम की भाँति नल की अन्तिम दशा हो) ॥११४॥ त्वयि स्मराधेः सततास्मितेन प्रस्थापितो भूमिभृतास्मि तेन । आगत्य भूतः सफलो भवत्या भावप्रतीत्या गुणलोभवत्याः ॥११५॥ त्वयीति । त्वयि विषये, स्मराधेः = स्मरपीड़ा दुःखाद्धेतोः, सततमस्मितेन = स्मितरहितेन खिन्नेन, तेन भूमिभृता = नलेन प्रस्थापितोऽस्मि । अथ आगत्य, गुणलोभवत्याः भवत्याः = तव भावप्रतीत्या = अभिप्रायज्ञानेन, सफलो भूतः = सिद्धार्थोऽस्मीत्यर्थः ॥११५॥

१९० नैषधचरितम् । [ तृतीयः कामव्यथा से निरन्तर खिन्न रहनेवाले, राजा नल ने मुझे आपके पास भेजा है। यहाँ आकर, (नल के सौन्दर्य, शौर्य, विद्या, विनय आदि गुणों पर मुग्ध होने वाली) आप जैसी गुण-ग्राहिणी के प्रेम भाव को जान कर, मैं कृत- कृत्य हो गया ॥ ११५ ॥ धन्यासि वैदर्भि ! गुणैरुदारैर्यया समाकृष्यत नैषधोऽपि । इतः स्तुतिः का खलु चन्द्रिकाया यदब्धिमप्युत्तरलीकरोति ॥११६॥ धन्येति । हे वैदर्भि !=भैमि !; वैदभीरीतिरपि गम्यते । धनं लब्धा धन्या असि = कृतार्थासीत्यर्थः । 'धनगणं लब्धा' इति यत्प्रत्ययः । कुतः ? यया = त्वया उदारैः = उत्कृष्टैः गुणैः = लावण्यादिभिः, अन्यत्र, श्लेषैः प्रसादादिभिः, पाशेश्चेति गम्यते । नैषधः = नलोऽपि, तादृक् धीरोऽपीति भावः । समाकृष्यत=सम्यगाकृष्टो वशीकृत इति भावः । एतेन वैदर्भीत्यादिविशेषणाद्गुणैर्भावकमिवेत्युपमालङ्कारो युज्यते । तथाहि – चन्द्रिकायाः, अब्धिमपि, गभीरमपीति भावः । उत्तरली- करोति = क्षोभयतीति यत् । इतोऽपि = अभ्यधिका स्तुतिः = वर्णना । का खलु = न कापीत्यर्थः । दृष्टान्तालङ्कारः । एतेन नलस्य समुद्रगाम्भीर्यं दमयन्त्याश्चन्द्रिकाया इव सौन्दर्यं च व्यज्यते ॥ ११६ ॥ हे विदर्भ राजकुमारी ! आप धन्य हैं, क्योंकि आपने अपने महान् (सौन्दर्य, शील आदि) गुणों से (अतीव धीर, वीर, गम्भीर) निषध-राज नल को भी आकृष्ट (अनुरक्त, वशीभूत) कर लिया । [दूसरा अर्थ - हे वैदर्भी रीति ! तुम धन्य हो, क्योंकि तुमने अपने श्लेषादि अलङ्कारों तथा माधुर्य-प्रसादादि गुणों से सुप्रसिद्ध धीर नैषध के चित्त को भी अपनी ओर आकृष्ट कर लिया ] । उस चन्द्रिका (चाँदनी) की इससे अधिक और क्या प्रशंसा की जाय--जो अत्यन्त गम्भीर समुद्र को भी उतावला (ज्वारभाटायुक्त) बना देती है ॥ ११६ ॥ नलेन भायाः शशिना निशेव त्वया स भायान्निशया शशीव । पुनःपुनस्तद्युगयुग्विधाता स्वभ्यासमास्ते नु युवां युयुक्षुः ॥११७॥ फलितमाह नलेति । शशिना निशा इव त्वं नलेन भायाः = भाहि । भातेराशिरि लिङ् । सोऽपि निशया शशीव त्वया भायात् = भातु । भातेः पूर्ववदाशिषि लिङ् । किं च, अत्र दैवतानुग्रहश्चापेक्षित इत्याह--पुनः पुनः = मुहुर्मुहुः; तयोर्निशा-शशिनोर्युगं, युनक्ति योजयतीति तद्युगयुक् विधाता, युवां =

सर्गः ३ ] जीवातु-मदयन्तिकासहितम् । १९१ नलं त्वाञ्च । 'त्यदादीनि सर्वानित्यम्' इति एकशेषः । योक्तुमिच्छतीति युयुक्षुः युजेः सन्नन्तादुप्रत्ययः । स्वभ्यासं = अभ्यासस्य समृद्धौ, निरन्तराभ्यास इत्यर्थः । समृ- द्धयर्थेऽव्ययीभावः । ततः परस्याः सप्तम्या वैकल्पिकत्वादम्भावः । आस्ते नु = तथाभ्यस्यति किमित्यर्थः । अत्र तादर्थ्ये चतुर्थ्या अम्भाव इति व्याख्याने अभ्यासार्थ- मभ्यस्यतीत्यर्थः स्यात् तदात्माश्रयत्वादित्युपेक्षणीयम् । अत्र दमयन्ती-नलयोरन्योन्यशोभा- जननोक्तेरन्योन्यालङ्कारः । 'परस्परक्रियाजननमन्योन्यम्' इति लक्षणात् । 'उपमाद्व- यानुप्राणित' इति सङ्करः । तन्मूला चेयं विधातुः पुनर्निशाशशियोजनायां दमयन्ती- नलयोजनाभ्यासत्वोत्प्रेक्षेति ॥ ११७ ॥ आप की शोभा नल के साथ ऐसी हो, जैसी निशा-नायिका अपने निशा-नाथ पूर्ण चन्द्र के साथ शोभा पाती है, और नल की शोभा आप के साथ वैसी हो जैसी चन्द्रमा की शोभा रात्रि के साथ होती है। (जिस प्रकार कोई शिल्पकार किसी सुन्दर वस्तु के निर्माण के पूर्व उसका बार-बार अभ्यास करता है, उसी प्रकार) बार-बार रात्रि और चन्द्रमा का जोड़ा मिलाने वाले ब्रह्मा, मालूम पड़ता है कि आप दोनों को दम्पतिरूप में मिलाने के लिए, पूर्वाभ्यास कर रहे हैं क्या ? ॥ स्तनद्वये तन्वि ! परं तवैव पृथौ यदि प्राप्स्यति नैषधस्य । अनल्पवैदग्ध्यविवर्धिनीनां पत्राबलीनां रचना समाप्तिम् ॥ ११८॥ स्तन इति । हे तन्वि ! किञ्च, नैषधस्य = नलस्य, [ अनल्प-वैदग्ध्य- विवर्द्धिनीनां ] अनल्पेन महता, वैदग्ध्येन नैपुण्येन, विवर्धनीनामुज्जृम्भणीनां, पत्राबलीनां, रचना समाप्तिं = सम्पूर्णतां प्राप्स्यति यदि, तर्हि पृथौ = पृथुनि; भाषितपुंस्कत्वाद्विकल्पेन पुंवद्भावः । तवैवै स्तनद्वये परं प्राप्स्यति; नान्य- स्या इत्यर्थः । अन्यस्या अयोग्यत्वादिति भावः ॥११८॥ हे कृशाङ्गी ! महाराज नल के अत्यधिक प्रावीण्य को प्रकट करने वाली, पत्रा- कार चित्र परम्परा की बनावट-यदि कहीं समाप्ति प्राप्त कर सकती है तो एकमात्र आपके विशाल उरोज-युगल में (अर्थात् महाराज नल स्तनों पर पत्रावली की रचना करने में बड़े कुशल हैं; किन्तु उनकी रचनाएं विस्तृत स्थल चाहती हैं, अतएव वे रचनाएँ आपके विशाल दोनों स्तनों पर बहुत अच्छी तरह हो सकती हैं जिन से नल की प्रवीणता सिद्ध होगी । उनकी अन्य रानियों के स्तन अत्यन्त छोटे-छोटे

