भारतकोश
संग्रह पर लौटें

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

( २६२ ) पञ्चतन्त्रम् ।

तैने कैसे इसको तीनसौ मुद्रा दीं।” वह बोला—“भो कर्मन् ! रोजगारियोंको मैं अवश्य देता हूं उसकी स्थिति तुम्हारे अधीन है”।

अथ यावदसौ कौलिकः प्रबुद्धः सुवर्णग्रन्थमवलोकयति, तावत् रिक्तं पश्यति । ततः साक्षेपं चिन्तयामास,—“अहो ! किमेतत् ! महता कष्टेन उपार्जितं वित्तं हेलया क्वापि गतम् । तद्व्यर्थश्रमोऽकिंचनः कथं स्वपत्न्या मित्राणां च मुखं दर्शयिष्यामि” । इति निश्चित्य तदेव पत्तनं गतः । तत्र च वर्षमात्रेणापि सुवर्णशतपंचकमुपार्ज्य भूयोऽपि स्वस्थानं प्रति प्रस्थितः । यावत् अर्द्धपथे भूयोऽटवीगतस्य भगवान् भानुरस्तं जगाम । अथ सुवर्णनाशभयात् सुश्रान्तोऽपि न विश्राम्यति केवलं कृतगृहोत्कण्ठः सत्वरं व्रजति । अत्रान्तरे द्वौ पुरुषौ तादृशौ दृष्टिदेशे समागच्छन्तौ जल्मन्तौ च शृणोति । तत्रैकः प्राह,—“भो कर्त्तः ! किं त्वया एतस्य सुवर्णशतपञ्चकं प्रदत्तम् । तत् किं न वेत्सि ? यद्भोजनाच्छादनाभ्यधिकमस्य किञ्चित् नास्ति” । स आह—“भोः कर्मन् ! मया अवश्यं देयं व्यवसाायिनाम् । तस्य परिणामः त्वदायत्तः । तत् किं मामुपालम्भयसि ?” तत श्रुत्वा सोभिलको यावद्ग्रन्थमवलोकयति तावत् सुवर्णं नास्ति । ततः परं दुःखमापन्नो व्यचिन्तयत् । “अहो ! किं मम धनरहितस्य जीवितेन । तदत्र वटवृक्षे आत्मानमुद्बध्य प्राणान् त्यजामि” । एवं निश्चित्य दर्भमयीं रज्जुं विधाय स्वकण्ठे पाशं नियोज्य शाखायामात्मानं निबध्य यावत् प्रक्षिपति तावदेकः पुमान् आकाशस्थ एव इदमाह,—“भो भोः सोमिलक ! मा एवं साहसं कुरु । अहं ते वित्तापहारको, न ते भोजनाच्छादनाभ्यधिकां वराटिकामपि सहामि । तद्गच्छ स्वगृहं प्रति । अन्यच्च भवदीयसाहसेन अहं तुष्टः । तथा मे न स्यात् व्यर्थ दर्शनम् । तत् प्रार्थ्यतामभीष्टो वरः कश्चित्” । सोमिलक आह—“यदि एवं तद्देहि मे प्रभूतं धनम्” । स आह—“भोः ! किं करिष्यसि

भाषाटीकासमेतम् । ( २६३ )

भोगरहितेन धनेन ? यतः तव भोजनाच्छादनाभ्यधिका प्राप्तिरपि नास्ति । उक्तञ्च-

सो जबतक यह कौलिक जागकर उस मोहरोंकी गांठको देखता है तबतक रीती देखकर खेदसे विचारने लगा । "अहो यह क्या है ? बड़े कष्टसे उपार्जन किया धन लीलासेही कहां गया । सो व्यर्थ श्रमवाला निर्धनी मैं किस प्रकारसे अपनी स्त्री और मित्रोको मुख दिखलाऊंगा" । ऐसा निश्चय कर उसी स्थानको गया । वहा तीन वर्षमें पाचसौ अशरफी उत्पन्न कर फिरभी आपने स्थानको चला । जब कि, जाते हुए अर्धमार्गमें सूर्य अस्त हुए तब सुवर्णके नाश होनेके भयसे थककर भी वह न सोया और केवल घरमे मन लगाये शीघ्रतासे चला । तब दो पुरुष सामनेसे आते वार्ता करते उसने सुने । उनमेंसे एक बोला—“भो प्रभो ! तुमने क्यो इसको पाचसौ सुवर्ण दिये । सो क्या तू नहीं जानता है कि, भोजनाच्छादनसे अधिक इसके भाग्यमे कुछ नहीं है ” । वह बोला—“भो कर्मन् ! उद्योगियोंको मैं अवश्य देताहू । उसका परिणाम तुम्हारे अधीनहै । सो क्यों मेरा तिरस्कार करते हो” । यह सुनकर सोमिलक जबतक गांठको देखता है तबतक सुवर्ण नहीं पाया, तब तो परम दुःखको प्राप्त होकर विचारने लगा, “अहो धनहीन मेरे जीवनसे क्या है ? सो इस वटवृक्षमें अपनेको बाधकर प्राणत्यागन करूं” । ऐसा विचार कुशकी रस्सी बनाय अपने कठमे पाश डाल शाखामे अपनेको बाध जबतक अपनेको छोड़ता है तबतक एक पुरुष आकाशमें स्थित हुआ यह बोला,-“भो भो सोमिलक ! इस प्रकारका साहस मत कर मैं तेरे धनका हरण करनेवाला । भोजनाच्छादनस अधिक एक कौडी भी तेरेपास नहीं रहने देता । सो अपने घरको जा,तुम्हारे साहससे मैं संतुष्ट हुआहूं । मेरा दर्शन व्यर्थ नहीं होता सो कोई अभीष्ट वर माग,” सोमिलक बोला—“जो ऐसा है तो मुझको बहुत धन दो” । वह बोला,-“भोगरहित धनको लेकर क्या करेगा क्यों कि तुझको भोजनाच्छादनसे अधिक प्राप्ति नहीं है । कहा है-

किं तया क्रियते लक्ष्म्या या वधूरिव केवला ।
या च वेश्येव सामान्या पथिकैरुपभुज्यते ॥ १४४ ॥

उस सम्पत्तिसे क्या है जो पुत्रवधूकी समान केवल अभोग्य है जो साधारण वेश्याकी समान पथिकोंसे भोगी जाती है वही अच्छी है ॥ १४४ ॥ ”

( २६४ ) पञ्चतन्त्रम् ।

सोमिलक आह- “यद्यपि भोगो नास्ति तथापि तद्भवतु । उक्तञ्च-

सोमिलक बोला-“यद्यपि भोग नहीं है तथापि धन हो । कहा है-

कृपणोऽप्यकुलीनोऽपि सज्जनैर्वर्जितः सदा ।
सेव्यते स नरो लोके यस्य स्याद्वित्तसञ्चयः ॥ १४५ ॥

कृपण, अकुलीन, सज्जनोंसे सदा वर्जितभी धनी मनुष्यको लोकमें सब कोई सेवन करते हैं ॥ १४५ ॥

तथाच-
और देखो-

शिथिलौ च सुबद्धौ च पततः पततो न वा ।
निरीक्षितौ मया भद्रे ! दश वर्षाणि पञ्च च ॥ १४६ ॥

हे भद्रे ! मैंने पन्द्रहवर्षतक शिथिल दृढ पतित होते अपतित वृषण देखे हैं ॥ १४६ ॥

पुरुष आह-“किमेतत् ?” सोऽब्रवीत्-
पुरुष बोला,-“यह कैसी कथा ?” वह बोला-

कथा ६.

