पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
भाषाटीकासमेतम् । ( २५७ ) अपरं च- औरभी- विदेशवासजमपि वैराग्यं त्वया न कार्यम् । यतः- विदेशके निवास करनेसे उत्पन्न हुआ वैराग्यभी तुमको करना न चाहिये । क्यों कि- को धीरस्य मनस्विनः स्वविषयः को वा विदेशः स्मृतो यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम् । यद्दंष्ट्रानखलांगुलप्रहरणैः सिंहो वनं गाहते तस्मिन्नेव हतद्विपेन्द्ररुधिरैस्तृष्णां छिनत्यात्मनः ॥१२९॥ धीर बुद्धिमान्को अपना देश क्या है ? विदेश क्या है ? वह जिस देशमें निवास करता है उसीको भुजाओके प्रतापसे जीत लेता है जो कि, डाढ नख पूंछके प्रहारसे सिंह वनमें फिरता है, उसी वनमें मारे हुए हाथीके रुधिरसे अपनी तृष्णाको दूर करता है ॥ १२९ ॥ अर्थहीनः परे देशे गतोऽपि यः प्रज्ञावान् भवति स कथ- ञ्चिदपि न सीदति । उक्तञ्च- धनहीन परदेशमे गया हुआभी यदि बुद्धिमान् हो तो किसी प्रकार दुःखी नहीं होता है । कहा है- कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सुविद्यानां कः परः प्रियवादिनाम् ॥ १३० ॥ शक्तिमानोंको अतिभार क्या है ? व्यापारियोंको दूर क्या है ? विद्यावानोंको विदेश क्या है ? प्रियवादियोंको पर क्या है ? ॥ १३० ॥ तत् प्रज्ञानिधिर्भवान् न प्राकृतपुरुषतुल्यः, अथवा- सो आप तो बुद्धिके सागर है साधारण मनुष्यके तुल्य नहीं हैं । अथवा- उत्साहसम्पन्नमदीर्घसूत्रं क्रियाविधिज्ञं व्यसनेष्वसक्तम् । शूरं कृतज्ञं दृढसौहृदञ्च लक्ष्मीः स्वयं मार्गति वासहेतोः ॥ १३१ ॥ १७
( २५८ ) पञ्चतन्त्रम् ।
( २५८ ) पञ्चतन्त्रम् । उत्साहसे युक्त, आलस्यरहित, क्रियाविधिका ज्ञाता, व्यसनमें न लगनेवाले, शूर, कृत्यको जाननेवाले, दृढ सौहार्दवाले पुरुषको लक्ष्मी निवासके लिये स्वयं ढूंढती है ॥ १३१ ॥ अपरं प्राप्तोऽपि अर्थः कर्मप्राप्त्या नश्यति । तद् एतावन्ति दिनानि त्वदीयमासीत् । मुहूर्त्तमपि अनात्मीयं भोक्तुं न लभ्यते । स्वयमागतमपि विधिनापह्रियते । औरभी यह कि, प्राप्त हुआ धन कर्मवशसे नष्ट होजाता है सो इतने दिन- तक तुम्हारे निकट धन रहना था, पराया धन कोई एक मुहूर्त नहीं भोग सक्ता । स्वयं आया हुआ भी प्रारब्धसे हरण होजाता है । अर्थस्योपार्जनं कृत्वा नैव भोगं समश्नुते । अरण्यं महदासाद्य मूढः सोमिलको यथा ॥ १३२ ॥” कोई धन उपार्जन करकेभी उसको नहीं भोग सक्ता जैसे महाधनको प्राप्त होकर मूढ सोमिलक ॥ १३२ ॥” हिरण्यक आह,–“कथमेतत् ?” सोऽब्रवीत्– हिरण्यकने कहा,–“यह कैसी कथा ?” वह बोला– कथा ५. कस्मिंश्चिदधिष्ठाने सोमिलको नाम कौलिको वसति स्म । स च अनेकविधपट्टरचनारञ्जितानि पार्थिवोचितानि सदा एव वस्त्राणि उत्पादयति । परं तस्य च अनेकविधपट्ट- रचनानिपुणस्यापि न भोजनाच्छादनाभ्यधिकं कथमपि अर्थमात्रं सम्पद्यते । अथ अन्ये तत्र सामान्यकौलिकाः स्थूलवस्त्रसम्पादनविज्ञानिनो महर्द्धिसम्पन्नाः तानवलोक्य स स्वभार्यामाह,–“ प्रिये ! पश्य एतान् स्थूलपट्टकार- कान् धनकनकसमृद्धान् । तद्धारणकं मम एतत्स्थानं तद्- न्यत्र उपार्जनाय गच्छामि” । सा आह–“भोः प्रियतम ! मिथ्याप्रलपितमेतद्यदन्यत्र गतानां धनं भवति, स्वस्थाने न भवति । उक्तञ्च–
भाषाटीकासमेतम् । ( २९९ ) किसी स्थानमें सोमिलक नाम कौलिक रहता था, वह अनेक प्रकार पटर- चनासे रजित राजाओंके योग्य वस्त्र सदा बनाता था और उसके अनेकविध पट- रचनामें निपुण होकरभी भोजनाच्छादनसे अधिकधन न प्राप्त होता और दूसरे साधारण जुलाहे मोटे वस्त्र बुनना जानने वाले बडे धनवाले थे । उनको देखकर यह अपनी भार्यासे बोला,–“प्रिये ! इन मोटे कपडे बनाने वालोंको देखो जो धन सुवर्णसे सम्पन्न हैं । सो यह स्थान हमको लेना फागना नहीं है । सो और स्थानमें धन उपार्जनके निमित्त जाताहू ” । वह बोली,--“ भो प्रियतम ! यह सब मिथ्या प्रलाप है जो और स्थानमे जाकर धन होता है अपने स्थानमे नहीं होता । कहा है- उत्पतन्ति यदाकाशे निपतन्ति महीतले । पक्षिणां तदपि प्राप्त्या नादत्तमुपतिष्ठति ॥ १३३ ॥ जो आकाशमें उडते पृथ्वीमे गिरते हैं उन पक्षियोंकोभी विनादिया अन्न प्राप्त नहीं होता है ॥ १३३ ॥ तथाच- तैसेही- न हि भवति यन्न भाव्यं भवति च भाव्यं विनापि यत्नेन । करतलगतमपि नश्यति यस्य तु भवितव्यता नास्ति१३४॥ जो होनहार नहीं है वह नहीं होता है जो होनहार है वह यत्नके विनाही होजाता है जिसकी प्राप्ति नहीं है वह हाथमे प्राप्त हुआ भी नष्ट होजाता है१३४ यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तथा पुरा कृतं कर्म कर्त्तारमनुगच्छति ॥ १३५ ॥ जैसे सहस्र धेनुओमें बछडा माताको पहचानता है इसी प्रकार पूर्व किया कर्म कर्ताको पहुचता है ॥ १३५ ॥ शेते सह शयानेन गच्छन्तमत्तुगच्छति । नराणां प्राक्तनं कर्म तिष्ठेत्त्वथ सहात्मना ॥ १३६ ॥ सोतेके साथ सोता है, चलतेके साथ चलता है, बहुत क्या मनुष्योका किया कर्म आत्माके साथ रहता है ॥ १३६ ॥ यथा छायातपौ नित्यं सुसम्बद्धौ परस्परम् । एवं कर्म च कर्त्ता च संश्लिष्टावितरेतरम् ॥ १३७ ॥
