पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पञ्चमः सर्गः . १२५ करणानि कर्माणि संश्रयो यस्य तं भोगं बुद्धिबलेनैव भजन्द्रष्टा सर्व- व्यव(l.1)हारसाक्षी संन्नेव स्वं पुरुषार्थ कृतार्थतामनयत् शत्रूञ्जितवानित्यर्थः . सांख्यदर्शनवादिना(l.2)मात्मा सप्तधा बुद्ध्यहंकारतन्मात्रपञ्चकत्वेन प्र- कृतेर्जातं विकारमस्पृशन्मूलप्रकृतिसङ्गतां बु(l.3)द्धिं भासयंश्चिच्छायाया च्छुरयन्बुद्धिमुखेनैव करणसंश्रयं चक्षुरादीन्द्रियाश्रयं भोगं भजन्बुद्धि(l.4)- मुखेनैव पुरुषार्थं पुरुषविवेकरूपं कृतार्थतां नयति ॥ नीतिशास्त्रीये वस्तुनि साङ्ख्यशास्त्रीयव(l.5)स्तुसमारोपः ॥ 103. स्फुरत्प्रज्ञाबलोत्साहसिद्ध्युपायगुणोदया . सर्वाङ्गसुन्दरी यस्य(l.6) नीतिर्वल्लभतां ययौ ॥ स्फुरन्तः प्रभावबलोत्साहा येषु ते सिद्ध्युपायगुणोदया यस्यां सा. सि(l.7)द्धयो भूम्यादीनामुपायास्सामादयः उदया आत्मादीनाम् . तथा स- र्वाङ्गेषु स्वाम्यादिषु(l.8) सुन्दरी यस्य नीतिर्वल्लभतां श्रद्धेयत्वं ययौ . तन्नी- तिरन्येषां काङ्क्षणीयाभूदित्यर्थः ॥ स्फुर(l.9)द्भिः प्रज्ञाबलोत्साहैस्सिद्धौ वशीकरणे उपायात्मकानां गुणानामुदयो यस्यां सा . प्रज्ञा(l.10)दिभि- र्भूर्वशीकृतेत्यर्थः ॥ अत्र नीतिशास्त्रप्रसिद्धे वस्तुनि नायिकाव्यवहार- प्रतीतिः ॥(l.11) 104. भूसत्तायामुदात्तो यः परस्मै पदमग्रहीत् . अनुदात्तो रिपुस्तस्य भूमाप्तावात्मनेपदी ॥(l.12) भुवि सत्तायां प्रशस्तत्वे साम्राज्ये सति यः परस्मै परार्थं पदं त्राण- मग्रहीत् यत उदात्तः(l.13)•••••••••••••र्थमेव पदीर्य?(l.14) 105. Lines 15 to end of page missing “ मन्त्र्यपेक्षा दैवनियोगज्ञस्य मित्रबलापेक्षा च नाभूत् ॥ यष्षट्संख्यकं 1 Ms. संदे°. 2 Ms. °रीदी°. 3 Text प्रज्ञा°. 4 Add नीतिशास्त्रीये वस्तुनि व्याकरणशास्त्रीयव्यवहारसमारोपः. 5 Ms. °बलेपे°.
प्रमाणं जानाति विनियोगं च वेत्ति स ईश्वरं सर्वज्ञं नापेक्षते ॥ लौकिके मीमांसाव्यवहारसमारोपः ॥ १०६. सपक्षे ददृशे नांस्ते विपक्षे यज्जडात्मनि . तत्प्रतापाग्निमान्भूभृद्धेतौ धूमेन्वमायि यः ॥ जनेन सं पक्षे स्वाश्रिते विषये यद्ददृशे स्वपक्षस्योपकारं कुर्व- न्यदृष्ट इत्यर्थः जडात्मनि विपक्षे शत्रौ यन्नास्ते अपकारप्रवृत्त(l.4) एवाभू- दित्यर्थः तत्तस्माद्धेतावायुधे खङ्गे सत्यां भूभृत्प्रतापाग्निमाननुमितः . धूमे इ(l.5)ति हेतोरारोपः कालत्वेन धूमानुकारात् स पक्षे महानसे दृष्टः विपक्षे जलादौ न दृष्टः(l.6) ततो भूभृत्पर्वतो धूमे हेतौ कारणे लिङ्गे सत्यग्निमान- नुमीयते ॥ लौकिके तर्कव्यवहार(l.7)समारोपः ॥ १०७. अहार्यलङ्घनैस्त्यक्तरसास्वादैस्सदूषणैः . येन पीनसितावस्थां कीर्त्ति(l.8)रत्याजि वैरिणाम् ॥ येन राज्ञा शत्रूणां कीर्त्तिः [पीन]सितां चावस्थां [त्या]जिता[तीव] ल(l.9)घुर्मलिना च कीर्त्तिः कृतेत्यर्थः यतः अहार्याणां पर्वतानां [ल]ङ्घनै- रारोहावरोहैस्त्यक्तो(l.10) रसाया भूमेरास्वादो यैः कारणभूतैः सह दूषणेन दोषेण यानि तैः. अहार्यैरपरि(l.11)हार्यैश्च लङ्घनैर्भोजनविच्छेदादिभिः त्यक्तो रसा[नां मधु]रादीनामास्वादो येषु तथा(l.12) तच्छोभनभूषणैरां मरीचादियैषु तैर्हेतुभिर्भिषजा परिमितों(?) प्रतिश्यायवत्त्वं तस्या अव- (l.13)······जते . गतिबुद्धीति नियमात्कीर्त्तिशब्दस्य कर्मत्वम् . तस्य चात्याँजीत्यत्र कर्मण्यत्पन्ने(l.14)·············· ॥ लौकिके आयुर्वेद(l.15)- १०८. Lines 16 to the end of page missing
1 Ms. °शेनं°. 2 Ms. राजा crossed after स. 3 Ms. °रकंकुं°. 4 Ms. °दिकै. 5 Ms. Sic. Is it सति ? 6 Ms. °त्पर्वतश्च crossed after °भृ°. 7 Ms. हेतेरा°. 8 Ms. पनीसि°. 9 Ms. °वस्या. 10 Ms. Sic. Is it सङ्ग्रोजनदूषण्यं ? 11 Sic. Read पीनसिता. 12 Ms. °तिबोधेति. Pāṇini, 1.4.52. 13 Ms. °त्यत्जी°.