कस्मिंश्चित् अधिष्ठाने तीक्ष्णविषाणो नाम महावृषभः प्रतिवसति स्म, स च मदातिरेकात् परित्यक्तनिजयूथः शृङ्गाभ्यां नदीतटानि विदारयन् स्वेच्छया मरकतसदृशानि शष्पाणि भक्षयन् अरण्यचरो बभूव । अथ तत्र एव वने प्रलोभको नाम शृगालः प्रतिवसति स्म । स कदाचित् स्वभार्य्यया सह नदीतीरे सुखोपविष्टः तिष्ठति । अत्रान्तरे स तीक्ष्णविषाणो जलार्थं तदेव पुलिनमवतीर्णः । ततश्च तस्य लम्बमानौ वृषणौ अवलोक्य शृगाल्या शृगालोऽभिहितः- “स्वामिन् ! पश्य अस्य वृषभस्य मांसपिण्डौ लम्बमानौ यथा स्थितौ । तदेतौ क्षणेन प्रहरेण वा पतिष्यतः । एवं ज्ञात्वा भवता पृष्ठमनुयायिना भाव्यम्” । शृगाल आह- “प्रिये ! न ज्ञायते कदा एतयोः पतनं भविष्यति वा न वा ।

भाषाटीकासमेतम् । ( २६५ )

तत् किं वृथा श्रमाय मां नियोजयसि । अत्रस्थः तावज्जला- र्थमागतान् मूषकान् भक्षयिष्यामि समं त्वया मार्गोऽयं यतः तेषाम् । अपरं यदि त्वां मुक्त्वा अस्य तीक्ष्णविषाणस्य वृष- भस्य पृष्ठे गमिष्यामि तदा आगत्य अन्यः कश्चिदेतत् स्थानं समाश्रयिष्यति । न एतत् युज्यते कर्तुम् । उक्तञ्च-

किसी एक स्थानमें तीक्ष्ण शृंगनामवाला बैल रहता था वह मदकी अधि- कतासे अपने यूथको त्यागने किये शृंगोंसे नदीतटको विदीर्ण करता हुआ अपनी इच्छासे मरकतमणीकी समान घास खाता वनचारी भया । उसी वनमें प्रलोभक नाम शृगाल रहता था । वह कभी अपनी भार्याके सहित नदीके किनारे सुखसे बैठाथा, इसी समय तीक्ष्णशृंग जलपानके निमित्त नदीके तटपर आया । तब उसके लम्बायमान अण्डकोष देखकर शृगालीने शृगालसे कहा,- "स्वामिन् ! इस वृषभके मासपिण्ड लम्बायमान होते हुए देखो । सो यह एकही क्षणसे अथवा प्रहारसे गिर जायगे । ऐसा विचार कर तुम इसके पीछे फिरो" । शृगाल बोला- "प्रिये ! नहीं जाना जाता कि, कब इन दोनोंका पतन होगा वा नहीं । सो क्यों वृथा श्रममें मुझको नियुक्त करती है । यहीं पर स्थित हुआ जलपानके निमित्त आये हुए मूपकोंको तेरे साथ भक्षण करूंगा कारण कि, यह उनका मार्ग है । और यदि तुझको छोड़कर इस तीक्ष्णशृंगवाले वृषके पीछे जाऊंगा तो, आनकर और कोई इस स्थानको ग्रहण कर लेगा, सो यह करना उचित नहीं । कहा है-

यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते ।
ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च ॥ १४७ ॥”

जो विद्यमानको छोड़कर अविद्यमानका सेवन करता है उसके ध्रुव कार्य नष्ट होते हैं और अध्रुव नष्ट हैं हीं ॥ १४७ ॥”

शृगाली आह-“भोः कापुरुषस्त्वं यत्किञ्चित् प्राप्तं तेनापि सन्तोषं करोषि । उक्तञ्च-

शृगाली बोली,-“भो ! कापुरुष (डरपोक) तू जो कुछ प्राप्त हुआ है उसीसे सन्तोष करता है । कहा है-

( २६६ ) पञ्चतन्त्रम् ।

सुपूरा स्यात्कुनदिका सुपूरो मूषिकाञ्जलिः । सुसन्तुष्टः कापुरुषः स्वल्पकेनापि तुष्यति ॥ १४८ ॥

कुनदी जल्दी पूरी होजाती है, मूषिककी अंजली शीघ्र भर जाती है, कापुरुष शीघ्र थोड़ेहीसे सन्तुष्ट हो जाते हैं ॥ १४८ ॥

तस्मात् पुरुषेण सदा एव उत्साहवता भाव्यम् । उक्तञ्च- इस कारण पुरुषको सदा उत्साहसे रहना चाहिये । कहा है-

यत्रोत्साहसमारम्भो यत्रालस्यविहीनता । नयविक्रमसंयोगस्तत्र श्रीरचला ध्रुवम् ॥ १४९ ॥

जहां उत्साहसे आरम्भ होता है, जहां आलस्य हीनता होती है, जहां नीति और विक्रमका संयोग है वहां अचल लक्ष्मी रहती है ॥ १४९ ॥

तद्दैवमिति सञ्चिन्त्य त्यजेन्नोद्योगमात्मनः । अनुद्योगं विना तैलं तिलानां नोपजायते ॥ १५० ॥

योंही होगा ऐसा विचार कर अपना उद्योग त्यागना नहीं चाहिये अनुद्योगके विना तिलोंमेंसे तेलभी नहीं निकलता है ॥ १५० ॥

अन्यच्च- औरभी-

यःस्तोकेनापि सन्तोषं कुरुते मन्दधीर्जनः । तस्य भाग्यविहीनस्य दत्ता श्रीरपि मार्ज्यते ॥ १५१ ॥

जो मन्दबुद्धि पुरुष थोड़ेमेंही सन्तोष करता है उस भाग्यहीनकी दूसरोंकी दी हुई लक्ष्मीभी नष्ट हो जाती है ॥ १५१ ॥

यच्च त्वं वदसि, एतौ पतिष्यतो न वेति, तदपि अयुक्तम् । उक्तञ्च- और जो तुम कहते हो कि, यह गिरेंगे या नहीं सोभी अयुक्त है । कहाहै-

कृतनिश्चयिनो वन्द्यास्तुङ्गिमा न प्रशस्यते । चातकः को वराकोऽयं यस्येन्द्रो वारिवाहकः ॥ १५२ ॥

कारण, कि कार्यसिद्धिमें उत्साहवाले पूजनीय हैं हमारी उच्चाभिलाषा प्रशंसाको प्राप्त होती है यह चातक दीन क्या वस्तु है जिसके उत्साहसे देवराज जल देता है (उस क्षुद्रके निश्चयको जानकर देवराजभी उसके मनोरथको पूर्ण करता है) ॥ १५२ ॥

भाषाटीकासमेतम् । (२६७)