( २६० ) पञ्चतन्त्रम् ।
( २६० ) पञ्चतन्त्रम् । जैसे छाया और धूप परस्पर सम्बद्ध हैं इसी प्रकार कर्म और उसका कर्ता परस्पर संघटित हैं ॥ १३७ ॥ तस्मादत्र एव व्यवसायपरो भव ” । कौलिक आह- “ प्रिये ! न सम्यगभिहितं भवत्या, व्यवसायं विना कर्म न फलति । उक्तञ्च- इस कारणसे यहीं रोजगार करो ” कौलिक बोला,--“प्रिये ! तुमने अच्छा नहीं कहा । रोजगारके बिना कर्मसिद्धि नहीं होती । कहा है- यथैकेन न हस्तेन तालिका सम्प्रपद्यते । तथोद्यमपरित्यक्तं न फलं कर्मणः स्मृतम् ॥ १३८ ॥ जैसे एक हाथसे ताली नहीं बजती इसी प्रकार उद्यम त्यागनेसे कर्मफल नहीं होता है ॥ १३८ ॥ पश्य कर्मवशात्प्राप्तं भोज्यकालेऽपि भोजनम् । हस्तोद्यमं विना वक्त्रे प्रविशेन्न कथञ्चन ॥ १३९ ॥ देखो भोजनके समय प्राप्त हुआभी अन्न हाथके उद्यमके बिना मुखमें किसी प्रकार प्रवेश नहीं करसक्ता ॥ १३९ ॥ तथाच- तैसेही- उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी- दैवं हि दैवमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः ॥ १४० ॥ उद्योगी पुरुषसिंहको लक्ष्मी प्राप्त होती है दैव देता है यह कायर कहते हैं दैवको पृथक् कर आत्मशक्तिसे पुरुषार्थकर यत्न करनेसेभी यदि सिद्धि न हो तो किसका क्या दोष है ॥ १४० ॥ तथाच- ओरभी- उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः । न हि सिंहस्य सुप्तस्य प्रविशन्ति मुखे मृगाः ॥ १४१ ॥
भाषाटीकासमेतम् । (२६१) काम उद्यमसेही सिद्ध होते हैं मनोरथोंसे नहीं। सोते हुए सिंहके मुखमें मृग प्रवेश नहीं करते हैं ॥ १४१ ॥ उद्यमेन विना राजन्न सिद्ध्यंति मनोरथाः । कातरा इति जल्पन्ति यद्भाव्यं तद्भविष्यति ॥ १४२ ॥ हे राजन् ! उद्यमसेही मनोरथ सिद्ध होते हैं जो होनहार है सो होगा यह कायर कहा करते हैं ॥ १४२ ॥ स्वशक्त्या कुर्वतः कर्म न चेत्सिद्धिं प्रयच्छति । नोपालम्भ्यः पुमांस्तत्र दैवान्तरितपौरुषः ॥ १४३ ॥ जो कर्म अपनी शक्तिसे करनेपरभी सिद्ध नहो उसमे पुरुषका तिरस्कार नहीं होता कारण कि, वह पुरुषार्थ तो दैवसे हत होगया है ॥ १४३ ॥ तन्मया अवश्यं देशान्तरं गन्तव्यम्” । इति निश्चित्य वर्द्धमानपुरं गतः । तत्र च वर्षत्रयं स्थित्वा सुवर्णशतत्रयो- पार्जनं कृत्वा भूयः स्वगृहं प्रस्थितः । अथ अर्द्धपथे गच्छतः तस्य कदाचिदटव्यां पर्यटतो भगवान् रविरस्तमुपागतः । तदा असौ व्यालभयाद् स्थूलतरवटस्कन्धमारुह्य यावत् प्रसुप्तः तावन्निशीथे स्वप्ने द्वौ पुरुषौ रौद्राकारौ परस्परं प्रजल्पन्तौ अशृणोत् । तत्रैक आह,-"भोः कर्त्तः ! त्वं किं सम्यक् न वेत्सि ? यदस्य सोमिलकस्य भोजनाच्छादनाभ्य- धिका समृद्धिर्नास्ति । तत् किं त्वया अस्य सुवर्णशतत्रयं प्रदत्तम्” । स आह-“भोः कर्मन् ! मया अवश्यं दातव्यं व्य- वसायिनां तत्र च तस्य परिणतिः त्वदायत्ता इति ।” सो अवश्यही मैं देशान्तरको जाऊंगा”। यह विचार वर्द्धमानपुरको गया । यहा तीन वर्ष रहकर तीनसौ अशरफी उत्पन्न कर फिर अपने घर आया, आधे मार्गमें आते हुए उसके एक समय वनमें चलते २ भगवान् भास्कर अस्त होगये । तब यह सर्पके भयसे स्थूलवटवृक्षके स्कन्धपर चढकर जबतक सोता है कि, तबतक अर्धरात्रिके समय स्वप्नमें दो पुरुष रौद्र आकारवाले परस्पर बात करते सुने गये । उनमें एक बोला,-"भो प्रभो ! क्या तू भली प्रकारसे नहीं नता कि, इस जुलाहेके भाग्यमे भोजनाच्छादनसे अधिक धन नहीं है सो
(२६२) पञ्चतन्त्रम् ।
