पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)
Panchatantram with Sanskrit & Hindi Commentary
पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा
पृष्ठ 333, कुल 536 में से
संदर्भ में पढ़ें( ३१८ ) पञ्चतन्त्रम् ।
निकल जाओ" शशक बोला,-"यह तेरा नहीं किन्तु मेरा घर है । सो क्यों मिथ्या कठोर वचन कहता है । कहा है-
वापीकूपतडागानां देवालयकुजन्मनाम् ।
उत्सर्गात्परतः स्वाम्यमपि कर्तुं न शक्यते ॥ ९३ ॥
बावडी कुए तडागोंको देवालय तथा वृक्षोंको छोडकर फिर इनपर कोई अपना प्रभुत्व नहीं कर सक्ता ॥ ९३ ॥
तथाच-
तैसेही-
प्रत्यक्षं यस्य यद्भुक्तं क्षेत्राद्यं दश वत्सरान् ।
तत्र भुक्तिः प्रमाणं स्यान्न साक्षी नाक्षराणि वा ॥ ९४ ॥
दश वर्षतक जिसने प्रत्यक्ष क्षेत्रादिका भोग किया है उसमें भोगही प्रमाण २ साक्षी और लेखकी आवश्यकता नहीं है ॥ ९४ ॥
मानुषाणामयं न्यायो मुनिभिः परिकीर्त्तितः ।
तिरश्चाञ्च विहङ्गानां यावदेव समाश्रयः ॥ ९५ ॥
मनुष्योंका यह न्याय मुनियोंने कहा है पशु और पक्षियोंकी जबतक जहां स्थिति है तबतक वह वहांका अधीश्वर है ॥ ९५ ॥
तन्मम एतद्गृहं न तव" इति । कपिञ्जल आह,-"भो ! यदि स्मृतिं प्रमाणीकरोषि तदागच्छ मया सह येन स्मृतिपाठकं पृष्ट्वा स यस्य ददाति स गृह्णातु । तथानुष्ठिते मया अपि चिन्तितम् । "किमत्र भविष्यति । मया द्रष्टव्योऽयं न्यायः" । ततः कौतुकादहमपि तावनु प्रस्थितः । अत्रान्तरे तीक्ष्णदंष्ट्रो नाम अरण्यमार्जारः तयोर्विवादं श्रुत्वा मार्गासन्नं नदीतटमासाद्य कृतकुशोपग्रहो निमीलितनयन ऊर्ध्वबाहुरेकपादस्पृष्टभूमिः श्रीसूर्याभिमुख इमां धर्मोपदेशनामकरोत् । "अहो ! असारोऽयं संसारः क्षणभङ्गुराः प्राणाः । स्वप्नसदृशः प्रियसमागमः । इन्द्रजालवत् कुटुम्बपरिग्रहोऽयम् । तत्त धर्मं मुक्त्वा नान्या गतिः अस्ति । उक्तञ्च-