अपरं मूषकमांसस्य निर्विण्णा अहम्, एतौ च मांसपिण्डौ पतनप्रायौ दृश्येते, तत्सर्वथा नान्यथा कर्त्तव्यम्" इति। अथ असौ तदाकर्ण्य मूषकप्राप्तिस्थानं परित्यज्य तीक्ष्णविषाणस्य पृष्ठमन्वगच्छत् । अथवा साधु इदमुच्यते-

औरभी मूषकमांस खाते २ मेरा जी उकता गया है और यह मांसपिण्ड-प्रायः गिरजायेंगे ऐसा विदित होता है । सो सब प्रकारसे अन्यथा करना उचित नहीं" । तब यह ऐसे वचन श्रवण कर मूषकप्राप्ति स्थानको त्यागन कर तीक्ष्णविषाणके पीछे पीछे गया । अथवा यह अच्छा कहा है-

तावत्स्यात्सर्वकृत्येषु पुरुषोऽत्र स्वयं प्रभुः ।
स्त्रीवाक्याङ्कुशविक्षुण्णो यावन्नोद्ध्रियते बलात् ॥ १५३ ॥

तभीतक यह पुरुष सम्पूर्ण कार्योंमें स्वाधीन होता है जबतक बलपूर्वक स्त्रीके वाक्यरूपी अंकुशसे ताड़ित नहीं होता ॥ १५३ ॥

अकृत्यं मन्यते कृत्यमगम्यं मन्यते सुगम् ।
अभक्ष्यं मन्यते भक्ष्यं स्त्रीवाक्यप्रेरितो नरः ॥ १५४ ॥"

स्त्रीके वाक्यसे प्रेरित हुआ मनुष्य अकार्य्यको कार्य, अगम्य (दुर्गम) को सुगम और अभक्ष्यको भक्ष्य मानता है ॥ १५४ ॥"

एवं स तस्य पृष्ठतः सभार्य्यः परिभ्रमन् चिरकालमनयत् । न च तयोः पतनमभूत् । ततश्च निर्वेदात् पञ्चदशे वर्षे शृगालः स्वभार्यामाह,-

इस प्रकार वह उसके पीछे स्त्रीसहित परिभ्रमण करता २ बहुत समय बिताता हुआ परन्तु अण्डकोशोंका पतन न हुआ तब वैराग्यसे पन्द्रहवें वर्ष अपनी भार्यासे बोला,-

"शिथिलौ च सुबद्धौ च पततः पततो न वा ।
निरीक्षितौ मया भद्रे दश वर्षाणि पञ्च च ॥ १५५ ॥

"शिथिल हैं सुदृढ हैं गिरेंगे वा नहीं भद्रे १५ वर्षतक मैं बराबर देखता रहा ॥ १५५ ॥

त्तयोः तत्पश्चादपि पातो न भविष्यति । तद् तदेव स्वस्थानं गच्छावः । अतोऽहं ब्रवीमि-

( २६८ ) पञ्चतन्त्रम् ।

इन दोनोंका इसके पीछे भी पात न होगा । सो आओ अपने स्थानकौं चलें । इससे मैं कहता हूं-

शिथिलौ च सुबद्धौ च पततः पततो न वा ।
निरीक्षितौ मया भद्रे दश वर्षाणि पञ्च च ॥ १५६ ॥”

शिथिल और सुदृढ हैं गिरेंगे वा नहीं हे भद्रे ! यह मैंने बराबर पन्द्रह वर्ष-तक देखे ॥ १५६ ॥”

पुरुष आह-“यदि एवं तद्गच्छ भूयोऽपि वर्द्धमानपुरम् । तत्र द्वौ वणिक्पुत्रौ वसतः, एको गुप्तधनः, द्वितीय उपभुक्तधनः । ततः तयोः स्वरूपं बुद्ध्वा एकस्य वरः प्रार्थनीयः । यदि ते धनेन प्रयोजनम् अभक्षितेन ततः त्वामपि गुप्तधनं करोमि । अथवा दत्तभोग्येन धनेन ते प्रयोजनं तदुपभुक्तधनं करोमि” इति । एवमुक्त्वा अदर्शनं गतः । सोमिलकोऽपि विस्मितमना भूयोऽपि वर्द्धमानपुरं गतः । अथ सन्ध्यासमये श्रान्तः कथमपि तत्पुरं प्राप्तो गुप्तधनगृहं पृच्छन्कृच्छ्रात् लब्ध्वा अस्तमितसूर्ये प्रविष्टः । अथ असौ भार्य्यापुत्रसमेतेन गुप्तधनेन निर्भर्त्स्यमानो हठाद्गृहं प्रविश्य उपविष्टः । ततश्च भोजनवेलायां तस्यापि भक्तिवर्जितं किञ्चिदशनं दत्तम् । ततश्च भुक्त्वा तत्र एव यावत् सुप्तो निशीथे पश्यति तावत् तौ अपि द्वौ पुरुषौ परस्परं मन्त्रयतः । तत्र एक आह-“भोः कर्त्तः ! किं त्वया अस्य गुप्तधनस्य अन्योऽधिको व्ययो निर्मित्तो यत् सोमिलकस्य अनेन भोजनं दत्तम् । तदयुक्तं त्वया कृतम्” । स आह-“भोः कर्म्मन् ! न मम अत्र दोषः मया पुरुषस्य लाभप्राप्तिर्दातव्या । तत्परिणतिः पुनः त्वदायत्ता” इति । अथ असौ यावदुत्तिष्ठति तावत् गुप्तधनो विसूचिकया खिद्यमानो रुजाभिभूतः क्षणं तिष्ठति । ततो द्वितीयेऽह्नि तद्दोषेण कृतोपवासः सञ्जातः । सोमिलकोऽपि प्रभाते तद्गृहात् निष्क्रम्य उपभुक्तधनगृहं गतः । तेनापि च अभ्युत्थानादिना

भाषाटीकासमेतम्। (२६९)

सत्कृतो विहितभोजनाच्छादनसंमानः तस्य एव गृहे भव्यशय्यामारुह्य सुष्वप। ततश्च निशीथे यावत्पश्यति तावत् तौ एव द्वौ पुरुषौ मिथो मन्त्रयतः। अथ तयोः एक आह— “भोः कर्त्तः ! अनेन सोमिलकस्य उपकारं कुर्वता प्रभूतो व्ययः कृतः, तत् कथय कथमस्य उद्धारकविधिः भविष्यति। अनेन सर्वमेतद्व्यवहारकगृहात् समानीतम्”। स आह— “भोः कर्म्मन् मम कृत्यमेतत्। परिणतिः त्वदायत्ता” इति। अथ प्रभातसमये राजपुरुषो राजप्रसादजं वित्तम् आदाय समायात उपभुक्तधनाय समर्पयामास। तद् दृष्ट्वा सोमिलकः चिन्तयामास। “सञ्चयरहितोऽपिवरमेष उपभुक्तधनो न असौ गुप्तधनः। उक्तञ्च—