पञ्चमः सर्गः . १२७ — यशसि यं भूमिराश्लिष्टांशनि र[१]संः . रजस्वलास्वभावोयं विधिनैवोपपादितः ॥ यस्य(l.1)••••••••निमज्ज्या(?)यमालिङ्ग्य भूमिः रत्नपूर्णातां(?) विधिनैवायं रजस्वलास्वभाव उपपादितः . र(l.2)जस्वला ऋतुमती सपांसुश्च ॥ १०९. लालनाताडनविर्दा्मनुरज्यन्ति योषितः . अतो यशःप्रता(l.3)पाभ्यां भूमिस्तेन [वशी]कृता ॥ लालना प्रीतिस्तां ताडनं च ये विदन्ति तेषां स्त्रियोनुरज्यन्ति अतो (l.4) हे[४]तोस्तेन यशःप्र[तापाभ्यां भू] मिर्वशीकृता ॥ समासोक्तयः ॥ ११०. बुद्धिमद्भिर्बु(l.5)द्धाशास्त्रैस्सत्यवा[दिभि]— — . व्यायामिभिर्बलीयोभिस्सहायैयों विदिद्युते ॥ बुद्धिमत्त्वादि(l.6) विशिष्टैस्सहायैयों दीप्तः ॥ परिकरः ॥ विशेषणानां साभिप्रायत्वात् ॥ १११. अहिद्वि(l.7)षा प्रसिद्धेन गोमण्डलधरेण च . स्वैरावतारोचितेन हरिणा यस्समोभवत् ॥ अहिः कालिय(l.8)नागो वृत्रासुरश्च अहिर्भातृव्यश्च तद्विषा गावो धेनवो नेत्रादि च गौर्भूमिश्च तन्मण्डलधरेण(l.9) स्वैरं स्वेच्छयावतारेषु मत्स्यादिरूपग्रहणेषूचितेन स्वश्वासावैरावत ऐरावणस्तेन रोचिते(l.10)न स्वात्मीया ऐरी इरायां भूमौ भवा भूमिविषया अवता रक्षकता तया रोचितो यो राजा ह(l.11)रिणा विष्णुना इन्द्रेण च समोभवत् ॥ विशेष्यस्य विशे- षणानां च साम्याच्छ्लेषः ॥ अत्राच्यु (l.12) तेन्द्रयोरप्रस्तुतयोः श्लेषः ॥ 112. 1 Ms. °राश्लिष्या°. 2 Is it रत्नसूः ? 3 Is it रत्नसूर्जाता ? 4 Ms. °दिना°. 5 Ms. °तो अतो हे°. 6 Ms. °सत्वा°. 7 Ms. °शेषार्णां. 8 Ms. °भातव्य°. 9 Read °स्तेनारो°.
१२८ पृथ्वीराजविजयमहाकाव्यम्. यस्सद्दन्तायुधकरान्परिहर्त्तव्यपद्धतीन् • अत्यन्तगर्जनान्मत्ता(l.13)न्मातङ्गानजयद्रणे ॥ यो मातङ्गानम्लेच्छांश्च युद्धेजयत् सद्दन्तानि शोभनधाराणि आयुधा- नि(l.14)……………वरेण च सहितान् तथा त्याज्यमार्गान् म्लेच्छानां दुराचारत्वात्(l.15)……………म्लेच्छानां(l.16) 113. [Lines 17 to end of page missing](** .33) नत्वम् पदानां सुप्तिङन्तानां भङ्गेनांशांशिकं………भेदेन नीरसा रस- वर्जिताः भिन्नस्स्वर उदा(l.1)त्तादिर्येषां तथा स्वापास्तसुलभाश्शब्दा न तु लक्ष्यादयोर्था यैस्ते यस्य द्विषश्शेषा इवासन् ॥(l.2) अत्र शत्रुशेषयोः प्रस्तु- ताप्रस्तुतयोश्श्लेषः ॥ श्लेषत्रयम् ॥ 114. अत्यन्तशुद्धपक्षा(l.3)णां स्वहंसानामिवान्तरम् • यत्पूर्वजन्मपुण्यानामज्ञासीत्केवलं विधिः ॥ यस्य पूर्वज(l.4)न्मनि पुण्यानामन्तरं विधिरेवं ज्ञातवान् • अत्यन्तं शुद्धः पक्षास्सिद्धान्तो येषाम् हंसपक्षे पक्षाः प(l.5)तत्राणि ॥ अत्र शुभ्रव- स्तुसम्पत्तिलक्षणे कार्येप्रस्तुततत्कीर्त्तनपूर्वजन्मपुण्याभिधानाद्(l.6)प्रस्तुत- प्रशंसा ॥ 115. अनादित्यमिव व्योम तामसा इव वासराः • अलोचनेवं जनता जज्ञे(l.7) यस्य प्रयाणके ॥ यस्य प्रयाणे सति आकाशादीनां सूर्यादिरहितत्वमिव जातम् ॥ अत्र से- (l.8)नार
पञ्चमः सर्गः . १२६ रात्रावपि प(l.10)द्मिन्यैस्तथा दिवाप्युत्पलिन्यो यन्न विकासितास्तत्र जाड्यमेव हेतुः ।। तद्राज्ये जडा एव न विक(l.11)सिता इति सामान्ये प्रस्तुते तद्विशेषकुमुदिनीपद्मिन्यभिधानेनाप्रस्तुतप्रशंसा ।।(l.12) ११७. वर्द्धर्यमानं स्वकुलजैः केषांचित्पुण्यकर्मणाम् . कल्पान्तस्थायितामेति धनं स्थाने निवेशितम् ।।(l.13) पूर्वपुरुषैर्वर्ध्यमानं स्थाने निवेशितं सत्कल्पान्तं तावत्स्थैर्यं केषांचिद्भा- ग्यवतामेति ।। अत्राज(l.14)³...............ते सामान्याभिधानेनाप्रस्तु- तप्रशंसा.............(l.15)..........पृथिव्यामपि सं......... ..........