१९२ | नैषधचरितम् । | [ तृतीयः हैं, जिन पर न तो पत्रीवली की रचना हो सकती है और न उनकी प्रवीणता ही प्रकट हो सकती है ) ॥ ११८ ॥ एकः सुधांशुर्न कथञ्चन स्यात्तृप्तिक्षमस्त्वन्नयनद्वयस्य । त्वल्लोचनासेचनकस्तदस्तु नलास्यशीतद्युति-सद्वितीयः ॥११९॥ एक इति । एकः सुधांशुस्त्वन्नयनद्वयस्य, कथञ्चन=कथञ्चिदपि, [ तृप्ति- क्षमः ] तृप्तौ प्रीणने, क्षमो न स्यात् तत्=तस्मात् [नलास्य-शीतद्युति-सद्वितीयः] नलास्यशीतद्युतिना नलमुखचन्द्रेण सद्वितीयः सन् । [ त्वल्लोचनासेचनकः ] त्वल्लोचनयोरासेचनकतृप्तिकरोऽस्तु । 'तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात्' इत्यमरः । आसिच्यते आप्यतेऽनेनेत्यासेचनकं; करणे ल्युट् ; स्वार्थे कः ॥११६॥ अकेला चन्द्रमा किसी तरह भी आपके युगल नयनों को तृप्त करने में समर्थ नहीं हुआ, ( क्योंकि वह अकेला है, और तुम्हारे पास दो आँखें हैं, भला एक व्यक्ति दो को कैसे सन्तुष्ट कर सकता है) इसी लिए नल का मुख-रूपी दूसरा चन्द्र बनकर, आपके युगल नेत्रों को अतीव तृप्तिकारक होगा ॥११६॥ अहो तपःकल्पतरुर्नलीयस्त्वत्पाणिजाग्रस्फुरदङ्कुरश्रीः । त्वद्भ्रूयुगं यस्य खलु द्विपत्री तवाधरो रज्यति यत्कलम्बः ॥१२०॥ यस्ते नवः पल्लवितः कराभ्यां स्मितेन यः कोरकितस्तवास्ते । अङ्गमर्दिम्ना तव पुष्पितो यः स्तनश्रिया यः फलितस्तथैव ॥१२१॥ अथ द्वाभ्यां नलतपःसाफल्यमाह - अहो इत्यादिना । नलस्यायं नलीयः । 'वा नामधेयस्य' इति वृद्धसंज्ञायां, वृद्धाच्छः । तप एव कल्पतरुः = अभिनवः प्रसिद्धकल्पतरुविलक्षण इत्यर्थः । अत एव अहो = इत्याश्चर्ये । वैलक्षण्यमेवाह -- त्वदित्यादि । अत्रापि यच्छब्दो द्रष्टव्यः । यः कल्पतरुः, [त्वत्पाणिजाग्रस्फुर- दङ्कुरश्रीः ] तव पाणिजाग्रैः कररुहाग्रैर्नित्यं स्फुरन्ती, अङ्कुरश्रीर्यस्य सः, अङ्कुरवा- नित्यर्थः । यस्य त्वद्भ्रूयुगमेव, द्वयोः पत्रयोः समाहारो द्विपत्री = प्रथमोत्पन्न- पत्रद्वयं खलु । तवाधरो यत्कलम्बः = यस्य नासिकाकिसलयकाण्ड इत्यर्थः । 'अस्य तु नालिका कलम्बश्च' इत्यमरः । रज्यति=स्वयमेव रक्तो भवति । 'कुषिरजोः प्राचां सन्' 'परस्मैपदञ्च' इति कर्मकर्तरि रूपम् ॥१२०॥ य इति । यस्ते नवः कराभ्यां पल्लवितः = अभिनवः पल्लवितः सञ्जात- पल्लवः । यस्तव स्मितेन कोरकितः = सञ्जातकोरकः सन् आस्ते । यस्तव [अङ्ग-

