भारतकोश
पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

पृष्ठ 277, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 277

( २६२ ) पञ्चतन्त्रम् ।

तैने कैसे इसको तीनसौ मुद्रा दीं।” वह बोला—“भो कर्मन् ! रोजगारियोंको मैं अवश्य देता हूं उसकी स्थिति तुम्हारे अधीन है”।

अथ यावदसौ कौलिकः प्रबुद्धः सुवर्णग्रन्थमवलोकयति, तावत् रिक्तं पश्यति । ततः साक्षेपं चिन्तयामास,—“अहो ! किमेतत् ! महता कष्टेन उपार्जितं वित्तं हेलया क्वापि गतम् । तद्व्यर्थश्रमोऽकिंचनः कथं स्वपत्न्या मित्राणां च मुखं दर्शयिष्यामि” । इति निश्चित्य तदेव पत्तनं गतः । तत्र च वर्षमात्रेणापि सुवर्णशतपंचकमुपार्ज्य भूयोऽपि स्वस्थानं प्रति प्रस्थितः । यावत् अर्द्धपथे भूयोऽटवीगतस्य भगवान् भानुरस्तं जगाम । अथ सुवर्णनाशभयात् सुश्रान्तोऽपि न विश्राम्यति केवलं कृतगृहोत्कण्ठः सत्वरं व्रजति । अत्रान्तरे द्वौ पुरुषौ तादृशौ दृष्टिदेशे समागच्छन्तौ जल्मन्तौ च शृणोति । तत्रैकः प्राह,—“भो कर्त्तः ! किं त्वया एतस्य सुवर्णशतपञ्चकं प्रदत्तम् । तत् किं न वेत्सि ? यद्भोजनाच्छादनाभ्यधिकमस्य किञ्चित् नास्ति” । स आह—“भोः कर्मन् ! मया अवश्यं देयं व्यवसाायिनाम् । तस्य परिणामः त्वदायत्तः । तत् किं मामुपालम्भयसि ?” तत श्रुत्वा सोभिलको यावद्ग्रन्थमवलोकयति तावत् सुवर्णं नास्ति । ततः परं दुःखमापन्नो व्यचिन्तयत् । “अहो ! किं मम धनरहितस्य जीवितेन । तदत्र वटवृक्षे आत्मानमुद्बध्य प्राणान् त्यजामि” । एवं निश्चित्य दर्भमयीं रज्जुं विधाय स्वकण्ठे पाशं नियोज्य शाखायामात्मानं निबध्य यावत् प्रक्षिपति तावदेकः पुमान् आकाशस्थ एव इदमाह,—“भो भोः सोमिलक ! मा एवं साहसं कुरु । अहं ते वित्तापहारको, न ते भोजनाच्छादनाभ्यधिकां वराटिकामपि सहामि । तद्गच्छ स्वगृहं प्रति । अन्यच्च भवदीयसाहसेन अहं तुष्टः । तथा मे न स्यात् व्यर्थ दर्शनम् । तत् प्रार्थ्यतामभीष्टो वरः कश्चित्” । सोमिलक आह—“यदि एवं तद्देहि मे प्रभूतं धनम्” । स आह—“भोः ! किं करिष्यसि

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित) · पृष्ठ 277, कुल 536 में से · BharatKosha