(l.16) ११८. Lines 17 to end of page missing र्जा नगरं कृतवान् येषु काव्येषु तन्नगरं न वर्णितं तानि काव्यानि धन्यानि न भवन्ति ।। तान्यधन्यानीत्यत्रं वै(l.1)धर्म्येणाप्रस्तुतप्रशंसा इदं काव्यं धन्यमिति प्रस्तुतार्थप्रतीतेः ।। ११९. भवत्यजयमेरुत्वं सार्थं यस्य सु(l.2)रालयैः . न हि पुण्यप्रभावेण तदस्त्येव न यद्भवेत् ।। यस्य नगरस्याजयमेरुभावस्सार्थको भव(l.3)ति देवावासैः . मेरुर्हि देवावासः . एतमेव विशेषं सामान्येन समर्थयते . न यद्भवेत्तन्नास्ति किं तर्हि(l.4) सर्वमेव भवेदित्यर्थः पुण्यप्रभावात् ।। अर्थान्तरन्यासः ।। १२०. धीर्यत्रावैति नोत्कर्षं शिवपा(l.5)दयुगं विना . उल्का एव हि सर्वेस्मिन्नृपयो दर्शनं प्रति ।। शिवपादद्वयादन्यद्वस्तु सोत्कर्षं बुद्धि(l.6)र्न जानाति . एतदेवोत्तरार्धेन 1 Ms. °न्यस्तं°. 2 Ms. °ग्यतां°. 3 Restore °त्राजयराजस्य नगरनिर्माणे प्रस्तुते. 4 This might be part of a shloka. 5 Read स रां°. १७
१३० पृथ्वीराजविजयमहाकाव्यम्. कारणाभूतेन समर्थयते . शिवपाददर्शनार्थं सर्वे ऋषयो यस्मात्सो(l.7)- त्कण्ठाः ॥ कारणमृषीणामुत्कण्ठितत्वं समर्थकमित्यर्थान्तरन्यासः ॥ 121. यत्र प्रत्यक्षफ(l.8)लदस्सेवितोऽग्निसुकर्मणाम् · धूमो हि घनतामेत्य भजते वृष्टिहेतुताम् ॥ यत्र शोभन(l.9)कर्मणां फलदोऽग्निर्भवति . तथा हि यज्ञादिषु धूमो वृष्टिहेतुर्भवति . अत्र अग्निसेवनस्य कार(l.10)[णस्य कार्यं]......... समर्थकम् ॥ अर्थान्तरन्यासः ॥ 122. उच्चेतताराकुसुमा वन्द्य(l.11)[मन्दाकिनीह्रदा]¹ · ——त्र श्रव्यसप्तर्षितृतीयसवनस्वरा ॥ उच्चेतुं शक्यानि ताराकुसुमानि य(l.12)[स्यां वन्दितुं शक्यो मन्दा]- किनीह्रदो यस्यां तथा श्रोतुं² शक्यश्रव्यस्तृतीये सवने स्नाने³ स्व- रो(l.13) 123. Lines 14 to end of page missing [——]प्राप्तप्रवेशाभिरीतिभिस्सुखमास्यते ॥ · द्वितीयां व्याजस्तुतिः ॥.........व्य......(l.1)नैयरूपया स्तुत्या⁵ निन्दायाः पर्यवसाने प्रतीतेः ॥ 124. तुङ्गत्वात्सर्वतो दृश्यं यदि——-⁷(l.2)क्तिकम् · सर्वत्र भ्राम्यताद्यापि कलिना यन्न वीक्षितम् ॥ तुङ्गत्वात्सर्वतो दृश्यं वस्तु भंवतीति यदेत⁸दतुपपन्नम् य⁹द्वा
1 Ms. ॰हदो. 2 Ms. श्रातुं. 3 Sic. (!) 4 [पर्यायोक्तम्. गम्यस्योक्तत्वस्य भङ्ग्यन्तरेणाभिधा- नात् ] 5 Illustration of व्याजस्तुति in which निन्दाभिधीयमानापि प्रमाणान्तराद्वाधितस्व- रूपा स्तुतौ पर्यवस्यति is lost. 6 Is it ईतीनां सुखासनरू° ? 7 Restore वस्त्वित्य- यौक्तिकम्. 8 Should be यदेतत्तदनु॰. 9 Is it यथा ?
पञ्चमः सर्गः . १३१ यन्नगरम् तथा हि सर्वासु दिक्षु भ्राम्यतापि कलियुगेनोन्नतर्मपि तत्पुरं न दृष्टम् . कलिस्तत्र न प्रविष्ट इत्यर्थः ॥ आक्षेपः ॥ अत्र वक्तुं युक्तस्यौ- (l.5)न्नत्यस्यानुक्तिमदित्यनेन प्रतिपादितो निषेधो निषेधाभासस्सम्पद्यमान- स्सदाचारं कलिप्रवेशाभावप्ररूढं विशेषमाक्षिपति ॥ 125. न यत्र धार्मिकः कश्चित्कीर्त्तिकामो नरोपि वा . अनाश्रयेण न प्राप्तः प्रवेशः कलिना क्वचित् ॥ यत्र नगरे धार्मिकः कीर्त्ति[का]मो वा कश्चिन्नास्तीति साध्यम् . अत्र साधनमाह अश्रयेण कलिना तत्र प्रवेशः क्वचिदपि न लब्धः ॥ आक्षेपः ॥(l 9) निषेधेनातिधार्मिकतारूपस्य विशेषस्य प्रतीतेः ॥ 126. किं नाम वर्ण्यते यस्य धुरीणैरपि वाग्मि(l.10)[भिः] . —————जि सर्वदा वर्णयन्ति यम् ॥ महावाग्मिभिरपि यस्य किं वर्ण्यते(l.11) 127. Lines 12 to end of page missing …………थ मित्रभावं विरहिणीमारणं कृत्वा कालपक्षं यमपक्षं कृष्णपक्षं च प्रपत्स्ये ॥(l.1) [आक्षेप]प्रकाराः ॥ 128. इत्यध्वगवधूसख्यो यत्र वातायने स्थिताः . निन्दन्ति वन्द्यं विश्वस्य प्रतिपत्सु सुधाकरम् ॥ यत्र वातायनगताः पान्थस्त्रीसख्यो विश्ववन्द्यं चन्द्रं प्रतिपत्सु निन्द- न्त्येवम् ॥(l.3) 129. पुण्डरीकैस्सुहरिणैर्मातङ्गैर्यत्र सुद्विजैः . कृष्णसारैश्च हरिभिश्शोभते राजमन्दिरम् ॥(l.4)