सर्गः ३ ] जीवातु-मदयन्तिकासहितम् । १९३ प्रदिम्ना ] अङ्गानां म्रदिम्ना माईवेन, पुष्पितः = सञ्जातपुष्पः । यस्तवैव, स्तन- श्रिया=स्तनसौन्दर्येण, फलितः = सञ्जातफलः । सर्वत्र तारकादित्वादितच् प्रत्ययः । अत्र श्लोकद्वयेन नलतपसि दमयन्तीनखादिषु च कल्पतरुताद्यवयवत्वरूपणात् सावयव- रूपकं तथा अवयविनि कल्पतरोरवयवानां नखाङ्कुरादीनाञ्च मिथः कार्यकारणभूतानां भिन्नदेशत्वादसङ्गत्त्याश्रितमिति सङ्करः । 'कार्यकारणयोर्भिन्नदेशत्वे स्यादसङ्गतिः' इति लक्षणात् ॥१२१॥ महाराज नल का तपरूप कल्पवृक्ष बड़ा ही आश्चर्यजनक है । देखिए, आप की अङ्गुलियों के नखों के जो (लाल-लाल) किनारे हैं, वे ही मानों उस (कल्प- वृक्ष) की अङ्कुर-श्री है । आप की दोनों भौंहें मानों उस (कल्पवृक्ष) की ( अँखुआ फूटने के बाद, तत्तुल्य वक्र एवं कृश) दो महीन पत्तियाँ निकली हैं । आप का अधर उस (कल्पवृक्ष) का मानों लाल-लाल नाल है । आपके (रक्त) करतल उस (कल्पवृक्ष) के नवीन पल्लव हैं। आप की मन्द मुसकराहट ही मानों उस (कल्पवृक्ष) की कलियाँ खिली हैं। उस (कल्पवृक्ष) में आप के अङ्गों की सुकुमारता रूप (कोमल) पुष्प खिल रहे हैं और उस (कल्पवृक्ष) में आपके स्तनों की शोभा रूप (गोल २ बड़े २) फल लगे हुए हैं ॥१२०-१२१॥ कंसीकृताऽऽसीत् खलु मण्डलोन्दोः संसक्तरश्मिप्रकरा स्मरेण । तुला च नाराचलता निजैव मिथोऽनुरागस्य समीकृतौ वाम् ॥१२२॥ किञ्च, समानुरागत्वाच्च युवयोः समागमः श्लाघ्य इत्याशयेनाह—कंसीति । स्मरेण कर्त्री, वां = युवयोः मिथोऽनुरागस्य = अन्योन्यरागस्य, यस्तव तस्मिन्, यश्च तस्य त्वयि तयोरनुरागयोरित्यर्थः । समीकृतौ = समीकरणे निमित्ते, तदर्थ- मित्यर्थः । [संसक्तरश्मिप्रकरा ] संसक्तः संयोजितः, रश्मीनामंशूनां, सूत्राणाञ्च, प्रकरः समूहो यस्यां सा । 'किरणप्रग्रहौ रश्मी' इत्यमरः । इन्दोर्मण्डलो = बिम्बं, कंसीकृता = लोहपात्रीकृता, आसीत् । 'कंसोऽस्त्री लोहभाजनम्' इति शाब्दिक- मण्डने । मण्डले निज। नाराचलता = बाणवल्ली सैव, तुला च तुलादण्डश्च, कृतेति शेषः । तत्रेन्दुण्डलादौ कंसादिरूपणादेव स्मरस्य कार्यकारणरूपसिद्धेरेकदेश- विवर्तिरूपकम् ॥१२२॥ कामदेव ने आप दोनों के पारस्परिक अनुराग को तौलने के लिए चन्द्रमण्डल की (तराजू का) पलड़ा बनायी, किरण समूह को (तराजू की) रस्सी, और अपने १३

१९४ नैषधचरितम् [ तृतीयः ( काम-सङ्ग्रामे ) लतारूप धनुष और नाराच-बाणों की ( तराजू की ) डण्डी बनाया ॥ १२२ ॥ सत्त्व-स्रुत-स्वेद-मधूत्थसान्द्रे तत्पाणिपद्मे मदनोत्सवेषु । लग्नोत्थितास्त्वत्कुचपत्ररेखास्तन्निर्गतास्तत् प्रविशन्तु भूयः ॥१२३॥ सत्त्वेति । किं च, मदनोत्सवेषु = रतिकेलिषु, [ सत्त्व-स्रुत-स्वेद-मधूत्थ- सान्द्रे ] सत्त्वेन मनोविकारेण, स्रुतो यः स्वेदः सात्त्विकविकारविशेषः, तेनैव मधू- त्थेन मधूच्छिष्टेन, सान्द्रे निरन्तरे । अत एव [ तत्पाणिपद्मे ] तस्य नलस्य पाणि- पद्मे, [लग्नोत्थिताः] लग्नाः संक्रान्ताः । अत एव उत्थिताः त्वत्कुचतटाद्विश्लिष्टाः, मधूच्छिष्टे निकषस्थकनकरेखावदिति भावः । स्नातानुलिप्तवत् पूर्वकालसमासः तन्नि- र्गताः = तत्पाणिपद्मोत्पन्नाः, त्वत्कुचपत्ररेखाः भूयः तत् = पाणिपद्मं । 'वा पुंसि पद्मं नलिनम्' इत्यमरः । प्रविशन्तु । कार्यस्य कारणे लयनियमदिति भावः । युवयोः समागमोऽस्तु इति तात्पर्यम् ॥१२३॥ सुरत-क्रीडा के अवसर पर, सात्त्विक भाव से निकले हुए पसीने रूप मोम से स्निग्ध ( तरल ) हुए, नल के कर-कमलों में - आप के स्तनों पर, उनके पाणि- पद्द्मों द्वारा की गयी पत्रावली की रचना - कुचों के गाढ मर्दन-काल में फिर ( उन्हीं के कर कमलों में ) - लग जाय [ अर्थात् जिस प्रकार मोम के बने हुए साँचे पर, उसके तरल हो जाने पर, दूसरी वस्तु की प्रतिकृति उभर जाती है, उसी प्रकार सम्भोग क्रीडा के अवसर पर कुच-मर्दन करते समय पसीने से तर हुए, नल के हाथों में, आपके स्तनों पर बनी हुई पत्रावली की रचना, ठप्पे की तरह उभर जाय ] ॥ १२३ ॥ बन्धाढ्य-नाना-रत-मल्लयुद्ध-प्रमोदितैः केलिवने मरुद्भिः । प्रसूनवृष्टिं पुनरुक्तमुक्तां प्रतीच्छतं भैमि ! युवां युवानौ ॥१२४॥ बन्धेति । किं च, हे भैमि ! [ बन्धाढ्य-नाना-रत-मल्लयुद्ध-प्रमोदितैः ] बन्धैरुत्तानादिकरणैः कामतन्त्रप्रसिद्धैः, आढ्यं समग्रं, नानारतं उत्तानकाविविध- सुरतं, तदेव मल्लयुद्धं, तेन प्रमोदितैः सन्तोषितैः, केलिवने मरुद्भिः = वायुभि- दैवैश्च । 'मरुतौ पवनामुरौ' इत्यमरः । [पुनरुक्तमुक्तां] पुनरुक्तं सान्द्रं यथा तथा, मुक्तां प्रसूनवृष्टिं, युवतिश्च युवा च युवानौ । 'पुमांस्त्रिया' इत्येकशेषः । युवां

