भारतकोश
संग्रह पर लौटें

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

५७२ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १७ कारिकाव्याख्यायां सङ्ख्याविशेषादपि— स्यामभूवं भविष्यामीत्यादिसङ्ख्यया च वक्तृगा । समाख्याऽपि न शाखानामाद्यप्रवचनादृते ॥ १७ ॥ कार्यतया हि प्राक् सङ्ख्योक्ता, सम्प्रति तु प्रतिपाद्यतयोच्यते । तथाह्युत्तम- पुरुषाभिहिता सङ्ख्या वक्तारमन्वेतीति सुप्रसिद्धम् । अस्ति च तत्प्रयोगः प्रायशो वेदे । ततस्तदभिहितया तयाऽपि स एवानुगन्तव्यः, अन्यथाऽन्वयप्रसङ्गात् । अथवा—समाख्याविशेषः सङ्ख्याविशेष उच्यते । काठकं कालापकमित्या- दयो हि समाख्याविशेषाः शाखाविशेषाणामनुस्मर्य्यन्ते । ते च न प्रवचनमात्रनि- बन्धनाः प्रवक्तॄणामनन्तत्वात् । नापि प्रकृष्टवचननिमित्ताः । उपाध्यायेभ्योऽपि प्रकर्षे प्रत्युतान्यथाकरणदोषात् । तत्पाठानुक॑रणे च प्रकर्षाभावात् । कतिचनादौ संसारे प्रकृष्टाः प्रवक्तार इति को नियामक इति । नाप्याद्यस्य वक्तुः समाख्येति युक्तम् । भवद्भिरस्तदनभ्युपगमात् । अभ्युपगमे वा स एवास्माकं वेदकार इति वृथा विप्रतिपत्तिः । स्यादेतत्, ब्राह्मणत्वे सत्यवान्तरजातिभेदा एव कठत्वादयः । तदध्येया तद- नुष्ठेयार्था च शाखा तत्समाख्यया व्यपदिश्यते इति किमनुपपन्नम् । न । क्षत्रिया- प्रकाशः। पुरुषगुणाभावे तज्जन्यप्राशोभनवर्णोच्चारयितृत्वं प्रकर्षः, तत्राह कति चेति । न च ब्राह्मणत्वव्याप्यं प्रकाशिका। त्वविशेषणादेव पक्षधर्म्मतावलेनाजन्यज्ञानसिद्धिस्तथाप्यकालोत्पत्तिकस्य जनकत्वशङ्कैव नेति स्वरूप- निर्वचनपरं समानकालोत्पत्तिविशेषणम् । न चार्थानभिज्ञोक्तवाक्ये व्यभिचारः, प्रमाणस्य तस्य पक्षसमत्वात्, अप्रमाणस्य च प्रमाणवाक्यात्मकत्वहेतुविरहात्, उत्तमपुरुषत्वात् प्रमाणोत्तमपुरुषादि- त्यर्थः, अन्यथा शुकोक्तप्रमाणोत्तमपुरुषे व्यभिचारात्, प्रमाणतद्वाक्यस्य च पक्षसमत्वमेवेत्यर्थः। वक्तरीति । यद्यपि वक्तॄण्ववक्त्रोर्भैदादनुवक्त्रा नार्थान्तरशङ्का तथापि वक्तृत्वं वचनकर्तृत्वमात्रं तच्च तत्रापीति युक्तं स्वातन्त्र्यविशेषणमिति भावः ॥१६॥ कतिच्चेति। तथा च पुनरप्यनियमप्रसङ्ग- मकरन्दः। कतादृशज्ञानाजन्यत्वविशेषणादेव पक्षधर्मतावलादजन्यज्ञानसिद्धाविष्टसिद्धिः, तथाप्यन्यकालोत्पत्ति- कस्य जनकत्वशङ्कैव नेति स्वरूपतानिवर्चनपरं तदिति मन्तव्यम् । न च शुकादिवाक्ये व्यभिचारः, तस्यापि पक्षसमत्वादिति भावः । (१) वक्तरीति । न च वक्तृत्वानुवक्तृत्वयोर्भैदादनुवक्ता न वक्तेति न तद्विशेषणमर्थवदिति वाच्यम् । वक्तृत्वं हि वचनकर्तृत्वं, तच्च तत्रापि । आगन्तुकेति ! तथा च कठादिशरीरमधिष्ठा- याद्यवक्तुरीश्वरस्यैव तत्तत्समाख्याविशेषे निबन्धनत्वमिति भावः ॥ १६ ॥ टिप्पणी। द्व्यणुकपरिमाणजनकसंख्याजनकापेक्षाबुद्ध्याश्रयतया ईश्वरः सिध्यतीति पूर्ववृत्तं स्मारयन्नाह कार्यतयेति । संख्याविशेषशब्दस्यार्थान्तरमाह समाख्यापीति । प्रवक्तृवचननिमित्त एवेति । एवं चातीन्द्रियार्थदर्शी परमकारुणिको भगवानवे अस्मदाद्यदृष्टाकृष्टकठादिशरीरमधिष्ठाय यां यां शाखां प्रावोचत् तत्तच्छाखानां तत्तन्नाम्ना व्यपदेश इति भावः । ( १ ) प्रकाशिकामकरन्दयोर्गृहीतस्यैतत्प्रतीकस्य 'आमन्तु कस्येति' मकरन्दे समुपलब्धस्य च प्रकाशप्रतीकस्य व्याख्येयः 'एतद्द्वेदवाक्यसमाने'त्यादित ऊर्ध्वं 'व्यवस्थाव्यतिरेकश्चे'त्यतः पूर्वं कश्चिदंशो प्रकाशस्यादर्शपुस्तके भ्रष्ट इति प्रतिभाति । विशेषस्तु भूमिकायां द्रष्टव्यः । सं० ।

पञ्चमस्तवके ] ईश्वरसाधनम् । ५७३ देरपि तत्रैवाधिकारात् । न च यो ब्राह्मणस्य विशेषः, स क्षत्रियादौ सम्भवति । न च क्षत्रियादेरन्यो वेद इत्यस्ति । न च कठाः काठकमेवाधीयते तदर्थमेवानु- तिष्ठन्तीति नियमः, शाखासञ्चारस्यापि प्रायशो दर्शनात् । प्रागेवायं नियम आसीदिदानीमयं विप्लवते इति चेत् । विप्लव एव तर्हि सर्वदा, कठाद्यवान्तर- जातिविप्लवादित्यगतिरेवेयम् । तस्मादाद्यप्रवक्तृवचननिमित्त एवायं समाख्या- विशेषसम्बन्ध इत्येव साध्विति ॥ स एवं भगवान् श्रुतोऽनुमितश्च, कैश्चित् साक्षादपि दृश्यते प्रमेयत्वाद्धटवत् ॥ ननु तत्सामग्रीरहितः कथं द्रष्टव्यः । सा हि बहिरिन्द्रियगर्भा मनोगर्भा वा तत्र न सम्भवति । चक्षुरादेर्नियतविषयत्वात् । मनसो बहिरस्वातन्त्र्यात् । तदुक्तं 'हेत्व- प्रकाशः । कठत्वादिक्षत्रिये सम्भवतीत्याह न चेति । ननु क्षत्रियाद्यधीयमानाऽपि शाखा कठादिपदवाच्येत्यत आह न च कठा इति । प्रागेवायमिति । पूर्वं कठैः स्वशाखैवाधीता, अधुना शाखान्तराध्ययनरूपो विप्लव इत्यर्थः । विप्लव एवेति । कठत्वादिशाखाव्याप्यजातिविप्लवः कठादिसमाख्याव्यवस्था- व्यतिरेकश्चेत्यर्थः । तस्मादिति । कठादिशरीरमधिष्ठाय सर्गादावीश्वरेण या शाखा कृता, सा तत्समाख्येति परिशेष इत्यर्थः । अत्र अनित्यज्ञानवद्वक्तृकवाक्यावाचकानि श्रौतकठपदादीनि किञ्चित्प्रवक्तृकवाक्यवाचकानि वाक्यवाचकपदत्वात् मन्वादिसंहितापदवदिति मानमभिप्रेतम् । इयता प्रबन्धेन मननरूपो प्रतिज्ञातामुपासनां निर्वाह्य न