1 Ms. भ्रामं°. 2 Ms. °मति. 3 Ms. °नययः. 4 Ms. अमं°. 5 Ms. °ध्याशा°.
१३२ पृथ्वीराजविजयमहाकाव्यम्. सुहरिगौरतिशुभ्रैः पुण्डरीकैः क्लृप्तैस्तथा सुद्विजैश्शोभनदन्तैर्मातङ्गै- र्हस्तिभिः कृष्णैश्च तैस्सां(l.5)रैश्चाश्चर्यंयत्र राजगृहं शोभते ॥ विरोधः ॥ विरुद्धाभासत्वात् ॥ तथा हि पुण्डरीका व्याघ्रावि(l.6)शेषाः कथं हरिणा भवन्ति मातङ्गाश्चाण्डालास्ते कथं द्विजाः कृष्णसारा मृगाः कथं हरय॑ः सिंहाः ॥ (l.7) 130. राजहंसानुरूप्येण सितोपि पृथिवीभुजाम् • असितो यत्र सततं जायते यशसां भरः ॥ यत्र(l.8) राज्ञामसितः खङ्गाद्यशो राजहंसानुरूप्येण राजहंससितो मन्वादिप्रशस्तराजयशो(l.9)नुरूपत्वेन…………यशसां भर उत्पद्यते ॥ विरोधः असितशब्दस्य विरोधद्योतकत्वात् ॥(l.10)……[अ]सितश्श्याम इति ॥ 131. क्ष्मायां यदकाठिन्यं शैल्ये तापकता द्विषाम् • अपालक -----(l.11) 132. [Lines 12 to end of page missing] (**35) 'ति नोत्थानं यत्र संपूर्णपादपि ॥ अन्यत्र देशे त्रयाणां पादानां भङ्गेपि धर्मं…………(l.1) लायते इत्यर्थः यत्र देशे चतुष्पादपि धर्म उत्थानं निर्गमनं नेच्छति तत्रैव तिष्ठतीत्यर्थः ॥ (l 2) विभावना विशेषोक्तिश्च ॥ अनवस्थितेर्हेतुः पादसा- मग्री तदभावेपि तत्फलं धर्मानव[स्थान](l 3)मुत्पन्नमिति विभावना तथा उत्थानस्य कारणं सम्पूर्णपादत्वं तत्सद्भावेप्युत्थानाभावरूपफलस्यो- त्पत्तिरिति विशेषोक्तिः ॥ 133. आयव्ययेषु कालैक्यं यत्र सर्वस्य दृश्यते • व्ययस्तत्त्वादौ(l.5) सुकृतिनामायस्तस्यानुयात्रिकः ॥ 1 Ms. °कैच्छ्र°. 2 Ms. °द्वैद्द°. 3 Ms. °श्शभरै°. 4 Ms. °यो सिं°. 5 Ms. °सिंश्च°. 6 Ms. °तरशां°. 7 Restore धर्मं इच्छति.
यत्र सर्वस्य लोकस्य¹ धनोत्पत्तित्यागेषु समकालत्वं दृ(l. 16)श्यते . अ- र्जयन्तो जना व्ययं कुर्वन्तीत्यर्थः . यत्र सुकृतिनामादौ व्ययस्तस्य² व्ययँस्यो- त्पत्तिरनुयात्रिकी(l. 7) पश्चाद्धनागम इत्यर्थः ॥ अतिशयोक्ती ॥ आयः का- रणं व्ययः कार्यं भवति कारणका(l. 8)र्ययोः पौर्वापर्यं प्रसिद्धम् तंत्र त्वाय- व्यययोस्तुल्यकालत्वम् . तथोत्तरार्धे आयव्यययोः(l. 9) कारणकार्ययोः पौर्वा- पर्यविपर्ययः ॥ १३४. पौराणां हृदये यत्र सन्निधत्ते त्रिलोचनः .(l. 10) अन्तस्तु पौरनारीणां जाज्वलीति मनोभवः ॥ यत्र जनानां चित्ते हरस्सन्निधानं करोति(l. 11) कामस्तु पौरस्त्रीचित्ते ज्वलतितराम् ॥ असङ्गतिः ॥ हरः कामदाहस्य कारणम्(l. 12) अत्र तु हरः पौरचित्ते संनिहितः कामस्तु पौरस्त्रीचित्ते ज्वलतीति कार्यकारणयो- र्विभिन्न(l. 13)देशत्वात् ॥ १३५. यत्र स्त्रीणामपाङ्गेभ्यः पूर्णाङ्गो जायते स्मरः . युवभिर्नीयमानोपि(l. 14) रूपेण⁴ लभते बलम् ॥ यत्र पुरस्त्रीणां कटाक्षेभ्यः पूर्णाङ्गः कामो जायते तथा तरुणैर्जि(l. 15)- [तस्तासां रू]पेण कामो बलं लभते ॥ विषमम् ॥ सर्वत्र कारणानुगुणं कार्यं प्रसिद्धम् (l. 16) ............ कामस्य रूपहेतुकबललाभ- ......(l. 17) १३६. Lines 18 to end of page missing⁵ यत्र राजशिखामणिः . विश्वस्य मान्यतां लब्धुं सेव्यते परमेश्वरः ॥ यत्र रक्तैर्विंरक्तैर्वा(l. 1) [राजशिखा]मणिः राजा चन्द्रः⁷ शिखामाणिर्यस्य स पैरमेश्वरस्सेव्यते विश्वकर्तृकं मानं प्राप्तुम् ॥(l. 2)[विचित्रं] विकल्पश्च ॥ 1 Ms. °ध्यं° written over °र्जं°. 2 Ms. °यसो°. 3 Scil. नगरे as well as पूर्वार्धे. 4 Ms. °मायो°. 5 Illustration of सम alamkāra lost. 6 Restore अनुरक्तैर्विरक्तैर्वा, 7 Ms. चन्दः. 8 Ms °स्यप°.
१३४ पृथ्वीराजविजयमहाकाव्यम्. विचित्रस्य विफलप्रयत्नलक्षणत्वात् अत्र हि मानलाभार्थं सेवाख्य- (13)स्य प्रयत्नस्य विपरीतफलानिष्पत्तिहेतुत्वम्. सेवाकारिणां हि मान- हानिः ॥ १३७, भूपैर्भुजेपि य(1.4)त्रत्यैर्धार्यते भूससागरा . कीर्त्तिः स्वंच्छतनुस्तेषां न माति भुवनेष्वपि ॥ यत्रत्यै राजभिर्भूमिस्स(1.5)समुद्रा भुजचक्रेपि³ धार्यते स्वच्छा शुद्धा सूक्ष्मा च तनुर्यस्यास्सा कीर्त्तिर्भुवनेषु न वर्तते ॥ अधिकद्वयम् ॥ अधिक- (1.6)स्याश्रयाश्रयिणोरनानुरूप्यलक्षणत्वात्. अत्र ह्याश्रयस्य भुजस्या- श्रयिभूताया भुवस्तुच्छत्व(1.7)महत्वाभ्यामनानुरूप्यम् भुवनानामांश्रयाणां कीर्त्तेस्तदाश्रयीभूताया महत्वतुच्छत्वाभ्याम् ॥(1.8) 138. धर्मो विवर्ध्यते यत्र वास्तव्यानां विभूतिभिः . धर्मेण च विवर्ध्यन्ते वास्तव्यानां विभूतयः ॥ पौरश्री(1.9)भिर्धर्मो वर्धते धर्मेण च पौरश्रियो वर्धन्ते ॥ अन्योन्यम् ॥ परस्परं वर्धनक्रियाजननात् ॥(1.10) 139. वापीकूपतटाकेषु प्रपासु विविधासु च . दिवमप्युपयातानां दृश्यते तत्र जीवनम् ॥(1.11) वाप्यादिषु जीवनं जलं प्राणाश्च स्वर्गतानां दृश्यते ॥ विशेषः ॥ अना- धारमाधेयमि(1.12)त्यादिलक्षणत्वात् ॥ अत्र जीवनँस्याधारशरीरिणः ते स्वर्गं गतास्तथापि जीवनं दृश्य(1.13)ते इत्यनाधारमाधेयम् ॥ 140. त्रिदिवे दिवि पाताले कीर्त्ति[: सर्वासु] दिक्षु च . यदीयानां नरे(1.14)न्द्राणा[मेकरूपा समा]श्रिता ॥ • 1 Read विपरीतफ°. 2 Ms. °र्तिन्वत्त्व°. 3 Ms. भुजचक्रेपि lc. on margin. 4 Ms. °कीर्ते°. 5. Ms. °वस्या°.
