निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 488, कुल 1282 में से
संदर्भ में पढ़ें(भा०) देवा नो यथा सदावर्द्धनायस्युः, 'अप्रा- युषः'(३७) अप्रमाद्यन्तः रक्षितारश्च अहनिअहनि ॥ ‘व्यवनः’ ( ३८ ) ऋषिर्भवति । च्याचयिता स्तोमानाम् । 'च्यवानम्'- इति । अप्यस्य निगमा भवन्ति । “युवं च्यवानं सनयं यथा रथं पुन र्युवानं चरथाय तक्षथुः ॥” [ ऋ० सं० ७, ८, १५, ४ ] (भा०-) युवां च्यवनं सनयं पुराणं यथा रथं पुन र्युवानं चरणाय ततक्षथुः । ‘युवा’ प्रयोति कर्माणि । ‘तक्षतिः’ करोतिकर्मा ॥ 'रजः' (३९) रजतेः । ज्योतिः रजः उच्यते । उदकं रजः उच्यते । लोकाः रजांसि उच्यन्ते । असृगहनी रजसी उच्येते । (“रजांसि चित्रा विचरन्ति तान्यव” इत्यपि निगमो भवति ) ॥ ‘हरः’ ( ४० ) हरतेः । ज्योति र्हरउच्यते । ( उदकं हर उच्यते । ) लोकाः हरांसि उच्यन्ते । ( असृगहनी हरसी ) उच्येते । “प्रत्यग्मे हंसा हरः शृणीहि” [ ] इत्यपि निगमो भवति । ) ॥ “'जुहुरे' (४१) विचितयन्तः” (ऋ०सं०४,१,११,२) ।