भारतकोश
संग्रह पर लौटें

पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

Prithvirajavijaya Mahakavya of Jayanaka with Commentary

कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा

DevanagariHindipublished330 पृष्ठ

पञ्चमः सर्गः . १३५ स्वर्गादिषु कीर्तिरेकरूपा समा समं युगपत्स्थिता ॥ वि²(l.15) 141. [Lines 16 to end of page missing] (**36) गैः पुनः राजभिः कीर्त्तिरनुपाल्यते ॥ व्याघातः ॥ उत्पत्तिविनाशयो- रेकोपायत्वात् ॥ अत्र(l.1) राजभ्य एव वृषोत्सर्गैरुत्पत्तिः तैरेव तेभ्य एव च विनाशः ॥ 142. अबला इति बाध्यन्ते सबलैरन्य(l.2)देशजैः . तेनैव हेतुना यत्र रक्ष्यन्ते राजभिः परे ॥ अन्यत्र राजभिरबलत्वाद्राजानो बाध्यन्ते त(l.3)स्मादेव हेतोस्तत्र तैश्शत्रवो रक्ष्यन्ते ॥ व्याघातः ॥ व्याघातार्थं संभाव्यमानस्याबलत्वस्य बाधा(l.4)विरुद्धरक्षणनिष्पादकत्वेन समर्थनात् ॥ 143. यत्र वीर्यं प्रतापस्य प्रतापः कारणं श्रियः . श्रीर्ध(l.5)र्मस्य नरेन्द्रणां धर्मो भोगापवर्गयोः ॥ यत्र वीर्यादयः प्रतापादीनां हेतवः ॥ कारणमाला ॥(l.6) 144. अर्थो धर्मानुगो यत्र कामश्चार्थानुगो नृणाम् . कामस्य शिवकामानां मोक्षोप्यनुगतां गतः ॥(l.7) यत्र श्रेयस्कामानां धर्माद्यनुगा अर्थादयः ॥ एकावली ॥ अर्थादीनां धर्माद्यनुगतत्वात् ॥ (l.8) 145. यौवनेन वपुः स्त्रीणां यत्र रूपेण यौवनम् . रूपं कान्तिविशेषेण सलावण्येन गर्जति ॥ (l.9) यत्र यौवनादिभिर्वपुरादयो गर्जन्ति ॥ मालादीपकम् ॥ यौवनादीना- मुत्तरोत्तर(l.10)वपुरादिगर्जनाव्यगुणावहत्वात् ॥ 146. 1 Ms. °त्तिरे°. 2 [ विशेषः । एकस्याः कीर्तेरनेकगोचरत्वात् ]. Perhaps one illus- tration of विशेष—किंचिदारभमाणस्यासंभाव्यवस्त्वन्तरकरणं is lost.

१३६ पृथ्वीराजविजयमहाकाव्यम्. शम्भुर्लोकत्रये सारं तस्य सारं त्रिनेत्रता • तत्रापि(l.11) चन्द्रमास्तस्य यत्कान्तावदनोपमा ॥¹ 147. कनकाब्ज²रजश्छन्न³ा वातायनविहारिणः • मानवैर्यत्र सेव्यन्ते स्व(l.12)र्गङ्गावीचिमारुताः ॥ यत्र वातायनगता नाकनदीपवना मनुष्यैस्सेव्यन्ते यतो⁴ हेमाब्ज⁵रजः- (l.13)पूर्णाः ॥ काव्यलिङ्गम् ॥ कनकां⁶ब्जेत्यादेः पदार्थत्वात् ॥ काव्यलिङ्ग- स्य च हेतोर्वाक्यप(l.14)[दार्थत्यादि लक्षणात् ] ॥ 148. द्रष्टुं दिग्भ्यो दशभ्यो यदपर्याप्तदृगष्टकम् • ————(l.15) 149. Lines 16 to end of page missing हतोर्वाक्यार्थत्वात् ॥ पूर्वश्लोकेपर्याप्तदृगष्टक इति विशेषणस्य पदार्थ- त्वाभिमानात् ॥ 150. सर्वस्वहारिणस्त्रस्तो वरुणो वाडवाद्ध्रुवम् • यत्कूपान्‍सेवते तोयं गिरिदुर्गे कुतो(l.1)न्यथा ॥ वरुणस्य सर्वस्वं समुद्रस्तं दहतो वाडवाग्नेर्ध्रुवं भीतो वरुणो यत्कू- पान्सेवते . वरुणत्रास(l.2)स्य साध्यस्य साधनमाह . अन्यथा यदि न वरु- णस्य भयं स्यात्तद्गिरिदुर्गे तोयं कथं स्यात् . वरुण(l.3)स्य जलाधिपतित्वा- दिति भावः ॥ अनुमानम् ॥ साधनात्साध्यप्रतीतिरनुमानस्य लक्षणम् ॥ (l.4) अत्र गिरौ जलसंभवात्त्रासानुमानम् ॥ 151. वरुणादिमहेन्द्रान्तमूर्त्तयो यत्र पार्थिवाः • शिष्ट(l.5)दिक्पतिमूर्त्तित्वं गृह्णन्तेन्यपुरीः प्रति ॥ 1 No Comm. [ उदारालंकारः-उत्तरोत्तरोत्कर्षमुदार इति लक्षणात् ] 2 Ms. °काजं°. 3 Ms. °जच्छं°. 4 Ms. येतो. 5 Ms. °माब्जं°. 6 Ms. °काब्जे°. 7-7 Ms. lc. at the top of page. 8 i.e. only one verse between द्रष्टुं दिग्भ्यो and सर्वस्वहा°. 9 Ms. °न्सव°. 10 Ms. °बस्ते°.

