प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)
Pratimanatakam of Mahakavi Bhasa with Commentary
महाकवि भास द्वारा
पृष्ठ 41, कुल 178 में से
संदर्भ में पढ़ें( 38 ) (नेपथ्य मे) आर्य, आर्य, (सुनकर) सूत्रधार-- अच्छा, समझ गया । जिस तरह काश पुष्पों के समान श्वेत रेशमी वस्त्र पहने प्रसन्नहृदय द्वारपालिका शीघ्रतापूर्वक महाराज दशरथ के अन्तः-पुर में घूम रह है । (२) (दोनो निकल जाते हैं ।) इति स्थापना । (२) मूल (प्रविश्य) प्रतिहारी—आर्य ! क इह काञ्चुकीयानां सन्निहितः । (प्रविश्य) काञ्चुकीयः—भवति ! अयमस्मि । कि क्रियताम् ? प्रतिहारी—आर्य ! महाराजो देवासुरसङ्ग्रामेष्वप्रतिहतमहारथो दशरथ आज्ञापयति-शीघ्रं भर्तृ दारकस्य रामस्य राज्यप्रभावसंयोग कारका अभिषेकसम्भारा आनीयन्तामिति । काञ्चुकीयः—भवति ! यदाज्ञप्तं महाराजेन, तत् सर्वम् सक ल्पितम् । पश्य- छत्रं सव्यजनं सनन्दिपटहं भद्रासन कल्पित न्यस्ता हेममया. सदर्भकुसुमास्तीर्थाम्बुपूर्णा घटाः । युक्तः पुष्यरथश्च मन्त्रिसहिताः पौरा. समभ्यागताः सर्वस्यास्य हि मंगलं स भगवान् वेद्यां वसिष्ठः स्थितः ॥ (३) प्रतिहारी-यद्येवं, शोभनं कृतम् ! काञ्चुकीयः-हन्त भोः ! इदानीं भूमिपालेन कृतकृत्याः कृताः प्रजाः । रामाभिधानं मेदिन्यां शशाङ्कमभिषिञ्चता ॥ (४) प्रतिहारी-त्वरतां त्वरतामिदानीमार्यः । काञ्चुकीयः—भवति ! इदं त्वर्यते । (निष्क्रान्तः) प्रतिहारी-(परिक्रम्यावलोक्य) आर्य ! सम्भवक ! सम्भवक !