(२६२) पञ्चतन्त्रम् । तैने कैसे इसको तीनसौ मुंद्रा दीं।” वह बोला-“भो कर्मन् ! रोजगारियोंको मैं अवश्य देता हूं उसकी स्थिति तुम्हारे अधीन है”। अथ यावदसौ कौलिकः प्रबुद्धः सुवर्णग्रन्थिमवलोकयति, तावत् रिक्तं पश्यति । ततः साक्षेपं चिन्तयामास,-“अहो ! किमेतत् ! महता कष्टेन उपार्जितं वित्तं हेलया कापि गतम् । तद्व्यर्थश्रमोऽकिंचनः कथं स्वपत्न्या मित्राणां च मुखं दर्शयि- ष्यामि”। इति निश्चित्य तदेव पत्तनं गतः । तत्र च वर्षमात्रे- णापि सुवर्णशतपंचकमुपार्ज्य भूयोऽपि स्वस्थानं प्रति प्र- स्थितः। यावत् अर्द्धपथे भूयोऽटवीगतस्य भगवान् भानुरस्तं जगाम । अथ सुवर्णनाशभयात् सुश्रान्तोऽपि न विश्राम्यति केवलं कृतगृहोत्कण्ठः सत्वरं व्रजति । अत्रान्तरे द्वौ पुरुषौ तादृशौ दृष्टिदेशे समागच्छन्तौ जल्पन्तौ च शृणोति । तत्रैकः प्राह,–“भो कर्त्तः ! किं त्वया एतस्य सुवर्णशतपञ्चकं प्रद- त्तम् । तत् किं न वेत्सि ? यद्भोजनाच्छादनाभ्यधिकमस्य किञ्चित् नास्ति” । स आह-“भोः कर्मन् ! मया अवश्यं देयं व्यवसायिनाम् । तस्य परिणामः त्वदायत्तः । तत् किं मामुपालम्भयसि ?” तत् श्रुत्वा सोमिलको यावद्ग्रन्थिमव- लोकयति तावत् सुवर्णं नास्ति । ततः परं दुःखमापन्नो व्य- चिन्तयत् । “अहो ! किं मम धनरहितस्य जीवितेन । तदत्र वटवृक्षे आत्मानमुद्बध्य प्राणान् त्यजामि”। एवं निश्चित्य दर्भमयीं रज्जुं विधाय स्वकण्ठे पाशं नियोज्य शाखायामा- त्मानं निबध्य यावत् प्रक्षिपति तावदेकः पुमान् आकाशस्थ एव इदमाह,-“भो भोः सोमिलक ! मा एवं साहसं कुरु । अहं ते वित्तापहारको, न ते भोजनाच्छादनाभ्यधिकां वरा- टिकामपि सहामि । तद्गच्छ स्वगृहं प्रति । अन्यच्च भवदी- यसाहसेन अहं तुष्टः । तथा मे न स्यात् व्यर्थं दर्शनम् । तत् प्रार्थ्यतामभीष्टो वरः कश्चित्” । सोमिलक आह-“यदि एवं तद्देहि मे प्रभूतं धनम्”। स आह-“भोः ! किं करिष्यसि
भाषाटीकासमेतम् । ( २६३ )
भोगरहितेन धनेन ? यतः तव भोजनाच्छादनाभ्यधिका प्राप्तिरपि नास्ति । उक्तञ्च- सो जबतक यह कौलिक जागकर उस मोहरोँकी गांठको देखता है तबतक रीती देखकर खेदसे विचारने लगा । “अहो यह क्या है ? बडे कष्टसे उपार्जन किया धन लीलासेही कहां गया । सो व्यर्थ श्रमवाला निर्धनी मैं किस प्रकारसे अपनी स्त्री और मित्रोको मुख दिखलाऊगा” । ऐसा निश्चय कर उसी स्थानके गया । वहा तीन वर्षमें पाचसौ अशरफी उत्पन्न कर फिरभी अपने स्थानको चला । जब कि, जाते हुए अर्धमार्गमें सूर्य अस्त हुए तब सुवर्णके नाश होनेके भयसे थककर भी वह न सोया और केवल घरमे मन लगाये शीघ्रतासे चला । तब दो पुरुष सामनेसे आते वार्ता करते उसने सुने । उनमेसे एक बोला-“भो प्रभो ! तुमने क्यो इसको पाचसौ सुवर्ण दिये । सो क्या तू नहीं जानता है कि, भोजनाच्छादनसे अधिक इसके भाग्यमे कुछ नहीं है” । वह बोला-“भो कर्मन् ! उद्योगियोँको मैं अवश्य देताहू । उसका परिणाम तुम्हारे अधीनहै । सो क्यों मेरा तिरस्कार करते हो” । यह सुनकर सोमिलक जबतक गाठको देखता है तबतक सुवर्ण नहीं पाया, तब तो परम दुःखको प्राप्त होकर विचारने लगा, “अहो धनहीन मेरे जीवनसे क्या है ? सो इस वटवृक्षमें अपनेको बाधकर प्राणत्यागन करू”। ऐसा विचार कुशकी रस्सी बनाय अपने कठमे पाश डाल शाखामे अपनेको बाध जबतक अपनेको छोडता है तबतक एक पुरुष आकाशमें स्थित हुआ यह बोला,-“भो भो सोमिलक ! इस प्रकारका साहस मत कर मैं तेरे धनका हरण करनेवाला । भोजनाच्छादनस अधिक एक कौडी भी तेरेपास नहीं रहने देता । सो अपने घरको जा, तुम्हारे साहससे मैं संतुष्ट हुआहूं । मेरा दर्शन व्यर्थ नहीं होता सो कोई अभीष्ट वर माग,” सोमिलक बोला-“जो ऐसा है तो मुझको बहुत धन दो”। वह बोला,-“भोगरहित धनको लेकर क्या करेगा क्यों कि तुझको भोजनाच्छादनसे अधिक प्राप्ति नहीं है । कहा है- किं तया क्रियते लक्ष्म्या या वधूरिव केवला । या च वेश्येव सामान्या पथिकैरुपभुज्यते ॥ १४४ ॥ उस सम्पत्तिसे क्या है जो पुत्रवधूकी समान केवल अभोग्य है जो साधा- रण वेश्याकी समान पथिकोंसे भोगी जाती है वही अच्छी है ॥ १४४ ॥ ”
( २६४ ) पञ्चतन्त्रम् ।
( २६४ ) पञ्चतन्त्रम् । सोमिलक आह–"यद्यपि भोगो नास्ति तथापि तद्भवतु । उक्तञ्च– सोमिलक बोला–"यद्यपि भोगनहीं है तथापि धनहो । कहा है– कृपणोऽप्यकुलीनोऽपि सज्जनैर्वर्जितः सदा । सेव्यते स नरो लोके यस्य स्याद्वित्तसञ्चयः ॥ १४५ ॥ कृपण, अकुलीन, सज्जनोंसे सदा वर्जितभी धनी मनुष्यको लोकमें सब कोई सेवन करते हैं ॥ १४५ ॥ तथाच– ओर देखो– शिथिलौ च सुबद्धौ च पततः पततो न वा । निरीक्षितौ मया भद्रे ! दश वर्षाणि पञ्च च ॥ १४६ ॥ हे भद्रे ! मैंने पन्द्रहवर्षतक शिथिल दृढ पतित होते अपतित वृषण देखे हैं ॥ १४६ ॥ पुरुष आह–"किमेतत् ?" सोऽब्रवीत्– पुरुष बोला,–"यह कैसी कथा ?" वह बोला– कथा ६. कस्मिंश्चित् अधिष्ठाने तीक्ष्णविषाणो नाम महावृषभः प्रतिवसति स्म, स च मदातिरेकात् परित्यक्तनिजयूथः शृङ्गाभ्यां नदीतटानि विदारयन् स्वेच्छया मरकतसदृशानि शष्पाणि भक्षयन् अरण्यचरो बभूव । अथ तत्र एव वने प्रलोभको नाम शृगालः प्रतिवसति स्म । स कदाचित् स्वभा- र्य्यया सह नदीतीरे सुखोपविष्टः तिष्ठति । अत्रान्तरे स तीक्ष्णविषाणो जलार्थं तदेव पुलिनमवतीर्णः । ततश्च तस्य लम्बमानौ वृषणौ अवलोक्य शृगाल्या शृगालोऽभिहितः– "स्वामिन् ! पश्य अस्य वृषभस्य मांसपिण्डौ लम्बमानौ यथा स्थितौ । तदेतौ क्षणेन प्रहरेण वा पतिष्यतः । एवं ज्ञात्वा भवता पृष्ठमनुयायिना भाव्यम्" । शृगाल आह– "प्रिये ! न ज्ञायते कदा एतयोः पतनं भविष्यति वा न वा ।