पञ्चमः सर्गः . १३५ स्वर्गादिषु कीर्तिरेकरूपा समा समं युगपत्स्थिता ॥ वि²(l.15) 141. [Lines 16 to end of page missing] (**36) गैः पुनः राजभिः कीर्त्तिरनुपाल्यते ॥ व्याघातः ॥ उत्पत्तिविनाशयो- रेकोपायत्वात् ॥ अत्र(l.1) राजभ्य एव वृषोत्सर्गैरुत्पत्तिः तैरेव तेभ्य एव च विनाशः ॥ 142. अबला इति बाध्यन्ते सबलैरन्य(l.2)देशजैः . तेनैव हेतुना यत्र रक्ष्यन्ते राजभिः परे ॥ अन्यत्र राजभिरबलत्वाद्राजानो बाध्यन्ते त(l.3)स्मादेव हेतोस्तत्र तैश्शत्रवो रक्ष्यन्ते ॥ व्याघातः ॥ व्याघातार्थं संभाव्यमानस्याबलत्वस्य बाधा(l.4)विरुद्धरक्षणनिष्पादकत्वेन समर्थनात् ॥ 143. यत्र वीर्यं प्रतापस्य प्रतापः कारणं श्रियः . श्रीर्ध(l.5)र्मस्य नरेन्द्रणां धर्मो भोगापवर्गयोः ॥ यत्र वीर्यादयः प्रतापादीनां हेतवः ॥ कारणमाला ॥(l.6) 144. अर्थो धर्मानुगो यत्र कामश्चार्थानुगो नृणाम् . कामस्य शिवकामानां मोक्षोप्यनुगतां गतः ॥(l.7) यत्र श्रेयस्कामानां धर्माद्यनुगा अर्थादयः ॥ एकावली ॥ अर्थादीनां धर्माद्यनुगतत्वात् ॥ (l.8) 145. यौवनेन वपुः स्त्रीणां यत्र रूपेण यौवनम् . रूपं कान्तिविशेषेण सलावण्येन गर्जति ॥ (l.9) यत्र यौवनादिभिर्वपुरादयो गर्जन्ति ॥ मालादीपकम् ॥ यौवनादीना- मुत्तरोत्तर(l.10)वपुरादिगर्जनाव्यगुणावहत्वात् ॥ 146. 1 Ms. °त्तिरे°. 2 [ विशेषः । एकस्याः कीर्तेरनेकगोचरत्वात् ]. Perhaps one illus- tration of विशेष—किंचिदारभमाणस्यासंभाव्यवस्त्वन्तरकरणं is lost.
१३६ पृथ्वीराजविजयमहाकाव्यम्. शम्भुर्लोकत्रये सारं तस्य सारं त्रिनेत्रता • तत्रापि(l.11) चन्द्रमास्तस्य यत्कान्तावदनोपमा ॥¹ 147. कनकाब्ज²रजश्छन्न³ा वातायनविहारिणः • मानवैर्यत्र सेव्यन्ते स्व(l.12)र्गङ्गावीचिमारुताः ॥ यत्र वातायनगता नाकनदीपवना मनुष्यैस्सेव्यन्ते यतो⁴ हेमाब्ज⁵रजः- (l.13)पूर्णाः ॥ काव्यलिङ्गम् ॥ कनकां⁶ब्जेत्यादेः पदार्थत्वात् ॥ काव्यलिङ्ग- स्य च हेतोर्वाक्यप(l.14)[दार्थत्यादि लक्षणात् ] ॥ 148. द्रष्टुं दिग्भ्यो दशभ्यो यदपर्याप्तदृगष्टकम् • ————(l.15) 149. Lines 16 to end of page missing हतोर्वाक्यार्थत्वात् ॥ पूर्वश्लोकेपर्याप्तदृगष्टक इति विशेषणस्य पदार्थ- त्वाभिमानात् ॥ 150. सर्वस्वहारिणस्त्रस्तो वरुणो वाडवाद्ध्रुवम् • यत्कूपान्सेवते तोयं गिरिदुर्गे कुतो(l.1)न्यथा ॥ वरुणस्य सर्वस्वं समुद्रस्तं दहतो वाडवाग्नेर्ध्रुवं भीतो वरुणो यत्कू- पान्सेवते . वरुणत्रास(l.2)स्य साध्यस्य साधनमाह . अन्यथा यदि न वरु- णस्य भयं स्यात्तद्गिरिदुर्गे तोयं कथं स्यात् . वरुण(l.3)स्य जलाधिपतित्वा- दिति भावः ॥ अनुमानम् ॥ साधनात्साध्यप्रतीतिरनुमानस्य लक्षणम् ॥ (l.4) अत्र गिरौ जलसंभवात्त्रासानुमानम् ॥ 151. वरुणादिमहेन्द्रान्तमूर्त्तयो यत्र पार्थिवाः • शिष्ट(l.5)दिक्पतिमूर्त्तित्वं गृह्णन्तेन्यपुरीः प्रति ॥ 1 No Comm. [ उदारालंकारः-उत्तरोत्तरोत्कर्षमुदार इति लक्षणात् ] 2 Ms. °काजं°. 3 Ms. °जच्छं°. 4 Ms. येतो. 5 Ms. °माब्जं°. 6 Ms. °काब्जे°. 7-7 Ms. lc. at the top of page. 8 i.e. only one verse between द्रष्टुं दिग्भ्यो and सर्वस्वहा°. 9 Ms. °न्सव°. 10 Ms. °बस्ते°.
