न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
५५२ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [.१२ कारिकाव्याख्यायां प्रकाशः। घटकानुपस्थित्या प्रकृते तथा घटते । तन्न । एतादृशनियमे मानाभावात् । न हि छिद्रवाधानन्तरं घटपदेन छिद्रेतरत्वेन ज्ञानं जन्यते, किन्तु योग्यतया छिद्रं विहाय यद्वस्तुगत्या छिद्रेतरत्, तस्य घटत्वेन ज्ञानम् । न च छिद्रेतरत्वेन ज्ञानं सम्भवत्यपि, तस्याशक्यत्वेन घटपदादुपस्थित्यभावात्। न च घटपदात्तथैवानुभव आनुभविकत्वेनोभयसिद्धः, येन लक्षण्याऽपि तथा निर्वाह्येत । न च लक्षणाऽपि, सा हि जहत्स्वार्था, अजहत्स्वार्था वा ? नाद्या, घटाननुभवप्रसङ्गात् । नान्त्यिा, शक्यलक्ष्यसाधारणैकरूपाभावात् । एवं सर्व्वत्र सामान्यशब्दस्य विशेषपरत्वे द्रष्टव्यम् । अथ छिद्रेतरतया योग्यतावधारेण शब्दानुभवात् पूर्वं नियमेनोपस्थितिः संस्कारादेव । न च विभक्तीनां प्रकृत्यर्थानुगतस्वार्थान्वयवोधकत्वंव्युत्पत्तेस्तत्र विभक्त्यर्थो नान्वीयेतेति वाच्यम् । प्रकृ- त्यर्थो हि प्रकृतिप्रतिपाद्यः, स च प्रकृतेऽप्यस्ति, अन्यथा पाचकमानीयैत्यत्र पाककर्त्तरि विभक्त्य- र्थकर्मताऽन्वयानुपपत्तिः, तस्याशक्यत्वात् । तथा च संस्कारोपस्थितं छिद्रेतरत्वमादाय शाब्दा- न्वयवोधः स्यात् । मैवम्, शब्दानुपस्थितस्य शब्देनान्वयवोधाजननात् । एतच्च शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्य्यते इत्युपपादयद्भिरस्माभिर्गुणादिसूत्रे प्रपञ्चितमिति नेहोपपाद्यते । संस्कारस्यानियतोध्वोधतया नियमेन तदुपस्थितेरभावाच्च । फलस्योभयासिद्धतया तद्वलेनपि नियतोपस्थितेरभावात् । तथापि सामान्यभानस्य विशेषभाननियतत्वाद् विशेषाभाने कथं सामान्यं भासते इति चेत् । न । परम्परा- साधनत्वस्य परम्पराघटकानुपस्थिताऽभानेऽपि वस्तुतः परम्परासाधनस्य भानात् । ननु काम्यादन्यत् काम्याव्यवहितसाधनतयाऽवगतमेव कर्त्तव्यतया चेति । न च यागस्य स्वर्गान्यवहितसाधनता सम्भवति । न च तृप्तिकामस्य पाके प्रवृत्तेर्व्यभिचारः, ओदनकामस्य तत्र प्रवृत्तेः । तृप्तिकामना च तृप्तिसाधनतत् साधनपरम्पराकामनोपयोगिनी, न तु साक्षात्, अन्यथा साधन- साधने प्रवृत्त्यभावापत्तेः ! मैवम् । काम्यसाधनत्वज्ञानस्यैव प्रवर्त्तकत्वात्, लाघवात् । न च तृप्तिकामस्य सिद्धौदनस्य पाके प्रवृत्तिप्रसङ्गः, गुरुपायत्वात्, इष्टोत्पत्त्यनान्तरीयकदुःखजनकत्वज्ञानस्य प्रतिवन्धकत्वाच्च । तस्मात् प्रतीता स्वर्गसाधनता व्यापारं विनाऽनुपपद्यमाना व्यापारमपूर्वं कल्पयति । प्रकाशिका। स्तदितरविशेषप्रकारकज्ञानजनकतानियमादित्यर्थः। शक्यलक्षणसाधारणेति। यद्यपि तादृशरूपा- भावेपि राजपुरुषपदादिवल्लक्षणास्त्विति वाच्यम्, तथापि शक्यस्य लक्ष्याविशेषणतयोपस्थितिरित्यत्र तद्वैषम्यात् । न च विभक्तीनामिति । तथा च छिद्रेतरत्वस्य शब्दानुपस्थितौ तद्विशिष्टे तृतीयार्थकरणत्वान्वयो न स्यादित्यर्थः। प्रकृत्यर्थो हीति । प्रकृतितात्पर्य्यविषयत्वं प्रकृतिप्रतिपा- द्यत्वं छिद्रेतरत्वविशिष्टेऽस्त्येव, यद्वा संस्कारसहितप्रकृतिप्रतिपाद्यत्वेऽपि प्रतिपाद्यत्वमस्त्येवेति भावः। अन्यथेति । यदि स्ववृत्त्या प्रत्युपस्थाप्य एव विभक्त्यर्थान्वय इत्यर्थः । शक्यत्वादित्युपलक्षणमश- क्यत्वाच्चेत्यपि द्रष्टव्यम् । शब्दात्मेति शेषः । नन्वपूर्वानभ्युपगमे प्रायश्चित्तवैफल्यमित्यत आह मकरन्दः। प्रकृत्यर्थो हीति। यद्यपि संस्कारस्योपस्थापकत्वमुक्तं न तु प्रकृतेः, शक्तिलक्षणयोरभावे तदुपस्थापकत्वस्यासम्भवाच्च, अत एव शब्दानुपस्थितस्येति सिद्धान्ते वक्ष्यति । तथापि प्रकृति- प्रतिपाद्यत्वं प्रकृतितात्पर्य्यविषयत्वमित्येके । तन्मते औपादानिकी तदुपस्थितिः, तत्र प्रकृतेरपि तेन हेतुताभ्युपगमात् तथोक्तमित्यन्ये । अन्यथेति । यदि वृत्त्युपस्थितस्यैव विभक्त्यर्थान्वयस्तदेत्यर्थः ।
पञ्चमस्तबके ] ईश्वरसाधनम् । ५५३ कल्प्यताम् । व्यापारद्वारा कथञ्चित् स्यात् , न तु भिन्नकालयोर्व्यापारव्यापारि- भावः । कारणत्वञ्च व्यापारेण युज्यते । अव्यवधानेन पूर्व्वकालनियमश्च तत्त्वम् । अन्यथाऽतिप्रसङ्गादिति चेत् । न, पूर्व्वभावनियममात्रस्य कारणत्वात् । कार्य्या- नुगुणावान्तरकार्य्यस्यैव व्यापारत्वात् , कृषिचिकित्सा दौ बहुलं तथा व्यवहारात् । लाक्षणिकोऽसाविति चेत् । न । मुख्यर्थत्वे विरोधाभावात् ॥ प्रकाशः । ननु व्यापारेण तन्निर्वाहो न तज्जननात्, उत्तरवर्त्तित्वेन व्यापारस्य तत्रासामर्थ्यात् । न ज्ञाप- नात् , लिङैव तज्ज्ञापनात् । न च चिरध्वस्तं कारणं व्यापारव्याप्तं, विपक्षे बाधकाभावात्, प्रायश्चि- त्तस्य च फलप्रतिबन्धकत्वं स्यात् , तस्मात् पापान्मुच्यते इति फलश्रवणस्य च निषिद्ध- क्रियातः फलभागी न भवतीत्यर्थः । न च सुहृये बाधकाभावः, उपस्थितत्वेन विहितनिषिद्धक्रियाया- मेव धर्माधर्मशक्तिप्रहस्य बाधकत्वात् । मैवम् । चिरध्वस्तस्य व्यापारसत्त्वे कारणत्वमिति निरुपाध्यन्वयव्यतिरेकाभ्यां व्याप्त्यवधार- णात् । न चाप्रयोजकत्वं, यागो यदि चिरध्वस्तत्वे सति सव्यापारो न स्यात् , स्वर्गसाधनं न स्याद्व- टवदिति विपक्षबाधकात् । न चात्र कारणताप्राहकाभाव उपाधिः, तेनापि समं व्याप्त्यवधारणेन तस्याप्यापादनात् । तथापि देवताप्रीतिर्यागव्यापारोऽस्तु । न च तत्र मानाभावः, यजिधातोः पूजार्थतया तस्याश्चा- राध्यप्रीतिहेतुक्रियात्वात् । तथाच यागस्य देवताप्रीतिसाधनत्वेन कालान्तरभाविस्वर्गं प्रति तद्द्वारा साधनतोपपत्स्यते, प्रीतेः क्षणिकत्वेऽपि तदनुभवजनितसंस्कारद्वारा तत्सम्भवात् । अत्राहुः—देवतोद्देशेन द्रव्यत्यागेन देवताप्रीतिर्जन्यते इत्यत्र मानाभावः, यज देवपूजायामिति शाब्दिकस्मृतिः, स्मृतित्वादेव न स्वतः प्रमाणम् । तन्मूलञ्च मानान्तरं नास्त्येव । न वा स्वर्गस्य प्रीतदेवतासाध्यत्वे मानम् । वस्तुतो लाघवात् कर्तृगतफलावसानिकव्यापारस्य कल्पनान्न देवताप्री- तिर्व्यापारः । न च स्वर्गभागिदेहान्तरमेव तद्व्यापारः, प्रलये विच्छेदेऽपि तद्व्यापारानुवृत्तेः, शरी- रस्य च कार्य्यद्रव्यतया अभावात् , नापि ध्वंस एव तद्व्यापारः, तस्यानन्त्येऽपि स्वभावात् सावधि- फलजनकत्वमिति वाच्यम् । प्रतियोगिध्वंसयोरेकत्राजनकत्वादिति संक्षेपः । शङ्कते व्यापारेति । न च प्रकृते तथेति शेषः । कारणस्यावान्तरव्यापरयोगः, यागश्च न स्वर्गकरणं, कार्य्याव्यवहितप्राक्कालसत्त्वस्य कारणत्वादित्यर्थः । अत्राव्यवहितत्वमतन्त्रं गौरवात् । अतएव न सहभावेन कारणत्वम् । न च विनश्यदवस्थसमवायिनः कारणत्वापत्तिः, तावता समवा- यिकारणस्यैव तथात्वादिति परिहरति पूर्व्वभावेति । कार्य्येति । यज्जन्यं सञ्जन्यजनकं, स एव तस्य व्यापार इत्यर्थः । कृषीति । यथा माघमासीयभूकर्षणस्य पाकपरम्पराव्यापारद्वारा हेमन्त- प्रकाशिका । प्रायश्चित्तस्य चेति । निषिद्धक्रियासमानकालीनप्रायश्चित्तादिप्रागभावस्याव्यवधानेन जनकत्वा- दिति भावः । कारणमित्यनुषञ्जनीयम् । विकल्पत्वेऽस्य पृथक् दूषणं न्यूनत्वापत्तिः, प्रयत्नादेः शब्द- धर्मत्वाभावाद्विरोधश्चेति भावः । मकरन्दः । अशक्यत्वादित्युपलक्षणम्—अलभ्यत्वाच्चेत्यपि द्रष्टव्यम् । शब्दानुपस्थितस्येति । वृत्त्येति शेषः । नन्वेवमपूर्व्वानभ्युपगमे प्रायश्चित्तविधिवैफल्यमित्यत आह प्रायश्चित्तस्य च फल- प्रतिबन्धकत्वं स्यादिति । ७० न्या० कु०
५५४ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १२ कारिकाव्याख्यायां अस्तु तर्हि पुत्रेण हते ब्रह्मणि चिरध्वस्तस्य पितुस्तमवान्तरव्यापारीकृत्य कर्त्तृत्वम् ; तथाच लोकयात्राविप्लव इति चेत् । न । सत्यपि सुते कदाचित्तद- करणात् तस्मिन्नसत्यपि कदाचित् करणादनिर्वाहकत्वां तस्य व्यापारत्वायोगात् । यं जनयित्वैव हि यं प्रति यस्य पूर्वभावनिर्वाहः, स एव तं प्रति तस्य व्यापारो ना- परः, यथाऽनुभवस्य स्मरणं प्रति संस्कारः, तस्य ह्यन्वयव्यतिरेकानुविधाने सिद्धे तदन्यथाऽनुपपत्त्या संस्कारः कल्प्यते, न त्वन्यथा, तथेहापि । न चेदेवं, तवापि ब्रह्मभिदुरशरविमोकसमसमयहतस्य हन्तृत्वं न स्यात्, स्याच्च स्वनिवे- शनशयानस्य तत्पितुरिति । एतेनोभयं वेति निरस्तम् । अस्तु तर्हि क्रियाधर्म एव कार्यत्वं विधिः, सर्वो हि कर्त्तव्यमेतदिति प्रत्येति, ततः कुर्यामिति सङ्कल्प्य प्रवर्त्तते इति चेत् । न । कर्त्तव्यं मयेति कृत्यध्यवसायार्थो वा स्यात् ? कर्तव्यं मयेत्युचितार्थो वा स्यात् ? तत्र प्रथमः सङ्कल्पात्र भिद्यते । व्यवहितकार्यसङ्कल्पो हि कर्त्तव्यो मयेति, सन्निहितकार्यसङ्कल्पस्तु कुर्यामिति । स च न लिङर्थः । सत्तामात्रेण प्रवर्त्तनादित्युकम् । तदेतत् कर्त्तव्यतायां जातायां प्रवर्त्तते इति वस्तुस्थितौ भ्रान्तैर्ज्ञातायामिति गृहीतम् । औचित्यन्तु क्रियाधर्मः प्रागभाववत्त्वं, तस्मिन् सति शक्यत्वं वा, तस्मिन् सति कर्त्तारं प्रत्युपकारकत्वं वा ? प्रथमे कुतश्चिदपि न निवर्त्तत । द्वितीये दुःखेऽपि तथाविधे प्रवर्त्तत । तृतीये तु वक्ष्यते ॥ १२ ॥ प्रकाशः । भाविस्स्यजनकत्वम् , यथा वा दशमूलीरूपायपानस्य धातुसाम्यद्वारा भाविज्वरशान्तिजनकत्व- मित्यर्थः । व्यवहितस्य कारणत्वेऽतिप्रसङ्गमाह - अस्विति । येन विना यत्कारणत्वं न निर्वहति तस्य स व्यापारः, न च पितुः कारणत्वं पुत्रं विना न निर्वहतीति न स व्यापार इत्याह सत्यपीति । तदेव स्पष्टयति यं जनयित्वैवेति । यदि च कार्य्यसमानकालस्यैव कारणत्वं, तदा तवाप्यनिष्टमित्याह न चेदेवमिति । उभयं वेति । कार्यत्वमपूर्व्वत्वञ्च लिङः प्रवृत्तिनिमित्त- मित्यर्थः । कृत्यध्यवसायः-कृत्यनुकूलेच्छा उचितार्थोऽर्हार्थः । तत्रैव कृत्यविधानादिति भावः । व्यवहितेति । प्रवृत्त्यपेक्षयेति शेषः । स चेति, उभयरूपोऽपि सङ्कल्पः । तस्याज्ञातस्यैव प्रवृत्तिहेतुत्वेन प्रवर्त्तकज्ञानाविषयत्वादित्यर्थः । सङ्कल्पविधिवादिनमुपहसति तदेतदिति । शक्यत्वं कृतिसाध्यत्वमित्यर्थः । कुतश्चिदिति । अनिष्टादपीत्यर्थः । तृतीये इति । इष्टसाधनार्थत्वनिरासेनेत्यर्थः । तद्धर्मोऽभिधा वेति । वाक्यार्थज्ञानानुकूला भावना-शब्दव्यापारादिप- दवाच्या अभिधा शब्दधर्मो वा लिङर्थः । तदाहुर्भट्टपादाः- अभिधां भावनामाहुरन्यामेव लिङादयः । अर्थात्मभावना चान्या सर्वाख्यातेषु गम्यते ॥ इति । तदर्थो भावनादिर्वैत्यत्र करणमित्यनुपञ्जनीयम् । लिङर्थो भावादिः प्रयत्नादिः करणं, तद्धर्म इष्टसाधनता वेत्यर्थः ॥ १२ ॥ मकरन्दः । करणमित्यनुपञ्जनीयमिति । यदि हि धर्मविकल्प एवायमपि स्यात्, तदाऽस्य पृथग- दोषात् न्यूनत्वापत्तिः । करणविकल्पे च शब्दः । प्रयत्नादिश्च करणत्वेन विकल्पितः, तद्धर्म्मश्चाभिधा इष्टसाधनता वेति विकल्पद्वयं पर्य्यवस्यति । तच्च दूषितमेव । किञ्च धर्मविकल्पपक्षे प्रयत्नादेः शब्दधर्मत्वाभावाद्विरोध इति भावः ॥ १२ ॥
पञ्चमस्तवके ] ईश्वरसाधनम् । ५५५ अस्तु तर्हि करणधर्म्मः । न । करणं हि शब्दः, तद्धर्मोऽभिधा वा स्यात्, तदर्थो भावनादिर्वा, तद्धर्म्म इष्टसाधनता वा ? न प्रथमः,- असत्त्वादप्रवृत्तेश्च नाभिधाऽपि गरीयसी । बाधकस्य समानत्वात् परिशेषोऽपि दुर्लभः ॥ १३ ॥ सङ्गतिप्रतिसन्धानाधिकायां तस्यां प्रमाणाभावात् । अन्यसमवेतस्यापूर्ववदन्य- व्यापारत्वेनाप्युपपत्तेः । विषयतयाऽपि च स्वव्यापारं प्रति लिङ्गवद्धेतुभावाविरो-
प्रकाशः । पराभिमतशब्दधर्मस्वरूपामिधायां मानाभावादित्याह असत्त्वादिति । तत्सत्त्वेऽपि पदान्त- रेण तदुपस्थितौ ततोऽपि न प्रवृत्तिरित्याह अप्रवृत्तेश्चेति । सर्वत्रान्यत्र पक्षेषु बाधक सत्त्वात् परिशेषेणामिधा लिङर्थ इत्यपि नास्ति, तत्रापि बाधक सत्त्वादित्याह बाधकस्येति । ननु शब्दस्य वाक्यार्थधीकारणत्वात् तस्य व्यापारेण भाव्यमवश्यमित्यभिधैव तद्व्यापारः । किञ्च पदानां प्रत्येक मर्थज्ञानाजनकत्वादामुविनाशितया च तन्मेलकस्याभावादर्थज्ञा- नानुषपत्त्या अभिधा कल्प्यते इत्यत आह सङ्गतीति । सङ्गतिस्मृतिरेव पदस्यावान्तर- व्यापारः, एकस्मृतिविषयानुपूर्वीविशेषविशिष्टपदमालैव पदार्थस्मृतिव्यापारा वाक्यार्थधीकरणमिति न तत्र मानमित्यर्थः । ननु सङ्गतिस्मृतिर्न शब्दव्यापारः, व्यापारिणं विहायान्यत्रात्मनि तत्समवायात्, ततो यः शब्द- सम्बन्धस्तद्व्यापारः साऽभिधा स्यादित्यत आह अन्येष्विति । यथाऽऽत्मसमवेतमपूर्वं यागादेः करणस्य व्यापारः, तथा सङ्गतिस्मृतिरपि तादृशी शब्दव्यापार इत्यर्थः । अतएव-यद्व्यापारे कर्तृ तदेव करणं, यथा पाककरणानि काष्ठानि ज्वलनावान्तरव्यापारकर्तॄणि, न च स्वविषयज्ञाने शब्दः कर्त्ता किन्तु कर्म-इत्यपास्तम् । कर्तृपदस्य मुख्यार्थतायामचेतनस्य व्यापारासम्भवात्, हेतुमात्रविवक्षायाञ्च प्रकृतेऽप्यदोषादिति भावः । ननु व्यापारी व्यापारकारणं भवति, न च सङ्गतिस्मृतौ पदं कारणम्, अतः शब्दजन्याभिधा मन्तव्येत्यत आह विषयतयाऽपीति । यथा लिङ्गस्य स्वविषयपरामर्शे विषयतया हेतुत्वं, तथा शब्दस्यापि सङ्गतिस्मृतावित्यर्थः । अस्मन्मते स्मृतेर्विषयजन्यत्वेऽपि परसतेनेदमुक्तम् । अस्तु वा
प्रकाशिका । स्वविषयज्ञान इति । सङ्गृहीतग्रहरूपे शब्दव्यापारतयाभिमत्यर्थः । प्रकृतेऽप्य- दोषादिति । विषयतया कथञ्चिल्लिङ्गवद्धेतुत्वादिति मूले एवोक्तत्वादिति भावः । तदेव दर्शयितुं शङ्कते नन्विति । पुरुषार्थसुखादिप्रतिसन्धानस्यैव प्रवर्त्तकत्वादिति भावः ।
मकरन्दः । स्वविषयज्ञाने-सङ्गतिग्रहरूपशब्दव्यापारतया अभिहिते इत्यर्थः । प्रकृतेऽपीति । विषयतया कथञ्चित् लिङ्गवद्धेतुत्वादिति मूल एवोक्तत्वादित्यर्थः । तदेव दर्शयितुं शङ्कते नन्विति ।
टिप्पणी । अनिष्ठसाधनताज्ञानकालेऽपि कार्यताज्ञानसंभवात् प्रवृत्त्यापत्तेरित्यर्थः । लिङादिशब्दात्मककरण- वृत्तिधर्मरूपा याऽभिधा तज्ज्ञानं प्रवर्त्तकमिति, लिङार्थो यो भावनादिः स एव करणं तद्धर्मस्येष्ट- साधनत्वस्य ज्ञानं प्रवर्त्तकमिति वा विकल्प्य दूषयति करणं हीति । गरीयसी लिङर्थता उचिता । नन्वन्यस्य बाघात् लिङर्थत्वं परित्यक्तं ततः परिशेषात् भावनेवास्तु लिङर्थ इत्यत आह बाधकस्येत्यादि । इच्छादेर्लिङर्थत्वे यथा बाधकमूक्तं तथाऽत्रापि समानमित्यर्थः ।
धात्, अधिकत्वेऽपि ततोऽप्रवृत्तेः । बालानां तदभावेऽपि तद्भावात् । शब्दान्तरेण तच्छाविणामध्यप्रवृत्तेः। न च विलक्षणैव सा लिङो विषयः। तद्वैलक्षण्यं प्रतीत प्रति चेत्, अर्थविशे- षोऽपि स्यात् । प्रवृत्तिमात्रं प्रति चेत्, अभिधासमवेतं तदिति कुतः ? तत्सन्निधा- नादिति चेत् । न । अनियमात् । अन्यस्य सर्वस्य निषेधादिति चेत् । न । प्रवृत्ति- हेतुत्वनिषेधस्य तुल्यत्वात् । शब्दैकवेद्यत्वे चाव्युत्पत्तेः । प्रवृत्त्यन्यथाऽनुपपत्तिसिद्धे व्युत्पत्तिरित्यपि वार्त्तम् । न हि प्रवृत्तिहेतुः कश्चि- दस्तीति प्रवर्त्तते । इष्टसाधनता तु स्यात् । सर्वो हि मया क्रियमाणमेतन्मतं समी- हितं साधयिष्यतीति प्रतिसन्धत्ते, तत इच्छति कुर्यामिति, ततः करोतीति सर्वानु- भवसिद्धम् । तदयं व्युत्पित्सुर्य्यज्ञानात् प्रयत्नजननीमिच्छामवाप्तवान्, तज्ज्ञानमेव लिङ्- श्राविणः प्रवृत्तिकारणमनुमिनोति ।
प्रकाशः । शब्दव्यापारोऽभिधा लिङ्वाच्या, तथापि नासौ प्रवृत्तिहेतुः अपुरुषार्थत्वादित्याह अधिक- त्वेऽपीति । अभिधायामव्युत्पन्नानामभिधाज्ञानाभावेऽपि प्रवृत्तिसत्त्वादित्याह बालानामिति । अभिधादिपदैरभिधां ज्ञातवतोऽप्यप्रवृत्तेरित्याह शब्दान्तरेणेति । अथाभिधादिपदात्तत्सामान्यज्ञानेऽपि न प्रवृत्तिः, लिङभिधेयविलक्षणाभिधाज्ञानस्य प्रवर्त्तकस्य ततोऽनुत्पादात् , अत एव नाख्यातान्तरेण तज्ज्ञानेऽपि प्रवृत्तिः, अत्राह न चेति । प्रतिपत्ति प्रतीति । प्रतिपत्तिविशेषकमित्यर्थः । अर्थविशेषोऽपीति । अर्थविशेषं विना बुद्धिविशेषस्यानुत्पत्ते- रित्यर्थः । यदि प्रवर्त्तकज्ञानविशेषादेव सोऽर्थः प्रतीयते, तदा लोके यत्प्रतीयमानं प्रवर्त्तकत्वेन ज्ञातं तत लिङा वाच्यम् , न चाभिधायां तत्सम्भवतीति भावः । अथाभिधाज्ञानमात्रस्याप्रवर्त्तकत्वात् प्रवृत्त्यैव तद्वैलक्षण्यमनुमेयं, तत्राह प्रवृत्तिमात्रमिति । तदिति । अभिधायाः सन्निहितत्वात्तद्वैलक्षण्यं प्रवर्त्तकमित्यर्थः । नानियमादिति । बौद्धसन्निधानं धात्वर्थे दृष्टसाधनत्वे चास्तीत्यर्थः । प्रवृत्तिहेतुत्वस्य निषेधः प्रमाणान्तरात् , विधिवादसन्निधेर्वा ? आद्ये प्रवृत्तिहेतुत्वेति । अन्त्ये तत्सन्निधोति । यथाऽभिधायां विधिसन्निधिनिषेधोऽशक्यः, तथा धात्वर्थादावपीत्यर्थः । ननु मानान्तरादमभिधाज्ञानेऽपि न प्रवृत्तिः, लिङादिपदैकवेद्याभिधाज्ञानस्य प्रवर्त्तकत्वादित्यत आह शब्दैकैति । एवं तत्र लिङादिशक्तिग्रह एव न स्यात् , मानान्तरेण तदनुपस्थितेरित्यर्थः । न हीति । प्रवृत्त्यन्यथानुपपत्त्या हि तद्धेतुः कश्चिदित्येव ज्ञानं स्यात् , न च तत्प्रवर्त्तकमित्यर्थः । द्वितीयं पक्षमाह इष्टसाधनता त्विति । करणधर्मो विधिरिति शेषः । तदुपपादयति सर्वो हीति। मयेत्यादिनाऽसाध्ये कृत्यसाध्ये स्वकृत्यसाध्ये च प्रवृत्तिर्निवारिता । तदयमिति । ननु कार्य्यत्वमेव विधिः, तथाहि-ज्ञानस्य कृतावुत्पाद्यायां चिकीर्षाऽतिरिक्तं न कर्त्तव्यम् , सा च कृतिसाध्यत्वप्रकारिका कृतिसाध्यविषयेच्छा, पाकं कृत्या साधयामीति तदनु-
प्रकाशिका । प्रतीयमानमिति । इष्टसाधनत्वादिकमित्यर्थः ।
मकरन्दः । अपुरुषार्थत्वादिति । पुरुषार्थसुखादिप्रतिसन्धानं विना प्रवृत्त्यभावादिति भावः । यत्प्रतीयमानमिति । इष्टसाधनत्वादिकमित्यर्थः ।