वरुणादारभ्येन्द्रं यावत्पञ्च लोकपालास्तेषां मूर्त्तयस्ते(1.6)जोंशा येषां तथाविधास्तत्र राजानो भवन्ति . तत्र वरुणत्वमशेषजनाप्याय्यैनात् . वायुत्वं बलि(1.7)त्वात् . कुबेरत्वं धनदत्वात् . शर्वत्वं सर्वोत्कर्षात् . इन्द्रत्वमखण्डि- तज्ञत्वात् . यत्रत्या राजानोवशि(1.8)ष्टा ये दिक्पतयो वह्निमन्नैर्ऋतास्तद्भावं शत्रुनगरीषु गृह्णन्ति . अग्नित्वं तासां दाहात् . य(1.9)मत्वं शत्रुमारणात् . नैर्ऋतत्वं शत्रुपुरीनिर्वसत्वर्करणात् ॥ अनुमानम् ॥ 152. स्वर्गे पाल(1.10)ननिर्माणवर्णनैर्देववेश्मनाम् • ध्रुवं पश्यति यत्रत्यो राजा चित्रकरः कविः ॥ पालनादिभिः(1.11) राजाद्यस्स्वर्गं गच्छन्ति ॥ यथासंख्यम् ॥ उद्दि- ष्टानांमर्थानां क्रमेणानुनिर्देशात् ॥(1.12) 153. व्यर्थौ यशःप्रतापाभ्यां राज्ञां यत्रेन्दुभास्करौ • धत्तोर्धरात्रमध्याह्ने छत्रत्वं देववेश्मनाम् ॥(1.13) यत्र राज्ञां यशःप्रतापाभ्यां हेतुभ्यां व्यर्थौ निष्प्रयोजनौ सन्तौ चन्द्रा- कौं अर्धरात्रे मध्याह्ने च दे(1.14)वगृहाणां छत्रभावं धत्तः ॥ प्रतीपम् ॥ यशः- प्रतापाभ्यां चन्द्रार्कयोराक्षेपात् ॥(1.15) 154. [Lines 16 to end of page missing] (**37) यत्कान्ताकेशसंस्कारघूपधूमस्सुधासितम् • श्यामीकरोति सततं सौधं सितकरं ततः ॥(1.1) यत्स्त्रीकेशसौगन्ध्यार्थे धूमैः पूर्वं सौधं ततश्चन्द्रं श्यामीकरोति ॥ पर्यायः ॥ क्रमेणैकस्या(1.2)नेकस्मिन्ननेकस्यैकस्मिन्नवस्थानात् ॥ 155. यत्राधत्ते निशि मरुत्सौधेन्दुमणिशीकरैः • घर्मोद(1.3)विन्दून्वामानां गण्डयोश्चन्द्रकान्तयोः ॥ 1 Ms. °भ्येन्द्रं. 2 Ms. ताव°. 3 Ms. °प्ययं. 4 Ms. °कारं. 5 Ms. भिन्नं. 6 Ms. व्यर्थो. 7 Read धूपधू°. १८

१३८ पृथ्वीराजविजयमहाकाव्यम्. यत्र रात्रौ स्त्रीणां वायुर्बिन्दुसुन्दरयोगेऽडयोर्घर्म(l.4)जलकणान्गृह्णाति कैस्सौधचन्द्रकान्तकरैः ॥ परिवृत्तिः ॥ चन्द्रकान्तजलकणैस्स्रवे(l.5)दाम्बु- ग्रहणात्समत्वम् ॥ 156. पञ्चभिर्मार्गणैः पौष्पैस्स्मरो हरति कामिनाम् . हृत्काञ्चना(l.6)म्बुजवनं वियोगाग्निपरीक्षितम् ॥ पुष्पमयैः पञ्चभिर्बाणैः कामो विरहाग्नौ परीक्षिक्षि(l.7)तं चित्तहेमप- द्मवनं हरति ॥ 157. सर्वस्वमपि संत्यज्य स्वगृहाद्यत्र मानिनः . यशो गृह्णन्ति(l.8) तद्यस्य परे चर्वितचर्वकाः ॥ यस्य यशसः चर्वित चर्वणेपि कृते चर्वका भवन्ति(l.9) तद्यशस्सर्वस्वं द- त्वा मानिनो गृह्णन्ति ॥ परिवृत्तिः ॥ सर्वस्वेनाधिकेन यशसो न्यून(l.10)स्य ग्र- हणेन न्यूनत्वात् ॥ पूर्वत्र पञ्चभिशरैर्हेमपद्मवनहरणादधिकम् ॥(l.11) 158. अपावनं धनं यत्र सर्वथा त्यागिनां गृहे . अत्यागैः स्तूयते मौग्ध्याद्वालाभिर्यत्र कामिनाम् ॥(l.12) अपगतमवनं रक्षणं त्यागाभावो यस्य तद्धनं त्यागिनां दातृणां गृहे भवति . बालाभिः(l.13) कामिनामत्यागः अतिशयेनापराधः स्तूयते मुग्ध- त्वात् ॥ परिसंख्या ॥ अपावन(l.14)············त्यागिधनादावेव नियम- नात् त्यागिधन······वा······नृ(l.15)············भिसयः······ ···(l.16) 159, [Lines 17 to end of page missing] (*) [सतां परापवा]दोपि यत्र श्रोत्रमहाज्वरः . स्वस्याकीर्त्तिर्भवेद्येन ततु व्यवहरन्ति के ॥ 1 Ms. पौष्पै°. 2 Ms. ॰र्वेत्थं. 3 Ms. ॰गस्तू°. 4 Ms. ॰र्त्तिंन°.