तावन्मात्रान्मोक्षोऽनुमितिरूपविशेपद- र्शनस्य प्रत्यक्षभ्रमानुच्छेदकत्वात्, अपि तु प्रत्यक्षरूपं तत्तद्धेतुरिति दर्शयितुमाह — स एवमिति । अत्र प्रत्यक्षसामग्रीमुपाधिमाह नन्विति । सामग्र्या अतीन्द्रियतया योग्या- नुपलम्भेन निषेधोऽपास्तः । न च तस्याः कार्यव्यङ्ग्यतया तदभावादेवाभाव इति वाच्यम् । कार्य- स्यापि पुरुषान्तरप्रत्यक्षज्ञानत्वेन योग्यव्यतिरेकत्वात् । साधनव्यापकत्या स नोपाधिरित्याह प्रकाशिका । स्तदवस्थ एवेति भावः । पूर्वं कठैरिति । तथा च पूर्वकालीनमेव कठत्वादिजातिमद्ब्राह्मणाध्य- यनं शाखायाः कठादिसमाख्यानियामकमस्तीत्यर्थः । कठत्वादिशाखाव्याप्येति । पूर्वशब्दस्या- ननुगतत्वेन सर्गाद्यत्वमेव तदर्थः, स च न भवताप्युपेयत इत्यनियमस्तदवस्थ एवेति भावः । अनित्यज्ञानवदिति । तन्मतेऽवक्तृकतया अस्य ज्ञानवक्तृकतया च पक्षतावच्छेदकसिद्धिः । न चास्मदाद्युच्चरितवेदवाचकत्या कठादिसमाख्यायाः पक्षतावच्छेदकासिद्धिरिति वाच्यम् । अनित्य- ज्ञानवत्क्रियामात्रवाचकत्वस्य विशेषणत्वादिति भावः । किञ्चित्प्रवक्तृकेति । स्वातन्त्र्यम् प्रशब्दार्थ इति नाध्यापकेनार्थान्तरमिति ध्येयम् ॥ १७-२० ॥ मकरन्दः । व्यवस्थाव्यतिरेक इति । नियमगर्भस्योक्तनियामकस्यासिद्धेरिति भावः । अनित्यज्ञानवदिति । तन्मते अपौरुषेयत्वादस्मन्मते नित्यज्ञानवद्वक्तृकत्वादुभयसिद्धविशे- षणमिति चोध्यम् । शेषं सुगमम् ॥ १७-२० ॥ इति महामहोपाध्यायदेवदत्तात्मजश्रीरुचिदत्तोपाध्यायविरचितः मकरन्दः समाप्तः ॥

५७४ व्याख्यात्रयोपेतप्रकाशायुते न्यायकुसुमाञ्जलौ [ १७ कारिकान्याख्यायां भावे फलाभावादित्यादि। न कार्यैकव्यङ्ग्यायाः सामग्र्या निषेद्धुमशक्यत्वात्। अपि च दृश्यते तावद्बहिरिन्द्रियोपरमेऽपि असन्निहितदेशकालार्थसाक्षा- त्कारः स्वप्ने। न च स्मृतिरेवासौ पटीयसी। स्मरामि स्मृतं वेति स्वप्नानुस- न्धानाभावात्। पश्यामि दृष्टमित्यनुव्यवसायात्। न चारोपितं तत्रानुभवत्वम्। अबाधनात्। अननुभूतस्यापि स्वशिरश्छेदनादेरवभासनाच्च। स्मृतिविपर्यासोऽसाविति चेत्। यदि स्मृतिविषये विपर्यास इत्यर्थः, तदाऽ- नुमन्यामहे। अथ स्मृतावेवानुभवत्वविपर्यासः इति, तदा प्रागेव निरस्तः। न च सम्भवत्यपि, न ह्यन्येनाकारेणाध्यवसितोऽन्येन ज्ञानावच्छेदकतयाऽध्यवसी- यते। तथा च स घट इत्युत्पन्नायां स्मृतौ भ्राम्यतस्तं घटमनुभवामीति स्यात्, न त्विमं घटमिति। न ह्ययं घट इति स्मृतेराकारः। तस्मादनुभव एवासौ स्वीकर्त्तव्यः। अस्ति च स्वप्नानुभवस्यापि