पुरुष बोला—"जो ऐसा है तो फिर वर्द्धमान पुरको जा वहा दो वणिक्पुत्र रहते हैं एक गुप्तधन दूसरा उपभुक्तधन (धनका भोगनेवाला) है उन दोनोंका आशय देखकर पीछे वर मांगना, और जो केवल तेरा भी गुप्तधन (धनरक्षा) से प्रयोजन होगा तो तुझे भी गुप्तधन करदूगा। अथवा दत्तभोग्य धनसे तेरा प्रयोजन होगा तो वैसा करदूगा”। यह कहकर वह अन्तर्हित हुआ। सोमिलक आश्चर्ययुक्त होकर फिर वर्द्धमानपुरको गया, सन्ध्या समय थका हुआ किसी प्रकार उस पुरमें प्राप्त हो गुप्तधनके घरको पूछता हुआ कठिनतासे प्राप्त होकर सूर्यास्तमें प्रविष्ट हुआ तब यह भार्या पुत्रके सहित हुए गुप्तधनसे घुडकाया हुआ भी हठसे उसके घरमें प्रवेश कर बैठगया, तब भोजनके समय उसको भी भक्तिसे हीन कुछ भोजन दिया, तब यह भोजन कर जबतक सो कर आधी रातमे देखता है कि, वही दोनों पुरुष परस्पर मन्त्रणा करते हैं। तब एक बोला— “भो प्रभो क्यों तुमने इस गुप्तधनका अधिक व्यय किया, जो सोमिलकको इसने भोजन दिया, सो यह तुमने अयुक्त किया”। वह बोला— “भो कर्मन् इसमें मेरा दोष नहीं मुझे तो पुरुषको लाभ प्राप्ति देनी है। उसका परिणाम तुम्हारे आधीन है”। सो यह जबतक उठता है तबतक गुप्तधन विषूचिका (उवान्त) रोगसे खेदको प्राप्त हुआ रुग्णहो क्षणमात्रको स्थित हुआ। सो दूसरे दिन उस दोषसे उसने लघन किया। सोमिलक भी प्रभात

( २७० ) पञ्चतन्त्रम् ।

समय उसके घरसे निकल उपभुक्तधनके घरको गया । उसने अभ्युत्थानादिसे सत्कार कर भोजनाच्छादनका सम्मान करा और उसीके घरमें मनोहर सेजपर सोगया । सो रात्रिमें जबतक देखता है तबतक दोनों पुरुष सम्मति करते हैं उन दोनोंमें एक बोला,-"भो ! स्वामिन् ! उसने सोमिलकका उपकार करके बहुत व्यय किया । सो कहो कैसे इसका उद्धार होगा इसने यह सब व्योपारीके घरसे प्राप्त किया है"। वह बोला-"भो ! कर्म्मन् ! यह सब मेरा कृत्य है । परिणाम आपके आधीनहै"। तब प्रभात समय राजपुरुष राजाकी प्रसन्नता ( इनाम ) के धनको लेकर उपभुक्तधनको समर्पण करते भये । यह देखकर वह सोमिलक विचारने लगा-“संचयसे रहित यह उपभुक्तधन अच्छा है न कि यह गुप्तधन । कहा है-

अग्निहोत्रफला वेदाः शीलवित्तफलं श्रुतम् ।
रतिपुत्रफला दारा दत्तभुक्तफलं धनम् ॥ १५७ ॥

वेद यज्ञानुष्ठानके फलवाले हैं, शास्त्रपढना देखनेका फल शील धन सुना है, स्त्रियें रति पुत्रफलके निमित्त हैं, धनका दान और भोगही फल है ॥ १५७ ॥

तद्विधाता मां दत्तभुक्तधनं करोतु, न कार्य्यं मे गुप्तधनेन" । ततः सोमिलको दत्तभुक्तधनः सञ्जातः । अतोऽहं ब्रवीमि- ।

सो विधाता 'मुझको दत्तभुक्त धन करे । गुप्तधनसे मेरा कुछ कार्य नहीं है" । तब सोमिलक दत्तभुक्तधन होगया । इससे मै कहता हूं-

“अर्थस्योपार्जनं कृत्वा नैव भोगं समश्नुते ।
अरण्यं महदासाद्य मूढः सोमिलको यथा ॥ १५८ ॥”

“अर्थ उत्पन्न करके भी उसको भोग नहीं सकता जैसे बडे बनमे प्राप्त होकर मूढ सोमलिक न भोगसका ॥ १५८ ॥”

तद्भद्र हिरण्यक ! एवं ज्ञात्वा धनविषये सन्तापो न कार्य्यः । अथ विद्यमानमपि धनं भोज्यबन्ध्यतया तत् अविद्यमानं मन्तव्यम् । उक्तञ्च-

सो हे भद्र ! हिरण्यक ! ऐसा जानकर धनके विषयमें सन्ताप मतकरो । सो विद्यमान भी धन भोगनेकी अशक्यतासे उसको नहीं की बराबर मानना चाहिये । कहा है-

भाषाटीकासमेतम् । ( २७१ )

"गृहमध्यनिखातेन धनेन धनिनो यदि ।
भवाम किं न तेनैव धनेन धनिनो वयम् ॥ १५९ ॥"

"घरमे गाडे हुए धनस ही यदि धनवान् धनी हो तो उसी धनसे हम क्यों न धनी गिने जायें ? ॥ १५९ ॥

तथाच-
तैसेही-

उपार्जितानामर्थानां त्याग एव हि रक्षणम् ।
तडागोदरसंस्थानां परीवाह इवाम्भसाम् ॥ १६० ॥

उपार्जन किये धनोंका त्याग ही रक्षा है जैसे सरोवरके मध्यमे स्थित जलोंका निकलना ॥ १६० ॥

दातव्यं भोक्तव्यं धनविषये सञ्चयो न कर्त्तव्यः ।
पश्येह मधुकरीणां सञ्चितमर्थं हरन्त्यन्ये ॥ १६१ ॥

देना चाहिये, भोगना चाहिये, परन्तु धनका सचय न करना देखो मधुमक्खियोका सञ्चित शहद अन्य जन हरण करते हैं ॥ १६१ ॥

अन्यच्च-
औरभी-

दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य ।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥ १६२ ॥

दान, भोग और नाश यह धनकी तीन गति होती हैं जो न देता न खाता है उसकी तीसरी गति ( धनका नाश ) होती है ॥ १६२ ॥

एवं ज्ञात्वा विवेकिना न स्थित्यर्थं वित्तोपार्जनं कर्त्तव्यं यतो दुःखाय तत् । उक्तञ्च-

ऐसा जानकर ज्ञानियोंको जोडनेके निमित्त धन उपार्जन करना न चाहिये जिससे कि वह दुखके निमित्त होताहै । कहाहै-

धनादिकेषु खिद्यन्ते येऽत्र मूर्खाः सुखाशयाः ।
तप्तग्रीष्मेण सेवन्ते शैत्यार्थं ते हुताशनम् ॥ १६३ ॥

सुखकी आशासे जो महामूर्ख धनादिमे खिद्यमान रहतेहैं, वे तप्त गरमीसे आर्तहुए शीतके निमित्त अग्निकी खोज करतेहैं ॥ १६३ ॥

( २७२ ) पञ्चतन्त्रम् ।

सर्पाः पिबन्ति पवनं न च दुर्बलास्ते
शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति ।
कन्दैः फलैर्मुनिवरा गमयन्ति कालं
सन्तोष एव पुरुषस्य परं निधानम् ॥ १६४ ॥

सर्प पवन पीतेहैं परन्तु वे दुर्बल नहीं हैं सूखे तृण खाकरही वनके हाथी बली होतेहैं, मुनिश्रेष्ठ कन्द और फलसे समयको बितातेहैं इससे सन्तोषही पुरुषोंका परम निधान ( आश्रय ) है ॥ १६४ ॥

