भारतकोश
निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary

महर्षि यास्क मुनि द्वारा

DevanagariHindipublished1,282 पृष्ठ

पृष्ठ 946, कुल 1282 में से

संदर्भ में पढ़ें
पृष्ठ 946

हिन्दी निरुक्त ( १७६ ) ८ अ० ३ पा० ७ खं० “तव प्रयाजा अनुयाजाश्च केवल ऊर्जस्वन्तो हविषः सन्तु भागाः । तवाग्ने यज्ञोऽयमस्तु सर्व- स्तुभ्यं नमन्तां प्रदिशश्चतस्रः ॥” ( ऋ० सं० ८, १, ११, ३ ) “आग्नेया वै प्रयाजा आग्नेया अनुयाजाः” इति च ब्राह्मणम् । ( ख ) छन्दोदेवताः-इत्यपरम् । “छन्दांसि वै प्रयाजाश्छन्दांस्यनुयाजाः” इति च ब्राह्मणम् । (ग) ऋतुदेवताः- इत्यपरम्। “ऋतवो वै प्रयाजा ऋतवोऽनुयाजाः-” इति च ब्राह्मणम् ॥ (घ) पशुदेवताः-इत्यपरम् । “पशवो वै प्रयाजाः पशवोऽनुयाजाः”- इति च ब्राह्मणम् । (ङ) प्राणदेवताः-इत्यपरम् । “प्राणा वै प्रयाजाः प्राणा वा अनुयाजाः” इति च ब्राह्मणम् । (च) आत्मदेवताः- इत्यपरम् । “आत्मा वै प्रया- जाः आत्मा वा अनुयाजाः” इति च ब्राह्मणम् । आग्नेयाः- इति तु स्थितिः । भक्तिमात्रमितरत् ॥ किमर्थ पुनरिदमुच्यते ? “यस्यै देवतायै हविर्गृहीतं स्यात् तां मनसा