भारतकोश
निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary

महर्षि यास्क मुनि द्वारा

DevanagariHindipublished1,282 पृष्ठ

पृष्ठ 496, कुल 1282 में से

संदर्भ में पढ़ें
पृष्ठ 496

हिन्दी निरुक्त r ( ७७ ) ४ अ० ३ पा० ५ ख० ( ५ खं० ) १ (४७) [निरु०] “द्यौर्मे पिता जनिता नाभिरत्र बन्धुर्मे माता पृथिवी महीयम् । उत्तानयो श्चम्वो ३ र्योनि- रन्तरत्रापितादुहितुर्गर्भमाधात् ॥” [ ऋ० सं० २, ३, २०, ३ ] (४७) (भा०) “द्यौर्मे पिता” माता ( पाता ) वा पालयिता वा । जनयिता । “नाभिरत्र बन्धुर्मे माता पृथिवी” महती “इयम्” । ‘बन्धुः’ सम्बन्ध- नात् । ‘नाभिः’ सन्नहनात् । “नाभ्या सन्नद्धा गर्भा जायन्ते” इत्याहुः । एतस्मादेव ज्ज्ञातीन् ‘सनाभयः’ इत्याचक्षते । ‘ सम्बन्धवः ’ इतिच । ‘ज्ज्ञातिः’ सञ्जानात् । “उत्तानयोश्चम्वो३र्योनि- रन्तः ।” ‘उत्तानः’ उत्तानः । ऊर्ध्वतानो वा । तत्र पिता दुहितुर्गर्भ दधातिपर्जन्यः पृथिव्याः । ( शंयुः सुखंयुः । ) (४८) “अथानः शंयोररणो दधात” (ऋ० सं० ७, ६, १७, ४ ) । १-“द्यौर्मेपिता” इति । द्वयम् अस्यवामीयं दीर्घतमसः आर्षम् । तृतीयसवने वैश्वदेवे शस्यते ।