भाषाटीकासमेतम् । (२६६) तत् किं वृथा श्रमाय मां नियोजयसि । अत्रस्थः तावज्जला- र्थमागतान् मूषकान् भक्षयिष्यामि समं त्वया मार्गोऽयं यतः तेषाम् । अपरं यदि त्वां मुक्त्वा अस्य तीक्ष्णविषाणस्य वृष- भस्य पृष्ठे गमिष्यामि तदा आगत्य अन्यः कश्चिदेतत् स्थानं समाश्रयिष्यति । न एतत् युज्यते कर्तुम् । उक्तञ्च- किसी एक स्थानमें तीक्ष्ण शृङ्गनामवाला बैल रहता था वह मदकी अधि- कतासे अपने यूथको त्यागने किये शृंगोंसे नदीतटको विदीर्ण करता हुआ अपनी इच्छासे मरकतमणीकी समान घास खाता वनचारी भया । उसी वनमें प्रलोभक नाम शृगाल रहता था । वह कभी अपनी भार्याके सहित नदीके किनारे सुखसे बैठाथा, इसी समय तीक्ष्णशृङ्ग जलपानके निमित्त नदीके तटपर आया । तब उसके लम्बायमान अण्डकोष देखकर शृगालीने शृगालसे कहा,- “स्वामिन् ! इस वृषभके मासपिण्ड लम्बायमान होते हुए देखो । सो यह एकही क्षणसे अथवा प्रहारसे गिर जायगे । ऐसा विचार कर तुम इसके पीछे फिरो” । शृगाल बोला- “प्रिये ! नहीं जाना जाता कि, कव इन दोनोंका पतन होगा वा नहीं । सो क्यों वृथा श्रममें मुझको नियुक्त करती है । यहीं पर स्थित हुआ जलपानके निमित्त आये हुए मूपकोको तेरे साथ भक्षण करूगा कारण कि, यह उनका मार्ग है । और यदि तुझको छोडकर इस तीक्ष्णशृङ्गवाले वृषके पीछे जाऊगा तो, आनकर और कोई इस स्थानको ग्रहण कर लेगा, सो यह करना उचित नहीं । कहा है- यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते । ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च ॥ १४७ ॥” जो विद्यमानको छोड़कर अविद्यमानका सेवन करता है उसके ध्रुव कार्य नष्ट होते हैं और अध्रुव नष्ट हैं हीं ॥ १४७ ॥” शृगाली आह- “भोः कापुरुषस्त्वं यत्किञ्चित् प्राप्तं तेनापि सन्तोषं करोषि । उक्तञ्च- शृगाली बोली,- “भो ! कापुरुष (डरपोक) तू जो कुछ प्राप्त हुआ है उसीसे सन्तोष करता है । कहा है-
( २६६ ) पञ्चतन्त्रम् ।
( २६६ ) पञ्चतन्त्रम् । सुपूरा स्यात्कुनदिका सुपूरो मूषिकाञ्जलिः । सुसन्तुष्टः कापुरुषः स्वल्पकेनापि तुष्यति ॥ १४८ ॥ कुनदी जल्दी पूरा होजाती है, मूषिककी अंजली शीघ्र भर जाती है, का- पुरुष शीघ्र थोड़ेहीसे सन्तुष्ट हो जाते हैं ॥ १४८ ॥ तस्मात् पुरुषेण सदा एव उत्साहवता भाव्यम् । उक्तञ्च- इस कारण पुरुषको सदा उत्साहसे रहना चाहिये । कहा है- यत्रोत्साहसमारम्भो यत्रालस्यविहीनता । नयविक्रमसंयोगस्तत्र श्रीरचला ध्रुवम् ॥ १४९ ॥ जहां उत्साहसे आरम्भ होता है, जहां आलस्य हीनता होती है, जहां नीति और विक्रमका संयोग है वहां अचल लक्ष्मी रहती है ॥ १४९ ॥ तदैवमिति सञ्चिन्त्य त्यजेन्नोद्योगमात्मनः । अनुद्योगं विना तैलं तिलानां नोपजायते ॥ १५० ॥ योंही होगा ऐसा विचार कर अपना उद्योग त्यागना नहीं चाहिये अनुद्योगके विना तिलोंमेंसे तेलभी नहीं निकलता है ॥ १५० ॥ अन्यच्च- औरभी- यःस्तोकेनापि सन्तोषं कुरुते मन्दधीर्जनः । तस्य भाग्यविहीनस्य दत्ता श्रीरपि मार्ज्यते ॥ १५१ ॥ जो मन्दबुद्धि पुरुष थोड़ेमेंही सन्तोष करता है उस भाग्यहीनकी दूसरोंकी दी हुई लक्ष्मीभी नष्ट हो जाती है ॥ १५१ ॥ यच्च त्वं वदसि, एतौ पतिष्यतो न वेति, तदपि अयु- क्तम् । उक्तञ्च- और जो तुम कहते हो कि, यह गिरेंगे या नहीं सोभी अयुक्त है । कहाहै- कृतनिश्चयिनो वन्द्यास्तुङ्गिमा न प्रशस्यते । चातकः को वराकोऽयं यस्येन्द्रो वारिवाहकः ॥ १५२ ॥ कारण, कि कार्यसिद्धिमें उत्साहवाले पूजनीय हैं हमारी उच्चाभिलाषा प्रशंसाको प्राप्त होती है यह चातक दीन क्या वस्तु है जिसके उत्साहसे देवराज जल देता है (उस क्षुद्रके निश्चयको जानकर देवराजभी उसके मनोरथको पूर्ण करता है ) ॥ १५२ ॥