वरुणादारभ्येन्द्रं यावत्पञ्च लोकपालास्तेषां मूर्त्तयस्ते(1.6)जोंशा येषां तथाविधास्तत्र राजानो भवन्ति . तत्र वरुणत्वमशेषजनाप्याय्यैनात् . वायुत्वं बलि(1.7)त्वात् . कुबेरत्वं धनदत्वात् . शर्वत्वं सर्वोत्कर्षात् . इन्द्रत्वमखण्डि- तज्ञत्वात् . यत्रत्या राजानोवशि(1.8)ष्टा ये दिक्पतयो वह्निमन्नैर्ऋतास्तद्भावं शत्रुनगरीषु गृह्णन्ति . अग्नित्वं तासां दाहात् . य(1.9)मत्वं शत्रुमारणात् . नैर्ऋतत्वं शत्रुपुरीनिर्वसत्वर्करणात् ॥ अनुमानम् ॥ 152. स्वर्गे पाल(1.10)ननिर्माणवर्णनैर्देववेश्मनाम् • ध्रुवं पश्यति यत्रत्यो राजा चित्रकरः कविः ॥ पालनादिभिः(1.11) राजाद्यस्स्वर्गं गच्छन्ति ॥ यथासंख्यम् ॥ उद्दि- ष्टानांमर्थानां क्रमेणानुनिर्देशात् ॥(1.12) 153. व्यर्थौ यशःप्रतापाभ्यां राज्ञां यत्रेन्दुभास्करौ • धत्तोर्धरात्रमध्याह्ने छत्रत्वं देववेश्मनाम् ॥(1.13) यत्र राज्ञां यशःप्रतापाभ्यां हेतुभ्यां व्यर्थौ निष्प्रयोजनौ सन्तौ चन्द्रा- कौं अर्धरात्रे मध्याह्ने च दे(1.14)वगृहाणां छत्रभावं धत्तः ॥ प्रतीपम् ॥ यशः- प्रतापाभ्यां चन्द्रार्कयोराक्षेपात् ॥(1.15) 154. [Lines 16 to end of page missing] (**37) यत्कान्ताकेशसंस्कारघूपधूमस्सुधासितम् • श्यामीकरोति सततं सौधं सितकरं ततः ॥(1.1) यत्स्त्रीकेशसौगन्ध्यार्थे धूमैः पूर्वं सौधं ततश्चन्द्रं श्यामीकरोति ॥ पर्यायः ॥ क्रमेणैकस्या(1.2)नेकस्मिन्ननेकस्यैकस्मिन्नवस्थानात् ॥ 155. यत्राधत्ते निशि मरुत्सौधेन्दुमणिशीकरैः • घर्मोद(1.3)विन्दून्वामानां गण्डयोश्चन्द्रकान्तयोः ॥ 1 Ms. °भ्येन्द्रं. 2 Ms. ताव°. 3 Ms. °प्ययं. 4 Ms. °कारं. 5 Ms. भिन्नं. 6 Ms. व्यर्थो. 7 Read धूपधू°. १८
१३८ पृथ्वीराजविजयमहाकाव्यम्. यत्र रात्रौ स्त्रीणां वायुर्बिन्दुसुन्दरयोगेऽडयोर्घर्म(l.4)जलकणान्गृह्णाति कैस्सौधचन्द्रकान्तकरैः ॥ परिवृत्तिः ॥ चन्द्रकान्तजलकणैस्स्रवे(l.5)दाम्बु- ग्रहणात्समत्वम् ॥ 156. पञ्चभिर्मार्गणैः पौष्पैस्स्मरो हरति कामिनाम् . हृत्काञ्चना(l.6)म्बुजवनं वियोगाग्निपरीक्षितम् ॥ पुष्पमयैः पञ्चभिर्बाणैः कामो विरहाग्नौ परीक्षिक्षि(l.7)तं चित्तहेमप- द्मवनं हरति ॥ 157. सर्वस्वमपि संत्यज्य स्वगृहाद्यत्र मानिनः . यशो गृह्णन्ति(l.8) तद्यस्य परे चर्वितचर्वकाः ॥ यस्य यशसः चर्वित चर्वणेपि कृते चर्वका भवन्ति(l.9) तद्यशस्सर्वस्वं द- त्वा मानिनो गृह्णन्ति ॥ परिवृत्तिः ॥ सर्वस्वेनाधिकेन यशसो न्यून(l.10)स्य ग्र- हणेन न्यूनत्वात् ॥ पूर्वत्र पञ्चभिशरैर्हेमपद्मवनहरणादधिकम् ॥(l.11) 158. अपावनं धनं यत्र सर्वथा त्यागिनां गृहे . अत्यागैः स्तूयते मौग्ध्याद्वालाभिर्यत्र कामिनाम् ॥(l.12) अपगतमवनं रक्षणं त्यागाभावो यस्य तद्धनं त्यागिनां दातृणां गृहे भवति . बालाभिः(l.13) कामिनामत्यागः अतिशयेनापराधः स्तूयते मुग्ध- त्वात् ॥ परिसंख्या ॥ अपावन(l.14)············त्यागिधनादावेव नियम- नात् त्यागिधन······वा······नृ(l.15)············भिसयः······ ···(l.16) 159, [Lines 17 to end of page missing] (*) [सतां परापवा]दोपि यत्र श्रोत्रमहाज्वरः . स्वस्याकीर्त्तिर्भवेद्येन ततु व्यवहरन्ति के ॥ 1 Ms. पौष्पै°. 2 Ms. ॰र्वेत्थं. 3 Ms. ॰गस्तू°. 4 Ms. ॰र्त्तिंन°.