पञ्चमः सर्गः . १३६ परस्यापवादोपि स(l.1)तां महाज्वरः कर्णयोर्भवति येन स्वस्यापयशो भवेत्तत्के कुर्वन्ति . वाच्यां सैवं . यत्र परनिन्दापि(l.2) दुर्बचा तत्र स्वस्याकी- र्त्तिहेतुभूतव्यवहारपरिहार आपतित इति शब्दोपात्तार्थापत्तिरि(l.3)ति सैव वाच्या॑ ॥ १६०. जहौ प्रागुपमानत्वं चरमं चोपमेयताम् . यस्य संवर्धमानस्य संप(l.4)द्भिरमरावती ॥ प्रतीपम् ॥ अधिकगुणत्वसंभावनयोपमानत्वेन कल्पितामरा(l.5)वती गुणानामन्तरपरीक्षणे सति पूर्वमुपमानत्वमत्यजत् पश्चादुपमेयताम् . अति- (l.6)न्यूनगुणत्वादिति भावः ॥ १६१. पुरान्तरेषु घनया श्वेतन्ते ज्योत्स्नया यदा . तदा नीलन्ति यत्सौधान्य(l.7)सितागुरुधूम्यया ॥ अन्यनगरे पौर्णिमास्यादौ सौधानि श्वेतन्ति श्वेतानि भवन्ति तत्र तु तदैव काला(l.8)गुरुधूमेन यत्सौधानि नीलानि भवन्ति ॥ गुणक्रियासमु- च्चयः ॥ नीलनश्वेतनयोर्गुण(l.9)क्रिययोर्योगपद्यम् ॥ १६२. शीलालङ्करणं रूपं त्यागालङ्करणं धनम् . श्रुतालङ्करणं मे(l.10)धा यत्र पुण्यानि शंसति ॥ यत्र रूपादीनि शीलाद्यलङ्कृतानि पुण्यसूचकानि भवन्ति ॥(l.11) सद्योगः ॥ रूपादीनां सतां शीलादिभिस्सद्भिर्योगात् ॥ १६३. सचौरैर्दण्डकच्मापैरवर्षैर्देव(l.12)मातृकैः . निर्धनैर्बहुदुर्भिक्षैर्दुर्जयं तत्पुरान्तरैः ॥ सचौरत्वादिविशेषणविशिष्टैरन्यन(l.13)गरैस्तज्जेतुं न शक्यम् [॥ असद्योगः ॥ पुरान्तराणामसतां चौरादिभिरसद्भिर्योगात् ॥(l.14) १६४.


1 Ms. °टेपि. 2 Ms. वाम्या. 3 i.e. अर्थापत्तिः. Perhaps one illustration of गम्या अर्थापत्ति is lost. 4 Ms. वाम्या. 5 Ms. °नम°. 6 Ms. °षिमा°. 7 Ms. °दाण्ड°. 8 Ms. °दुज°.

१४० पृथ्वीराजविजयमहाकाव्यम्. ' धर्मो दम्भं लोभमर्थः कामोस्थानमसक्तताम् . मोक्षश्चार्चनवैमूख्यं दिशन्यत्र न हस्यते ॥(l 15) अन्यपुरेषु धर्मादयो दम्भादिक्लुषिता हस्यन्ते ॥ सदसद्योगः ॥ सतां धर्मादीना- 165. [Lines 17 to end of page missing] (**38) स्य यस्य राज्ञः प्रतिकारासामर्थ्ये सति तत्संबन्धिनां पराभवात् ॥ 166. यत्र मेघाः पिधीयन्ते गवाक्षा(l 1)गुरुधूम्यया . सौदामिनीभिस्तेषां च हेमहर्म्यमरीचयः ॥ जालनिर्गतकालागुरुधूमैर्य(l.2)त्र मेघाश्छाद्यन्ते विद्युद्भिश्च स्वर्णहर्म्यां- शवः ॥ मीलितद्वयम् ॥ वस्तुना वस्त्वन्तरनिगूह(l.3)नात् ॥ 167. अभिन्नैकेन्दुभूरिस्त्रीमुखवातायनाः क्षापाः .