भाषाटीकासमेतम् । (२६७) अपरं मूषकमांसस्य निर्विण्णा अहम्, एतौ च मांस- पिण्डौ पतनप्रायौ दृश्येते,तत्सर्वथा नान्यथा कर्त्तव्यम्" इति। अथ असौ तदाकर्ण्य मूषकप्राप्तिस्थानं परित्यज्य तीक्ष्णवि- षाणस्य पृष्ठमन्वगच्छत् । अथवा साधु इदमुच्यते- औरभी मूषकमांस खाते २ मेरा जी उकता गया है और यह मांसपिण्ड- प्रायः गिरजॉयगे ऐसा विदित होता है । सो सब प्रकारसे अन्यथा करना उचित नहीं" । तब यह ऐसे वचन श्रवण कर मूषकप्राप्ति स्थानको त्यागन कर तीक्ष्ण- विषाणके पीछे पीछे गया । अथवा यह अच्छा कहा है- तावत्स्यात्सर्वकृत्येषु पुरुषोऽत्र स्वयं प्रभुः । स्त्रीवाक्याङ्कुशविक्षुण्णो यावन्नोद्ध्रियते बलात् ॥ १५३ ॥ तभीतक यह पुरुष सम्पूर्ण कार्योंमें स्वाधीन होता है जबतक बलपूर्वक स्त्रीके वाक्यरूपी अंकुशसे ताडित नहीं होता ॥ १५३ ॥ अकृत्यं मन्यते कृत्यमगम्यं मन्यते सुगम् । अभक्ष्यं मन्यते भक्ष्यं स्त्रीवाक्यप्रेरितो नरः ॥ १५४ ॥” स्त्रीके वाक्यसे प्रेरित हुआ मनुष्य अकार्यको कार्य, अगम्य (दुर्गम) को सुगम और अभक्ष्यको भक्ष्य मानता है ॥ १५४ ॥” एवं स तस्य पृष्ठतः सभार्यः परिश्रमन् चिरकालमन- यत् । न च तयोः पतनमभूत् । ततश्च निर्वेदात् पञ्चदशे वर्षे शृगालः स्वभार्यामाह,- इस प्रकार वह उसके पीछे स्त्रीसहित परिभ्रमण करता २ बहुत समय बिताता हुआ परन्तु अण्डकोशोंका पतन न हुआ तब वैराग्यसे पन्द्रहवें वर्ष अपनी भार्यासे बोला,- “शिथिलौ च सुबद्धौ च पततः पततो न वा । निरीक्षितौ मया भद्रे दश वर्षाणि पञ्च च ॥ १५५ ॥ “शिथिल हैं सुदृढ हैं गिरेंगे वा नहीं भद्रे १५ वर्षतक मैं बराबर देखता रहा ॥ १५५ ॥ तयोः तत्पश्चादपि पातो न भविष्यति । तद् तदैव स्व- स्थानं गच्छावः । अतोऽहं ब्रवीमि-
[२६८) पंचतन्त्रम् ।
[२६८) पंचतन्त्रम् ।
इन दोनोंका इसके पीछे भी पात् न होगा । सो आओ अपने स्थानको चलें । इससे मैं कहता हूं- शिथिलौ च सुबद्धौ च पततः पततो न वा । निरीक्षितौ मया भद्रे दश वर्षाणि पञ्च च ॥ १५६ ॥” शिथिल और सुदृढ हैं गिरेंगे वा नहीं हे भद्रे ! यह मैंने बराबर पन्द्रह वर्ष- तक देखे ॥ १५६ ॥” पुरुष आह-“यदि एवं तद्गच्छ भूयोऽपि वर्द्धमानपुरम् । तत्र द्वौ वणिक्पुत्रौ वसतः, एको गुप्तधनः, द्वितीय उपभु- क्तधनः । ततः तयोः स्वरूपं बुद्ध्वा एकस्य वरः प्रार्थनीयः । यदि ते धनेन प्रयोजनम् अभक्षितेन ततः त्वामपि गुप्तधनं करोमि । अथवा दत्तभोग्येन धनेन ते प्रयोजनं तदुपभुक्तधनं करोमि” इति । एवमुक्त्वा अदर्शनं गतः । सोमिलकोऽपि विस्मितमना भूयोऽपि वर्द्धमानपुरं गतः । अथ सन्ध्यासमये श्रान्तः कथमपि तत्पुरं प्राप्तो गुप्तधनगृहं पृच्छन्कृच्छ्रात् लब्ध्वा अस्तमितसूर्ये प्रविष्टः । अथ असौ भार्य्यापुत्रसमे- तेन गुप्तधनेन निर्भर्त्स्यमानो हठाद्गृहं प्रविश्य उपविष्टः । ततश्च भोजनवेलायां तस्यापि भक्तिवर्जितं किञ्चिदशनं दत्तम् । ततश्च भुक्त्वा तत्र एव यावत् सुप्तो निशीथे पश्यति तावत् तौ अपि द्वौ पुरुषौ परस्परं मन्त्रयतः । तत्र एक आह-“भोः कर्त्तः ! किं त्वया अस्य गुप्तधनस्य अन्योऽधिको व्ययो निर्मितो यत् सोमिलकस्य अनेन भोजनं दत्तम् । तदयुक्तं त्वया कृतम्” । स आह-“भोः कर्मन् ! न मम अत्र दोषः मया पुरुषस्य लाभप्राप्ति- र्दातव्या । तत्परिणतिः पुनः त्वदायत्ता” इति । अथ असौ यावदुत्तिष्ठति तावत् गुप्तधनो विसूचिकया खिद्यमानो रुजाभिभूतः क्षणं तिष्ठति । ततो द्वितीयेऽह्नि तद्दोषेण कृतोपवासः सञ्जातः । सोमिलकोऽपि प्रभाते तद्गृहात् निष्क्रम्य उपभुक्तधनगृहं गतः । तेनापि च अभ्युत्थानादिना
भाषाटीकासमेतम् । (२६९)
सत्कृतो विहितभोजनाच्छादनसंमानः तस्य एव गृहे भव्य- शय्यामारुह्य सुष्वाप । ततश्च निशीथे यावत्पश्यति तावत् तौ एव द्वौ पुरुषौ मिथो मन्त्रयतः । अथ तयोः एक आह- “भोः कर्त्तः ! अनेन सोमिलकस्य उपकारं कुर्वता प्रभूतो व्ययः कृतः, तत् कथय कथमस्य उद्धारकविधिः भविष्यति । अनेन सर्वमेतद्व्यवहारकगृहात् समानीतम्” । स आह- “भोः कर्मन् मम कृत्यमेतत् । परिणतिः त्वदायत्ता” इति । अथ प्रभातसमये राजपुरुषो राजप्रसादजं वित्तम् आदाय समायात उपभुक्तधनाय समर्पयामास । तद् दृष्ट्वा सोमिलकः चिन्तयामास । “सञ्चयरहितोऽपि वरमेष उपभुक्तधनो न असौ गुप्तधनः । उक्तञ्च- पुरुष बोला- "जो ऐसा है तो फिर वर्द्धमान पुरको जा वहा दो वणिक्पुत्र रहते हैं एक गुप्तधन दूसरा उपभुक्तधन (धनका भोगनेवाला) है उन दोनोंका आशय देखकर पीछे वर मांगना, और जो केवल तेरा भी गुप्तधन (धनरक्षा) से प्रयोजन होगा तो तुझे भी गुप्तधन करदूगा । अथवा दत्तभोग्य धनसे तेरा प्रयोजन होगा तो वैसा करदूगा” । यह कहकर वह अन्तर्हित हुआ । सोमिलक आश्चर्ययुक्त होकर फिर वर्द्धमानपुरको गया, सन्ध्या समय थका हुआ किसी प्रकार उस पुरमें प्राप्त हो गुप्तधनके