पञ्चमः सर्गः . १३६ परस्यापवादोपि स(l.1)तां महाज्वरः कर्णयोर्भवति येन स्वस्यापयशो भवेत्तत्के कुर्वन्ति . वाच्यां सैवं . यत्र परनिन्दापि(l.2) दुर्बचा तत्र स्वस्याकी- र्त्तिहेतुभूतव्यवहारपरिहार आपतित इति शब्दोपात्तार्थापत्तिरि(l.3)ति सैव वाच्या॑ ॥ १६०. जहौ प्रागुपमानत्वं चरमं चोपमेयताम् . यस्य संवर्धमानस्य संप(l.4)द्भिरमरावती ॥ प्रतीपम् ॥ अधिकगुणत्वसंभावनयोपमानत्वेन कल्पितामरा(l.5)वती गुणानामन्तरपरीक्षणे सति पूर्वमुपमानत्वमत्यजत् पश्चादुपमेयताम् . अति- (l.6)न्यूनगुणत्वादिति भावः ॥ १६१. पुरान्तरेषु घनया श्वेतन्ते ज्योत्स्नया यदा . तदा नीलन्ति यत्सौधान्य(l.7)सितागुरुधूम्यया ॥ अन्यनगरे पौर्णिमास्यादौ सौधानि श्वेतन्ति श्वेतानि भवन्ति तत्र तु तदैव काला(l.8)गुरुधूमेन यत्सौधानि नीलानि भवन्ति ॥ गुणक्रियासमु- च्चयः ॥ नीलनश्वेतनयोर्गुण(l.9)क्रिययोर्योगपद्यम् ॥ १६२. शीलालङ्करणं रूपं त्यागालङ्करणं धनम् . श्रुतालङ्करणं मे(l.10)धा यत्र पुण्यानि शंसति ॥ यत्र रूपादीनि शीलाद्यलङ्कृतानि पुण्यसूचकानि भवन्ति ॥(l.11) सद्योगः ॥ रूपादीनां सतां शीलादिभिस्सद्भिर्योगात् ॥ १६३. सचौरैर्दण्डकच्मापैरवर्षैर्देव(l.12)मातृकैः . निर्धनैर्बहुदुर्भिक्षैर्दुर्जयं तत्पुरान्तरैः ॥ सचौरत्वादिविशेषणविशिष्टैरन्यन(l.13)गरैस्तज्जेतुं न शक्यम् [॥ असद्योगः ॥ पुरान्तराणामसतां चौरादिभिरसद्भिर्योगात् ॥(l.14) १६४.
1 Ms. °टेपि. 2 Ms. वाम्या. 3 i.e. अर्थापत्तिः. Perhaps one illustration of गम्या अर्थापत्ति is lost. 4 Ms. वाम्या. 5 Ms. °नम°. 6 Ms. °षिमा°. 7 Ms. °दाण्ड°. 8 Ms. °दुज°.
१४० पृथ्वीराजविजयमहाकाव्यम्. ' धर्मो दम्भं लोभमर्थः कामोस्थानमसक्तताम् . मोक्षश्चार्चनवैमूख्यं दिशन्यत्र न हस्यते ॥(l 15) अन्यपुरेषु धर्मादयो दम्भादिक्लुषिता हस्यन्ते ॥ सदसद्योगः ॥ सतां धर्मादीना- 165. [Lines 17 to end of page missing] (**38) स्य यस्य राज्ञः प्रतिकारासामर्थ्ये सति तत्संबन्धिनां पराभवात् ॥ 166. यत्र मेघाः पिधीयन्ते गवाक्षा(l 1)गुरुधूम्यया . सौदामिनीभिस्तेषां च हेमहर्म्यमरीचयः ॥ जालनिर्गतकालागुरुधूमैर्य(l.2)त्र मेघाश्छाद्यन्ते विद्युद्भिश्च स्वर्णहर्म्यां- शवः ॥ मीलितद्वयम् ॥ वस्तुना वस्त्वन्तरनिगूह(l.3)नात् ॥ 167. अभिन्नैकेन्दुभूरिस्त्रीमुखवातायनाः क्षापाः .
पञ्चमः सर्गः । १४१ इन्द्रनीलगृहरश्मिभिस्सर्वाङ्गेषु नीलो भवति ॥(1.10) तद्गुणः ॥ अन्यदी- यसितासितगुणग्रहणात् ॥ 169. न शक्यते यदानेतुं कलिना म(1.11)लिनात्मताम् . तमसा चन्द्रबिम्बं हि सविशेषं प्रकाशते ॥ कलिना यन्नगरं मालि(1.12)न्यं नेतुं न शक्यते यतः चन्द्रस्तमसात्यर्थं शोभते ॥ अतद्गुणः कलिगुणाननुहारात् ॥(1.13) 170. गृह्येत त्रिगुणं त्वत्तो न स्याद्ग्रहणं यदि . प्रत्यादिशन्ति शम्भल्यो यस्मिन्नित्यान्तंकामुकान् ॥(114) [यस्मिन्] कुंट्टिन्यो......न्तांन्कामुकानिति प्रत्यादिशन्ति निषे- धयन्ति इति हेतोर्यदि तत्कर्तृ(1.15)कत्वं कर्मर्कम................त्यर्थः तदा त्व[त्तः त्वत्]सकाशान्मया (1.16) त्रिगुणं गृह्येत परं सा तु त्वां न गृह्णाति मद्धस्ते त्वया न्यस्तं यद्वस्तु तन्न गृह्णातीत्य(1.17)र्थः ॥ उत्तरम् ॥ अत्र हि उत्तरात्प्रश्नमुन्नीयते . कामुकैर्हि कुट्टिनीनामुक्तमेतत्(1.18) इदं वस्तु तस्यै देहि सा मत्समीपं त्वयानीयतामिति ततः कुट्टिनीभिः पूर्वोक्तमुत्तरं(1.19) दत्तमस्मादुत्तरात्प्रश्नोन्नयनम् . त्वत्त इति कामुकपरामर्शकम् एकवचनं तु प्र(1.20)त्येकं पृथग्भाषणात् कुट्टिन्यो ह्यभिसारिकाणां गौरवराक्षणार्थं जना- नुत्तरयन्ति ॥(1.21*) 171. कं यत्र पुष्करं गत्वा वरिवस्यन्ति साधवः . कं पुष्कराद्गृहायातं स्पृष्ट्वा शुद्धिं च मन्वते ॥ पुष्करं ती(1.1)र्थ गत्वा साधवः कं ब्रह्माणमुपासते पुष्करतीर्थाद्गृहा- यातं कं जलं स्पृष्ट्वा शुद्धिं मन्यन्ते कमि(1.2)ति प्रश्ने कं ब्रह्माणं कं जल- मित्यत्तरं^7 द्वितीयम् ॥ 172. 1 Ms. शम्ब°. 2 Is it °त्यार्तं° ? 3 Ms. कुट्टिट°. 4 Is it आतान्कां° ? 5 Sic. Is it तत्कर्तृकं त्वत्कर्मकमग्रहणं ? 6 Ms. °ण्टण्यो°. 7 Ms. °रद्वि°.