कस्यचित् सत्यत्वं, संवादात्। तच्च काकता- लीयमपि न निर्निमित्तम्। सर्वस्वप्नज्ञानानामपि तथात्वप्रसङ्गात्। हेतुश्चात्र धर्म एव। स च कर्म्मजवत् योगजोऽपि योगविधेरवसेयः, कर्मयोगविध्योस्तुल्ययोग- क्षेमत्वात्। तस्मात् योगिनामनुभवो धर्मजत्वात् प्रमा, साक्षात्कारित्वात् प्रत्यक्षफलं, धर्माननुगृहीतभावनामात्रप्रभवस्तु न प्रमेति विभाग इति। अतस्तत्सामग्रीविर- होऽसिद्धः। तथापि विपक्षे किं बाधकमिति चेत्। 'द्वे ब्रह्मणो वेदितव्ये' इत्यादियोगविधि- वैयर्थ्यप्रसङ्गः अशक्यानुष्ठानोपायोपदेशकत्वात्। न चासाक्षात्कारिज्ञानविधानमे- तत्। अर्थज्ञानावधिनाऽध्ययनविधिनेव तस्य गतार्थत्वात् इति। एतेन परमाण्वा- दयो व्याख्याता इति। तदेनमेवम्भूतम् अधिकृत्य श्रूयते - 'न द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते' इति। 'एकमे- वादितीय' मिति। 'पश्यत्यचक्षुः स शृणोत्यकर्ण' इति। 'द्वे ब्रह्मणो वेदितव्ये पर- प्रकाशः। कार्य्यैकेति। अथ प्रत्यक्षहेतुयावद्विशेषाभावादयोग्याया अपि सामग्र्या अभाव उन्नेयः। तन्न यथा स्वप्नज्ञाने सहकारिविशेषान्मनसो वहिः स्वातन्त्र्यं, तथा प्रकृतेऽपि योगजधर्मात्तस्य तथात्व- मित्यह। अपि चेति। पटीयस्त्वम्-असन्दिग्धविषयत्वम्। स्मृतिविपर्यासः-विपर्य्यस्ता स्मृतिः, प्रागेवेति। अनुभवत्वस्याबाधनादित्यर्थः। न च सम्भवत्यपि इत्यत्र स्मृतावुनभवत्वविपर्यास इत्यनुषञ्जनीयम्। यदि स घट इति स्मृतावुनभवत्वारोपः, तदा तं घटमनुभवामीति स्यात्, न तु इमं घटमनुभवामीत्याह न हीति। ननु प्रमायामेव मनसो वहिःस्वातन्त्र्यं स्वप्नज्ञानं त्वप्रमा इत्यत आह अस्ति चेति। तथापि साक्षात्कारो भ्रमो वासनाप्रभवत्वात् कामातुरकामिनीसाक्षा- त्कारवदित्याशङ्क्य तत्प्रमात्वमुपपादयति स चेति। अर्थज्ञानावधिनेति। स्वाध्यायोऽध्येतव्य इति विधेः परिशेषादर्थज्ञानफलसिद्धावर्थज्ञानावधित्वं सिद्धमिति भावः। एतेनेति। परमाण्वादयोऽपि प्रमेयत्वात् प्रत्यक्षा इत्यर्थः। एकमेवेति। ईश्वराख्यं ब्रह्म एकमेव न द्वितीयमित्यर्थः। तदर्थमित्यनेन ईश्वरज्ञानार्थतां प्रकाशिका। धीरा धरणिभवानी यमजनि चन्द्राद् भगीरथं तनयम्। तस्य कृतावेतस्यां सन्तः सन्तोषमाचरत ॥