सर्गः २] जीवातु-मदयन्तिकासहितम् । १९५ प्रतीच्छतं = स्वीकुरुतम् । युद्धविक्रान्ता हि देवैः पुष्पवृष्ट्या सम्भाव्यन्त इति भावः ॥ १२४ ॥ हे भीम-राजकुमारी ! आप दोनों—युवा तथा युवती—विहार-वाटिका में (पद्मासन, नागपादासन, लता-वेष्टन, विपरीतासन आदि) विविध आसनों से सुरतरूप मल्लयुद्ध द्वारा, अत्यन्त प्रमुदित हुए (शरीर मर्दन के कारण पुष्प-शय्या से उठी हुई सुगन्धि मिश्रित) पवन द्वारा बार-बार उड़ायी गयी पुष्प-वर्षा को स्वीकार करें [अर्थात् जिस प्रकार दो मल्लों को मल्लशाला में मल्लयुद्ध करते देखकर, उनके धोबीपाट-घिस्सा-लपेटन-कमरतोड़ आदि विविध दाँव पेचों से प्रसन्न होकर, दर्शकगण उन पर पुष्प-वृष्टि करते हैं उसी प्रकार आप दोनों कामक्रीडा के अखाड़े में, कामशास्त्र में वर्णित विविध आसनों द्वारा पवनदेव को प्रसन्न करें जिससे वे राजकीय उद्यान के पुष्पों द्वारा आप लोगों का अभिनन्दन करें] ॥ १२४॥ अन्योन्यसङ्गमवशादधुना विभातां तस्यापि तेऽपि मनसी विकसद्विलासे। स्रष्टुं पुनर्मनसिजस्य तनुं प्रवृत्तमादाविव द्व्यणुककृत् परमाणुयुग्मम् १२५ अन्योन्येति । किं च, अधुना अन्योन्यसङ्गमवशात् विकसद्विलासे = वर्धमानोल्लासे, तस्यापि तेऽपि = नलस्य तव च, मनसी मनसिजस्य = कामस्य, तनु = शरीरं, पुनः स्रष्टुम् = आरब्धुं प्रवृत्तमत एवादौ [द्व्यणुककृत् ] द्वाभ्यामारब्धं कार्यं द्व्यणुकं, तत्करोतीति तत्कृत् तदारम्भकं करोतेः क्विप् । तत्पर- माणुयुग्ममिव इत्युत्प्रेक्षा । तार्किकमते मनसोऽणुत्वादिति भावः । विभातां = कार्यारम्भकपरमाणुयुगलवदविश्लेषेण विराजतामित्यर्थः । भातेर्लोट् । तस्येति तसः तामादेशः ॥ १२५ ॥ इस समय परस्पर (शारीरिक) सङ्गम होने के कारण, काम-विलास विकसित हो, उन नल के एवं आपके मनो-द्वय में (मनसिज) कामदेव का शरीर फिर मूर्ति- मान् होने के लिए प्रवृत्त हो, जिस प्रकार आरम्भ में दो परमाणु द्व्यणुक उत्पन्न करते हैं [अर्थात् नैयायिकों एवं वैशेषिक मतवादियों के कथनानुसार जिस प्रकार आरम्भ में परमात्मा की इच्छा से परमाणु मिलकर, द्व्यणुक उत्पन्न करते हैं और फिर क्रमशः सृष्टि की रचना होती है, उसी प्रकार महादेव जी के तीसरे नयन की ज्वाला में भस्म हुए कामदेव को पुनर्जीवित करने के लिए, आप दोनों के परस्पर

१९६ नैषधचरितम् [तृतीयः अनुराग करने वाले, दो परमाणु-तुल्य मन उपक्रम कर रहे हैं। अतः द्व्यणुक-तुल्य 'मनसिज' का प्रादुर्भाव सम्भव है ] ॥१२५॥ कामः कौसुम-चाप-दुर्जयममुं जेतुं नृपं त्वां धनु- र्वल्ली मव्रणवंशजामधिगुणामासाद्य माद्यत्यसौ । ग्रीवालङ्कृति-पट्टसूत्रलतया पृष्ठे कियलम्बया भ्राजिष्णुं कषरेखयेव निवसतसिन्दूरसौन्दर्यया ॥१२६॥ काम इति । असौ, यो नलजिगीषुरिति भावः । कामः, [कौसुम-चाप- दुर्जयं ] कौसुमेन चापेन दुर्जयं, जितेन्द्रियत्वादिति भावः । अमुं नृपं = नलं जेतुम् अव्रणवंशजां = सत्कुलप्रसूतां, दृढवेणुजन्यां च। 'द्वौ वंशौ कुलमस्करौ' इति अमरः । अधिगुणाम् = अधिकलावण्यादिगुणाम्, अधिज्वां च। [निवसत्सि- न्दूरसौन्दर्यया] निवसदनुवर्तमानं सिन्दूरस्याङ्कुरावस्थायां नालान्तराले क्षिप्तस्य, सौन्दर्यं शोभा यस्यां तया, कषरेखया = कालन्तरे सिन्दूरसंक्रान्तिपरीक्षार्थं कृत- घर्षणरेखया इव इत्युत्प्रेक्षा । पृष्ठे = ग्रीवापश्चाद्भागे, कियत् किञ्चिद्यथा तथा, लम्बया स्रस्तया, [ग्रीवालङ्कृतिपट्टसूत्रलतया ] ग्रीवालङ्कृतिः ग्रीवाल- ङ्कारभूता, या पट्टसूत्रलता, तया, भ्राजिष्णुं ताच्छील्ये भ्राजमानां 'भुवश्च' इति चकारादिष्णुच्। त्वामेव धनुर्वल्लीं चापलताम्, आसाद्य, माद्यति = हृष्यति । श्लेषोत्प्रेक्षासङ्कीर्णो रूपकालङ्कारः ॥ १२६ ॥ यह कामदेव, अपने (प्राचीन अस्त्र) कुसुम-धनुष द्वारा, उन राजा नल का जीतना दुष्कर समझ कर, उन्हें जीतने के अभिप्राय से-निर्दोष वंश में उत्पन्न हुई, (शील सौन्दर्य आदि) अतिशय गुणवती, पीठ पर कुछ-कुछ लटकने वाली, लाल-लाल सिन्दूर के सौन्दर्य से मनोहारिणी, कसौटी की सुवर्ण रेखा के समान प्रकाशमान, ग्रीवा की अलङ्काररूपी पट्ट-सूत्र- लता द्वारा शोभाशालिनी--आप जैसी (अर्थात् दमयन्तीरूप) धनुष-लता को पाकर, प्रसन्नता के मारे फूला अङ्ग नहीं समा रहा है (कि अब तो मेरा लक्ष्य बच कर कहीं नहीं जा सकता)। [जिस प्रकार कोई धनुर्धारी अव्रण अर्थात् बिना घुने हुए, अच्छे बाँस को लेकर, उसका धनुष बना कर, उस पर अधिगुण अर्थात् प्रत्यंचा चढ़ा कर, उसके पृष्ठ भाग पर, सिन्दूर रगड़ कर धनुष की परीक्षा करता है (यदि बाँस पर सिन्दूर लकीर की तरह पड़ जाता है तो वह उत्कृष्ट कोटि का धनुष माना जाता है) उसी प्रकार