सन्तोषामृततृप्तानां यत्सुखं शान्तचेतसाम् ।
कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् ॥ १६५ ॥

सन्तोषरूपी अमृतसे तृप्त हुए शान्त चित्तवालोंको जो सुखहै वह धनके लोभसे इधर उधर धावमान होते हुए पुरुषोंको कहां है ॥ १६५ ॥

पीयूषमिव सन्तोषं पिबतां निर्वृतिः परा ।
दुःखं निरन्तरं पुंसामसन्तोषवतां पुनः ॥ १६६ ॥

अमृतकी समान सन्तोषको पान करनेसे परम शान्ति होतीहै असन्तोषी पुरुषोंको निरन्तर दुःख होताहै ॥ १६६ ॥

निरोधाच्चेतसोऽक्षाणि निरुद्धान्यखिलान्यपि ।
आच्छादिते रवौ मेघैराच्छन्नाः स्युर्गभस्तयः ॥ १६७ ॥

चित्तके रुकनेसे सब इन्द्रिय रुक जातीहैं जैसे मेघके ढकनेसे सूर्यकी किरणेंभी ढकजातीहैं ॥ १६७ ॥

वाञ्छाविच्छेद नं प्राहुः स्वास्थ्यं शान्ता महर्षयः ।
वाञ्छा निवर्त्तते नार्थैः पिपासेवाग्निसंवनैः ॥ १६८ ॥

शान्त चित्तवाले महर्षि वासनाके विच्छेदको सुख कहतेहैं अग्निके सेवनसे प्यास जैसे निवृत्त नहीं होती ऐसेही धनसे वांछा निवृत्त नहीं होती ॥ १६८ ॥

अनिन्द्यमपि निन्दन्ति स्तुवन्त्यस्तुत्यमुच्चकैः ।
स्वापतेयकृते मर्त्याः किं किं नाम न कुर्वते ॥ १६९ ॥

मनुष्य धनके निमित्त अनिन्दितकी भी निन्दा करते हैं स्तुतिके अयोग्यकी भलीप्रकार स्तुति करतेहैं बहुत क्या ? क्या क्या नहीं करतेहैं ॥ १६९ ॥

भाषाटीकासमेतम् । ( २७३ )

धर्मार्थं यस्य वित्तेहा तस्यापि न शुभावहा ।
प्रक्षालनाद्धि पंकस्य दूरादस्पर्शनं वरम् ॥ १७० ॥

जिस मनुष्यका धर्मके निमित्त धन उपार्जन करनाहै वह चेष्टा भी भली नहीं है क्योंकि कीचके धोनेसे तो दूरसे उसका न छूनाही भला है ॥ १७० ॥

दानेन तुल्यो निधिरस्ति नान्यो
लोभाच्च नान्योऽस्ति रिपुः पृथिव्याम् ।
विभूषणं शीलसमं न चान्यत्
सन्तोषतुल्यं धनमस्ति नान्यत् ॥ १७१ ॥

दानकी तुल्य दूसरा निधि नहींहै, लोभसे अधिक पृथ्वीमें कोई शत्रु नहीं है, शीलकी समान दूसरा गहना नहीं और सन्तोषकी समान दूसरा धन नहीं है ॥ १७१॥

दारिद्र्यस्य परा भूतिर्यन्मानद्रविणाल्पता ।
जरद्गवधनः शर्वस्तथापि परमेश्वरः ॥ १७२ ॥

मानरूपी धनकी अल्पताही दारिद्र्यका ऐश्वर्य है । शिव जीर्ण वृषभक धनवाले होकरभी परमेश्वरहैं ( मानमे उन्नतहैं ) ॥ १७२ ॥

सकृत्कन्दुकपातेन पतत्यार्यः पतन्नपि ।
तथा पतति मूर्खस्तु मृत्पिण्डपतनं यथा ॥ १७३ ॥

श्रेष्ठ मनुष्य गेंदकी समान गिरकरभी फिर ऊपरको उछलताहै और मूर्ख तो ऐसे पतित होताहै कि जैसे मृत्पिण्ड गिरकर फिर नहीं उठताहै ॥ १७३ ॥

एवं ज्ञात्वा भद्र ! त्वया सन्तोषः कार्य्यः ” इति । मन्थरकवचनमाकर्ण्य वायस आह—“भद्र ! मन्थरको यत् एवं वदति तत् त्वया चित्ते कर्त्तव्यम् । अथवा साधु इदमुच्यते—

ऐसा जानकर हे भद्र ! आपको सन्तोष करना चाहिये”। मन्थरकके वचन सुनकर वायस बोला—“भद्र ! मन्थरक जो कहताहै वह तुझको चित्तमे करना चाहिये । अथवा यह सत्य कहाहै–

सुलभाः पुरुषा राजन्सततं प्रियवादिनः ।
अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ १७४ ॥

हे राजन् ! निरन्तर प्रियबोलनेवाले पुरुष बहुत हैं परन्तु सुननेमें अप्रिय वास्तवमें हितकारी वचनके कहने सुननेवाले दुर्लभहैं ॥ १७४ ॥

१८

( २७४ ) पञ्चतन्त्रम् ।

अप्रियाण्यपि पथ्यानि ये वदन्ति नृणामिह ।
त एव सुहृदः प्रोक्ता अन्ये स्युर्नामधारकाः ॥ १७५ ॥ ”

इस संसारमें जो मनुष्य अप्रिय तथा हितकारी वाक्योंको कहतेहैं वेही सुहृदहैं दूसरे नामधारीहैं ॥ १७५ ॥ ”

अथ एवं जल्पतां तेषां चित्रांगो नाम हरिणो लुब्धकत्रासितः तस्मिन् एव सरसि प्रविष्टः । अथ आयान्तं ससम्भ्रममवलोक्य लघुपतनको वृक्षमारूढः । हिरण्यको निकटवर्तिनं शरस्तम्बं प्रविष्टः । मन्थरकः सलिलाशयमास्थितः । अथ लघुपतनको मृगं सम्यक् परिज्ञाय मन्थरकं उवाच,—“एहि एहि सखे मन्थरक ! मृगोऽयं तृषार्त्तोऽत्र समायातः सरसि प्रविष्टः । तस्य शब्दोऽयं न मानुषसम्भवः” इति । तच्छ्रुत्वा मन्थरको देशकालोचितमाह,—“भो लघुपतनक ! यथा अयं मृगो दृश्यते प्रभूतं उच्छ्वासं उद्वहन् उद्भ्रान्तदृष्ट्या पृष्ठतोऽवलोकयति तन्न तृषार्त्त एव नूनं लुब्धकत्रासितः । तज्ज्ञायतामस्य पृष्ठे लुब्धका आगच्छन्ति न वा इति । उक्तञ्च—