पंचमस्तवके ] ईश्वरसाधनम् । ३७५ आपरमेष्ठ चे' ति । 'यज्ञेन यज्ञमयजन्त देवा' इति । 'यज्ञा वै देवा' इति । 'यज्ञो वै विष्णु'रित्यादि । स्मर्यते च— सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज । इति । मदर्थं कर्म कौन्तेय ! मुक्तसङ्गः समाचर । इति । यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । इति । यज्ञायाचरतः कर्म समग्रं प्रविलीयते । इत्यादि । अनुशिष्यते च साङ्ख्यप्रवचने ईश्वरप्रणिधानम् । तमिमंज्योतिष्टोमादिभिरिष्टैः प्रासादादिना पूत्र्तेन शीतातपसहनादिना तपसा अहिंसादिभिर्यमैः शौचसन्तोषा- दिभिर्नियमैः आसनप्राणायामादिना योगेन महर्षयोऽपि विविदिषन्ति । तस्मिन् ज्ञाते सर्वमिदं ज्ञातं भवतीत्येवं विज्ञाय श्रुत्वैकतानस्तत्परो भवेत् । यत्रेदं गीयते-- मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ १७ ॥ इति । इत्येवं श्रुतिनीतिसंप्लवजलैर्भूयोभिराक्षालिते येषां नास्पदमार्दधासि हृदये ते शैलसाराशयाः । किन्तु प्रस्तुतविप्रतीपविधयोऽप्युच्चैर्भवच्चिन्तकाः काले कारुणिक, त्वयैव कृपया ते भावनीया नराः ॥ १८ ॥ प्रकाशः । कर्मणो दर्शयता न ज्ञानकर्मणोस्तुल्यकक्षतया समुच्चय इत्यभिप्रेतम् । अनुशिष्यते, उपदिश्यते इत्यर्थः । ईश्वरोऽवश्यं ज्ञेयो महर्षीणामपि तज्ज्ञानान्वितत्वादित्याह तमिममिति । ईश्वरवेदनस्य फल- माह तस्मिन्निति । मयि परमेश्वरे मनः संयुज्येत्यर्थः । योगजेश्वरसाक्षात्कारस्य फलमाह शान्ति- मृच्छतीति । मोक्षं प्राप्नोतीत्यर्थः ॥ १७ ॥ यस्त्वेवं निर्दोषन्यायावगमितं कुतर्काभ्यासान्न प्रत्येति, तं प्रत्याह— इत्येवमिति । इतिशब्दः स्वरूपार्थः । एवंशब्दश्च प्रकारार्थः । नीतिर्न्यायः । शैलसारः पाषाणं, लौहं वा, तद्वदाशयो येषां ते तथा, युक्तिप्रतिसन्धानानाश्रयहृदया इत्यर्थः । प्रस्तुते ईश्वरे, विप्रतीपविधयः प्रतिकूलप्रकाराः, तादृशा अप्युच्चैरत्यर्थं काले कदाचित् भवच्चिन्तका इति योजना । भावनीया वासनीयाः शङ्काकलङ्कशून्याः कर्त्तव्या इत्यर्थः । प्रकाशिका । आसीदनुपमः कोऽपि महादेवः कुलाग्रणीः । टिप्पणी । सर्वधर्मानिति । अत्र धर्मपदमधर्मस्याप्युपलक्षणम् 'नाविरतो दुश्चरितान्नाशान्तो नासमाहित' इत्यादिश्रुतेः, 'त्यजधर्ममधर्मं चे'त्यादिस्मृतेश्च, धर्माधर्मावनादृत्य मां परमात्मानमेकं शरणं प्राप्नुहि मदेकशरणो भवेत्यर्थः । अहं त्वा त्वां सर्वपापेभ्यः सर्वधर्माधर्मबन्धनरूपेभ्यः मोक्षयिष्यामि अतो माशुचः मा शोकं कार्षीरित्यर्थः । प्रासादादीति । भगवन्मन्दिरादीत्यर्थः । ॥ १७-१९ ॥ इत्येष इत्यादि । इतिः समाप्तौ । एष उज्ज्वलश्रीः न्यायकुसुमाञ्जलिः दक्षिणवामकौ सज्जन- दुर्जनौ यद् वासयेत् अनुरञ्जयेत्, अन्योऽपि कुसुमाञ्जलिः दक्षिणवामनासापुटे अनुरञ्जयति ।