पञ्चमस्तवके ] ईश्वरसाधनम् । ५५७ ततश्च कर्त्तव्यतैकार्थसमवायिनी इष्टसाधनता लिङर्थ इत्यवधारयति । न च वाच्यम्-एवञ्चेत् वरं कर्त्तव्यतैवास्तु, अवश्यमभ्युपगमनीयत्वात्; कृतमिष्टसाधन- प्रकाशः । भवात् , पाकं कुर्य्यामित्यस्य पाकं कृत्या साधयामीति विवरणाच्च । सा स्वकृतिसाध्यताज्ञानसाध्या , इच्छायाः स्वजनकज्ञानसमानप्रकारकत्वनियमात् । अत एव स्वकृतिसाध्ये प्रवर्त्तते, न त्विष्टसाधनेऽपि स्वकृत्यसाध्ये । अथ कृत्या साध्येऽपि विषभक्षणादावप्रवृत्तेरिष्टसाधनत्वमादाय विधिः । न च तत्रानिष्टसाधन- ताज्ञानं प्रतिबन्धकम् , प्रवृत्तौ तदभावस्य हेतुत्वे गौरवापत्तेः । तद्वरं लाघवाद्विष्टसाधनत्वं विषयता- वच्छेदकमस्तु । न च प्रवृत्तेः पूर्वमनिष्टसाधनताज्ञानविरह उभयसिद्धः, इष्टसाधनताज्ञानञ्च सन्दि- ग्धम् , अतो युगपदुपस्थित्यभावाच्च लाघवावतार इति वाच्यम् । त्वयाऽपि प्रवृत्तेः पूर्वमिष्टसाधनता- ज्ञानविनियोगस्वीकारात् । यत्र शब्दादनुमानाद्वा तदविगतं, तत्र तदभावाच्च, तस्माद्विषभक्षणादौ वृष्ट्यादौ च प्रत्येकं व्यभिचारात् कृतिसाध्यत्वे सतीष्टसाधनत्वं विधिरिति । न । विषभक्षणादौ स्वकृतिसाध्यत्वाभावात्, न हि कश्चिद्विषभक्षणं चिकीर्षति ततः करोतीति दृश्यते, जीवनयोनिकृतिसाध्यञ्च तन्न भवत्येव, न चान्या कृतिरास्त । अथेष्टसाधनताभ्रमानन्तरं विषभक्षणमपि चिकीर्षाजन्यकृतिसाध्यम् , अतो विशेषदर्शनेऽपि तत्र प्रवर्त्तेतेति चेत् । न । द्विधा हि कृतिरणुभूयते, बलवदनिष्टजनिका यथा विषभक्षणादौ, तदज- निकाच यथा पाकादौ, तदिह बलवदनिष्टाजनककृतिसाध्यत्वं विवक्षितम् । न च विषभक्षणे तदस्ति । अत एव तत्र प्रथममिष्टसाधनतया तथाविधकृतिसाध्यत्वमविद्यमानमवगत्य प्रवर्त्तते, प्रवृत्त्यन- न्तरञ्च बलवदनिष्टहेतुकृतिसाध्यत्वं विरोधि तत्र विगतमिति न प्रवर्त्तते । तथाभूतकृतिसाध्यत्वं पूर्वानुभूतं स्मृत्वा प्रवर्त्तेतेति चेत् । न । विशेषदर्शनेन भ्रमाहितसंस्कारो- न्मूलनात् , अन्यथेष्टसाधनतास्मरणेऽप्यप्रतीकारात् । न चैवं भ्रमेऽपि प्रवर्त्तेत, स्वेच्छाजन्यकृति- साध्यस्य विवक्षितत्वात् । भ्रमस्य च नियमतोऽन्येच्छाधीनकृतिसाध्यत्वं, दुःखत्वेन तत्रेच्छाविरहात्। अतएवस नान्तरीयक इत्युच्यते । न चैवमिच्छाज्ञानस्य प्रवर्त्तकत्वप्रसङ्गः, कृतौ परिचायकमात्रत्वात् । यद्वा कृतौ स्वरूपसतीच्छा जनिका, इच्छायान्तु तज्ज्ञानं जनकमस्तु, को विरोधः । न हि यदेकत्र स्वरूपतो हेतुस्तज्ज्ञानमन्यत्र न जनकम् । एवं चिकीर्षाहेतुतया कृतिसाध्यताज्ञाने व्यवस्थिते प्रकाशिका । तस्माद्विषभक्षणादाविति । विषभक्षणे कृतिसाध्यत्वेऽपीष्टसाधनत्वाभावात् वृष्ट्यादौ इष्टसाधनत्वेऽपि कृतिसाध्यत्वाभावात् न प्रवृत्त्तिरिति भावः । विषभक्षणे कृत्यसाध्यत्वादेव प्रवृत्त्तिर्नेत्यत आह न हि कश्चिदिति । ननु चिकीर्षाधीनकृतिसाध्यत्वाभावेऽपि जीवनयोनिकृतिसाध्यमेव विषभक्षणं स्यादित्यत आह जीवनयोनीति । इच्छायान्त्विति । चिकीर्षायामित्यर्थः । तथाचेच्छाज्ञानस्य प्रवर्त्तकत्वं बाधितमेव, कृतौ स्वरूपसदिच्छाया एव हेतुत्वाभ्युपगमादिति भावः । मकरन्दः । ननु चिकीर्षाजन्यकृतिसाध्यत्वाभावेऽपि जीवनयोनिकृतिसाध्यत्वं स्यादित्यत आह जीवनेति । इच्छायान्त्विति । चिकीर्षायामित्यर्थः । तथाचेच्छाज्ञानस्य प्रवर्त्तकत्वप्रसङ्गो वारित एव, कृतौ स्वरूपसदिच्छाया एव हेतुत्वाभ्युपगमादिति भावः । वस्तुतश्चिकीर्षाहेतुज्ञानस्यैव प्रवर्त्तकत्व- मितीच्छाज्ञानस्य चिकीर्षाहेतुत्वे प्रवर्त्तकत्वापत्तिरिति प्रथमकल्प एव साधुरिति ।
तया-इति । यथा हि नेष्टसाधनतामात्रं प्रतीत्य प्रवर्त्तते, असाध्येषु व्यभिचारात् । प्रकाशः । विषभक्षणादौ व्यावर्त्तककृतिवृत्तित्वबलवदनिष्टाजनकचिकीर्षाधीनत्वमेव, न त्विष्टसाधनत्वम् । कृतिवृत्तित्वधर्मापेक्षया बहिरङ्गत्वात् जीवनयोनिकृतिजन्यप्राणादिसञ्चारनिवृत्त्यर्थमावश्यकत्वात् भोगचिकीर्षायां व्यभिचाराच्च । न चौपायिकीच्छेष्टसाधनताज्ञानसाध्या उपायेच्छात्वात् वृष्टीच्छावदिति वाच्यम् । साध्यत्वसाधन- त्वयोर्विरोधेनैकत्र ज्ञातुमशक्यत्वात् । असिद्धतां सिद्धताञ्चादाय तयोर्व्यवस्थितेः । न च यद्वस्तुतः कृतिसाध्यं तदिष्टसाधनमिति ज्ञायते इति युक्तम् । कृतिसाध्यतोत्तीर्णज्ञानात् चिकीर्षानुत्पत्तेः । अपि च साधनत्वस्य सिद्धमात्रधर्मत्वात् साधनत्वज्ञानमिच्छाविरोधि, न हि कश्चित्कृतिसिद्धमि- च्छति, अतोऽसुन्दरे वृष्टादौ चेच्छा तत्साध्येष्टज्ञानात् । अथ तादृशकृतिसाध्यत्वे कृतिर्न विशेषणम्, असत्त्वात्, सत्त्वे वा कृतौ सत्यां कृतिसाध्यताज्ञानं, तथा ज्ञाने च कृतिश्चेत्यन्योन्याश्रयः । नोपलक्षणम्, अनतिप्रसक्तोपलक्ष्याभावादिति चेत् । न । ज्ञाने विषयतया कृतेर्विशेषणत्वात् , साध्ये च प्रवृत्तिविषये परिचायकतयोपलक्षणत्वात् , अन्यथेष्टसाधन- ता Grant पक्षेऽपीष्टस्य तथाविधविकल्पग्रासात् । प्रकाशिका । बलवदनिष्टजनकत्वस्य चिकीर्षाविशेषणत्वेऽपि न क्षतिरित्याह बलवदनिष्टाजनकचिकीर्षा- धीनत्वमिति । बलवदनिष्टाजनकत्वस्य पूर्वं कृतिविशेषणतयोक्तस्यायमुपसंहारो, न तु पक्षान्तरमिति ध्येयम् । केचित्तु बलवदनिष्टाजनकचिकीर्षाजन्यचिकीर्षाधीनत्वमिति पाठः । तत्र बलवदनिष्टजनिका या चिकीर्षा तज्जनकं यच्चिकीर्षाधीनत्वमुक्तं रूपन्तदेव विशेषणमिति योजनया पूर्वोक्त एवार्थः । ननु यागस्येव कृतेरपीष्टसाधनत्वं धर्म इति तुल्यमेवान्तरङ्गत्व- मित्यत आह जीवनयोनिकृतीति । यद्यपि तद्व्यावर्त्तकं चिकीर्षाधीनत्वमात्रं बलवदनिष्टा- जनकत्वमपि, तथापि मधुविषसंपृक्तान्नभोजनव्यावृत्तये तदप्यावश्यकमिति भावः । भोगेति । तस्य स्वतःपुरुषार्थत्वेनेष्टसाधनत्वाभावादित्यर्थः । वस्तुतः कृतिसाध्यमिति । यदा कदापीति शेषः । कृतिसाध्यतोत्तीर्णेतीति । सिद्धत्वज्ञानादित्यर्थः । अन्यथा साधनत्वस्यैव अप्रहादित्यर्थः । मकरन्दः । यद्यपि बलवदनिष्टाजनकत्वं कृतौ विशेषणीकृतं प्राक् , तथापि चिकीर्षाविशेषणत्वेऽपि न दोष इत्याशयवानाह बलवदनिष्टाजनकचिकीर्षाधीनत्वमिति । वस्तुतो बलवदनिष्टाजनकत्वे सति चिकीर्षाधीनत्वमित्यर्थः, तथा च न पूर्वविरोधः । क्वचित्तु बलवदनिष्टाजनकचिकीर्षाजन्ययत्नचिकीर्षा- धीनत्वमिति पाठः । तत्र बलवदनिष्टाजनकचिकीर्षाजन्ययत्ने यच्चिकीर्षाधीनत्वमुक्तं रूपं, तदेव विशेष- णमिति योजनया तादृशार्थलाभ इत्याहुः । ननु यागस्येव कृतेरपीष्टसाधनत्वं धर्म इति तुल्यमेवान्तरङ्गत्वमत आह जीवनयोनिजेति । यद्यपि तद्व्यावर्त्तकं चिकीर्षाधीनत्वमात्रं न तु बलवदनिष्टाजनकत्वमपि, तथापि मधुविषसंपृक्तान्नभोजन- व्यावृत्त्यर्थं तदावश्यकमिति भावः । भोगेतीति । तस्य स्वतःपुरुषार्थत्वेनेष्टसाधनत्वाभावादित्यर्थः । वस्तुत इति—यदा कदा- पीत्यर्थः । कृतिसाध्यतोत्तीर्णेति । सिद्धत्वज्ञानादित्यर्थः, अन्यथा साधनत्वस्यैवाप्रहादिति भावः । शेषं शब्दप्रकाशे प्रपञ्चितमनुसन्धेयम् । अत एवेदं मत्तोऽभूतमित्यत्राकारप्रश्लेषः, अभवनस्य प्रागभावरूपत्वादित्यर्थः । अत एव क्वचित् मत्तो न भूतमित्येव पाठः ।
पंचमस्तवके ] ईश्वरसाधनम् । ५५६ तथा प्रयत्नविषयसमवायिनीमिष्टसाधनतामधिगम्याधिकारी प्रवर्त्तते इत्यनुभवः ॥ प्रकाशः । ननु तादृशकृतिसाध्यत्वज्ञानाच्चिकीर्षा ततः कृतिः कृतौ सत्यां प्रत्यक्षेण कृतिसाध्यताज्ञानमित्य- न्योन्याश्रयात्, कृतिसाध्यतोत्तीर्णे चिकीर्षाकृत्योरसम्भवाच्च । नानुमानात्, कृतक्रियमाणयोः पक्षत्वे कृतिसाध्यतोत्तीर्णत्वेन बाधात्, भाविपक्षत्वे चाश्रयासिद्धेः । उच्यते—पाको मत्कृतिविशेषसाध्यः मत्कृतिं विनाऽसत्त्वे सति मदिष्टसाधनत्वात् मद्भोजनवत् । यस्य यदिष्टसाधनं यदा यत्कृतिं विना न सिध्यति, तत् तदा तत्कृतिविशेषसाध्यमिति व्याप्तेः, असिद्धस्येष्टसाधनत्वाभावात् । न च पक्षानुपपत्तिः, पाके कृतिसाध्यत्वं हि सिध्यत् सिद्धे बाधादनागतं पाकमादाय सिध्यति, पक्षतावच्छेदकधर्मसामानाधिकरण्यं साध्यमानस्य हेतुना सिध्यतीत्यनुमाने क्लृप्तत्वात् । यथा प्रसिद्धवह्निबाधेऽपि वह्निमात्रं न बाधितमित्यप्रसिद्धोऽपि वह्निः सिध्यति, तथा प्रसिद्धपाके कृति- साध्यत्वबाधेऽपि पाकमात्रे न बाधितमित्यप्रसिद्धं पाकमादाय सिध्यति, अप्रसिद्धयोः पक्षसाध्ययोः सिद्धावविशेषात् । तथापि प्राथमिकत्वादावश्यकत्वाच्च लिङ्गज्ञानमेव प्रवर्त्तकमस्तु । न च लाघवात् कृतिसाध्यत्वं तथा, तदा कृतिसाध्यत्वानुमितौ मानाभावेन युगदुपस्थित्यभावादिति चेत् । न लिङ्गज्ञाने कृतिसा- ध्यत्वप्रकाशे तत्प्रकारकचिकीर्षायां तस्याहेतुत्वात् । ननु कृतिसाध्यत्वस्य विधित्वे 'न कलञ्जं भक्षयेदि'त्यत्र विध्यर्थनिषेधानुपपत्तिः । कलञ्जभक्षणं न कृतिसाध्यमित्यस्यानियोग्यत्वात् । न, तत्रापूर्वस्य लिङर्थत्वेन कलञ्जभक्षणप्रवृत्तं प्रति कलञ्जभक्षणा- भावाविषयकापूर्वस्य कृतिसाध्यत्वेन बोधनात् । न चानादित्वेन प्रागभावो न साध्यः, भक्षणप्रवृ- त्तस्य हि भक्षणप्रागभावस्तत्कृतिं विनोत्तरकाले न भवति