इस प्रकार उनके वचन कहनेपर चित्राङ्ग नामक एक हरिण लुब्धकसे घबड़ाया हुआ उस सरोवरमें प्रविष्ट हुआ । तब उसको भयसे व्याकुल आया हुआ देखकर लघुपतनक वृक्षपर चढ़ा, हिरण्यक समीपवर्ती शरके स्तम्भमें प्रविष्ट हुआ, मन्थरक सरोवरमें घुस गया । तब लघुपतनक मृगको अच्छी प्रकार जानकर मन्थरकसे बोला,—“आओ आओ सखे मन्थरक ! यह मृग तृषासे व्याकुल यहां आकर सरोवरमें प्रविष्ट हुआहै । यह उसीका शब्दहै यहां मनुष्यका सम्भव नहींहै” । यह सुनकर मन्थरक देशकाल उचित वचन बोला,—“भो लघुपतनक ! जिसप्रकार यह मृग दीखताहै, बडे श्वास लेताहुआ चकित दृष्टिसे पीछेको देखताहै सो यह प्यासा नहींहै अवश्यही व्याधसे भीतहै । सो जाना जाय कि इसके पीछे लुब्धक आते हैं या नहीं । कहा है—

भयत्रस्तो नरः श्वासं प्रभूतं कुरुते मुहुः ।
दिशोऽवलोकयत्येव न स्वास्थ्यं व्रजति क्वचित् ॥ १७६ ॥

भयसे व्याकुल हुआ मनुष्य बारंबार श्वास लेताहै चारों ओर दिशाओंको दखता रहता है और स्वास्थ्यको प्राप्त नहीं होताहै ॥ १७६ ॥

भाषाटीकासमेतम् । ( २७५ )

तच्छ्रुत्वा चित्राङ्ग आह,—"भो मन्थरक ! ज्ञातं त्वया सम्यक् मे त्रासकारणम् । अहं लुब्धकशरप्रहारादुद्धारितः कृच्छ्रेण अत्र समायातः । मम यूथं तैः लुब्धकैः व्यापादितं भविष्यति । तत् शरणागतस्य मे दर्शय किञ्चित् अगम्यं स्थानं लुब्धकानाम्" । तदाकर्ण्य मन्थरक आह,—"भोः चित्राङ्ग श्रूयतां नीतिशास्त्रम्—

यह सुन चित्रांग बोला,—"भो मन्थरक ! तैने मेरे त्रासका कारण भलीप्रकार जानलिया । मैं व्याधके शरप्रहारसे बचकर कठिनतासे यहां आयाहू मेरा यूथ उन लुब्धकोंने मारडाला होगा । सो शरणमें आये हुए मुझे कोई स्थान बताओ जहां लुब्धक न पहुंचसके" । यह सुनकर मन्थरक बोला,—"भो चित्रांग ! नीतिशास्त्र सुनो—

द्वावुपायाविह प्रोक्तौ विमुक्तौ शत्रुदर्शने । हस्तयोश्चालनादेको द्वितीयः पादवेगजः ॥ १७७ ॥

शत्रुके दीखनेमें छूटनेकेलिये दोही उपाय है एक हाथ चलाना दूसरा चरणोमें वेग होना ॥ १७७ ॥

तद्गम्यतां शीघ्रं सघनं वनं, यावत् अद्यापि न आगच्छन्ति ते दुरात्मानो लुब्धकाः" । अत्रान्तरे लघुपतनकः सत्वरमभ्युपेत्य उवाच,—"भो मन्थरक ! गतास्ते लुब्धकाः स्वगृहोन्मुखाः प्रचुरमांसपिण्डधारिणः । तत् चित्राङ्ग ! त्वं विश्रब्धो वनात् बहिर्भव" ततस्ते चत्वारोऽपि मित्रभावमाश्रितास्तस्मिन्सरसि मध्याह्नसमये वृक्षच्छायाया अधस्तात् सुभाषितगोष्ठीसुखमनुभवन्तः सुखेन कालं नयन्ति । अथवा युक्तमेतदुच्यते—

सो शीघ्र सघन वनको चले जाओ जबतक अब वे लोभी दुरात्मा न आपहुंचे" । इसी अवसरमें लघुपतनक शीघ्रतासे आकर बोला—"भो मन्थरक ! गये वे व्याधे अपने घरकी ओर बहुतसे मांस पिण्डको लिये हुए । सो चित्राङ्ग ! निर्भय होकर तू वनसे बाहरहो" तब वे चारोंही मित्रभावको प्राप्त हुए उस सरोवरमे दोपहरके समय वृक्षकी छायाके नीचे सुभाषित गोष्ठीका सुख अनुभव करते हुए सुखसे समय बिताने लगे । अथवा यह युक्त कहा है—

( २७६ ) पञ्चतन्त्रम् ।

सुभाषितरसास्वादबद्धरोमाञ्चकञ्चुकाः ।
विनापि संगमं स्त्रीणां सुधियः सुखमासते ॥ १७८ ॥

सुभाषित गोष्ठीके रसरूपी स्वादसे जिनके रोमाञ्चरूप बखतर बंधे हुए-हैं वे बुद्धिमान् स्त्रियोंके संगके बिनाही सुखको प्राप्त होते हैं ॥ १७८ ॥

सुभाषितमयद्रव्यसंग्रहं न करोति यः ।
स तु प्रस्तावयज्ञेषु कां प्रदास्यति दक्षिणाम् ॥ १७९ ॥

जो सुन्दर वचनरूप द्रव्यका संग्रह नहीं करता है वह परस्पर आला-पके यज्ञमें किस दक्षिणाको देगा (अर्थात् सभ्योंको किस प्रकार सन्तुष्ट कर सकेगा) ॥ १७९ ॥

तथाच-
तैसेही-

सकृदुक्तं न गृह्णाति स्वयं वा न करोति यः ।
यस्य सम्पुटिका नास्ति कुतस्तस्य सुभाषितम् ॥ १८० ॥

जो एकही वार उच्चारण किये वचनको नहीं ग्रहण करलेता वा स्वयं नहीं करता है और जिसको ( १ ) आवरण भेद नहीं है उसको सुभाषित किस प्रकार आ सकता है ॥ १८० ॥

अथ एकस्मिन्नहनि गोष्ठीसमये चित्राङ्गो न आयातः । अथ ते व्याकुलीभूताः परस्परं जल्पितुं आरब्धाः-“अहो ! किमद्य सुहृन्न समायातः ? किं सिंहादिभिः क्वापि व्यापा-दितः ? उत लुब्धकैः ? अथवा अनले प्रपतितो गर्त्ताविषमे वा नवतृणलौल्यादिति । अथवा साधु इदमुच्यते-

तब एक दिन गोष्ठीके समय चित्रांग न आया तब वे सब व्याकुल हो परस्पर कहने लगे-“अहो ! आज हमारा सुहृद् क्यों न आया ? क्या कहीं सिंहादिने मारडाला वा व्याधोंने अथवा अग्नि वा कठिन गड्ढेमें गिरगया वा नव तृणके लोभसे ( कहीं गिरा ) ? अथवा सत्य कहा है-

स्वगृहोद्यानगतेऽपि स्निग्धैः पापं विशङ्क्यते मोहात् ।
किमु दृष्टबह्वपायप्रतिभयकान्तारमध्यस्थे ॥ १८१ ॥”


१ धारणा-सावधानीतियावत् ।

भाषाटीकासमेतम् । ( २७७ )

-प्रिय सुहृद् स्नेहके कारण घरके उद्यान ( बगीचे ) में गयेभी प्रियमें अनिष्टकी शंका करते हैं और बहुत आपत्तिवाले भययुक्त दारुण वनमें जानेसे तो क्या कहे ॥ १८१ ॥"