सर्गः ३ ] जीवातु-मदयन्तिकासहितम् । १९७ प्रसिद्ध धनुषधारी कामदेव ने अपने प्राचीन अस्त्र पुष्प-धनुष द्वारा नल को जीतना असाध्य समझ कर, उन्हें जीतने की अभिलाषा से जब आपको अपना नवीन अस्त्र धनुर्वल्ली बनाया तो आपकी भी परीक्षा ली। आप चमकती हुई पट्ट-सूत्र-लता से शोभा शालिनी हैं - जिसमें सिन्दूर का सौन्दर्य जगमगा रहा है, जो आपकी गरदन की अलङ्कार स्वरूपा है और पीठ पर कुछ-कुछ लटक रही है। उसके देखने से ऐसा प्रतीत होता है मानों सिन्दूर के रगड़ने से पड़ी हुई लकीर हो ] ॥१२६॥ त्वद्गुच्छावलिमौक्तिकानि गुलिकास्तं राजहंसं विभो- र्वेध्यं विद्धि मनोभुवः स्वमपि तां मञ्जुं धनुर्मञ्जरीम् । यन्नित्याङ्क-निवास-लालिततम-ज्या-भुज्यमानं लस- न्नाभी-मध्य-बिला विलासमखिलं रोमालिरालम्बते ॥१२७॥ त्वदिति । विभोर्मनोभुवः कामस्य पक्षिवेधुरिति शेषः । [त्वद्गुच्छावलि- मौक्तिकानि ] तव गुच्छावलेर्मुक्ताहारविशेषस्य, मुक्ता एव मौक्तिकानि 'विनयादि- त्वात् स्वार्थे ठक्' इति वामनः । गुलिकाः = गुटिकाः, विद्धि = जानीहि । तं राजहंसं = राजश्रेष्ठं, तमेव राजहंसं कलहंसं, श्लिष्टरूपकम् । 'राजहंसो नृपश्रेष्ठे कादम्बकलहंसयोः इति विश्वः । वेधितुं प्रहत्तुं मर्हं वेध्यं=लक्ष्यं । 'विधवेधने' 'ऋह- लोर्ण्यत्' अनेकार्था धातवः । एवमाह-'वेधितच्छिद्रितौ' इत्यत्र स्वामी । अन्ये त्वाहुः । स्वल्पेऽपि विधानार्थ एव प्रयोगाच्च । 'विध वेधने' इत्येवा- करस्थः पाठः । पाठान्तरं तु प्रामादिकमन्धपरम्परायातमिति विद्धि । स्वम् = आत्मानमपि । 'स्वो ज्ञातावात्मनि स्वम्' इत्यमरः । तां = वक्ष्यमाणप्रकारां मञ्जुं = मञ्जुलां धनुर्मञ्जरीं = चापवल्लरीं, विद्धि । [ यन्नित्याङ्क-निवास- लालिततम-ज्या-भुज्यमानं ] यस्याः धनुर्मञ्जर्याः, नित्यमङ्कवासेन समीपस्थित्या, लालिततमया अत्याहृतया, ज्यया मौर्य्या, भुज्यमानमनुभूयमानम्, अखिलं विलासं = शोभां ज्यारूपतामित्यर्थः । [ लसन्नाभी-मध्य-बिला ] लसन्नाभ्येव मध्यबिलं, गुलिकास्थानं यस्याः सा, रोमालिस्त्वद्रोमराजी, आलम्बते = भजति । अत्र मौक्तिकादौ गुटिकाद्यावयवरूपणात्, अवयविनि कामे वेद्धृत्वरूपणस्य गम्य- मानत्वादेकदेशविवर्त्तिसावयवरूपकमलङ्कारः ॥१२७॥ आप अपनी (अड़तीस दाना वाली) मोतियों की बनी हारावली को विभु ( बल शाली ) कामदेव की गुलिका जानिए। उन राजहंस (राजाओं में श्रेष्ठ, राजाधि-

१९८ नैषधचरितम्। [ तृतीयः राज) नल को (विभु कामदेव का) निशाना जानिए। आप अपने (शरीर) को (विभु। कामदेव की) सुन्दर धनुष-वल्लरी जानिए। (आप के शरीर रूपी धनुर्बल्लरी के) बीच का छेद --नाभि--है, जिस बिल में गुलिका रखी जाती है और (आप के वक्षःस्थल से लेकर नीचे की ओर जाने वाली रोमावली) रोओं की पंक्तियाँ उस धनुर्वल्लरी की सदा बीच में रहने वाली डोरी (गुण) की सारी शोभा (विलास-लीला) को धारण करती हैं (अर्थात् नल को जीतने के लिए आप ही कामदेव की उपयुक्त हथियार हैं) ॥१२७॥ पुष्पेपुश्चिकुरेषु ते शरचयं स्वं भालमूले धनु र्रौद्रे चक्षुषि यज्जितस्तनुमनु भ्राष्ट्रं च यन्निक्षिपे । निर्विद्याश्रयदाश्रमं स वितनुस्त्वां तज्जयायाधुना पत्रालिस्त्वदुरोजशैलनिलया तत्पर्णशालायते ॥१२८॥ पुष्पेपुरिति । यः पुष्पेपुः = कामो यज्जितः = येन नलेन, सौन्दर्यात्परा- भूतः। अत एव निर्विद्य = ईर्ष्यया जीवनवैय्यर्थ्य मत्वेत्यर्थः । 'तत्त्वज्ञानोदितेर्ष्यादे- र्निर्विदो निष्फलत्वधीः' इति लक्षणात् । ते = तव, चिकुरेषु = केशेषु, स्वं = स्वकीयं, शरचयं, त्वद्धृतकुसुमव्याजादिति भावः । भालमूले = ललाटभागे, धनुः, भ्रूव्याजादिति भावः । तथा रौद्रे = रुद्रसम्बन्धिनि, चक्षुष्येव । अनु- भ्राष्ट्रम् = अम्भरीषे । विभक्त्यर्थेऽव्ययीभावः । 'क्लीवेऽम्बरीषं भ्राष्ट्रो ना' इत्यमरः । तनुं = शरीरं च चिक्षिपे = क्षितवान् । पूर्वमेव दग्धतनुव्याजादिति भावः । स्वरितेत्त्वात्तङ् । स = पुष्पेपुर्वितनुः = अनङ्गः सन्, अधुना तज्जयाय = नल- विजयार्थं, त्वाम् एवाश्रमं = तपोवनम् आश्रयत् = आश्रितवान् ; तपश्चर्यार्थ- मिति शेषः । अन्यथा, कथं तं जेष्यतीति भावः । अत एव [त्वदुरोज-शैल- निलया ] त्वदुरोज एव शैलो निलयो यस्याः सा, तन्निष्ठेत्यर्थः । पत्रालिः = पत्ररचना पर्णचयश्च, [ तत्पर्णशालायते ] तस्य कामस्य पर्णशालायते । सेव आचरति, उपमानात् कर्तुः क्यङ् । अत्र पूर्वार्द्धे शरचापादीनां पूर्वोक्तपुष्पादि- विषयनगरणेन तदभेदाध्यवसायाद्भेदे अभेदरूपातिशयोक्तिः । तत्पर्णशालायत इत्युपमा चोत्थापितेन त्वमाश्रममिति रूपकेण सङ्कीर्णा व्यञ्जकाप्रयोगाद्रम्या । कामस्याश्रमाश्रयणोत्प्रेक्षेति सङ्करः ॥१२८॥ उस पुष्प-धन्वा कामदेव ने, नल से (सुन्दरता में) पराजित हो, ईर्ष्या के