तत्कृत्या तु भवतीत्यन्वयव्यतिरेकाभ्यां तत्कृतिसाध्य एवानुभूयते । न हि कृत्यनन्तरक्षणे घटस्वरूपं कृत्याधीनमित्यतोऽन्यत् कृतिसा- ध्यत्वं घटे । इयांस्तु विशेषः । क्वचित् कृत्याधीनः प्राक्कालयोगः कचिदुत्तरकालयोग इत्युभयोरपि योगक्षेमयोः कृतिसाध्यत्वमानुभविकम् अत, एवेदं मत्तोऽभूतमिति व्यवहारः । ननु कृतौ नष्टायां सन्नपि धर्मी न कार्य्यः, तथासति कथमपूर्वे कार्ये कामिनोऽन्वयः ? आशुविनाशितया क्रियातुल्यत्वात् । मैवम्, यद्वृत्ति काम्यसाधनत्वं तत्र कार्यतावृद्धिः प्रयोजिका, न तु कार्यताविशिष्टस्य काम्यसाधनताविशिष्टेति व्याप्तिः । तस्मात् कृतिसाध्य- त्वमेव विधिः । अत्रोच्यते-कृतिसाध्यताज्ञानस्य प्रवर्त्तकत्वे तृप्तोऽपि भोजने प्रवर्त्तेत तथा विशेषदर्शनेऽपि चैत्यवन्दनादौ । अथ स्वविशेषणवत्ताप्रतिसन्धानजन्यं कार्यताज्ञानं प्रवर्त्तकम् । तथा हि-काम्ये पुरुषविशेषणं कामना, ततः काम्यसाधने यागपाकादौ कार्यताज्ञानम् । नित्ये च कालशौचादि स्वविशेषणम् । तृप्तस्य तृप्तौ कासनाविरहेणेष्टसाधनताज्ञानाभावात् न तथा बोधः । विशेषदर्शने च भ्रमदशायामिव चैत्यवन्दने नेष्टसाधनताज्ञानं, येन तज्जन्यकार्यताबोधात् प्रवर्त्तेत । प्रकाशिका । अत एवेदं मत्तोऽभूतमित्यकारप्रश्लेषः अभवनस्य प्रागभावरूपत्वादित्यर्थः । क्वचिन्मत्तो न भूत इति पाठः, स तु सुगम एव । तत्र कार्यताबुद्धिः प्रयोजिकेति । तद्धर्मिनिष्टकाम्यसाधन- ताज्ञानमेव कार्यताबुद्धिप्रयोजकम् न तु कार्यताविशिष्टस्य काम्यसाधनत्वज्ञानमित्यर्थः। तथा विशेष- दर्शनेऽपीति । इष्टसाधनत्वज्ञानेऽपीत्यर्थः । बलवदनिष्ठाजनकत्वेन कृतिविशेषणेऽपि तत्रातिप्रसङ्ग-
[५६० न्यायकुसुमाञ्जलौ व्याख्यात्रयोपेतप्रकाशयुते [ १३ कारिकाव्याख्यायां
प्रकाशः । मैवम् । कृतिसाध्यत्वज्ञाने लाघवाद्विषयतयेष्टसाधनत्वस्यैवावच्छेदकत्वात् । न तु स्वविशेषण- वत्ताप्रतिसन्धानजन्यत्वं तत्र विशेषणं, गौरवात् । न च साध्यत्वसाधनत्वयोर्विरोधः, निर्विशेषितयोस्त- योरविरोधात् । तदा साध्यत्वसाधनत्वयोरेव विरोधात् । तथात्वस्य चानभ्युपगमात् । अन्यथा साध्यत्वसाधनत्वयोरन्यतरमेव स्यात् पाके, न तु समयभेदादुभयम् । तस्मात् समयभेदमादाय साध्यत्वसाधनत्वयोर्ज्ञानमबाधितम् । न चैवं गौरवं, समयभेदस्य प्रवृत्तावनुपयोगात् , ज्ञानोत्प- त्तावेव तदुपक्षयात् । कथं वा इष्टसाधनत्वेन कार्यत्वानुमानं, पक्षे साध्यसाधनयोरन्यतरसत्त्वे बाधासिद्धयोरन्यतरप्र- सङ्गात् । समयभेदेन तयोरविरोध इति तु तुल्यम् । अपि च स्वविशेषणवत्ताज्ञानजन्यकार्यताज्ञाना- भावात् कथं सुखे चिकीर्षा ? अथोपायचिकीर्षायां तद्धेतुः, इच्छाकारणसुखज्ञाने कृतिसाध्यत्वं यदा विषयः, तदा सुखे चिकीर्षा, नो चेदिच्छामात्रमित्युभयं चिकीर्षाहितुः । तर्हीच्छातद्धेतुज्ञाने कृतिसाध्यत्वं यदा भासते, तदा चिकीर्षा, नो चेदिच्छामात्रमित्यनुगतमेव सुखतदुपायचिकीर्षाहितुरस्तु, लाघवात् । सुखत्वज्ञा- नवदिष्टसाधनत्वज्ञानस्यापि इच्छाहेतुत्वात् । अत एव पाकादाविष्टसाधनताज्ञाने कृतिसाध्यत्वं विषय इति चिकीर्षा, वृष्ट्यादाविष्टसाधनताज्ञाने तु न तद्विषय इतीच्छामात्रम् । सुखचिकीर्षायामिच्छाकार- णज्ञाने कृतिसाध्यताविषयके चिकीर्षाहितुत्वावधारणात् । परमार्थतस्तु दैवाधीनवृष्टीच्छादौ स्वतोऽसुन्दरविषयेच्छामात्रं प्रतीष्टसाधनताज्ञानं कारणं क्लृ- प्तम्, अतः पाकादिचिकीर्षाऽपि तज्जन्या, न हि यज्जातीयं प्रति यत्कारणं गृहीतं, तदतिपत्य तद्भवति । न च चिकीर्षान्यत्वे सत्युपायेच्छात्वं तत्र तन्त्रं, गौरवात् । न च साधनत्वज्ञानमिच्छा- विरोधि, निर्विशेषितयोः सिद्धत्वासिद्धत्वयोरविरोघेनेच्छासाधनत्वयोरविरोधात् । यत्तु तत्साध्येष्टज्ञानाद्वृष्ट्यादाविच्छेत्युक्तम् । तन्न, असिद्धावस्थावतो वृष्ट्यादेरिष्टानुत्पत्तेस्तस्या- वश्यं सिद्धत्वमवगन्तव्यम् , इच्छानुरोधाच्चासिद्धत्वमिति तत्रापि विरोधात् । वृष्टिसाधनत्वमादायैवे- ष्टसाध्यत्वप्रमाच्च । एवञ्चेष्टसाधनतामात्रज्ञानात् कृतिसाध्यताप्रकारिकेच्छा नोत्पत्तुमर्हति, न चातिप्रस- ङ्गन्निवृत्तिरिति कृतिसाध्यत्वमपि तत्र विषयतयाऽवच्छेदकमस्तु । ननु कृताविच्छा चिकीर्षा, सनः प्रकृत्यर्थगोचरेच्छावाचित्वात् । न च कृतिविषयपाकादिविषये कृतिसाध्यत्वप्रकारकेच्छावाचित्वम् । तथा च कृताविष्टसाधनताज्ञानादिच्छा, वृष्ट्यादौ तथा कल्प- नात् । यदा कृताविच्छा, तदा सैव चिकीर्षा, अन्यत्रेच्छामात्रम्, न तु कृतिसाध्यताज्ञानात्, कृतौ कृतिसाध्यत्वाभावात् । अथ पाकं कृत्या साधयामीतीच्छा अनुभवसिद्धा, सा च कृतिसाध्यताज्ञानात् । सा च चिकी- र्षापदाप्रतिपाद्याऽपि कृतिहेतुः, समानविषयकत्वात् । न तु कृतीच्छा कृतिहेतुः, कृतिविषयाविषयत्वा- दिति चेत् । अस्ति तावत् पाककृताविच्छा वृष्टीच्छावत्, अस्ति च कृतिसाध्यत्वप्रकारिका तत्रेच्छा । तथापि कृतीच्छैव कृतिहेतुर्लाघवात् , न तु कृतिसाध्यत्वप्रकारिकेच्छा, गौरवात् । न चावगतिप्रवृत्त्योः समानविषयत्वमुभयसिद्धं, तस्यैव विचार्यत्वात् । कथन्तर्हि पाकं कृत्या साधयामी- तीच्छा ? येन रूपेण यस्येष्टसाधनत्वं तेन रूपेण तत्रेच्छासत्त्वात् । यथा स्वकेदारवृष्टित्वेनेष्टसाध-
प्रकाशिका । वारणादिति भावः । न चैवं गौरवंमिति । समयभेदविशिष्टस्य वाच्यत्वस्वीकार इति भावः । समयभेदस्येति । प्रवर्त्तकं ज्ञानं न समयभेदविषयकं, किन्तु वस्तुगत्या भिन्नसमयावच्छिन्नमेव । वस्तुतो बलवदनिष्ठाजनकत्वे सति चिकीर्षाधीनत्वमित्यर्थोऽतो साध्यत्वं साधनत्वं च प्रतीतिविषय
पंचमस्तवके] ईश्वरसाधनम्। ५६१ तत्र विषयो धातुना भावनाऽऽख्यातमात्रेण, शेषन्तु तद्विशेषेण लिङा इत्येव- मिष्टाभ्युपायतायामधिगतायामन्वयबलात् तद्विषयस्येष्टसाधनत्वावगतिरिति कर्त्त- व्यतैकार्थसमवायिनोष्टाभ्युपायता लिङः प्रवृत्तिनिमित्तमित्युक्तम्। प्रकाशः। नत्वात्तयैवेच्छा, तथा कृतिसाध्यत्वेन पाकस्येष्टसाधनत्वात् तथैवेच्छासत्त्वात्। अन्यथा तत्तदुपाय- साध्यत्वेनेच्छा तत्तदुपायसाध्यत्वप्रकारकतात् स्यादित्यनन्तकारणकल्पनापत्तिः। मम तूपायेच्छा- यामिष्टसाधनत्वज्ञानमेव हेतुः। अत एवैकप्रत्ययाभिधेयत्वप्रत्यासत्तेरन्तरङ्गतया विधिप्रत्ययाभिधेयेष्ट- साधनत्वस्य कृतावेवान्वयो न प्रकृत्यर्थे, तथैव चिकीर्षितज्ञानजनकत्वात्। प्रकृत्यर्थस्य च कृतौ विधेयत्वेनान्वयः। उच्यते-पाकस्य वह्निसाध्यत्वेन कृतिसाध्यत्वेन वा नेष्टसाधनत्वं 'गौरवात्, किन्तु पाकत्वेन, स च कृतिं विना नेत्यन्यदेतत्। कथं तर्हि वह्निना साधया- मीतीच्छा। इष्टसाधनत्वेन ज्ञाते यत्र यत्साध्यत्वं ज्ञायते, तत्र तत्साध्यत्वेनेच्छासत्त्वात्। यथा हीष्टसाधनत्वेन ज्ञाते वह्निसाध्यत्वज्ञानाद्वह्निना पाकं साधयामीतीच्छा, तथा कृतिसाध्य- त्वेन ज्ञाते पाके इष्टसाधनत्वज्ञानात् कृत्या साधयामीतीच्छा। तथा चेष्टसाधनत्वेन कृतिसाध्यत्वेन च ज्ञाते कृतिसाध्यत्वप्रकारिकेच्छा न त्विष्टसाधनताज्ञानमात्रादिति कृतिसाध्येष्टसाधनता विधिः। नित्ये च ज्ञानादौ यथेष्टसाधनताज्ञाने सत्यपि न नित्यताक्षतिः, तथा निपुणतरमुपपादितं द्वितीया- ध्यायप्रकाशे इति संक्षेपः। तत्रेति। पचतीत्यादौ भावनाविषयः पाकादिर्धातुनोच्यते, भावना त्वाख्यातेनेत्यर्थः। शेषमिति। यजेतेत्यादौ लिङा भावनाविषयस्य यागादेरिष्टसाधनत्वमुच्यते इत्यर्थः। अन्वयब- लादिति। प्रकृतिसमभिव्याहारादित्यर्थः। तद्विषयस्येति। इष्टसाधनीभूतस्य भावनावि- षयस्येत्यर्थः। भावनाया इष्टसाधनतया तत्कारणको यागोऽपि तथेति भावः। कर्त्तव्य- तैकति। यद्यपि पूर्वं तदर्थो भावनादिस्तद्धर्म. इष्टसाधनता वेत्यनेन भावनाधर्म एवष्टसाधनत्वं लिङर्थ इति विकल्पितम्, अधुना च भाव्यस्योच्यते इति विरोधः; तथापि तत्रादिपदेन भाव्यस्याप्य- भिधानाददोषः। प्रकाशिका। इत्यर्थः। इति संक्षेप इति। इदमत्राभिसंहितम्-सुखचिकीर्षायां चिकीर्षातावच्छेदकेन कृतिसाध्य- ताज्ञानं कारणत्वेन क्लृप्तम्, इष्टीच्छायान्तूपायेच्छात्वावच्छेदेनेष्टसाधनताज्ञानं कारणत्वेन क्लृप्तमित्युभ- यावच्छेदकाधिकरणपाकचिकीर्षायामुभयं कारणमिति फलोपाधानाय प्रवृत्तस्य लिङ्गपदस्योभयशक्यत्व- मित्यन्यत्र विस्तरः। एकत्रैवाख्यातत्वपुरस्कारेण भावनालिङ्पुरस्कारेण इष्टसाधनता वाच्या तदुभयसं- संसर्गस्तु वाक्यार्थतया भासत इति मतनिराकरणाय विषयभेदमाह पचतीत्यादाविति। अन्वय- विषयतानियामको नान्वय इत्यत आह प्रकृतिसमभिव्याहारादित्यर्थ इति। भावनाया इष्ट- साधनतयेति। यद्यपि यागो न भावनाकारणं किन्तु विपरीतं तथापि तत्कारणमिति बहुव्रीहिः। करणपदे विषयविवक्षा वेति भावः। यागोपि तथेति। यागद्वारेव भावनाया इष्टसाधनत्वादिति मकरन्दः। भावनाया इष्टसाधनतयेति। यद्यपि भावनाकारणं न यागः प्रत्युत भावनैव यागजनिका, तथापि तत्कारणेत्यत्र बहुव्रीहिः, कारणपदेन विषयविवक्षा वेति भावः। टिप्पणी। इष्टाभ्युपायता लिङः प्रवृत्तिनिमित्तमिति। आचार्यमण्डनमिश्राणामप्येतदेव सम्मतम्, तदुक्तं तैः-पुंसां नेष्टाभ्युपायत्वात्क्रियास्वन्यः प्रवर्तकः। प्रवृत्तिहेतुं धर्मं च प्रवदन्ति प्रवर्त्तनाम्॥ इति। ७१ न्या० कु०