अथ मन्थरको वायसमाह—“भो लघुपतनक ! अहं हिरण्यकश्च तावद् द्वौ अपि अशक्तौ तस्य अन्वेषणं कर्तुं मन्दगतित्वात् । तद्गत्वा त्वं अरण्यं शोधय यदि कुत्रचित् तं जीवन्तं पश्यसि” इतितदाकर्ण्य लघुपतनको नातिदूरे यावद्गच्छति तावत् पल्वलतीरे चित्राङ्गः कूटपाशनियन्त्रितः तिष्ठति । तं दृष्ट्वा शोकव्याकुलितमनाः तमवोचत्—“भद्र ! किमिदं ?” चित्राङ्गोऽपि वायसमवलोक्य विशेषेण दुःखितमना बभूव । अथवा युक्तमेतत्—

तब मन्थरक वायससे बोला,—“भो लघुपतनक ! मैं और हिरण्यक दोनोंही उसके ढूंढनेमें असमर्थ हैं कारण कि हम मन्दगति हैं । सो जाकर तू वनमें शोधन कर यदि कहीं उसको जीता देखे ( उपायहो ) तो” । यह सुनकर लघुपतनक थोड़ीही दूर गया तो छोटे सरोवरके किनारे चित्राङ्ग कपट जालसे बँधा मिला । उसे देख शोकसे व्याकुल मन होकर उससे बोला,—“भद्र ! यह क्या है ?” चित्राङ्गभी वायसको देखकर बड़ा दुःखी हुआ । अथवा यह युक्तही है—

अपि मन्दत्वमापन्नो नष्टो वापीष्टदर्शनात् ।
प्रायेण प्राणिनां भूयो दुःखावेगोऽधिको भवेत् ॥ १८२ ॥

लघुताके प्राप्त होनेपर वा नष्ट होनेमें अपने सुहृदोंके देखनेसे प्राणियोंको दुःखावेग अधिक होजाता है ॥ १८२ ॥

ततश्च वाक्यावसाने चित्रांगो लघुपतनकमाह—“भो मित्र ! सञ्जातोऽयं तावन्मम मृत्युः । तत् युक्तं सम्पन्नं यद् भवता सह मे दर्शनं सञ्जातम् । उक्तञ्च—

उसके वचनके अन्तमें चित्राङ्ग लघुपतनकसे बोला—“भो ! मित्र यह मेरी मृत्यु उपस्थित हुई है सो अच्छाही हुआ जो आपका दर्शन मुझे हुआ। कहा है—

प्राणात्यये समुत्पन्ने यदि स्यान्मित्रदर्शनम् ।
तद्धाभ्यां सुखदं पश्चाज्जीवतोऽपि मृतस्य च ॥ १८३ ॥

( २७८ ) पञ्चतन्त्रम् ।

प्राण नाश उपस्थित होनेमें जो मित्रका दर्शन हो जाय तो दोनोंही प्रकारसे अर्थात् मित्रके कौशलसे जीवन और मृतक होनेसे उसके संस्कारसे सद्गति दोनोंही सुख होते हैं ॥ १८३ ॥

तत् क्षन्तव्यं यन्मया प्रणयात् सुभाषितगोष्ठीषु अभिहितम् । तथा हिरण्यकमन्थरकौ मम वाक्याद्वाच्यौ-

सो क्षमा करना जो मन प्रणयसे वार्तालापमें यदि कुछ ( अनुचित ) कहा हो और हिरण्यक मन्थरकसेभी मेरी ओरसे कहना-

अज्ञानाज्ज्ञानतो वापि दुरुक्तं यदुदाहृतम् ।
तत्क्षन्तव्यं युवाभ्यां मे कृत्वा प्रीतिपरं मनः ॥ १८४ ॥”

अज्ञान वा ज्ञानसे जो मैंने कभी तुम्हारे वचनको लौट दिया हो सो मेरे ऊपर प्रीति करके तुमको क्षमा करना चाहिये ॥ १८४ ॥”

तत् श्रुत्वा लघुपतनक आह-“भद्र ! न भेतव्यं अस्मद्विधैर्मित्रैर्विद्यमानैः, यावदहं द्रुततरं हिरण्यकं गृहीत्वा आगच्छामि । अपरं ये सत्पुरुषा भवन्ति ते व्यसने न व्याकुलत्वमुपयान्ति । उक्तञ्च-

यह सुनकर लघुपतनक बोला.-“भद्र हमसरीखे मित्रोंके विद्यमान होनेमें भय मतकरो । जबतक मैं शीघ्रतासे हिरण्यकको लेकर आऊं । और जो सत्पुरुष होते हैं वे व्यसन उपस्थित होनेमें घबडाते नहीं हैं । कहा है-

सम्पदि यस्य न हर्षो विपदि विषादो रणे न भीरुत्वम् ।
तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ॥१८५॥”

जो सम्पत्तिमें हर्ष, विपत्तिमें दुःख, युद्धमें भीरुता नहीं करता है उस तीनों भुवनके तिलक किसी एकही पुत्रको कोई माता उत्पन्न करती है॥१८५॥”

एवमुक्त्वा लघुपतनकः चित्राङ्गं आश्वास्य यत्र हिरण्यकमन्थरकौ तिष्ठतस्तत्र गत्वा सर्वं चित्रांगपाशपतनं कथितवान् । हिरण्यकश्च चित्राङ्गपाशमोक्षणं प्रति कृतनिश्चयं पृष्ठमारोप्य भूयोऽपि सत्वरं चित्रांगसमीपे गतः । सोऽपि मूषकमवलोक्य किञ्चित् जीविताशया संश्लिष्ट आह-

भाषाटीकासमेतम् । ( २७९ )

यह कह लघुपतनक चित्रांगको समझाकर जहा हिरण्यक मन्थरक थे वहा जाकर सम्पूर्ण चित्रागके पाशका बंधन कथन किया। चित्रागके पाश छेदनमें निश्चय करे हुए हिरण्यकको पीठपर चढा कर बहुत शीघ्र चित्रागके समीप गया। वहभी मूषकको देख कुछ जीनेकी आशासे युक्त हो बोला-

"आपन्नाशाय विबुधैः कर्त्तव्याः सुहृदोऽमलाः।
न तरत्यापदं कश्चिद्योऽत्र मित्रविवर्जितः॥ १८६ ॥"

"पंडितोको आपत्तिके नाश करनेको निर्मल सुहृद् करने चाहिये जो मित्रोंसे वर्जित है वह कभी आपत्तिको नहीं तर सक्ता है ॥ १८६ ॥"

हिरण्यक आह,—"भद्र ! त्वं तावत् नीतिशास्त्रज्ञो दक्षमतिः। तत् कथमत्र कूटपाशे पतितः" स आह,—"भो न कालोऽयं विवादस्य। तन्न यावत् स पापात्मा लुब्धकः समभ्येति तावत् द्रुततरं कर्त्तय इमं मत्पादपाशम्"। तदाकर्ण्य विहस्य आह,-हिरण्यकः-"किं मयि अपि समायाते लुब्धकात् विभेषि। ततः शास्त्रं प्रति महती मे विरक्तिः सम्पन्ना यद्भवद्विधा अपि नीतिशास्त्रविदः एनामवस्थां प्राप्नुवन्ति। तेन त्वां पृच्छामि"। स आह-"भद्र ! कर्मणा बुद्धिरपि हन्यते। उक्तञ्च-