घरको पूछता हुआ कठिनतासे प्राप्त होकर सूर्यास्तमें प्रविष्ट हुआ तब यह भार्या पुत्रके सहित हुए गुप्तधनसे घुड- काया हुआ भी हठसे उसके घरमें प्रवेश कर बैठगया, तब भोजनके समय उसको भी भक्तिसे हीन कुछ भोजन दिया, तब यह भोजन कर जबतक सो कर आधी रातमे देखता है कि, वही दोनों पुरुष परस्पर मन्त्रणा करते हैं । तब एक बोला- "भो प्रभो क्यों तुमने इस गुप्तधनका अधिक व्यय किया, जो सोमिलकको इसने भोजन दिया, सो यह तुमने अयुक्त किया”। वह बोला- “भो कर्मन् इसमें मेरा दोष नहीं मुझे तो पुरुषको लाभ प्राप्ति देनी है । उसका परिणाम तुम्हारे आधीन है” । सो यह जबतक उठता है तबतक गुप्तधन विषूचिका (उवान्त) रोगसे खेदको प्राप्त हुआ रुग्णहै। क्षणमात्रको स्थित हुआ । सो दूसरे दिन उस दोषसे उसने लंघन किया । सोमिलक भी प्रभात
( २७० ) पञ्चतन्त्रम् ।
( २७० ) पञ्चतन्त्रम् । समय उसके घरसे निकल उपभुक्तधनके घरको गया । उसने अभ्युत्थानादिसे सत्कार कर भोजनाच्छादनका सम्मान करा और उसीके घरमें मनोहर सेजपर सोगया । सो रात्रिमें जबतक देखता है तबतक दोनों पुरुष सम्मति करते हैं उन दोनोंमें एक बोला,-“भो ! स्वामिन् ! उसने सोमिलकका उपकार करके बहुत व्यय किया । सो कहो कैसे इसका उद्धार होगा इसने यह सब व्योपारीके घरसे प्राप्त किया है”। वह बोला-“भो ! कर्म्मन् ! यह सब मेरा कृत्य है । परिणाम आपके आधीनहै”। तब प्रभात समय राजपुरुष राजाकी प्रसन्नता ( इनाम ) के धनको लेकर उपभुक्तधनको समर्पण करते भये । यह देखकर वह सोमिलक विचारने लगा-“संचयसे रहित यह उपभुक्तधन अच्छा है न कि यह गुप्तधन । कहा है- अग्निहोत्रफला वेदाः शीलवित्तफलं श्रुतम् । रतिपुत्रफला दारा दत्तभुक्तफलं धनम् ॥ १५७ ॥ वेद यज्ञानुष्ठानके फलवाले हैं, शास्त्रपढना देखनेका फल शील धन सुना है, स्त्रियें रति पुत्रफलके निमित्त हैं, धनका दान और भोगही फल है ॥ १५७ ॥ तद्विधाता मां दत्तभुक्तधनं करोतु, न कार्यं मे गुप्तधनेन”। ततः सोमिलको दत्तभुक्तधनः सञ्जातः । अतोऽहं ब्रवीमि- । सो विधाता 'मुझको दत्तभुक्त धन करे । गुप्तधनसे मेरा कुछ कार्य नहीं है'। तब सोमिलक दत्तभुक्तधन होगया । इससे मै कहता हूं- “अर्थस्योपार्जनं कृत्वा नैव भोगं समश्नुते । अरण्यं महदासाद्य मूढः सोमिलको यथा ॥ १५८ ॥” “अर्थ उत्पन्न करके भी उसको भोग नहीं सकता जैसे बडे बनमे प्राप्त होकर मूढ सोमलिक न भोगसका ॥ १५८ ॥” तद्भद्र हिरण्यक ! एवं ज्ञात्वा धनविषये सन्तापो न कार्यः । अथ विद्यमानमपि धनं भोज्यबन्ध्यतया तत् अविद्यमानं मन्तव्यम् । उक्तञ्च- सो हे भद्र ! हिरण्यक ! ऐसा जानकर धनके विषयमें सन्ताप मतकरो । सो विद्यमान भी धन भोगनेकी अशक्यतासे उसको नहीं की बराबर मानना चाहिये । कहा है-
भाषाटीकासमेतम् । (२७१) "गृहमध्यनिखातेन धनेन धनिनो यदि । भवाम किं न तेनैव धनेन धनिनो वयम् ॥ १६९ ॥ "घरमे गाडे हुए धनस ही यदि धनवान् धनी हो तो उसी धनसे हम क्यों न धनी गिने जायें ? ॥ १६९ ॥ तथाच- तैसेही- उपार्जितानामर्थानां त्याग एव हि रक्षणम् । तडागोदरसंस्थानां परीवाह इवाम्भसाम् ॥ १७० ॥ उपार्जन किये धनोंका त्याग ही रक्षा है जैसे सरोवरके मध्यमे स्थित जलोंका निकलना ॥ १७० ॥ दातव्यं भोक्तव्यं धनविषये सञ्चयो न कर्त्तव्यः । पश्येह मधुकरीणां सञ्चितमर्थं हरन्त्यन्ये ॥ १७१ ॥ देना चाहिये, भोगना चाहिये, परन्तु धनका संचय न करना देखो मधुम- क्खियोंका सञ्चित शहद अन्य जन हरण करते हैं ॥ १७१ ॥ अन्यच्च- औरभी- दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥१७२॥ दान, भोग और नाश यह धनकी तीन गति होती हैं जो न देता न खाता है उसकी तीसरी गति (धनका नाश) होती है ॥ १७२ ॥ एवं ज्ञात्वा विवेकिना न स्थित्यर्थं वित्तोपार्जनं कर्त्तव्यं यतो दुःखाय तत् । उक्तञ्च- ऐसा जानकर ज्ञानियोंको जोडनेके निमित्त धन उपार्जन करना न चाहिये जिससे कि वह दु खके निमित्त होताहै। कहाहै- धनादिकेषु विद्यन्ते येऽत्र मूर्खाः सुखाशयाः । तप्तग्रीष्मेण सेवन्ते शैत्यार्थं ते हुताशनम् ॥ १६३ ॥ सुखकी आशासे जो महामूर्ख धनादिमे विद्यमान रहतेहैं, वे तप्त गरमीसे आर्तहुए शीतके निमित्त अग्निकी खोज करतेहैं ॥ १६३ ॥
(२७२) पञ्चतन्त्रम् ।