५७६ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [१८-२० कारिकाव्याख्यायां अस्माकन्तु निसर्गसुन्दर ! चिराच्चेतो निमग्नं त्वयी- त्यद्धाऽऽनन्दनिधे ! तथापि तरलं नाद्यापि सन्तृप्यते । तन्नाथ ! त्वरितं विधेहि करुणां येन त्वदेकाग्रतां याते चेतसि नाप्नुयाम शतशो याम्याः पुनर्यातनाः ॥१९॥ इत्येष नीतिकुसुमाञ्जलिरुज्ज्वलश्री- र्यद्वासयेदपि च दक्षिणवामकौ द्वौ । नो वा ततः किममरेशगुरोर्गुरुस्तु प्रीतोऽस्त्वनेन पदपीठसमर्पितेन ॥ २० ॥ इति श्रीन्यायाचार्यपदाङ्कितमहामहोपाध्यायश्रीमदुदयनविरचितं न्यायकुसुमाञ्जलिप्रकरणं समाप्तम् ॥ प्रकाशः । अस्माकं त्वश्रद्धा नास्तीत्याह । अस्माकंत्विति । यद्यपि त्वयि चेतो निमग्नमित्यद्धा तत्त्वम्, तथापि तरलं मनो नाद्यापि सन्तृप्यते तृप्तं भवति । तृपेः क्वचित् सकर्मकत्वात् कर्मकर्त्तरि रूपम् । त्वदेकाग्रतां त्वत्प्रवणताम् । याम्या यमदेवताकाः । यातना नरकपीड़ाः ॥ १९ ॥ इत्येष इति । इतिः समाप्तौ । एष नीतिकुसुमाञ्जलिर्दक्षिणवामकौ द्वौ यदि वासयेत् , ततः किमस्माकम् । यद्वा यद्वासयेदित्यत्र प्रोक्त एव यदि ब्रूयात् माऽस्मान् वासयतीति, तं प्रत्याह नो वा इति । वासयेदित्यनेन सम्बन्धः । ततः किं । तद्वासनायाः फलं न किञ्चिदित्यर्थः । पदमेव पीठं, तत्र न्यायकुसुमाञ्जलेर्यत् समर्पणं, तेन भगवान् प्रीतोऽस्तु ॥ २० ॥ यस्तर्कतन्त्रशतपत्रसहस्ररश्मिर्गङ्गेश्वरः सुकविकैरवकाननेन्दुः । तस्यात्मजोऽतिविषमं कुसुमाञ्जलिं तं प्रकाशयत्कृतिमुदे बुधवर्द्धमानः ॥ इति महामहोपाध्यायश्रीवर्द्धमानविरचितो न्यायकुसुमाञ्जलिप्रकाशः समाप्तः ॥ प्रकाशिका । अनुजस्तस्य कृतवानिमां व्याख्यां भगीरथः ॥ इति महामहोपाध्याय मेघठक्कुरापरनामकश्रीभगीरथविरचितायां कुसुमाञ्जलिप्रकाशिकायां पञ्चमः स्तवकः ॥ इति कुसुमाञ्जलिप्रकाशिका समाप्ता । टिप्पणी कुतर्काभ्यासमलिनान्तःकरणं कथं वासयिष्यतीत्यत आह नो वेति । अपिच किंवा, नो वासयेत्, ततः किमस्माकं किन्तु अमरेश इन्द्रस्तस्य गुरुर्बृहस्पतिर्ब्रह्मा वा, तस्य गुरुः उपदेष्टा परमेश्वरः, पदमेव पीठं तत्र समर्पणं यस्य, तादृशेनानेन न्यायकुसुमाञ्जलिना प्रसन्नोऽस्त्वित्यर्थः ॥२०॥ इति मिथिलादेशालङ्कारसर्वतन्त्रस्वतन्त्रश्रीविद्याभागुरुचरणसेवनसमुपजातविद्येन दरभङ्गामण्ड- लान्तर्गतसीमाग्रामनिवासिना काशीहिन्दूविश्वविद्यालयदर्शनविभागाध्यक्षेण मैथिलेन लक्ष्मीनाथझाशर्मणा कृता न्यायकुसुमाञ्जलेः चतुःस्तबकपर्‍यन्तगुरूकृतटिप्पणी- तोऽवशिष्टपञ्चमस्तबकमात्रस्य टिप्पणी समाप्ता । साम्बशिवायर्पणमस्तु ।