सर्गः ३ ] जीवातु-मदयन्तिकासहितम् । १९९ कारण अपने जीवन को व्यर्थ समझ कर, आपके केश-कलाप में, अपने पुष्परूपी बाणों को फेंक दिया (अर्थात् आपके शिर के बालों में गूँथे गये फूल ही कामदेव के पुष्प-बाण हैं, जिनके दर्शन मात्र से कामोद्दीपन होता है) । आप के ललाट के निचले भाग अर्थात् भौहों में उसने अपने धनुष को फेंक दिया (अर्थात् आप की भौंह कामदेव की धनुष है—जिस के देखने से कामोद्दीपन होता है) और अपने शरीर को उसने भट्टी के समान महादेव जी के नेत्र में झोंक दिया। अब उसने वितनु (अनङ्ग) होकर, उन नल को जीतने के अभिप्राय से तप करने के हेतु, आप के शरीररूपी तपोवन में आश्रय लिया है। आप के युगल स्तनरूपी पर्वत (के उत्तुङ्ग शिखर) पर, रची हुई पत्रावली ही (कामोद्दीपन होने के कारण) उसकी पर्णशाला हो रही है। [जिस प्रकार कोई योद्धा अपने शत्रु से पराजित होकर, अपने समूचे हथियार डालकर, ग्लानि के कारण, अपने शरीर को अग्नि से सन्तप्त कर, वैरी-विजय के लिए, पर्वत पर जाकर, पत्तों की कुटिया बनाकर, दुष्कर तप करता है; उसी प्रकार कामदेव ने भी आप के स्तन-शैल पर जाकर पत्रावली रूपी पत्तों की कुटिया में आश्रय बना कर, तप करना आरम्भ कर दिया है]॥१२८॥ इत्यालपत्यथ पतत्रिणि तत्र भैमीं सख्यश्चिरात्तदनुसन्धिपराः परीयुः। शर्मास्तु ते विसृज मामिति सोऽप्युदीर्य वेगाज्जगाम निषधाधिपराजधानीम् ॥१२९॥ इतीति । तत्र = तस्मिन्, पतत्रिणि = हंसे भैमीम् इति = इत्थम् आलपति = भाषमाणे सति, अथ = अस्मिन्नवसरे, चिरात्प्रभृति, [ तदनुसन्धि- पराः ] तस्या भैम्याः, अनुसन्धिborder अन्वेषणम्। 'उपसर्गे घोः किः'इति किः। तत्पराः सख्यः, परीयुः=परिवव्रुः । इणो लिट् । अथ स=हंसोऽपि ते=तव, शर्मास्तु= सुखमस्तु, मां विसृज इत्युदीर्य वेगात्रिषधाधिपराजधानीं जगाम ॥१२६॥ उस पक्षिराज हंस के उपर्युक्त बातों के कह चुकने के बाद, दमयन्ती को बहुत देर से ढूँढ़ने में लगी हुई सहेलियों ने, वहाँ जाकर, उसे घेर लिया । तब (उन्हें आती हुई देखकर) वह हंस भी-'आप सुखी रहें और मुझे विदा दें'-ऐसा कह, बड़ी तेजी के साथ, नैषधनगर की ओर उड़ गया ॥ १२६ ॥

२०० नैषधचरितम् । [ तृतीयः चेतोजन्मशरप्रसूनमधुभिर्व्यामीश्रतामाश्रयत्- प्रेयोदूत-पतङ्ग-पुङ्गव-गवी-हैयङ्गवीनं रसात्। स्वादुं स्वादमसीम मृष्टसुरभि प्राप्तापि तृप्तिं न सा तापं प्राप नितान्तमन्तरतुलामानर्च्छ मूर्च्छामपि ॥१३०॥ चेत इति । सा = भैमी, [ चेतोजन्म-शर-प्रसून-मधुभिः ] चेतोजन्मनः कामस्य, शरप्रसूनानां शरभूतपुष्पाणां, मधुभिस्तद्रसैः, क्षौद्रैश्च । 'मधु मद्ये पुष्परसे क्षौद्रेऽपि'इत्यमरः । व्यामिश्रतामाश्रयत् = तथा मिश्रं सदित्यर्थः । असीम = निःसीम, अपरिमितमित्यर्थः । नकारान्तोत्तरपदो बहुव्रीहिः । [ मृष्टसुरभि ] मृष्टं शुद्धम्, अन्यत्रामलं, तच्च तत् सुरभि सुगन्धि च । खञ्जकुब्जवद्विशेषणसमासः । [ प्रयो-दूत-पतङ्ग-पुङ्गव-गवी-हैयङ्गवीनं ] प्रेयसो नलस्य, दूतः सन्देशहरो यः पतङ्गः पुङ्गवः इव पतङ्गपुङ्गवो हंसश्रेष्ठः, पुमान्, गौः पुङ्गवः । 'गोरतद्धितलुकि' इति टच् । तस्य गौर्वाक् तद्गवी, पूर्ववत् टचि । 'टिड्ढाणञ्' इत्यादिना ङीप् । सैव हैयङ्गवीनं ह्यो गोदोहोद्भवं घृतमिति रूपकम् । 'हैयङ्गवीनं संज्ञायाम्' इति निपातः । तद्गवी तद्धेनुः तस्या इति च गम्यते । रसात्=रागात् स्वादुं स्वादं=पुनः पुनरा- स्वाद्य । आभीक्ष्ण्ये णमुल्प्रत्ययः। पौनःपुन्यमाभीक्ष्ण्यं । 'आभीक्ष्ण्ये द्वे भवतः' इति उपसंख्यानात् द्विरुक्तः । तृप्ति प्राप्तापि अपिर्विरोधे । अन्तः नितान्तं तापं न प्राप, अतुलां मूर्च्छामपि नानर्च्छ = न प्राप । 'ऋच्छत्यृताम्' इति गुणः । 'अत आदेः' इत्यभ्यासाकारस्य दीर्घः । 'तस्मान्नुड् द्विलः' इति नुँट् । मधुमिश्रघृतस्य विषत्वात् तत्पाने तापाभावादिति विरोधः । स च पूर्वोक्तरूपकोत्थापित इति सङ्करः । 'मधुनो विषरूपत्वं तुल्यांशे मधुसर्पिषी' इति बाहटः ॥१३०॥ कामदेव के बाणरूपी पुष्पों के मधु ( मकरन्द ) से समान रूप से मिले हुए, अपने प्रियतम नल के दूत - उस हंस-की वाणीरूपी गौ के अत्यन्त सुस्वादु और सुगन्धित ताजे घी का, (अनुराग) रस के साथ ( प्रीतिपूर्वक ) बारम्बार आस्वादन ( पान, श्रवण ) करते हुए दमयन्ती को ( बार-बार आस्वादन की अभिलाषा बनी ही रही ) उस से असीम तृप्ति भी नहीं हुई और न अतुल मूर्च्छा ही आयी (उल्टे) उसके अन्तःकरण में ( विरहजन्य ) नितान्त ताप हुआ। [ जब कोई व्यक्ति मधु और घृत को समान रूप से मिलाकर (समान भाग में) खा लेता है, तब वह मूर्च्छित हो जाता है, क्योंकि घृत तथा मधु का समान भाग विषतुल्य माना जाता