(२७२) पञ्चतन्त्रम् । सर्पाः पिबन्ति पवनं न च दुर्बलास्ते शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति । कन्दैः फलैर्मुनिवरा गमयन्ति कालं सन्तोष एव पुरुषस्य परं निधानम् ॥ १६४ ॥ सर्प पवन पीतेहैं परन्तु वे दुर्बल नहीं हैं सूखे तृण खाकरही वनके हाथी बली होतेहैं,मुनिश्रेष्ठ कन्द और फलसे समयको बितातेहैंइससे सन्तोषही पुरुषोंका परम निधान ( आश्रय ) है ॥ १६४ ॥ सन्तोषामृततृप्तानां यत्सुखं शान्तचेतसाम् । कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् ॥ १६५ ॥ सन्तोषरूपी अमृतसे तृप्त हुए शान्त चित्तवालोंको जो सुखहै वह धनके लोभसे इधर उधर धावमान होते हुए पुरुषोंको कहां है ॥ १६५ ॥ पीयूषमिव सन्तोषं पिबतां निर्वृतिः परा । दुःखं निरन्तरं पुंसामसन्तोषवतां पुनः ॥ १६६ ॥ अमृतकी समान सन्तोषको पान करनेसे परम शान्ति होतीहै असन्तोषी पुरुषोंको निरन्तर दुःख होताहै ॥ १६६ ॥ निरोधाच्चेतसोऽक्षाणि निरुद्धान्यखिलान्यपि । आच्छादिते रवौ मेघैराच्छन्नाः स्युर्गभस्तयः ॥ १६७ ॥ चित्तके रुकनेसे सब इन्द्रिय रुक जातीहैं जैसे मेघके ढकनेसे सूर्यकी किरणेंभी ढकजातीहैं ॥ १६७ ॥ वाञ्छाविच्छेदनं प्राहुः स्वास्थ्यं शान्ता महर्षयः । वाञ्छा निवर्त्तते नार्थैः पिपासेवाग्निसेवनैः ॥ १६८ ॥ शान्त चित्तवाले महर्षि वासनाके विच्छेदको सुख कहतेहैं अग्निके सेवनसे प्यास जैसे निवृत्त नहीं होती ऐसेही धनसे वांछा निवृत्त नहीं होती ॥ १६८ ॥ अनिन्द्यमपि निन्दन्ति स्तुवन्त्यस्तुत्यमुच्चकैः । स्वापतेयकृते मर्त्याः किं किं नाम न कुर्वते ॥ १६९ ॥ मनुष्य धनके निमित्त अनिन्दितकी भी निन्दा करते हैं स्तुतिके अयोग्यकी भलीप्रकार स्तुति करतेहैं बहुत क्या ? क्या क्या नहीं करतेहैं ॥ १६९ ॥
भाषाटीकासमेतम् । ( २७३ ) धर्मार्थं यस्य वित्तेहा तस्यापि न शुभावहा । प्रक्षालनाद्धि पंकस्य दूरादस्पर्शनं वरम् ॥ १७० ॥ जिस मनुष्यका धर्मके निमित्त धन उपार्जन करनाहै वह चेष्टा भी भली नहीं है क्योंकि कीचके धोनेसे तो दूरसे उसका न छूनाही भला है ॥ १७० ॥ दानेन तुल्यो निधिरस्ति नान्यो लोभाच्च नान्योऽस्ति रिपुः पृथिव्याम् । विभूषणं शीलसमं न चान्यत् सन्तोषतुल्यं धनमस्ति नान्यत् ॥ १७१ ॥ दानकी तुल्य दूसरा निधि नहीं है, लोभसे अधिक पृथ्वीमें कोई शत्रु नहीं है, शीलकी समान दूसरा गहना नहीं और सन्तोषकी समान दूसरा धन नहीं है ॥ १७१ ॥ दारिद्र्यस्य परा भूतिर्यन्मानद्रविणाल्पता । जरद्गवधनः शर्वस्तथापि परमेश्वरः ॥ १७२ ॥ मानरूपी धनकी अल्पताही दारिद्र्यका ऐश्वर्य है । शिव जीर्ण वृषभक धन- वाले होकरभी परमेश्वर हैं ( मानमे उन्नतहैं ) ॥ १७२ ॥ सकृत्कन्दुकपातेन पतत्यार्यः पतन्नपि । तथा पतति मूर्खस्तु मृत्पिण्डपतनं यथा ॥ १७३ ॥ श्रेष्ठ मनुष्य गेंदकी समान गिरकरभी फिर ऊपरको उछलताहै और मूर्ख तो ऐसे पतित होताहै कि जैसे मृत्पिण्ड गिरकर फिर नहीं उठताहै ॥ १७३ ॥ एवं ज्ञात्वा भद्र ! त्वया सन्तोषः कार्य्यः ” इति । मन्थ- रकवचनमाकर्ण्य वायस आह-“भद्र ! मन्थरको यत् एवं वदति तत् त्वया चित्ते कर्त्तव्यम् । अथवा साधु इदमुच्यते- ऐसा जानकर हे भद्र ! आपको सन्तोष करना चाहिये” । मन्थरकके वचन सुनकर वायस बोला-“भद्र ! मन्थरक जो कहताहै वह तुझको चित्तमे करना चाहिये । अथवा यह सत्य कहाहै- सुलभाः पुरुषा राजन्सततं प्रियवादिनः । अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ १७४ ॥ हे राजन् ! निरन्तर प्रियबोलनेवाले पुरुष बहुत हैं परन्तु सुननेमें अप्रिय वास्तवमें हितकारी वचनके कहने सुननेवाले दुर्लभ हैं ॥ १७४ ॥ १८
( २७४ ) पञ्चतन्त्रम् ।
( २७४ ) पञ्चतन्त्रम् । अप्रियाण्यपि पथ्यानि ये वदन्ति नृणामिह । त एव सुहृदः प्रोक्ता अन्ये स्युर्नामधारकाः ॥ १७५ ॥ ” इस संसारमें जो मनुष्य अप्रिय तथा हितकारी वाक्योंको कहतेहैं वेही सुहृ- दहैं दूसरे नामधारीहैं ॥ १७५ ॥ ” अथ एवं जल्पतां तेषां चित्रांगो नाम हरिणो लुब्धकत्रा- सितः तस्मिन् एव सरसि प्रविष्टः । अथ आयान्तं ससम्भ्रम- मवलोक्य लघुपतनको वृक्षमारूढः । हिरण्यको निकटवर्तिनं शरस्तम्बं प्रविष्टः । मन्थरकः सलिलाशयमास्थितः । अथ लघुपतनको मृगं सम्यक् परिज्ञाय मन्थरकं उवाच,-“एहि एहि सखे मन्थरक ! मृगोऽयं तृषार्त्तोऽत्र समायातः सरसि प्रविष्टः । तस्य शब्दोऽयं न मानुषसम्भवः” इति । तच्छ्रुत्वा मन्थरको देशकालोचितमाह,-“भो लघुपतनक ! यथा अयं मृगो दृश्यते प्रभूतं उच्छ्वासं उद्वहन् उद्भ्रान्तदृष्ट्या पृष्ठतोऽ- वलोकयति तन्न तृषार्त्त एष नूनं लुब्धकत्रासितः । तज्ज्ञाय- तामस्य पृष्ठे लुब्धका आगच्छन्ति न वा इति । उक्तञ्च- इस प्रकार उनके वचन कहनेपर चित्राङ्ग नामक एक हरिण लुब्धकसे घबराया हुआ उस सरोवरमे प्रविष्ट हुआ । तब उसको भयसे व्याकुल आया