पञ्चमः सर्गः । १४१ इन्द्रनीलगृहरश्मिभिस्सर्वाङ्गेषु नीलो भवति ॥(1.10) तद्गुणः ॥ अन्यदी- यसितासितगुणग्रहणात् ॥ 169. न शक्यते यदानेतुं कलिना म(1.11)लिनात्मताम् . तमसा चन्द्रबिम्बं हि सविशेषं प्रकाशते ॥ कलिना यन्नगरं मालि(1.12)न्यं नेतुं न शक्यते यतः चन्द्रस्तमसात्यर्थं शोभते ॥ अतद्गुणः कलिगुणाननुहारात् ॥(1.13) 170. गृह्येत त्रिगुणं त्वत्तो न स्याद्ग्रहणं यदि . प्रत्यादिशन्ति शम्भल्यो यस्मिन्नित्यान्तंकामुकान् ॥(114) [यस्मिन्] कुंट्टिन्यो......न्तांन्कामुकानिति प्रत्यादिशन्ति निषे- धयन्ति इति हेतोर्यदि तत्कर्तृ(1.15)कत्वं कर्मर्कम................त्यर्थः तदा त्व[त्तः त्वत्]सकाशान्मया (1.16) त्रिगुणं गृह्येत परं सा तु त्वां न गृह्णाति मद्धस्ते त्वया न्यस्तं यद्वस्तु तन्न गृह्णातीत्य(1.17)र्थः ॥ उत्तरम् ॥ अत्र हि उत्तरात्प्रश्नमुन्नीयते . कामुकैर्हि कुट्टिनीनामुक्तमेतत्(1.18) इदं वस्तु तस्यै देहि सा मत्समीपं त्वयानीयतामिति ततः कुट्टिनीभिः पूर्वोक्तमुत्तरं(1.19) दत्तमस्मादुत्तरात्प्रश्नोन्नयनम् . त्वत्त इति कामुकपरामर्शकम् एकवचनं तु प्र(1.20)त्येकं पृथग्भाषणात् कुट्टिन्यो ह्यभिसारिकाणां गौरवराक्षणार्थं जना- नुत्तरयन्ति ॥(1.21*) 171. कं यत्र पुष्करं गत्वा वरिवस्यन्ति साधवः . कं पुष्कराद्गृहायातं स्पृष्ट्वा शुद्धिं च मन्वते ॥ पुष्करं ती(1.1)र्थ गत्वा साधवः कं ब्रह्माणमुपासते पुष्करतीर्थाद्गृहा- यातं कं जलं स्पृष्ट्वा शुद्धिं मन्यन्ते कमि(1.2)ति प्रश्ने कं ब्रह्माणं कं जल- मित्यत्तरं^7 द्वितीयम् ॥ 172. 1 Ms. शम्ब°. 2 Is it °त्यार्तं° ? 3 Ms. कुट्टिट°. 4 Is it आतान्कां° ? 5 Sic. Is it तत्कर्तृकं त्वत्कर्मकमग्रहणं ? 6 Ms. °ण्टण्यो°. 7 Ms. °रद्वि°.

१४२ पृथ्वीराजविजयमहाकाव्यम् यत्र कर्णोत्पलन्यस्तहस्तं दीपावलो(l.3)किनीः . दृष्ट्वा वधूः प्रियोपान्ते सखीभिः प्रतिमुच्यते ॥ दीपशमनार्थं कर्णोत्पलेषु न्यस्ता ह(l.4)स्ता यत्रैवं कृत्वा दीपानवलो- कयन्तीर्नारीर्भर्तृनिकटे दृष्ट्वा सखीभिः प्रतिमुच्यते ॥(l.5) सूक्ष्मम् ॥ रिरंसारूपसूक्ष्मार्थप्रकाशनात् ॥ १७३. शीतः पाणिरपथ्योयं सद्यो मे निरगाज्ज्वरः .(l.6) यत्र रामा प्रियस्पर्शप्रस्वेदमिति निह्नुते ॥ इदानीं मम ज्वरो निर्गतोतस्तवायं पाणिः शी(l.7)तत्वादपथ्य इत्य- नेन वचसा प्रियँस्पर्शन प्रस्वेदं रामाच्छादयति ॥ व्याजोक्तिः ॥ स्वेदेनो- द्विन्नस्य(l.8) प्रियस्पर्शसुखस्य ज्वरनिर्गमनेन निगूहनात् ॥ १७४. मा प्रवेक्ष्यति कोप्यन्तर्मा शब्दश्श्रूयते बहिः .(l.9) वाक्यं यत्र नवोढानामिति कान्तैर्निगद्यते ॥ नवोढा वक्ति मा हठादिकं कुरु यतः कोप्यन्तः प्रवेक्ष्य(l.10)ति तथा मायुङ्ग्ध्व यतो बहिशब्दश्श्रूयते एतदेव कान्ता अनुवदन्ति मा निषेधं कुरु यतः कोप्य(l.11)न्तः प्रवेक्ष्यति काकुप्रयोगेण न प्रवेक्ष्यतीत्यर्थः मा निषेधं कुरु यतो बहिशब्दश्श्रूयते काकु(l.12)प्रयोगेण न श्रूयते इत्यर्थः ॥ वक्रोक्तिः काकुप्रयोगात् ॥ १७५.. कोप्यन्तर्मे न ते स्नेहः कोपवन्तं त्य(l.13)जान्तरात् . नतोहमिति मानिन्यो रम्यन्ते यत्र कामिभिः ॥ मँमान्तः स्नेहस्तव नास्ति यद्वां त्वत्कर्तृकः स्नेहो मेन्तर्मयि विष(l.14)- यभूतायां न भवतीति मानिनीनामुक्तिः कामिभिस्त्वन्यथा योजनं कृतम् त्वं 1 Ms. °न्तीन्नारीम्भ°. 2 Ms. °यिःशी°. 3 Ms. प्रियास्प°-. 4 Ms. वक्रो°. 5 Ms. ममा° to. यद्वा lc. under l. 13.