१४२ पृथ्वीराजविजयमहाकाव्यम् यत्र कर्णोत्पलन्यस्तहस्तं दीपावलो(l.3)किनीः . दृष्ट्वा वधूः प्रियोपान्ते सखीभिः प्रतिमुच्यते ॥ दीपशमनार्थं कर्णोत्पलेषु न्यस्ता ह(l.4)स्ता यत्रैवं कृत्वा दीपानवलो- कयन्तीर्नारीर्भर्तृनिकटे दृष्ट्वा सखीभिः प्रतिमुच्यते ॥(l.5) सूक्ष्मम् ॥ रिरंसारूपसूक्ष्मार्थप्रकाशनात् ॥ १७३. शीतः पाणिरपथ्योयं सद्यो मे निरगाज्ज्वरः .(l.6) यत्र रामा प्रियस्पर्शप्रस्वेदमिति निह्नुते ॥ इदानीं मम ज्वरो निर्गतोतस्तवायं पाणिः शी(l.7)तत्वादपथ्य इत्य- नेन वचसा प्रियँस्पर्शन प्रस्वेदं रामाच्छादयति ॥ व्याजोक्तिः ॥ स्वेदेनो- द्विन्नस्य(l.8) प्रियस्पर्शसुखस्य ज्वरनिर्गमनेन निगूहनात् ॥ १७४. मा प्रवेक्ष्यति कोप्यन्तर्मा शब्दश्श्रूयते बहिः .(l.9) वाक्यं यत्र नवोढानामिति कान्तैर्निगद्यते ॥ नवोढा वक्ति मा हठादिकं कुरु यतः कोप्यन्तः प्रवेक्ष्य(l.10)ति तथा मायुङ्ग्ध्व यतो बहिशब्दश्श्रूयते एतदेव कान्ता अनुवदन्ति मा निषेधं कुरु यतः कोप्य(l.11)न्तः प्रवेक्ष्यति काकुप्रयोगेण न प्रवेक्ष्यतीत्यर्थः मा निषेधं कुरु यतो बहिशब्दश्श्रूयते काकु(l.12)प्रयोगेण न श्रूयते इत्यर्थः ॥ वक्रोक्तिः काकुप्रयोगात् ॥ १७५.. कोप्यन्तर्मे न ते स्नेहः कोपवन्तं त्य(l.13)जान्तरात् . नतोहमिति मानिन्यो रम्यन्ते यत्र कामिभिः ॥ मँमान्तः स्नेहस्तव नास्ति यद्वां त्वत्कर्तृकः स्नेहो मेन्तर्मयि विष(l.14)- यभूतायां न भवतीति मानिनीनामुक्तिः कामिभिस्त्वन्यथा योजनं कृतम् त्वं 1 Ms. °न्तीन्नारीम्भ°. 2 Ms. °यिःशी°. 3 Ms. प्रियास्प°-. 4 Ms. वक्रो°. 5 Ms. ममा° to. यद्वा lc. under l. 13.
[कोपी] कोप(l.15)वान् मे मम नते प्रणते स्नेह इति त्वयोक्तम् तत्कोपमन्त- राच्चित्ता[त्त्यज त]वाहं नैतः प्र(l.16)णामकारीत्युक्त्या कामिभिर्मानिन्यो रम्यन्ते रमणीजनाः . मे इत्येकवचनमेकैककामिन्य(l.17)भिप्रायत्त् ॥ श्लेषेण सैव ॥ सैवेति वक्रोक्तिः ॥ 176. यत्र स्तनन्धयान्हस्ते रत्नदीपं जिघृ(l.18)क्षतः . दृष्ट्वा हाहेति संभ्रान्ता धात्री चेतैर्विहस्यते ॥ रत्नदीपं हस्ते गृह्णतो बालान्दृ(l.19)ष्ट्वा सम्भ्रान्ता हाहेति वदन्ती धात्री चेतैरुपहस्यते ॥ स्वभावोक्तिः ॥ 177. निपीडितस्य पूर्णे(l.20**39⁵)न्दोस्सुधया पङ्किलाङ्गुली . यत्र मृत्युजितः पादौ भाव्येते भावितैः पुनः ॥ पीडितस्यासनभूत(l.1)स्य पूर्णचन्द्रस्यामृतेनाङ्गुली मृत्युजितो भग- वतः पादौ भक्तैः प्रणिधीयेते ॥ भाविकम् ॥(l.2)अत्यन्तविप्रकृष्टस्य भगव- दङ्घुलिपङ्किलत्वस्य प्रत्यक्षाद्यमाणत्वात् ॥ 178. च्युतकर्पूरकस्तू(l.3)रीपांसुला पण्यवीथिका . कुरुते पाण्डुरश्यामवाससो यन्निवासिनः ॥ च्युताभ्यां कर्पूरक(l.4)स्तूरीभ्यां पांसुला यत्राट्टवीथी यस्मिन्निवा- सिनः पौरान्सितासितवस्त्रान्करोति ॥ उदात्तम् ॥(l.5) सातिशयसमृद्धिवर्ण- नात् ॥ 179. पारेसिन्धु विजिग्ये यां मध्येसिन्धु व्यधाच्च याम् • रामः कृ(l.6)ष्णश्च नगरीं ते दास्ये यस्य नोचिते ॥ ' समुद्रपारे यां नगरीं लङ्कां रामो जितवांस्तथा समु(l.7)द्रमध्ये नगरीं 1 Should be ॰कोपिनां. 2 Ms. ॰राश्चि॰. 3 Ms. ॰वाहनं नं॰. 4 Ms. वक्रो॰. 5 Ms. पृ. रा. ४५ vertically on margin.
द्वारवतीं कृष्णो यां व्यधात्ते नगर्यौ यस्य दासत्वयोग्ये न भवतः ॥ द्वितीयमुदात्तम् ॥(l.8)लङ्काजयद्वारिकानिर्माणयोर्महापुरुषचरितयोरङ्गभू- तत्वात् ॥ 180. चन्द्रांशुस्मेरधम्मिल्ल(l.9)मल्लिकानां प्रियान्प्रति • सौधेषु गीतं रामाणां यत्रालिभिरनूद्यते ॥ चन्द्रांशुभिः स्मेराशु(l.10)भ्रतरा धम्मिल्लमल्लिका यासां स्त्रीणां प्रियानुद्दिश्य गीतं सौधेषु सखीभिरनु पश्चा(l.11)दुच्यते गीयते ॥ रस- वत् ॥ रतेरङ्गत्वाद्सवदलङ्कारः ॥ 181. सौधेष्विन्दूदये शुद्धाः प्रि(l.12)यमार्गस्पृशो दृशः • न व्याकुलयितुं भृङ्गा यत्रोत्पलदृशामलम् ॥ चन्द्रोदये प्रियमा(l.13)र्गवीक्षिणीरुत्पलदृशां दृष्टीर्व