५६२ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १३ कारिकाव्याख्यायां करणस्येष्टसाधनताऽभिधाने ज्योतिष्टोमेनेति तृतीया न भवितव्यमिति तु देश्यमवैयाकरणस्यावधीरणीयमेव । तत्सङ्ख्याऽभिधानं हि तदभिधानमाख्यातेन, न च तत् प्रकृते । न च यागेष्टसाधनताऽभिधानं लिङा, किन्तुन्वयबलाल्लाभ इत्युक्तम् । यत्तु सिद्धापदेशादपि प्रतीयते इष्टसाधनता, न चातः सङ्कल्पात्मा प्रवृत्तिर- स्तीति देश्यम् । तत्र समुत्कटफलाभिलाषस्य समर्थस्य तत्साधनताऽवगमेऽपि न प्रवृत्तिरिति कः प्रतीयात् । सर्व्वपक्षसमानञ्चैतत् समानपरीहारञ्चेति किन्तेन । प्रकाशः । ननु यदिष्टसाधनता लिङर्थः, 'तदा ज्योतिष्टोमेन यजेते'त्यादौ तृतीया न स्यात्, यागकरण- त्वस्य लिङैवाभिधानादित्यत ( १ ) आह करणस्येति । लिङाख्यातेन यागसंख्याभिधा- नरूपं तदभिधानं वाच्यम्, न चैवमिहास्तीत्याह तत्संख्येति । यजेतेत्यत्र हि न करणे लकारो येन तद्गतसंख्यामभिदध्यात्, किन्तु कर्त्तरीति तत्संख्याऽभिधाने तृतीयोपयोगः, तृतीयातोऽपि लब्धे करणत्वे नेह तात्पर्य्यमित्यर्थः । लिङा चेष्टसाधनतामात्राभिधानेऽपि न यागस्य तदभिधान- मित्याह न चेति । यद्यप्येवमप्यभिधानमस्ति, तथापि वाक्यार्थतया न पदार्थतया, तथाऽनभि- धानञ्चा'नभिहित' इति सूत्रे विवक्षितमित्येके । लिङ्कृत्तद्धितैः परिसंख्यानं नियामकमित्यन्ये । यत्त्विति । यागः स्वर्गसाधनमिति सिद्धार्थवाक्यादिष्टसाधनत्वज्ञानेऽपि न प्रवृत्तिरिति नायं विधिरित्यसिद्धं, ततोऽपि स्वर्गकामस्य तत्साधनताज्ञानवतः प्रवृत्तेरित्यर्थः । अन्येषामपि विधीनां सिद्धार्थात् प्रतीतावप्रवृत्त्या न ते विधयः स्युरित्याह सर्व्वपक्षेति । एतद्दूषणमित्यर्थः । एवमिष्ट- प्रकाशिका । भावः । तत्रादिपदेनेति भावः । न चपूर्वन्तदर्थस्य लिङर्थ इत्यर्थो न तु भाव्यं लिङर्थ इति वाच्यम् । तदर्थ इत्यत्र तत्पदेन यजेतेत्यादौ समुदायस्यैवोक्तत्वादिति । लिङेवाभिहितत्वादिति । तृतीयायाश्चानभिहिताधिकारीयत्वादिति भावः । तृतीयोपयोग इति । तृतीयासम्भव इत्यर्थः । कारणसंख्यायाश्च अनभिधानात्तदभिधानाभावस्यैव चानभिहितसूत्रार्थत्वादिति भावः । नन्वेवं तृतीयाया आख्यातेन च करणत्वाभिधाने पौनरुक्त्यमत आह तृतीयातोपीति । तात्पर्य्यगौरवाद्यु- क्तदोषाच्च वाजपेयाधिकरणन्यायादनन्वितमेव तृतीयोपस्थाप्यं करणत्वमिति भावः । एके इत्यरुचौ, तद्बीजन्तु एवंसति क्वाप्यभिधानं न स्याद्विशिष्यस्य सर्व्वत्रापदार्थत्वादिति । परिसंख्यानं विशेषः, स च विषयविशेषाधीनः प्रयोगानुसारकल्प्य इति भावः । विशेषस्यानुगतस्याभावान्न नियामकत्व- मित्यरुचिमाविष्करोति अन्य इति । हेतुत्वादिति कारिकास्थदलस्य प्रतीतलिङ्गार्थत्वे त्वाकांक्षाया- मकरन्दः । तत्रादिपदेनेति । न च तदर्थ इत्यस्य पूर्वं लिङर्थ इति विवरणाद्यागस्य च लिङर्थत्वा- भावाद्विरोध इति वाच्यम् । लिङर्थत्वेन तस्यापि विकल्पे दोषाभिधाने दोषाभावादित्यर्थः । तदर्थ इत्यत्र तच्छब्देन शब्दस्यैव विवक्षा, उपस्थितत्वात् । न लिङः, अनुपस्थितत्वात् । प्रकाशे च लिङर्थ इति विवरणं भावनामात्राभिप्रायेणेत्याहुः । तृतीयोपयोग इति । तृतीयासम्भव इत्यर्थः । कारणसङ्ख्याया अनभिहितत्वादिति भावः । नन्वेवं तृतीया करणत्वस्याभिधानात् लिङाऽपि च तदभिधाने पौनरुक्त्यमित्यत आह तृतीयातोऽपीति । गौरवादुक्तदोषाच्चेति भावः । वाजपेयाधिकरणन्यायात् कर्मनामधेयतया तृती- यायाः प्रथमं मूकत्वादित्यन्ये । ( १ ) लिङैवाभिहितत्वादिति प्रकाशिकाभिमतः पाठः ।
पञ्चमस्तवके ] ईश्वरसाधनम् । ५६३ अत्राभिधीयते—अस्तु प्रयत्नविषयसमवायिनीष्टसाधनता प्रवृत्तिहेतुः, तथापि नासौ लिङर्थः, सन्देहात् । सा हि किं साक्षादेव लिङाऽवगम्यते, स्तनपानादाव- नुमानादिव बालेन; किं वा तत्प्रतिपादितात् कुतश्चिदर्थादनुमीयते, चेष्टाविशेषा- नुमितादिवाभिप्रायविशेषात् समयाभिज्ञेनेति सन्दिह्यते । एवञ्च सति सा नाभि- धीयते इत्येव निर्णयः ॥ १३ ॥ हेतुत्वाद्वनुमानाच्च मध्यमादौ वियोगतः । अन्यत्र क्लृप्तसामर्थ्यान्निषेधानुपपत्तितः ॥ १४ ॥ तथाहि—अग्निकामो दारूणी मथ्नीयादिति श्रुत्वा कुत इत्युक्ते वक्तारो वदन्ति, यतस्तन्मन्थनादग्निरस्य सिद्ध्यतीति । तरति ब्रह्महत्यां योऽश्वमेधेन यजते इत्या- दाविष्टाभ्युपायतायामेवावगतायामनुमिमते तान्त्रिकाः—यदश्वमेधेन यजेत मृत्यु- ब्रह्महत्यातरणकाम इत्यादिविधिम् । निन्द्या च निषेधम् । तत् यथा— प्रकाशः । साधनतां विधिं व्युत्पाद्य स्वसिद्धान्तेन निराकर्तुं सन्देहं तावदाह अस्त्विति । स्तनपानादाविति । यथा स्तनपानादेरिष्टसाधनत्वं साक्षादेव पानादवगम्यते इत्यर्थः । तत्प्रतिपादितादिति । लिङा बोधितादाप्ताभिप्रायादिष्टसाधनत्वमनुमीयते, ततः प्रवृत्तिरित्यर्थः । समयश्चेच्छाविशेषः सङ्केतः । एवञ्चेति । इष्टसाधनता न लिङाऽभिधीयते, किन्त्वाप्ताभिप्रायविषयत्वेनानुमीयते इत्यर्थः । तदुपपादयति-हेतुत्वादिति । अनुमानादिति । विधेरिति शेषः । मध्यमादाविति । मध्यमपुरुषोत्तमपुरुषलिङि इष्टसाधनतावियोगादित्यर्थः । अन्यत्रेति । आज्ञाऽध्येपणादौ लिङ- इच्छाविषयत्वकल्पनात् लिङ्मात्रस्य तयौचित्यादित्यर्थः । निषेधेति । सर्वत्र विधिप्रकारेपु न हन्यादिति निषेधानुपपत्तेरित्यर्थः । हेतुत्वादिति व्याचष्टे अग्निकाम इति । लिङैवेष्टसाधनत्वाभिधाने यतस्तन्मथनादिति हेत्व- भिधानं व्यर्थमित्यर्थः । अनुमानादिति विवृणोति तरतीति । लिङेष्टसाधनताऽभिधाने विधेरनुमानं व्यर्थं, तदर्थस्य वाक्यादेव प्रतीतेरिति तदन्य एव लिङर्थ इत्यर्थः । मध्यमादाविति व्याचष्टे- प्रकाशिका । मिष्टसाधनत्वस्य तद्धेतुत्वेनाभिधानादित्यर्थः । ननु न हन्यादित्यत्र हननाभावविषयकभावनैवार्थो- मकरन्दः । परिसङ्ख्यानमित्यभिधानपर्याय एव अन्यस्य दुर्वचत्वादित्यनुशयमाविष्करोति इत्यन्ये इति । टिप्पणी । हेतुत्वादिति । नेष्टसाधनत्वं विध्यर्थ इति शेषः । सिध्यतीति । इष्टसाधनत्वस्य विध्यर्थत्वेऽङ्गी- क्रियमाणे तु दारुमथनमिष्ट (अग्नि) साधनमिष्टसाधनत्वादित्यनुमिनुयांत, न च तत्संभवति हेतुसाध्य- योरविशेषात्, आप्ताभिप्रायस्य विध्यर्थत्वे तु आप्ताभिप्रायविषयत्वादिति हेतुः सम्भवतीति भावः । अनुमानादिति । 'तरति मृत्युं तरति ब्रह्महत्यां योऽश्वमेधेन यजते' इत्याद्यर्थवादतो मृत्यु- तरणादिरूपेष्टसाधनत्वस्याश्वमेधेऽवगमेऽपि अनन्तरं 'मृत्युब्रह्महत्यासंतरणकामोऽश्वमेधेन यजेदि'ति विध्यनुमानं सर्वसम्मतं भवति तस्य वैयर्थ्यम्, इष्टसाधनत्वस्य विध्यर्थत्वे हि अश्वमेध इष्टसाध- नमिति प्रतीतिः स्यात् सा चार्थवादलब्धैवेत्यर्थः । मध्यमादाविति । मध्यमपुरुषे उत्तमपुरुषे चेत्यर्थः । कुर्याः कुर्यामित्यादौ सर्वत्रैवेष्टसाधनत्वस्य वियोगः, तत्र हि आज्ञादिः प्रतीयते न त्विष्टसाधनत्वमित्यर्थः। अध्येषणादिलिङामिच्छावाचकत्वादपि न तथेत्याह अन्यत्रेति ।
५६४ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १४ कारिकान्याख्यायां अन्धं तमः प्रविशन्ति ये के चात्महनो जनाः— इत्यतो नात्मानं हन्यादिति । कुर्याः कुर्यामित्यत्र विधिविहितैव लिङ् नेष्टा- भ्युपायतामाह, किन्तु वक्तृसङ्कल्पम् न हीष्टाभ्युपायो ममायमिति कुर्यामिति पदार्थः, किन्तु तत्प्रतिपत्तेरनन्तरं योऽस्य सङ्कल्पः—कुर्यामिति, स एव । सर्व्वत्र चान्यत्र वक्तुरेवेच्छाऽभिधीयते लिङेत्यवधृतम् । तथा ह्याज्ञाऽध्येपणाऽनुज्ञासंप्रश्न- प्रार्थनाऽऽशंसालिङि नान्यत् चकास्ति । यां वक्तुरिच्छामनुविदधानस्तत्तक्षोभाद्बिभेति, सा आज्ञा । या तु श्रोतुः पूजासम्मानव्यञ्जिका, सा अध्येपणा । वारणाभावव्यञ्जिका अनुज्ञा । अभिधान- प्रयोजना सस्प्रश्नः । लाभेच्छा प्रार्थना । शुभाशंसनमाशीरिति । न च विधिविकल्पेषु निषेध उपपद्यते । तथाहि—यदाऽभिधा विधिः, तदा न हन्यात् हननभावना नाभिधीयते इति वाक्यार्थो व्याघातान्निरस्तः । यदा काल- त्रयापरामृष्टा भावना, तदा नेति सम्बन्धोऽत्यन्ताभावोमिथ्या । यदा कार्यं, तदा न हन्यात् न हननं कार्यमित्यनुभवविरुद्धम् । क्रियत एव यतः । न हननेन कार्यं हननकारणं कार्यं नास्तीत्यर्थ इत्यपि नास्ति । दुःखनिवृत्तिसुखाप्त्योरन्यतरस्य प्रकाशः। कुर्या इति । तवेदमिष्टसाधनमतः कुर्याः, ममेदमिटसाधनमतः कुर्यामिति व्यवहारान्मध्यम- पुरुषादौ सङ्कल्प एव लिङर्थ इत्यर्थः । अन्यत्र क्लृप्तसामर्थ्यादिति विवृणोति सर्वत्रेति । अन्तिमं हेतुं व्याचष्टे न चेति । न हन्यादिति निषेधेन सह हननान्वये हननाभावविषया भावना