[कोपी] कोप(l.15)वान् मे मम नते प्रणते स्नेह इति त्वयोक्तम् तत्कोपमन्त- राच्चित्ता[त्त्यज त]वाहं नैतः प्र(l.16)णामकारीत्युक्त्या कामिभिर्मानिन्यो रम्यन्ते रमणीजनाः . मे इत्येकवचनमेकैककामिन्य(l.17)भिप्रायत्त् ॥ श्लेषेण सैव ॥ सैवेति वक्रोक्तिः ॥ 176. यत्र स्तनन्धयान्हस्ते रत्नदीपं जिघृ(l.18)क्षतः . दृष्ट्वा हाहेति संभ्रान्ता धात्री चेतैर्विहस्यते ॥ रत्नदीपं हस्ते गृह्णतो बालान्दृ(l.19)ष्ट्वा सम्भ्रान्ता हाहेति वदन्ती धात्री चेतैरुपहस्यते ॥ स्वभावोक्तिः ॥ 177. निपीडितस्य पूर्णे(l.20**39⁵)न्दोस्सुधया पङ्किलाङ्गुली . यत्र मृत्युजितः पादौ भाव्येते भावितैः पुनः ॥ पीडितस्यासनभूत(l.1)स्य पूर्णचन्द्रस्यामृतेनाङ्गुली मृत्युजितो भग- वतः पादौ भक्तैः प्रणिधीयेते ॥ भाविकम् ॥(l.2)अत्यन्तविप्रकृष्टस्य भगव- दङ्घुलिपङ्किलत्वस्य प्रत्यक्षाद्यमाणत्वात् ॥ 178. च्युतकर्पूरकस्तू(l.3)रीपांसुला पण्यवीथिका . कुरुते पाण्डुरश्यामवाससो यन्निवासिनः ॥ च्युताभ्यां कर्पूरक(l.4)स्तूरीभ्यां पांसुला यत्राट्टवीथी यस्मिन्निवा- सिनः पौरान्सितासितवस्त्रान्करोति ॥ उदात्तम् ॥(l.5) सातिशयसमृद्धिवर्ण- नात् ॥ 179. पारेसिन्धु विजिग्ये यां मध्येसिन्धु व्यधाच्च याम् • रामः कृ(l.6)ष्णश्च नगरीं ते दास्ये यस्य नोचिते ॥ ' समुद्रपारे यां नगरीं लङ्कां रामो जितवांस्तथा समु(l.7)द्रमध्ये नगरीं 1 Should be ॰कोपिनां. 2 Ms. ॰राश्चि॰. 3 Ms. ॰वाहनं नं॰. 4 Ms. वक्रो॰. 5 Ms. पृ. रा. ४५ vertically on margin.

द्वारवतीं कृष्णो यां व्यधात्ते नगर्यौ यस्य दासत्वयोग्ये न भवतः ॥ द्वितीयमुदात्तम् ॥(l.8)लङ्काजयद्वारिकानिर्माणयोर्महापुरुषचरितयोरङ्गभू- तत्वात् ॥ 180. चन्द्रांशुस्मेरधम्मिल्ल(l.9)मल्लिकानां प्रियान्प्रति • सौधेषु गीतं रामाणां यत्रालिभिरनूद्यते ॥ चन्द्रांशुभिः स्मेराशु(l.10)भ्रतरा धम्मिल्लमल्लिका यासां स्त्रीणां प्रियानुद्दिश्य गीतं सौधेषु सखीभिरनु पश्चा(l.11)दुच्यते गीयते ॥ रस- वत् ॥ रतेरङ्गत्वाद्सवदलङ्कारः ॥ 181. सौधेष्विन्दूदये शुद्धाः प्रि(l.12)यमार्गस्पृशो दृशः • न व्याकुलयितुं भृङ्गा यत्रोत्पलदृशामलम् ॥ चन्द्रोदये प्रियमा(l.13)र्गवीक्षिणीरुत्पलदृशां दृष्टीर्व

पञ्चमः सर्गः . १४५ हठेन पादपतनं यत्र रामासु सागसाम् . कोपाग्निं दीपयति च प्रसादान्बु च वर्षति ॥ रामासु सापराधनां संबन्धिं१ हठेन प्रणमनं कर्तृ कोपाग्निं ज्वलय- ति हर्षजलं च वर्षति . प्रसादे इति वा पाठः ॥ भावसन्धिः ॥ असूयौत्सु- क्ययो रत्यङ्गयोर्भावात् ॥ १८५. लटभाभिस्स्वयं दत्तं विलासिषु नवंक्षतम्३ . दृष्टं विस्मृत्य रत्यन्ते यत्रैति क्षणविघ्नताम् ॥ कामिनां तरुणीभिस्स्वयमेव दत्तं२ तदेव विस्मृतं सद्रत्यन्ते दृष्टं विघ्नतामेति ॥ भावोदयः ॥ असूयोदयात् ॥ १८६. यस्मिन्पराङ्मुखी रक्ता साश्रुस्स्मेरा च योषिताम् . सुसखीसाक्षिकं दृष्टिर्भवत्यानमति प्रिये ॥ रमणीनां प्रिये प्रणमति सति दृष्टिः पराङ्मुखत्वादिसहिता४ स्निग्ध- सखीसाक्षिकं भवति ॥ भावशबलता ॥ अमर्षासूयानिर्वेदहर्षाणां शब- लत्वात् ॥ १८७. भ्रूभङ्गभङ्गिभिस्त्रीणां येनाप्ताश्चापराजयाः . कामस्य कामिभिर्यत्र कृतस्तस्य पराजयः ॥ येन कामेन भ्रूभङ्गविच्छित्तिभिर्हे५तुभिश्चापानां राजयः पङ्क्तयः प्राप्ताः तस्य कामस्य कामिभिः पराजयः कृतः ॥ अनुप्रासयमकयोस्सं- सृष्टिः ॥ १८८. • केलीकोकिलकाकल्याः कल्पाः कान्तागिरो जये . यत्र कामयमानानां नानाङ्गं सुवते सुखम् ॥ 1 Ms. संबधि. 2 Ms. दत्तुं. 3 Is it नखं° ? 4 Ms. ॰खादि॰. 5 Ms. ॰भिहे॰. १६