हिरण्यक बोला-"भद्र तुम तो नीतिशास्त्रके ज्ञाता चतुर बुद्धिवाले हो। सो किस प्रकार इस कूटपाशमे फसगये" वह बोला,-"भो ! यह समय विवादका नहीं है सो जबतक वह पापात्मा लुब्धक नहीं आता तबतक शीघ्रतासे मेरे चरणोंकी पाशी काटो"। यह सुन हिरण्यक हँसकर बोला-"क्या मेरे आने पर भी लुब्धकसे डरता है। अब शास्त्रसे मुझे बडा भारी विराग प्राप्त हुआ। जो आप सरीखे नीतिशास्त्रके ज्ञाता इस अवस्थाको प्राप्त होते हैं इस कारण तुझसे पूछताहूं"। वह बोला-"भद्र ! कर्मसे बुद्धि क्षीण होजाती है। कहा है-

कृतान्तपाशबद्धानां दैवोपहतचेतसाम् ।
बुद्धयः कुब्जगामिन्यो भवन्ति महतामपि ॥ १८७ ॥

कालपाशमें बँधेहुओंकी दैवसे हत चित्तवाले महात्माओंकी बुद्धि भी कुटिलगामिनी होती है ॥ १८७ ॥

( २८० ) पञ्चतन्त्रम् ।

विधात्रा रचिता या सा ललाटेऽक्षरमालिका । न तां मार्जयितुं शक्ताः स्वबुद्ध्याप्यतिपण्डिताः ॥ १८८ ॥”

विधाताने जो अक्षरमाला मस्तकमें लिखदी है पंडित जन उसको अपनी बुद्धिसे कोई मेट नहीं सकता है ॥ १८८ ॥”

एवं तयोः प्रवदतोः सुहृद्व्यसनसन्तप्तहृदयो मन्थरकः शनैः शनैः तं प्रदेशमाजगाम । तं दृष्ट्वा लघुपतनको हिरण्यकमाह- “अहो ! न शोभनमापतितं” । हिरण्यक आह- “किं स लुब्धकः समायाति ?” । स आह- “आस्तां तावत् लुब्धकवार्त्ता । एष मन्थरकः समागच्छति । तत् अनीतिः अनुष्ठिता अनेन यतो वयमपि अस्य कारणात् नूनं व्यापादनं यास्यामो यदि स पापात्मा लुब्धकः समागमिष्यति, तदहं तावत् खमुत्पतिष्यामि । त्वं पुनर्बिलं प्रविश्य आत्मानं रक्षिष्यसि । चित्रांगोऽपि वेगेन दिगन्तरं यास्यति । एष पुनर्जंलचरः स्थले कथं भविष्यति इति व्याकुलोऽस्मि” । अत्रान्तरे प्राप्तोऽयं मन्थरकः । हिरण्यक आह- “भद्र ! न युक्तं अनुष्ठितं भवता, यदत्र समायातः तद् भूयोऽपि द्रुततरं गम्यतां, यावत् असौ लुब्धको न समायाति” । मन्थरक आह- “भद्र ! किं करोमि ? न शक्नोमि तत्रस्थो मित्रव्यसनाग्निदाहं सोढुम् । तेनाहमत्रागतः। अथवा साधु इदमुच्यते ।

इस प्रकार उन दोनोंके कथनमें मित्रके दुःखसे तापित हृदय मन्थरकभी शनैः २ उस स्थानमें आया । उसे देख लघुपतनक हिरण्यकसे बोला,- “अहो ! यह अच्छा न हुआ” हिरण्यक बोला,- “क्या वह लुब्धक आया ?” । वह बोला- “व्याधेकी बात तो रहने दो । यह मन्थरक आरहा है । सो अनुचित किया इसने, हम भी इसके कारणसे अवश्य नाशको प्राप्त होंगे यदि वह पापात्मा लुब्धक आगया तो । सो मैं तो आकामें उड जाऊंगा, तू बिलमें प्रवेश कर जायगा, चित्राङ्ग दिशान्तरमें पलायन कर जायगा, इस जलचरकी स्थलमें क्या दशा होगी इस कारण मैं व्याकुल हो रहाहूं” । इसी समय मन्थरक प्राप्त हुआ । हिरण्यक बोला- “भद्र आपने अच्छा नहीं किया, जो यहां आगये,

भाषाटीकासमेतम् । (२८१)

सो बहुत शीघ्रतासे चले जाओ जबतक वह लुब्धक न आवे" मन्थरक बोला,- "भद्र मैं क्या करू ? वहा स्थित हुआ मैं मित्रके दुःखरूपी अग्नि-दाह सहनेको समर्थ नहीं हू। इस कारणसे मैं यहा आगया । अथवा अच्छा कहा है-

दयितजनविप्रयोगो वित्तवियोगश्च केन सह्याः स्युः ।
यदि सुमहौषधकल्पो वयस्यजनसंगमो न स्यात् ॥१८९॥

प्रिय जनोंका वियोग और धनका वियोग कौन सह सकता है। जो यह महौषधिकी समान मित्र जनका सगम न हो ॥ १८९ ॥

वरं प्राणपरित्यागो न वियोगो भवादृशैः ।
प्राणा जन्मान्तरे भूयो न भवन्ति भवद्विधाः ॥ १९० ॥"

प्राण त्यागन करना अच्छा है परन्तु आपसरीखोंका वियोग अच्छा नहीं है। प्राण तो जन्मान्तरमे भी हो सक्ते हैं परन्तु आपसरीखे सुहृद् नहीं मिलते है ॥ १९० ॥"

एवं तस्य प्रवदत आकर्णपूरितशरासनो लुब्धकोऽपि उपागतः, तं दृष्ट्वा मूषकेण तस्य स्नायुपाशस्तत्क्षणात् खण्डितः । अत्रान्तरे चित्रांगः सत्वरं पृष्ठमवलोकयन् प्रधावितः । लघुपतनको वृक्षमारूढः । हिरण्यकश्च समीपवर्ति बिलं प्रविष्टः, अथ असौ लुब्धको मृगगमनात् विषण्णवदनो व्यर्थश्रमः तं मन्थरकं मन्दं मन्दं स्थलमध्ये गच्छन्तं दृष्टवान् अचिन्तयच्च । "यद्यपि कुरंगो धात्रा अपहृतः तथापि अयं कूर्म आहारार्थं सम्पादितः । तदद्य अस्य आमिषेण मे कुटुम्बस्य आहारनिवृत्तिः भविष्याते" एवं विचिन्त्य तं दर्भैः संच्छाद्य धनुषि समारोप्य स्कन्धे कृत्वा गृहं प्रति प्रस्थितः, अत्रान्तरे तं नीयमानमवलोक्य हिरण्यको दुःखाकुलः पर्य्यदेवयत् । "कष्टं भोः ! कष्टमापतितम्-

इस प्रकार उनके वचन कहते कर्णपर्य्यन्त धनुष चढाये लुब्धक भी आया । उसको देखकर मूषकने उसके तातके बधन उसी क्षण छेदन कर दिये । उसी समय चित्राग बहुत शीघ्र पीछे देखता हुआ धावमान हुआ । लघुपतनक पेड़