तदर्थः स्यात् । तत्र च विधिद्वैयर्थ्यं, हननप्रागभावात्यन्ताभावयोरसाध्यत्वात् । हननभावना नास्तीत्यन्वयस्तु न सम्भ- वति, बाधात् । ततो हननविषयभावनाऽभिधाय निषेधो वाच्यः, तत्राह व्यापारादिति । अभि- धाविधिवादिनां हन्यादिति पदं हननभावनाऽभिधायकमैवेति तन्निषेधे व्याघात इत्यर्थः । यद्यपि भटानामभिधा न सङ्केतः किन्तु शक्यनिष्ठं धर्मान्तरं, तथापि सिद्ध्यासद्धिव्याघाताभ्यां तन्निषेधो न शक्य इति भावः । यदा कालत्रयापरामृष्टा भावनेत्यत्र विधिरित्यनुषज्यते । एवमुत्तरत्र । कदाचिद्धननभावनायाः सत्त्वात्तन्निषेधस्यात्यन्ताभावरूपत्वं नास्तीत्याह तदा नेतीति । कार्यताविधिपक्षे निषेधानुपपत्तिमाह यदा कार्यमिति । यद्याख्यातेन नञन्वयः, तदा हनने कृतिसाध्यत्वकृत्युद्देश्यत्वयोरुभयोरपि सत्त्वान्निषेधो बाधित इत्यर्थः । हननस्य कार्यमाह दुःखनिवृत्तीति । प्रकाशिका । स्त्वितयत आह न हन्यादिति निषेधेनेति । असाध्यत्वादिति । तथा च न तत्र विषयतया भावनान्वय इति भावः । अभिधाविधिवादिनामिति । हननभावनया समं वाच्यवाचकभावलक्षणो लिड्सम्बन्धोऽभिधा, तन्निषेधश्चाशक्यः, तथा सति तद्बोधानुपपत्तेरिति भावः । यद्यपीति । तथा च न व्याघातः, वाच्यवाचकभावलक्षणाभिधानपक्ष एव तत्सम्भवादिति भावः । शक्यनिष्ठं धर्मान्तरमिति । यद्यपि भट्टानां शब्दनिष्ठा भावना न शक्यनिष्ठा, तथापि तथासति सिद्धसाधन- मकरन्दः । यद्यपीति । तथा च नोक्तव्याघातः, वाच्यवाचकभावसम्बन्धात्मकाभिधापक्ष एव तत्सम्भ- वादिति भावः ।
पंचमस्तवके ] ईश्वरसाधनम् । ५६५ तत्र सद्भावात् । हननकारणकमदृष्टं नास्तीत्यर्थ इति तु निरातङ्कं दृष्टार्थिनं प्रवर्त्त- येदेवेति साधु शास्त्रार्थः । अहननेनापूर्वं भावयेदिति त्वशक्यम् । कारणस्याना- दित्वेन कार्यस्यापि तथाभावप्रसङ्गात्, भावनायाश्च तद्विषयत्वात् । अहननसङ्क- ल्पेनेति यावज्जीवमविच्छिन्नतत्सङ्कल्पः स्यात् । सकृत् कृत्वैव वा निवृत्तिः । पश्चा- द्धन्त्यादेवाविरोधात् । सम्पादितो ह्यनेन नियोगार्थः । यावद् यावद्धनन सङ्कल्पवान् तावत्तावद्विपरीतसङ्कल्पेनापूर्वं भावयेदिति वाक्यार्थः, तथाभूतस्याधिकारित्वादित्यपि वार्त्तम् । तदश्रुतेः । प्रसक्तं हि प्रति- षिध्यते नाप्रसक्तमिति चेत् । न वै किञ्चिदिह प्रतिषिध्यते । तदभावः प्रतिपाद्यते इति निषेधार्थः । हननकरणकमपूर्वं वाक्यार्थः ॥ किञ्च न हन्यादिति अहननेनापूर्वस्य कर्त्तव्यताप्रत्ययो जातो वेदात् , जातश्च हननक्रियायां रागात् । निष्फलाच्च कार्यादपेक्षितफलं गरीय इति न्यायेन हन्यादे- वेत्यहो वेदव्याख्याकौशलमास्तिकाभिमानिनो मीमांसकदुर्दुरूढस्य । प्रकाशः । निरातङ्कमिति । अत्र किं सुकृतापूर्वस्य निषेधः, दुरितापूर्वस्य वा ? आद्ये धर्मानुत्पादेऽप्यध- र्मोत्पादकमानाभावाददृष्टफलार्थी हनने प्रवर्त्तेत । अन्त्ये च सुतरां प्रवृत्तिः स्यादित्यर्थः । अथ नञ्- धात्वर्थान्वयः, तत्राह अहननेति । कारणस्येति । हननप्रागभावस्यानादित्वादनाद्यपूर्वं स्यादित्यर्थः । ननु हननप्रागभावविषया भावनाऽपूर्वमुत्पादयिष्यतीत्यत आह भावनायाश्चेति । प्रागभावस्तदा भावनाविषयः स्यात् , यदि तत्स्वरूपं भावनासाध्यं स्यात् , न चैवमित्यर्थः । सङ्कल्पविधिपक्षे निषेधानुपपत्तिमाह अहननेति । सर्वदा किमह play? किमहनन सङ्कल्पेनापूर्वं भावये- दित्यर्थः, यदा कदाचिद्वा ? आद्ये, यावज्जीवमिति । अन्त्ये, सकृदिति । नियोगार्थो विध्यर्थः । विपरीतेति । अहननसङ्कल्पेनेत्यर्थः । तथाभूतस्येति । प्रवृत्तिमत्त एव निषेधापूर्वेऽधिकारादित्यर्थः । तदश्रुतेरिति । हनन सङ्कल्पवतो विपरीतसङ्कल्पकत्वाश्रुतेरित्यर्थः । ननु प्रसक्तं हननं निषेध्यं, प्रसङ्गश्च तत्करणसङ्कल्प एव, इच्छाया एवाद्यप्रवृत्तित्वादित्यश्रुतमपि तल्लभ्यते इत्याह प्रसक्त- मिति । नात्र हननं निषिध्यते, किन्तु हननाभावसङ्कल्पकारणकमपूर्वं विधीयते इत्याह न वै किञ्चिदिति । किञ्चेति । अपूर्ववाच्यत्वेऽपि 'न कलञ्जं भक्षयेदि'त्यादितः कलञ्जभक्षणाभावविषयकमपूर्वमव- गम्यापि तदभावे न प्रवर्त्तेत । तथाहि कलञ्जभक्षणे रागादस्य कर्त्तव्यता बुद्धिर्जाता, शब्दाच्च भक्ष- णाभावे । निःफलाच्च कार्यात् सफलं गरीय इति न्यायेन सुखहेतौ भक्षण एव प्रवर्त्तेत, न तदभावे, तस्य निःफलत्वात् । न च निषेधापूर्वमेव फलं तस्य सुखदुःखाभावान्यतया षण्डत्वेन तदजनकतया च गौणमुख्यप्रयोजनत्वाभावात् । प्रकाशिका । मेव शब्दधर्मस्यार्थभावनानुरूपेऽभावादिति मतान्तरमेवेदमर्थनिष्ठाभिधेति भावः । संकल्पविधिपक्षे इति । सङ्कल्पेति लिङर्थान्वयपक्ष इत्यर्थः । तेन नाग्रेतनविकल्पविरोध इत्यवधेयम् । यावज्जीवमिति । न च तत्सम्भवति सुषुप्त्याद्याद्यनुपपत्तेरिति भावः । ननु प्रवृत्तिमतो निवृत्तिनियोगेऽधिकारात् प्रवृ- त्तिश्चप्रसङ्गो न तु सङ्कल्प इत्यत आह इच्छाया एवेति । आद्या प्रवृत्तिरिच्छैवेत्यभिधानादिति भावः । मकरन्दः । यावज्जीवमिति । न च तत्सम्भवति, सुषुप्त्यादिदशायां तद्विच्छेदादिति भावः । ननु प्रवृत्तिमतो निवृत्तिनियोगाधिकारात् प्रसङ्गः प्रवृत्तिः न तु सङ्कल्प इत्यत आह इच्छाया एवेति । आद्या प्रवृत्तिरिच्छैवेत्यभिधानादिति भावः ।
५६६ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १४ कारिकान्याख्यायां इष्टसाधनतापक्षेऽपि न हन्यात् न हननभावना इष्टाम्युपाय इति वाक्यार्थः । तथाचानिष्टसाधनत्वं कुतो लभ्यते। न हीष्टसाधनं यन्न भवति तदवश्यमनिष्टसाधनं दृष्टमुपेक्षणीयस्यापि भावात् । यत् रागादिप्रसक्तं प्रतिषिध्यते तदवश्यमनिष्टसाधनं दृष्टम्, यथा सविषमन्नं न भुञ्जीथा इति, तेन वेदेऽप्यनुमास्यते, इत्यपि न साधीयः । प्रतिषेधार्थस्यैव चिन्त्यमानत्वात् । न हि कर्त्तव्यत्वस्येष्टसाधनत्वस्य भावनाया वाऽभावः प्रतिपादयितुं शक्यते, लौकिकानां लौकिकप्रमाणसिद्धत्वात् । तथापि प्रतिपाद्यते तावदिति चेत् । न । पाषण्डागमनिषेधेनानैकान्तात् । नासौ प्रमाणमिति चेत् । न । अर्थविपर्ययप्रति- पादनाविशेषेऽस्यापि तथाभावात् । तात्पर्यतः प्रामाण्यमिति चेत् । न । विधिनिषेधयोरनन्यपरत्वात् । न विधौ परः शब्दार्थ इति वचनात् । तथापि निषेधे तथा भविष्यतीति चेत् । न । अविना- प्रकाशः। अथ प्रवृत्तिमतो निवृत्तिनियोगाधिकार इति यदा भक्षणे प्रवृत्तिस्तदा तन्निषेधे शब्दकार्यज्ञाना- तद्विपरीतप्रयत्ने जनिते रागान्न क्रियोत्पत्तिः, तेनैव प्रतिबन्धादिति चेत् । निवृत्तिकार्यताज्ञानेऽपि निष्फलत्वे निवृत्तौ प्रयत्न एव नोत्पद्यते, यस्य प्रतिबन्धकता स्यात् । न च शास्त्रस्थस्य शास्त्रज- कर्तव्यताज्ञानं बलवदिति वाच्यम् । तस्य सफलविषयत्वादेवांस्य च निष्फलविषयत्वात् । अथ कल- ञ्जभक्षणस्य निन्दार्थवादेन बलवदनिष्टसाधनत्वज्ञानात् तद्भक्षणे न प्रवर्त्तते इति चेत् । एवमपि कलञ्जभक्षणे न प्रवर्त्ततां, तदभावेऽपि निष्प्रयोजनत्वेनाप्रवृत्तौ किमायातमित्यर्थः । तथाचेति । वस्तुतः शत्रुहननभावनायाः कलञ्जभक्षणभावनायाश्चेष्टसाधनत्वमस्त्येवेति भावः । अत एव वक्ष्यति न हीति । अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हीति न्यायेनाह तथा- पीति । प्रसक्तैव हिंसा यागादिविषया पाषण्डेन प्रतिषिध्यते, न च सा अनिष्टसाधनमिति व्यभि- चार इत्याह पाषण्डेति । नासाविति । प्रमाणत्वेन हेतुर्विशेष्य इत्यर्थः । प्रमाणबाधितार्थविषय- त्वेन पाषण्डागमस्येव न हन्यादित्यस्याप्यप्रमाणत्वादित्याह अर्थेति । ननु गङ्गायां घोष इत्यस्येव न हन्यादित्यस्याप्यर्थान्तरे निषिध्यमानानिष्टसाधनत्वरूपे तात्प- र्याद्बोधकत्वं स्यादित्याह तात्पर्यत इति । अर्थवादवचनानामन्यत्र विधौ तात्पर्यं न तु विधिवच- नस्येत्यभ्युपगमात् तदनुरोधेनान्यत्र लक्षणा युक्ता न तु तत्रैवेत्याह । न विधाविति । भाववि- धावेव तथा न तु निषेधविधावपीत्याह तथापीति । यत्र लक्षणीयार्थेनाविनाभावस्तदुद्देशेन प्रयोगश्च तत्रैव लक्षणा, न च न हन्यादिति वाक्यमन्यपरत्वेन प्रयुक्तं, न वाऽनिष्टसाधनत्वेनाविनाभाव इत्याह अविनाभावेति । ननु यथा असुरादिपदे न निषेधो नञर्थः किन्तु तदन्यद्विरोधि, प्रकाशिका । वस्तुत इति । तथा च तदभावप्रतिपादने बाध इति भावः । न हीति । न हि कर्त्तव्यत्वस्य मकरन्दः। अत एव न हि कर्त्तव्यत्वस्येष्टसाधनत्वस्य वा अभावः प्रतिपादयितुं शक्यते इति वक्ष्यती- त्याह न हीति । टिप्पणी । 'न कलञ्जं भक्षयेदि'त्यादौ तृप्तिरूपेष्टसाधनत्वस्य सत्त्वान्निषेधानुपपत्तिरित्याह निषेधेति ।