१४६ पृथ्वीराजविजयमहाकाव्यम्. यत्र प्रियाणां वाचः(l.14) कामयमानानां कामिनां नानाविधं सुखमु- त्पादयन्ति केलीकोकिलानां काकलीक(l.15)········स जये कल्पाः कुश- लाः ॥ तयोरेव संकरः ॥ 189. कर्पूरविपणौ यत्र सर्वस्मि···(l.16)- 190. Lines 17 to end of page missing स्थानेनामरावतीन्द्रनगरी भूरिसौभाग्यं स्पृशति . समगुणेति तात्पर्यम्. या च स्त्री पुरुषार्थि(l.1)तद्वृत्तिसात्यार्थे सुभगा ॥ समासोक्त्युत्प्रेक्षा- सङ्करः ॥ स्पृशतीति संभावनातात्पर्या(l.2)दार्थ्युत्प्रेक्षा नायिकाव्यवहारा- रोपाच्च समासोक्तिः ॥ 191. एवंविधामजयमेरुपुरः प्र(l.3)तिष्ठां कृत्वा सकौतुक इवाजयराजदेवः . दोर्वीर्यसंहतनयं तनयं विधाय सिंहासने त्रि(l.4)दिवमीक्षितुमुच्चचाल ॥ एवंविधामजयमेरुनगरस्य प्रतिष्ठां कृत्वा स्वर्गदर्शनार्थं(l.5) कौतुकीव. नगरान्तरलाभार्थमिति भावः . भुजबलमिलितनीतिं पुत्रं सिंहासने कृत्वा (l.6)चलितः ॥ 192. अर्णोराजोथ सादाशिवमनिशमनु

पञ्चमः सर्गः . १४७ ' प्राप्यैकमप्रतिमल्लं पुष्करक्षेत्रं समस्तभूमौ पुण्डरीकाणां (l.11) छत्राणां प्रकटं विघटनेनोद्धतानां मातङ्गराजानां म्लेच्छानां त्रासायासोत्पादने व्यवस्थितं (l.12)शक्तमकरोत् ॥ व्यवहितमिति पाठो नार्षः . सिंहश्च पुण्डरीकाणां व्याघ्रविशेषाणां विघ(l.13)टनादधिकमुद्धतानां हस्तिनां भयमुत्पादयतीति भद्रम् ॥ 193. श्रीलोलराजसुतप(l.14)ण्डितभट्टनोन- राजात्मजो विवरणेन स जोनराजः . सर्गे चिराद्व्यधित पञ्चममञ्चि(l.15)--- ︶︶︶︶︶︶︶︶︶︶राजे ॥ श्रीश्रीकण्ठचरित्रकाव्यविवृतौ(l.16) Lines 17 to end of page missing * * * * * 1 Ms. °यउ°, 2 Ms. °जः. Is it °ञ्चितं श्रीपृथ्वीमहेन्द्रविजयाभिधकाव्यराजे ?

[ षष्ठः सर्गः ]


समीयु- र्भयं तदेवाजयमेरुनार्यः ॥ प्रथमं चन्द्रस्य राहुणा ग्रहे ग्रासे सति चन्द्रलोके दाक्षा(l.1)यणीनां ताराणामश्विन्यादीनां यद्भयमासीत्तदेव तत्सममित्यर्थः दुर्गाङ्गनाः प्रापुः (l.2)विषण्णे हस्तश्रश्रवणं च नक्षत्रे हस्तः करश्रश्रवणं कर्णौ यासां ताः ॥ 1. रजोभिरेव प्रतिभानभङ्गे(l.3) पूर्वस्य पुंसस्तरणेः प्रवृत्ते . निर्गत्य सोष्मा विदधे स दोष्मा- नौर्वाग्नितां तत्कटकार्णवस्य ॥ अ(l.4)र्णोराजस्य पूर्वः पुमानादित्यः तस्य रजोभिरेव प्रकाशनाशे जाते सोष्मा दृप्तो दोष्मान्भुजशा(l.5)ली स····························[सै]न्य- समुद्रस्य वडवाग्नितामकरोत् तत्कटकमशोषयदित्यर्थः ॥(l