हुआ देखकर लघुपतनक वृक्षपर चढा, हिरण्यक समीपवर्ती शरके स्तम्बमे प्रविष्ट हुआ, मन्थरक सरोवरमे घुस गया । तब लघुपतनक मृगको अच्छी प्रकार जानकर मन्थरकसे बोला,-“आओ आओ सखे मन्थरक ! यह मृग तृषासे व्याकुल यहां आकर सरोवरमें प्रविष्ट हुआहै । यह उसीका शब्दहै यहां मनु- ष्यका सम्भव नहींहै” । यह सुनकर मन्थरक देशकाल उचित बचन बोला,- “भो लघुपतनक ! जिसप्रकार यह मृग दीखताहै, बडे श्वास लेताहुआ चकित दृष्टिसे पीछेको देखताहै सो यह प्यासा नहींहै अवश्यही व्याधसे भीतहै । सो जानाजाय कि इसके पीछे लुब्धक आते हैं या नहीं । कहा है- भयत्रस्तो नरः श्वासं प्रभूतं कुरुते मुहुः । दिशोऽवलोकयत्येव न स्वास्थ्यं व्रजति क्वचित् ॥ १७६ ॥ भयसे व्याकुल हुआ मनुष्य बारंबार श्वास लेताहै चारों ओर दिशाओंको देखता रहता है और स्वास्थ्यको प्राप्त नहीं होताहै ॥ १७६ ॥
भाषाटीकासमेतम् । ( २७५) तच्छ्रुत्वा चित्राङ्ग आह,-"भो मन्थरक ! ज्ञातं त्वया सम्यक् मे त्रासकारणम् । अहं लुब्धकशरप्रहारादुद्धा- रितः कृच्छ्रेण अत्र समायातः । मम यूथं तैः लुब्धकैः व्यापादितं भविष्यति । तत् शरणागतस्य मे दर्शय किञ्चित् अगम्यं स्थानं लुब्धकानाम्” । तदाकर्ण्य मन्थरक आह,- “भोः चित्राङ्ग श्रूयतां नीतिशास्त्रम्- यह सुन चित्रांग बोला,-"भो मन्थरक ! तैने मेरे त्रासका कारण भलीप्रकार जानलिया । मैं व्याधके शरप्रहारसे बचकर कठिनतासे यहा आयाहू मेरा यूथ उन लुब्धकोने मारडाला होगा । सो शरणमें आये हुए मुझे कोई स्थान बताओ जहा लुब्धक न पहुंचसकें" । यह सुनकर मन्थरक बोला,-"भो चित्रांग ! नीतिशास्त्र सुनो- द्वावुपायाविह प्रोक्तौ विमुक्तौ शत्रुदर्शने । हस्तयोश्चालनादेको द्वितीयः पादवेगजः ॥ १७७ ॥ शत्रुके दीखनेमें छूटनेकेलिये दोही उपाय है एक हाथ चलाना दूसरा चरणोंमें वेग होना ॥ १७७ ॥ तद्गम्यतां शीघ्रं सघनं वनं, यावत् अद्यापि न आग- च्छन्ति ते दुरात्मानो लुब्धकाः” । अत्रान्तरे लघुपतनकः सत्वरमभ्युपेत्य उवाच,-“भो मन्थरक ! गतास्ते लुब्धकाः स्वगृहोन्मुखाः प्रचुरमांसपिण्डधारिणः । तत् चित्राङ्ग ! त्वं विश्रब्धो वनात् वहिर्भव” ततस्ते चत्वारोऽपि मित्रभा- वमाश्रितास्तस्मिन्सरसि मध्याह्नसमये वृक्षच्छायाया अध- स्तात् सुभाषितगोष्ठीसुखमनुभवन्तः सुखेन कालं नयन्ति । अथवा युक्तमेतदुच्यते- सो शीघ्र सघन वनको चले जाओ जबतक अब वे लोभी दुरात्मा न आपहुंचे” । इसी अवसरमें लघुपतनक शीघ्रतासे आकर बोला-"भो मन्थरक ! गये वे व्याधे अपने घरकी ओर बहुतसे मांस पिण्डको लिये हुए । सो चित्राङ्ग ! निर्भय होकर तू वनसे बाहरहो" तब वे चारोंही मित्रभावको प्राप्त हुए उस सरोवरमे दुपहरके समय वृक्षकी छायाके नीचे सुभाषित गोष्ठीका सुख अनुभव करते हुए सुखसे समय बिताने लगे । अथवा यह युक्त कहा है-
( २७६ ) पञ्चतन्त्रम् ।
( २७६ ) पञ्चतन्त्रम् । सुभाषितरसास्वादबद्धरोमाञ्चकञ्चुकाः । विनापि संगमं स्त्रीणां सुधियः सुखमासते ॥ १७८ ॥ सुभाषित गोष्ठीके रसरूपी स्वादसे जिनके रोमाञ्चरूप बखतर बंधे हुए- हैं वे बुद्धिमान् स्त्रियोंके संगके बिनाही सुखको प्राप्त होते हैं ॥ १७८ ॥ सुभाषितमयद्रव्यसंग्रहं न करोति यः । स तु प्रस्तावयज्ञेषु कां प्रदास्यति दक्षिणाम् ॥ १७९ ॥ जो सुन्दर वचनरूप द्रव्यका संग्रह नहीं करता है वह परस्पर आला- पके यज्ञमें किस दक्षिणाको देगा ( अर्थात् सभ्योंको किस प्रकार सन्तुष्ट कर सकेगा) ॥ १७९ ॥ तथाच- तैसेही- सकृदुक्तं न गृह्णाति स्वयं वा न करोति यः । यस्य सम्पुटिका नास्ति कुतस्तस्य सुभाषितम् ॥ १८० ॥ जो एकही बार उच्चारण किये वचनको नहीं ग्रहण करलेता वा स्वयं नहीं करता है और जिसको ( १ ) आवरण भेद नहीं है उसको सुभाषित किस प्रकार आ सकता है ॥ १८० ॥ अथ एकस्मिन्नहनि गोष्ठीसमये चित्राङ्गो न आयातः । अथ ते व्याकुलीभूताः परस्परं जल्पितुं आरब्धाः- "अहो ! किमद्य सुहृन्न समायातः ? किं सिंहादिभिः क्वापि व्यापा- दितः ? उत लुब्धकैः ? अथवा अनले प्रपातितो गर्त्ताविषमे वा नवतृणलौल्यादिति । अथवा साधु इदमुच्यते- तब एक दिन गोष्ठीके समय चित्रांग न आया तब वे सब व्याकुल हो परस्पर कहने लगे- "अहो ! आज हमारा सुहृद् क्यों न आया ? क्या कहीं सिंहादिने मारडाला वा व्याधोंने अथवा अग्नि वा कठिन गड्ढेमें गिरगया वा नव तृणके लोभसे ( कहीं गिरा ) ? अथवा सत्य कहा है- स्वगृहोद्यानगतेऽपि स्निग्धैः पापं विशङ्क्यते मोहात् । किमु दृष्टबह्वपायप्रतिभयकान्तारमध्यस्थे ॥ १८१ ॥" १ धारणा-सावधानीतियावत् ।