पञ्चमस्तबके ] ईश्वरसाधनम् । ५६७ भावतदुद्देशप्रवृत्त्योरभावात् । नाप्यसुरामित्रादिवदस्य नञो विरोधिवचनत्वम्, क्रियासङ्गतत्वात् । असमस्तत्वाच्च ॥ १४ ॥ तस्माद्— विधिर्वक्तुरभिप्रायः प्रवृत्त्यादौ लिङादिभिः । अभिधेयोऽनुमेया तु कर्तुरिष्टाभ्युपायता ॥ १५ ॥ तत्र स्वयङ्कर्तृकक्रियेच्छाऽभिधानं कुर्यामिति । सम्बोध्यकर्तृकक्रियेच्छाऽ- भिधानं कुर्या इति । शेषकर्तृकक्रियेच्छाऽभिधानं कुर्वीतेति । तथाचाग्निकामो दारुणी मथ्नीयादित्यस्य लौकिकवाक्यस्यायमर्थः सम्पद्यते अग्निकामस्य दारु- मथने प्रवृत्तिर्ममेष्टेति । ततः श्रोताऽनुमिनोति–नूनं दारुमथनयत्नोऽग्नेरुपाय इति । यद्विषयो हि प्रयत्नो यस्यानेनेष्यते, स तस्यापेक्षितहेतुः । तथा तेनावगतश्च, यथा ममैव पुत्रादेर्भोजनविषय इति व्याप्तेः । विषं न भक्षयेदित्यस्य तु विषभक्षणगोचरा प्रवृत्तिर्मम नेष्टा इत्यर्थः । ततोऽपि श्रोताऽनुमिनोति-नूनं विषभक्षणभावना अनिष्टसाधनम् । यद्विषयो हि प्रयत्नः कर्तुरभिमतसाधकोऽप्याप्तेन नेष्यते, स ततोऽधिकतरानर्थहेतुः, तथा तेनावगतश्च, यथा ममैव पुत्रादेः क्रीडाकर्द्दमविषभक्षणादिविषय इति व्याप्तेः । प्रकाशः । तथाऽनेष्टसाधनविरोध्यनिष्टसाधनमर्थः स्यादित्यत आह नापीति । क्रियासङ्गतस्य नञः प्रसज्यप्र- तिषेधवाचकत्वात् समास एव तस्य पर्युदासवृत्त्या तदितरविरोधिपरत्वादित्यर्थः । नियोक्तृधर्मो वेत्यभिमतं पक्षमुपसंहरति— विधिरिति । प्रवृत्त्यादावित्यादिपदान्निवृत्तिः । विषयसप्तमीयम् । तेन प्रवृत्तिनिवृत्तिविषय आप्ताभिप्रायो लिङर्थ इत्यर्थः । प्रवर्त्तकमिष्टसाधनताज्ञानमेव लिङर्थस्तवाप्ताभिप्रायो लाघवादिति भावः । वक्तुरभिप्रायस्य विधित्वे कुर्यामित्यादावर्थभेदमानुभविकमुपपादयति तत्रेति । स्वर्गकामो यजेतेत्यस्य स्वर्गकामकृतिसाध्यतया यागो यागयत्नो वा आप्तेष्ट इत्यर्थः । ततो यो व्यापारो यस्य कृतिसाध्यतया यद्व्यापारविषयः प्रयत्नो वा यस्यानेनेष्यते, स तस्य बलवद- निष्टाननुबन्धीष्टसाधनमिति व्याप्तिग्रहाद् यागस्येष्टसाधनत्वमनुमिनोति । तथाहि–यागो मदिष्टसाधनं मत्प्रयत्नविषयतया मदाप्तेष्यमाणत्वात्, यथा मत्पित्रा मत्प्रयत्नविषयतया इष्यमाणं भोजनं मदिष्ट- प्रकाशिका । इष्टसाधनत्वस्य वाऽभावः प्रतिपादयितुं शक्यत इत्यादिकमित्यर्थः। समास एवेति। यद्यपि न घटः पट इत्यादौ व्यासेऽपि पर्युदासवृत्त्या प्रयोगो दृष्टः, तथापि विरोधिवाचकत्वं समास एव, अत एवोक्तं- तदितरविरोधिपरत्वादिति । विधिर्वक्तुरित्यादिकारिकायां वक्तुरभिप्रायो विधिरभिधेय इति योजना । लाघवादिति । न चाप्तस्य विशेषणीभूतस्य शक्यत्वे विपरीतं गौरवमिति वाच्यम् । वस्तुत आप्तस्य योऽभिप्रायस्तस्याभिधेयत्वेन शक्यत्वमित्याशयात् । स्वर्गकामकृतिसाध्य- तयेति । आख्यातार्थकृतावेव लिङर्थान्वयो धात्वर्थे वेति मतभेदेन विकल्पः । इष्टसाधनत्वविधिपक्षेतोऽ मकरन्दः । समास एवेति । यद्यपि न घटः पट इत्यादौ व्यासेऽपि पर्युदासवृत्त्या तदितरपरत्वमस्त्येव, तथापि शब्दप्रकाशोक्तमनुसन्धेयम् । यागो मदिष्टसाधनमित्यनुमानं शब्दप्रकाशे विवक्षितमनुसन्धेयम्। टिप्पणी । विधिरित्यादि । नन्वेवमिष्टसाधनताज्ञानात् यागादौ कथं प्रवृत्तिरत आह अनुमेयेति । इष्टेति । द्विष्टसाधनत्वमप्येतदुपलक्षयति न कलञ्जं भक्षयेदित्यादिनिषेधवाक्यात् कलञ्जभक्षणे आप्ताभिप्रायविषयत्वाभावावगमे द्विष्टसाधनत्वस्यानुमानात् ।
५६८ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १५ कारिकाव्याख्यायां लौकिक एव वाक्ये अयं प्रकारः कदाचिद्बुद्धिमधिरोहति न तु वैदिकेषु, तेषु पुरुषस्य निरस्तत्वात् इति चेत् । न । निरासहेतोरभावात् । तदस्तित्वेऽपि प्रमाणं नास्तीति चेत् । मा भूदन्यत्, विधिरेव तावदूर्द्धं इव पुंयोगे प्रमाणं श्रुतिकुमार्याः किमत्र क्रियताम् । लिङो वा लौकिकार्थातिक्रमे य एव लौकिकास्त एव वैदिकास्त- एव चैषामर्था इति विप्लवेत । तथाच जबगडदशादिवदनर्थकत्वप्रसङ्ग इति भव सुस्थः। स्यादेतत् । तथापि वक्तॄणामुपाध्यायानामेवाभिप्रायो वेदे विधिरस्तु कृतं स्वतन्त्रेण वक्तृा परमेश्वरेणेति चेत् । न, तेषामनुवक्तृतयाऽभ्यासाभिप्रायमात्रेण प्रवृत्तेः शुकादिवत् तथाविधाभिप्रायस्याभावात् । भावे वा न राजशासनानुवादिनोऽ- भिप्राय आज्ञा, किं नाम राज्ञ एवेति लौकिकोऽनुभवः॥ १५ ॥ श्रुतेः खल्वपि— कृत्स्न एव हि वेदोऽयं परमेश्वरगोचरः । स्वार्थद्वारैव तात्पर्यात् तस्य स्वर्गादिवद्विधौ ॥ १६ ॥ प्रकाशः । ष्टसाधनम् । न कलञ्जं भक्षयेदित्यस्य कलञ्जभक्षणं मम बलवदनिष्टसाधनं मदिष्टसाधनत्वे सत्यपि मदाप्तेन मत्प्रयत्नविषयतयाऽनिषिध्यमानत्वात् । यथा मत्पित्रा मत्प्रयत्नविषयतयाऽनिषिध्यमानं मधुवि- षसम्पृक्तान्नभोजनं ममानिष्टसाधनम् । लिङादीनां साक्षात् प्रवर्त्तकज्ञानजनकत्वे बाधकाभावान्न परम्पराजनकत्वमिति न वाच्यम् । अनन्यलभ्यस्य शब्दार्थत्वनियमे कर्त्रादेरिवान्यलभ्यत्वस्य हेतुत्वादित्यादेश्च बाधकत्वात् । त्वयाऽपि स्वकृतिसाध्येष्टसाधनतामन्तराऽनुमापयता शब्दस्य साक्षात् प्रवर्त्तकत्वानङ्गीकारा- च्चेति भावः। विधिरेवेति । नन्वेवमन्योन्याश्रयः, न वा लाघवं तात्पर्यगौरवात्, ईश्वरायनन्तकल्पना- पत्तेश्च । मैवम् । लोके आज्ञाभिप्राये लिङः शक्तिग्रहाद्वेदे परिशेषादीश्वराभिप्राये पर्यवसानात् । न तु तत्रैव शक्तिः । यथा तवैव कार्यशक्तस्य लिङादेरपूर्वे पर्यवसानम् । फलमुखञ्च गौरवं न दोषाय । शक्तिग्रहकाले सिद्धधसिद्धिपराहतत्वात्, ईश्वरे मानान्तरोपदर्शनाच्चेति भावः । एतदेवाभिप्रेत्याह य एवेति । लोकदृष्टा एव पदार्था वेदे प्रत्यभिज्ञायमानाः कथमन्य इत्यर्थः । अनर्थकत्वेति । गृहीतसङ्केतैर्लोकिकपदादन्यत्वेनागृहीतसङ्गतिकत्वादित्यर्थः । तेषामिति । उपाध्याय- वंशानामतीन्द्रियार्थज्ञानाभावात्तत्रेच्छा न सम्भवतीति शुकादीनामिव तावत्पदज्ञानात् विवक्षात्थोच्चा- रयितृत्वमात्रमित्यर्थः । स्वार्थद्वारैवेति । मुख्यार्थाबाधात्तत्रैव श्रुतेस्तात्पर्यमिति नान्यपरत्वमित्यर्थः । प्रकाशिका । चेति भावः । हेतुत्वादित्यादेश्चेति । हेतुत्वादनुमानाच्चेत्यादिकारिकोक्तौ इत्यर्थः । त्वयापीति । स्वांशस्याशक्यत्वात्तद्घटितस्य प्रवर्त्तकज्ञानाविषयत्वादिति भावः । तात्पर्यगौरवादिति । मकरन्दः । हेतुत्वादित्यादेश्चेति । हेतुत्वादनुमानाच्चेत्यादेश्चेत्यर्थः । टिप्पणी । प्रथमश्लोकोक्तश्रुतेरित्यस्य व्याख्यान्तरमाह श्रुतेः खल्वपीति । स्वर्गादिवदिति । यन्न दुःखेन संभिन्नं नच ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम् ॥ इत्याद्यर्थवादो यथा स्वर्गाद्यर्थप्रतिपादनद्वारा स्वर्गकामो यजेतेत्यादिविधिवाक्येन सहैकवाक्यतां प्रतिपद्यमानः
पञ्चमस्तबके ] ईश्वरसाधनम् । ५६६ न सन्त्येव हि वेदभागा यत्र परमेश्वरो न गीयते । तथाहि—स्रष्टृत्वेन पुरुष- सूक्तेषु, विभूत्या रुद्रेषु, शब्दब्रह्मत्वेन मण्डलब्राह्मणेषु, प्रपञ्चं पुरस्कृत्य निष्प्रपञ्च- तयोपनिषत्सु, यज्ञपुरुषत्वेन मन्त्रविधिषु, देहाविर्भावैरुपाख्यानेषु, उपास्यत्वेन च सर्वत्रेति ॥ सिद्धार्थतया न ते प्रमाणमिति चेत् । न । तद्धेतोः कारणदोषशङ्कानिरासस्य प्रकाशः । सिद्धार्थतयेति । इदमत्राभिसंहितम्-व्यवहारत एवाद्या व्युत्पत्तिरुपायान्तरस्य व्युत्पत्त्यधीन- त्वात्। तथाहि प्रयोजकवाक्योच्चारणानन्तरं प्रयोज्यप्रवृत्तिमुपलभमानो व्युत्पित्सुः प्रेक्षावद्वाक्योच्चारणस्य प्रयोजनजिज्ञासायां तदन्वयव्यतिरेकानुविधानादुपस्थितत्वाच्च प्रयोज्यप्रवृत्तिमेव प्रयोजनमवधारयति । तच्च तदनुकूलव्यापारं विनाऽनुपपद्यमानं कार्यताज्ञानमेव व्यापारं कल्पयति, स्वप्रवृत्तौ तस्यैव कारणत्वनिश्चयात् । एवञ्च तत्र शब्दस्य हेतुत्वमवधार्य तत्रैव शक्तिं कल्पयति, उप- स्थितत्वात्, पश्चादावापोद्वापाभ्यां क्रियाकारकपदानां कार्यान्विततत्तदर्थेषु शक्तिं गृह्णाति प्रथमं सामान्यतस्तत्रैव शक्तिग्रहादिति कार्यान्वित एव पदानां शक्तिरिति सिद्धार्थः शब्दो न प्रमाणम् । अथाकाङ्क्षादिस्तथ्याऽपि वाक्यार्थज्ञानहेतुत्वोपगमात् तत एव कार्यपदसमभिव्याहारात् कार्य- त्वज्ञानसम्भवेनानन्यलभ्यत्वान्न कार्यांशेऽपि शक्तिः । परम्परयाऽपि शब्दस्य कार्यत्वज्ञानानुकूल- त्वादर्थापत्तेः परिक्षयात् । किञ्च कार्यत्ववाचिलिङादीनामाकाङ्क्षायुपेतपदार्थान्वितस्वार्थबोधक- त्वस्यावश्यकत्वात् पदान्तराणामपि तथात्वमस्तु लाघवात् । मैवम् । पदानां कार्यान्वितज्ञाने साक्षात्त्वस्यौत्सर्गिकत्वेन तथैव हेतुत्वस्य न्याय्यत्वात् । अन्वितपदार्थज्ञाने च हेतुत्वे परम्पराया अन्याय्यत्वात् । अर्थापत्तेः साक्षादुपपादकविषयत्वेन साक्षादुपपादके कार्यान्वितज्ञाने पदानां शक्तिकल्पनात् । लिङादीनां शक्तेरकल्पनादन्यलभ्यत्वतर्क- स्याप्यभावात्, आद्यव्युत्पत्तेर्विचार्यत्वात् । न च कार्यवाचिलिङादीनां व्यभिचारः । कार्यत्ववि- शिष्टज्ञानजनकत्वं हि सर्वपदानाम् । तच्च कार्यान्वितस्वार्थप्रतिपादकतया इतरान्वितस्वार्थकार्यप्र- तिपादकतया वेति न कश्चिद्विशेषः । अथ सिद्धार्थेऽपि व्युत्पत्तिः सम्भवति । तथाहि