षष्ठः सर्गः . १४६ भा(l.9)ग्यानि भवन्ति . यदि हि म्लेच्छा रणे संमुखा म्रियेरंस्तदार्कबिम्बं भित्वा गच्छेयुः नत्वेवमतो न(l.10)रके पतिताः ।। ३. दोश्शालिनामाजयमेरवाणां यल्लोहघातैः करणीयमासीत् . भारा(l.11)यमाणैर्निजवर्मलोहै- स्तदन्वभूवन्बहवस्तुरुष्काः ॥ अजयमेरुभवानां भटानां श(l.12)स्त्राघातैर्यत्कर्तव्यमासीत्तद्भारीभूतै- रायसकवचैर्बहवस्तुरुष्काः प्रापुः . निजकवचभ(l.13)रैरेव मृता इत्यर्थः।। ४. पुरोगतानामसवो निरीयुः पिपासया ये मरुधूलिमध्ये . तैरेव सा(l.14)~~~~~— —————— ॥ .........पिपासया(l.15) ५. Lines 16 to end of page missing —घतस्कराढ्ये सुखेन पाथेयमिवात्तवद्भिः ॥ अश्वग्रीवास्वायुधप्रहारं दत्वा शोणितं पीतवद्भिः कैश्चिन्मृतम् . भावे क्तः . अत्रोत्प्रेक्ष्यते पापचोरसंकुले नरमार्गे पाथेयमिव गृह्णद्भिः(l.2) . चौरबहुले च लोकः पाथेयं गृह्णाति ॥ ६. मरुस्थलीवालुकया प्यधत्त कांश्चिद्दिपन्नांल्लु(l.3)ठतः पृथिव्याम् . 1 Ms. दौ°.

१५० पृथ्वीराजविजयमहाकाव्यम्. संस्कारमात्मोचितमन्तकाले प्रवर्तयन्ती कृपयेव वात्या ॥ मृतान्भूमौ लुठ(1.4)तोन्वान्वातसमूहो मरुसिकतयाच्छादयत् . अत्रो- त्प्रेक्ष्यते कृपया हेतुभूतया यवनोचि(1.5)तं प्रेतसंस्कारं भूमिनिखननलक्षणं प्रवर्तयन्तीव ॥ ७. रुध्वा स्थितान्कांश्चन राजमार्ग ग्रा(1.6)म्याश्शवान्गन्धभयेन हुत्वा . तुरुष्कमांसस्य चिराद्रसज्ञं क्रव्यादमग्निं रचयांबभूवुः ॥(1.7) राजमार्गमावृत्य स्थितान्कांश्चन शवान्गन्धभयेन हुत्वा ग्रामिणः क्रव्या- दमसंस्कृतमग्निं (1.8) तुरुष्कमांसस्यास्वादज्ञं चिराच्चक्रुः ॥ ८. बभूव यावानवनेः पुरस्ता- द्भारस्तुरुष्कैर्व्यसुभि(1.9)र्लुठद्भिः . तावानभून्मेदुरितोदरीणां तत्पारणाद्भारणतश्शिवानाम् ॥ तुरुष्कैर्गतप्रा(1.10)णैर्लुठद्भिः पूर्वं भूमेर्यावान्भारोभूत्तावानेव भारस्त- त्पारणात्तुरुष्कग्रसनात्पीवरोदरीणां (1.11) जम्बुकीनां धारणातोभूत् . पार- णाशब्दो भक्षणे वर्तते. तुरुष्कभक्षणे निवृत्तस्य भारस्य शिवामे(1.12)दुर- त्वात्पुनरुदयः ॥ ९. असृचि तेषां विशतामुलूकै- स्सपादलक्षं यदमङ्गलं प्राक् . त(1.13)त्तत्पलास्वादननिर्वृतस्य भद्रं बभाषे बलिभुक्कुलस्य ॥

1 Ms. °भिः लु°. 2 Ms. °निवृ°.

' सपादलक्षं नाम देशविशे(l.14)षं विशतां म्लेच्छानाममङ्गलमुलूकैः कौशिकैर्येत्सूचितं तदमङ्गलमेव कर्तृ काक(l.15)[कुलस्य] शुभमसूचयत् यतो मृतम्लेच्छमांसग्राससुखितस्य . आसादनेति पाठो ना(l.16)[र्षः] ...... ॥ 10. ~-~~~~~- रीति परस्परस्याप्सरसो हसन्त्यः . जनङ्गमैमूर्धभिरर्ध(l 17)~~

...............रुदयं समेभ्य(l.18) 11.
[Lines 19 to end of page missing](*)
तिस्ते तत्र कथामात्रमपि नाकुर्वन्निति. पांथेष्विति यस्य च भावेन
भावलक्षणमिति सप्तमी(l.1). पांथाः कथामत्यजन्शृङ्गाद्युत्स्वकुर्वन्निति
तात्पर्यम् ॥ 12.
पवित्रिता वीररसेन धात्री
[L1