सर्गः ३ ] जीवातू-मदयन्तिकासहितम् २०१ है। दमयन्ती ने भी इसी प्रकार समान मात्रा में आस्वादन किया और उससे कुछ कुछ ही प्रभावित हुई। दूसरा अर्थ--दमयन्ती ने अतुल तृप्ति पाकर भी न असीम तृप्ति प्राप्त की, न सन्तप्त हुई और न मूर्च्छित ही हुई ] ॥१३०॥ तस्या दृशो वियति बन्धुमनुव्रजन्त्यास्तद्वाष्पवारि न चिरादवधिर्बभूव। पार्श्वेऽपि विप्रचकृषे तदनेन दृष्टेरारादपि व्यवदधे न तु चित्तवृत्तेः ॥१३१॥ तस्या इति । वियति = आकाशे, बन्धुमनुव्रजन्त्यास्तस्या दृशः = भैमी- दृष्टेः तद्वाष्पवारि = बन्धुजनविप्रयोगजन्यं तद्द्दग्जलं, न चिरात्=अ-चिरात् , अवधिर्बभूव । 'ओदकान्तं प्रियं पान्थमनुव्रजेत्' इति शास्त्रात्तद्दृक्सीमाभूदित्यर्थः । तत् तस्माद्वाष्पोद्गमादेव हेतोः, अनेन = हंसेन, दृष्टेः पार्श्वे=समीपेऽपि विप्र- चकृषे = विप्रकृष्टेनाभावि । वाष्पावरणात् समीपस्थोऽपि नालभ्यतेत्यर्थः । चित्त- वृत्तेस्तु, आरात्=दूरेऽपि न व्यवदधे = व्यवहितेन नाभावि । स्नेहबन्धनान्मनसो नापेत इत्यर्थः । उभयत्रापि भावे लिट् । समीपस्थस्य विप्रकृष्टत्वं, दूरस्थस्य सन्नि- कृष्टत्वं चेति विरोधाभासः ॥१३१॥ दमयन्ती के नेत्रों के आँसू-आकाश में उस हितकारी बन्धु (हंस) के पीछे जाते--शीघ्रही सीमित हो गये (अर्थात् अपने प्रिय को, बिदाई के समय, जलाशय तक पहुँचाना चाहिए, अतः दमयन्ती की दृष्टि-अपने नेत्र-जल तक ही आकाशगामी हंस के पास जाकर, लौट आयी। इसलिए (आँसू भर आने के कारण) दृष्टि के पास होते हुए भी, वह हंस दमयन्ती की दृष्टि से ओझल तो हो गया; पर दूर जाकर भी वह हंस, दमयन्ती की चित्तवृत्ति से ओझल (दूर) न हो सका ॥ १३१ ॥ अस्तित्वं कार्यसिद्धेः स्फुटमथ कथयन् पक्षयोः कम्पभेदै- राख्यातुं वृत्तमैतन्निषधनरपतौ सर्वमेकः प्रतस्थे। कान्तारे निर्गतासि प्रियसखि ! पदवी विस्मृता किन्तु मुग्धे ! मा रोदीरेहि यामेत्युपहृतवचसो निन्युरन्यां वयस्याः॥१३२॥ अस्तित्वमिति । अथ एकः = अनयोरेकतरो हंसः, पक्षयोः कम्पभेदैः= चेष्टाविशेषैः, कार्यसिद्धेरस्तित्वं सत्तां । अस्तीत्यव्ययं विद्यमानपर्यायं । तस्मात् त्वप्रत्ययः । स्फुटं कथयन् = व्यक्तं सूचयन्, वृत्तं = निष्पन्नमेतत्सर्वं । निषध- नरपतौ = नले विषये, आख्यातुं = तस्मै निवेदयिष्यामीत्यर्थः, प्रतस्थे । अन्याः=

२०२ नैषधचरितम् । [ तृतीयः दमयन्तीं, वयसा तुल्या वयस्याः = सख्यः । 'नौवयः' इति यत्प्रत्ययः । हे प्रिय- सखि ! मुग्धे ! कान्तारे = विषमे, निर्गतासि = सङ्कटं प्रविष्टासि । पद्वी विस्मृता किंनु ? मा रोदीः, एहि, यामः = गच्छामः, इत्युपहृतवचसः = दत्तवचनाः सत्यः, एनां निन्युः ॥१३२॥ इसके बाद (हंस और दमयन्ती—इन दो में से) एक (अर्थात् हंस) तो अपने पक्षों को फड़फड़ाकर, (दमयन्ती प्राप्तिरूप) कार्य की सफलता के सद्भाव को स्पष्टरूप से सूचना देने के लिए, दमयन्ती के साथ हुए समस्त वार्तालाप को कहने के लिए, निषधेश्वर नल के पास गया । और दूसरी (अर्थात् दमयन्ती) को उसकी सखियाँ—'हे प्यारी सखी ! तुम इस गहन उपवन में चली आयी, इससे हे मुग्धे ! क्या तुम पगडण्डी भूल गयीं ? अच्छा, रोओ मत; आओ, हम सब लौट चलें'—ऐसा कहकर, घर ले गयीं ॥ १३२ ॥ सरसि नृपमपश्यद्यत्र तत्तीरभाजः स्मरतरलमशोकानोकहस्योपमूलम् । किसलयदलतल्पम्लापिनं प्राप तं स ज्वलदसमशरेषुस्पर्धिपुष्पर्द्धिमौलेः ॥ १३३ ॥ सरसीति । स = हंसो यत्र सरसि नृपम् अपश्यत् = दृष्टवान्, [ तत्तीर भाजः ] तस्य सरसस्तीरभाजः = तटरुहस्य । [ ज्वलदसमशरेषु-स्पर्धि-पुष्पर्द्धि- मौलेः ] ज्वलन्दिरसमशरस्य पञ्चेषोरिषुभिः स्पर्द्धत इति तत्स्पर्धिनी तत्सदृशी, पुष्पर्द्धिः पुष्पसमृद्धिः मौलिः शिखरं यस्य तस्य, अशोकानोकहस्य = अशोकवृक्षस्य उपमूलं = मूले । विभक्त्यर्थे अव्ययीभावः । [ स्मर-तरलं ] स्मरेण तरलं चञ्चलं, [ किसलय-दल-तल्प-म्लापिनं ] किसलयदलतल्पं पल्लवपत्रशयनं, ग्लापयति स्वाङ्गदाहेन ग्लापयतीति तथोक्तं, तं = नृपं प्राप ॥१३३॥ वह हंस—जिस सरोवर पर, नल को पहले-पहल देखा था, उसी के किनारे कामदेव के चमकते हुए बाण के साथ स्पर्धा करने वाले, पुष्प-समृद्धि युक्त शिखर वाले, अशोक पेड़ की जड़ के पास, काम-व्यथा से विकल हो (तड़पते हुए) और कोमल पल्लवों से निर्मित शय्या को (अपने शरीर-ताप से) मुरझाते हुए—नल के पास पहुँचा ॥१३३॥