उपलब्धचैत्रपुत्रजन्मा बालस्तादृशेनेव वार्त्ता- हारेण समं चैत्रसमीपं गतः ‘चैत्र ! पुत्रस्ते जातः’—इति वार्त्ताहारवाक्यं शृण्वन् चैत्रस्य मुखप्रसादं पश्यन् श्रोतुर्हर्षमनुमिनोति, हर्षाच्च तत्कारणं पुत्रजन्मज्ञानं कल्पयति, उपस्थितत्वादुपपादकत्वा- दन्योपस्थितौ गौरवाच्च तत्र वाक्यस्य कारणतां कल्पयति लाघवात् । मैवम् । हर्षहेतूनां बहूनां सम्भवात् हर्षेणापि लिङ्गेन पुत्रजन्मज्ञानस्य वालेनानुमातुमशक्य- त्वात् प्रियान्तरज्ञानस्य परिशेषयितुमशक्यत्वात् । अत एव विधिशेषीभूतार्थवादानां स्वर्गादि- पदशक्तिग्राहकाणाञ्च प्रवृत्तिपरत्वेन परम्परया कार्यानन्वयात् कार्यान्वितस्वार्थबोधकत्वमिति । तद्धेतोरिति । साध्यार्थानामिव सिद्धार्थानामपि वक्तृदोषनिबन्धनाप्रामाण्यनिरासादित्यर्थः । प्रकाशिका । अभिप्राये इष्टसाधनत्वे च तथासति तात्पर्यादित्यर्थः । परम्परयापीति । कार्यवाचिलिङ्पदसम- भिव्याहारादित्यर्थः । किञ्चेति । न हि तत्रापि कार्यान्वितमात्रज्ञानजनकत्वं पौनरुक्त्यापत्तेरिति भावः । साक्षात्त्वस्येति । इतरपदसमभिव्याहारानपेक्षत्वमेव साक्षात्त्वम् । अत एवेति । यत एव मकरन्दः । साक्षात्त्वस्यौत्सर्गिकत्वेनेति । यथा च कार्यान्वितव्युत्पत्त्या साक्षात् कार्यान्वितज्ञानं नान्त्रितव्युत्पत्त्या, तथा शब्दप्रकाशे अनुसन्धेयम् । टिप्पणी । तात्पर्यविषयतां लभमानः प्रामाण्यमश्नुते, तथा 'यज्ञो विष्णु'रित्यादिरपि वेदभागः स्वार्थप्रति- ७२ न्या० कु०
५७० व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १६ कारिकाव्याख्यायां भाव्यभूतार्थसाधारणत्वात्। अन्यत्रामीषां तात्पर्यमिति चेत्। स्वार्थप्रतिपादन- द्वारा, शब्दमात्रतया वा ? प्रथमे स्वार्थेऽपि प्रामाण्यमेषितव्यम्। तस्यार्थस्यानन्य- प्रमाणकत्वात्। अत एव तत्र तस्य स्मारकत्वमित्यपि मिथ्या। तत्प्रतिपादकत्वेऽपि न तत्र तात्पर्यमिति चेत्। स्वार्थापरित्यागे ज्योतिःशास्त्रवदन्यत्रापि तात्पर्ये को दोषः। अन्यथा स्वर्ग- नरकव्रात्यश्रोत्रियादिस्वरूपप्रतिपादकानामप्रामाण्ये बहु विप्लवेत। तत्रावाधनात्त- थेति चेत्। तुल्यम्। न तादृगर्थः क्वचित् दृष्ट इति चेत्। स्वर्गादयोऽपि तथा। तन्मिथ्यात्वे तदर्थि- नामप्रवृत्तौ विधानानर्थक्यप्रसङ्ग इति चेत्। इहापि तदुपासनाविधानानर्थक्य- प्रसङ्गः। तन्मिथ्यात्वे हि सालोक्यसायुज्यादिफलमिथ्यात्वे कः प्रेक्षावांस्तमुपा- सीतेति तुल्यमिति॥ प्रकाशः। अन्यत्रेति। कार्ये तदन्विते च शब्दशक्तेरवधारणात् सिद्धार्थानामपि तत्रैव तात्पर्यमिति न मुख्येऽर्थे प्रामाण्यमित्यर्थः। स्वार्थेति। कार्ये तेषां तात्पर्यं किं प्रतिपाद्यमानसिद्धार्थान्वयपुरस्कारेण, किं वा स्वार्थमप्रतिपाद्येत्यर्थः। प्रथमे इति। अबाधितं पदसमन्वयलब्धमर्थमादायैव तेषां कार्यपरत्वात् स्वार्थेऽपि प्रामाण्य- मवर्जनीयमित्यर्थः। ज्योतिःशास्त्रवदिति। यथा ज्योतिःशास्त्रस्य वेदाङ्गस्य दर्शादिकालं स्वार्थमादायैव दर्शादियागविधौ तात्पर्यं, तथा सिद्धार्थवादानामपि स्वार्थं प्रतिपादयतामेव कार्ये प्रामाण्यमित्यर्थः। अन्यथेति। यदि स्वार्थमप्रतिपाद्यैवान्वयपरत्वमिति द्वितीयः कल्प इत्यर्थः। तादृश इति। वेदान्तबोध्यनित्यज्ञानादिरूप इत्यर्थः। इहापीति। ईश्वराभावे ईश्वरमुपासीतेत्यादिविधेरनर्थक्यप्र- सङ्ग इत्यर्थः। सालोक्यं-समानलोकता। सायुज्यं-सार्वज्ञ्याणिमादिकम्। आदिपदात् सारूप्यादि। अत्रापीदमभिप्रेतम्-यद्यर्थापत्त्या साक्षादुपपादक एव पदानां शक्तिः, तदा घटानयनकार्य- ताज्ञान एव पदशक्तिप्रसङ्गः, घटमानयेति वाक्यश्रवणानन्तरं प्रयोज्यस्य घटानयनप्रवृत्त्या घटा- नयनकार्यताज्ञानस्यैवानुमानात्। न तु कार्यान्वितज्ञानस्य, प्रवृत्तिविशेषे तस्याहेतुत्वात्। अथ घटानयनक्रियायां प्रथमं क्रियात्वज्ञानात्प्रवृत्तिमात्रानुमानं, तेन च कार्यान्वितज्ञानमनु- माय तत्र वाक्यमात्रस्य कारणतां गृहीत्वा शक्तिं कल्पयति, तदुत्तरं विशेषयोः कार्यकारणभावग्रह इति चेत्। प्रकाशिका। कार्यान्वितज्ञान एव पदानां शक्तिरत एव परम्परया कार्यान्वयकल्पनमित्यर्थः। वेदान्तेति। अन्त- शब्दोऽत्र स्वरूपपरः, वेदान्तशब्द उपनिषत्परो वा। ननु सायुज्यं संयोगः, स च शरीरस्य परमेश्वरेण सर्वदैव आत्मनस्तु न कदापि, तथासति जीवन्मुक्तधर्मसालोक्यसमभिव्याहाराविशेषादित्यन्यथा व्याचष्टे सायुज्यं सार्वज्ञाणिमादिकमिति। सारूप्यादीति। गरुडगदाचक्रादीत्यन्वयः। मकरन्दः। ननु सायुज्यं संयोगः, स च परमेश्वरेण शरीरस्य सर्वदा अयत्नसिद्ध एव, आत्मनस्तु न कदापीत्यन्यथा व्याचष्टे सायुज्यमिति। टिप्पणी। पादनद्वारा 'ईश्वरमुपासीतेत्या'दिविधिवाक्येन सहैकवाक्यतामापद्यमानः तात्पर्यविषयतां सम्पद्यमानः प्रामाण्यं लभते इत्यर्थः॥ १६॥
पंचमस्तबके ] ईश्वरसोधनम् । ५७१
वाक्यादपि । संसर्गभेदप्रतिपादकत्वं ह्यत्र वाक्यत्वमभिप्रेतम् । तथाच यत्पद- कदम्बकं यत्संसर्गभेदप्रतिपादकं तत् तदनपेक्षतत्संसर्गज्ञानपूर्वकं, यथा लौकिकं, तथाच वैदिकमिति प्रयोगः । विपक्षे च बाधकमुक्तम् ॥ १६ ॥
प्रकाशः । न । प्रथमं प्रवृत्तिमात्रकार्यान्वितज्ञानमात्रयोरनुमानं भवति क्रमेणेत्यत्र मानाभावात् । घटा- दिपदशक्तिग्रहस्य तेन विनाऽपि सम्भवात् । न च सामान्ययोः कार्यकारणभावग्रहो विशेषयोस्तथा- त्वज्ञाने हेतुरिति वाच्यम् । विशेषयोरन्वयव्यतिरेकाभ्यामेव तद्ग्रहात् । विशेषयोः कार्यकारणभावज्ञानं प्राथमिकमिति तन्मूलकः पदविशेषग्रह एव स्यात् । निष्प्रयोजनत्वेनान्तराऽनुमितौ मानाभावात् । किञ्च ममेदं कार्यमिति ज्ञानं साक्षादुपपादकं प्रवृत्त्या स्वकारणत्वेनानुमितम्, अतस्तत्र शक्तिं गृह्णीयात्, साक्षादुपपादकविषयत्वात् कल्पनायाः । न त्विदं कार्यमिति ज्ञाने, तस्य साक्षादुपपा- दकोपपादकत्वात् । श्रयेदं कार्यमिति ज्ञानशक्त्यैव परम्परयाऽनुमानद्वारा ममेदं कार्यमिति ज्ञानसम्भ- वादन्यलभ्यत्वे न तत्र शक्तिकल्पनमिति तुल्यम् । अपि च-अस्तु प्रथमं कार्यान्वितज्ञाने वाक्यस्य साक्षात् कारणतावबोधात्तत्र शक्तिग्रहः, तथा- प्यावापोद्वापाभ्यां पदविशेषस्येतरान्वितस्वार्थज्ञाने शक्तिं कल्पयति, लाघवात् । न तु कार्यांशे, गौरवादन्यलभ्यत्वाच्च । अन्यथासिद्धिमपश्यतो हि बालस्य पूर्वं तत्सम्भवेऽपि पश्चाद्गौरवान्यलभ्य- त्वतर्कसहकृतमानेन तद्बाधोचिता । न च प्रवृत्तिहेतुतयोपस्थितं कार्यान्वितज्ञानं हित्वा कल्पयित्वाऽन्वितज्ञानं तत्र शक्तिकल्पनम- युक्तमुभयथा गौरवादिति वाच्यम् । कार्यान्वितज्ञानेऽन्वितज्ञानस्यापि सत्त्वात्, तद्विशेषत्वात्तस्य । तथात्वेऽपि तदुपस्थितावन्वितज्ञानत्वं न विषय इति तदुपस्थित्यन्तरं कल्प्यमिति चेत् । न कार्या- न्वितज्ञाने अन्वितज्ञानं विशेष्यमिति तदुपस्थितौ तस्यापि विषयत्वात्, विशिष्टज्ञानस्य विशेष्यवि- षयत्वनियमात् । अन्यथा अन्यजातिज्ञानमन्यच्च जातिविशिष्टव्यक्तिज्ञानमिति व्यक्तिज्ञानमपहाय जातिज्ञानं क्वापि नोपस्थितमिति न क्व जातिरेव पदार्थः स्यात् । यच्च हर्षहेतूनां बहूनां सम्भवादित्युक्तम् । तन्न, स्वतो गृहीतहर्षहेतुस्तनपानादेर्धावताराद- न्यस्य हर्षहेतोरग्रहात् । अत उपस्थितत्वादुपपादकत्वाच्च पुत्रजन्मज्ञानमेव हर्षहेतुतया कल्पयति । न चान्यदपि प्रियं हर्षहेतुर्भविष्यतीति शङ्कया कथमेवमिति वाच्यम् । कार्यान्वितज्ञानेऽपि शक्तिग्र- हानापत्तेः । प्रयोज्यज्ञानहेतूनां बहुत्वात् । अनन्यथासिद्धशब्दार्थविधानश्च तुल्यमिति संक्षेपः । यत्पदकदम्बकमिति । एतद्वेदवाक्यसमानकालोत्पत्तिकज्ञानाजन्यमिदं वेदवाक्यं समा- नविषयकज्ञानजन्यं वाक्यत्वात् लौकिकवाक्यवदित्यत्र तात्पर्यम्। विपक्षे चेति ॥ १६॥
प्रकाशिका । एतद्वेदवाक्यसमानकालोत्पत्तिकेति । अत्र समानकालपदेन स्थूलकालोपाधेर्विवक्षणात् पूर्वकालएव विवक्षितः, स च पैतृकस्य जनकत्वासम्भवेन तदादायाभन्तरशङ्कानवतारात् । एवमध्याप कादिज्ञानजन्यत्वेनार्थान्तरवारणाय जन्यान्तरं पक्षविशेषणम् । अत्र च समानविषयत्वं ज्ञानविशेषणम् अन्यथा तात्पर्यादिज्ञानजन्यत्वेन विशेपणासिद्धेः । न चैवमपि वाक्यार्थं ज्ञात्वा अस्मदाद्युच्चरितवेदे पक्षतावच्छेदकासिद्धिरिति वाच्यम्। तद्भिन्नस्यैव पक्षत्वादिति भावः । यद्यपि सोत्पत्तिकज्ञानाजन्य-
मकरन्दः । एतद्वेदवाक्येति । समानकालपदेन स्थूलकालोपाधेर्विवक्षणात् पूर्वकाल एव विवक्षितः । समानकालोत्पत्तिकस्य जनकत्वासम्भवेन तदादायार्थान्तरादिशङ्काऽनवकाशात् । एवमध्यापकादि- ज्ञानजन्यत्वेनार्थान्तरवारणायाजन्यान्तम् । न चैवमप्यसिद्धिः तादृशपदज्ञानादिजन्यत्वादिति वाच्यम् । समानविषयत्वेनापि ज्ञानविशेषणात् । न चैवमपि वाक्यार्थं ज्ञात्वा अस्मदादिनेवोच्चरिते इदानीन्तनवेदे दोषतादवस्थ्यमिति वाच्यम् । तद्भिन्नवेदस्यैव पक्षत्वादित्याहुः । यद्यपि सोत्पत्ति-