सर्गः ३ ] जीवातु-दमयन्तिकारसहितम् २०३ परवति ! दमयन्ति ! त्वां न किञ्चिद्वदामि द्रुतमुपनम किं मामाह सा शंस हंस ! इति वदति नलेऽसौ तच्छशंसोपनम्रः प्रियमनु सुकृतां हि स्वस्पृहाया बिलम्बः ॥१३४॥ परवतीति । परवति ! = पराधीने ! दमयन्ति ! त्वां न किञ्चिद्वदामि = नोपालभे । किन्तु हे हंस ! द्रुतं = शीघ्रमुपनम = आगच्छ । सा = दमयन्ती मां किमाह, शंस = कथय इति नले वदति = भ्रान्त्या पुरोवर्तिनं इव सम्बोध्य आलपति सति । असौ = हंसः, उपनम्रः = पुरोगतः सन्, कार्यज्ञः शशंस = कथयामास। तथा हि, सुकृतां = साधुकारिणां, 'सुकर्मपापपुण्येषु कृञः' इति क्विप् । प्रियमनु = इष्टार्थं प्रति, स्वस्पृहायाः = स्वेच्छाया एव विलम्बः । न त्विच्छानन्तरं तत्सिद्धेर्विलम्ब इति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥१३४॥ हे पराये ( पिता के ) वश में रहने वाली दमयन्ती ! मैं तुमसे कुछ न कहूँगा ( कि तुम मेरे पास चली आओ ) । हे हंस ! तुम मेरे पास शीघ्र चले आओ और दमयन्ती ने मुझे जो सन्देश दिया हो, उसे बतला दो । नल के इस प्रकार कहने पर, उस हंस ने आकर, ( दमयन्ती के साथ जो बातचीत हुई थी सो ) सब वार्तालाप बता दिया; क्योंकि पुण्यात्मा जीवों को, अपने प्रिय ( अभीष्ट ) पदार्थ के सम्बन्ध में, अपनी इच्छा करने भर की देरी होती है ( उसकी कार्यसिद्धि में, अभीष्ट पदार्थ प्राप्ति में, विलम्ब नहीं होता ) ॥१३४॥ कथितमपि नरेन्द्रः शंसयामास हंसं किमिति किमिति पृच्छन् भाषितं स प्रियायाः । अधिगतमतिवेलानन्दमार्द्वीकमत्तः स्वयमपि शतकृत्वस्तत्तथान्वाचचक्षे ॥१३५॥ कथितमिति । स नरेन्द्रः = नलः, कथितमपि प्रियायाः = दमयन्त्याः, भाषितं = वचनं । किमिति किमिति पृच्छन् हंसं शंसयामास = पुनराख्यापया- मास । किं च, [अतिवेलानन्दमार्द्वीकमत्तः] अतिवेलो अतिमात्रो यः आनन्दः, स एव मार्द्वीकं मृद्वीकाविकारो द्राक्षामद्यं 'मृद्वीका गोस्तनी द्राक्षा' इत्यमरः । तेन मत्तः सन्, अधिगतं = सम्यक् गृहीतं तत् = उक्तं स्वयमपि शतकृत्वः = शतवारं ।

२०४ नैषधचरितम् । [ तृतीयः 'संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' । तथा = तदुक्तप्रकारेण, अन्वाचचक्षे = अनूदितवान् । मत्तोऽप्युक्तमेव पुनः पुनर्वक्तीति भावः ॥१३५॥ नरपति नल ने 'मेरी प्यारी ने क्या कहा, फिर क्या कहा'—ऐसा पूछने के बाद, हंस के कहने पर भी, अपनी प्रियतमा दमयन्ती के कहे हुए वाक्य को, उसके मुँह से फिर-फिर दुहरवाया। तत्पश्चात् हंस के मुख से सुने हुए, दमयन्ती के वाक्य को,—जैसे-जैसे हंस ने कहा था, वैसे-वैसे-( सैकड़ो ) बार-बार स्वयं भी कहा ॥ १३५ ॥ श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् । तर्तीयीकतया मितोऽयमगमत् तस्य प्रबन्धे महा- काव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥१३६॥ इति श्रीहर्षविरचिते नैषधमहाकाव्ये तृतीयः सर्गः । श्रीहर्षमित्यादि । [ तार्तीयीकतया ] तृतीय एव तार्तीयीकः । द्वितीय- तृतीयाभ्यामीकक् स्वार्थे वक्तव्यः । तस्य भावस्तत्ता, तया मितस्तृतीय इत्यर्थः । शेषं सुगमम् ॥१३६॥ इति पदवाक्यप्रमाणपारावारपारीण-श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरि- विरचितायां जीवातुसमाख्यायां नैषधटीकायां तृतीयः सर्गः । कविराज-समूहों के मुकुटों के अलङ्कार रूप हीरा मणि (अर्थात् असाधारण राष्ट्रकवि) श्री हीर नामक पिता तथा (अपने सौन्दर्य से मा=रमा को जीतने वाली) मा-मल्लदेवी माता ने जिस जितेन्द्रिय (विद्या-श्री से हर्षित होने वाले) श्री हर्ष- नामक पुत्र को उत्पन्न किया; उसके प्रबन्ध-महाकाव्य-(रस, भाव, अलङ्कार आदि से) मनोहर नैषधीय चरित में, स्वभावतः सुन्दर गिना जानेवाला तीसरा सर्ग समाप्त हुआ ॥१३६॥ श्रीमन्नालाल अभिमन्यु, एम० ए०, कृत 'मदयन्तिका' टीकासहित नैषधचरित महाकाव्य का तीसरा सर्ग समाप्त हुआ ॥३॥