राज्ञस्सेना दिशस्सर्वा उच्चैश्श्रवस्सर्गप्रकृ(l.6)तीरिव व्यधात् हताः प्रसादीकृता नष्टाश्चेतेभ्यश्शिष्टाः प्रविष्टास्तौरुष्कास्तुरङ्गमा यस्यां(l.7) सा . तुरुष्कवाहापहरणात्तत्सेना दिशोजैषीदिति भावः . उच्चैश्श्रैवा एक एव स च स्वर्ग(l.8) एवास्ति तत्सेना तु वराश्वबाहुल्याद्बहुसंख्योच्चैश्श्रवस्सहिता दिशो- पि व्यधादित्यपि श(l.9)ब्दार्थः यद्वा हतादिभ्यश्शिष्टत्वादल्पप्रविष्टाश्वां- पि दिशोनेकोच्चैश्श्रवस्सहिता...........² ॥ १४. भीत्या विना कस्य न सुप्रवेश- मुपक्रमे यत्समरस्य जज्ञे . भाग्यैर्विना कस्य(l.10) न च प्रवेष्टुं साध्यं न तत्पार्थिवसैन्यमासीत् ॥ रणारम्भे यद्राजसैन्यं भीत्या विना कस्य न(l.11) सुप्रवेशमभूत् . भीति- रेव तत्र सैन्ये न प्रविष्टा अन्ये तु सर्वे तुरुष्काः प्रविष्टा इत्यर्थः . तद्रा(l.12)ज- सैन्यं कस्यापि प्रवेष्टुं साध्यं नासीत्कैर्विना . भाग्यैर्विना . भाग्यान्येव समरान्ते प्राविशन्नन्ये तु तु(l.13)रुष्का हता इत्यर्थः हत्वा तुरुष्कांस्तद्धनं प्राप्तमिति भावः . यद्वा निर्भयस्य कस्य न सुप्रवे(l.14)शमिति यज्जनैरज्ञे ज्ञातं तद्राजसैन्यं भाग्यानि विना कस्यापि न प्रवेष्टुं शक्यमिति ॥(l.15) १५. एकैकमु ︶ ︶ ︶ ︶ ︶ ︶ ︶ ︶ णीर्भर्तुरिवाभिधातुम् . संप्रोषितै ︶ ︶ ︶ ︶ ︶ ︶ ︶ ︶ ︶ ︶ ︶ ︶ ︶ ︶ ॥(l.16) १६. Lines 17 to end of page missing तथा परकटकं सिद्धवत्प्रविष्टा इत्यर्थः पौरस्तुत्यमृतपूर्णास्सत्सद्दिनो- शोभन्त ॥ १७. 1 Ms. °वैश्र°, 2 Ms. lc. on margin. 3 Ms. °धस्वा°. 4 Ms. °भर्त्त°. 5 Ms. °पूर्णास्सां,

षष्ठः सर्गः . १५३ नृपः(l.1) पताकासिचयप्रपञ्च- सञ्चारिचित्राम्बरभूषणायम् • अलोठयित्वैव नवीकृतायां पु(l.2)र्यामपूर्वां श्रियमैक्षते स्म ॥ ध्वजवस्त्राण्येव संचारि चित्रं यस्य तदम्बरं भूषणं य(l.3)स्यांमत ऍवालोठयित्वैव लोंठनेन विनैव नवीकृतायां नगर्यां स शोभां दृष्टवान्. शत्रुमारणा(l.4)न्नगर्या नवीकरणम् ॥ 18. महोत्सवः क्ष्मापतिना सुलग्ने न ज्ञायते कुत्र स सूत्रितोभूत् .(l.5) अद्यापि यो रुद्धतुरुष्कयात्रं⁵ तथैव सर्वामवनीमुपास्ते ॥ योद्यापि म्लेच्छानां यात्रां रुद्ध(l.6)वान्सर्वां भुवं च व्याप्नोति स महोत्सवो राज्ञा कस्मिन्नपि शोभने स्थिरे लग्ने प्रारब्धोभूत् • शोभन(l.7)- लग्ने एवारब्धस्य स्थैर्योपपत्तेः ॥ • 19• व्यापादि यस्मिन्नपवित्रसेना स भूमदेशश्चिरकाल(l.8)मासीत् • कङ्कालिकाकालिशृगालमाला- मेलापकोलाहलकेलिरौद्रः ॥(l.9) सा चाण्डालसेना यत्र मारिता तत्स्थानं कङ्कादिरौद्रं जातम् ॥ 20. विशुद्धिहेतोरथ तस्य(l.10) राजा घ्राणेन्द्रियाकास्मिकरौरवस्य • अकारयत्कीर्त्तिपटीपिनद्ध- क्षीरोदनशङ्कर(l.11)णं तटाकम् ॥


1 Ms. °लौठं. 2 Ms. °स्यांम°. 3 Ms. ऎवा°. 4 Ms. °लाठ°. 5 Ms. °त्रां. We take it as an adverb. 6 Ms. °सीत्क°. २०

१५४ पृथ्वीराजविजयमहाकाव्यम्. नासाया आकस्मिकरौरवाख्यस्य नरकविशेषस्य . उद्वेगोत्पादक(l.12)- दौर्गन्ध्यातिशयादिति भावः . तस्य म्लेच्छमारणस्थानस्य शोधनार्थं स राजा तटाकम(l.13)कारयत् . कीर्त्तिरेव पटी तया पिनद्धस्य क्षीरोदस्य नग्नंकरणम् . क्षी(l.14)रसमुद्रादधिकमित्यर्थः . अधिकश्च हीनं जयन्पटीं गृहीत्वा नग्नं करोति . नग्नपलितेत्या(l.15)दिना कर्तर्यर्थे [ख्यु]टि नग्नं- करणशब्दस्य रूपम् ॥ 21. तत्तुङ्गमातङ्गघटास्थिकूटा- वि(l.16)—⏑———⏑—⏑—— • ——⏑ पीडां मनुते स्म भू(l.17)[यः] ॥ 22. Lines 18 to end of page missing या पुष्करारण्यविहारशीला मन्दाकिनीवेन्दुनदी प्रसिद्धा • भगीरथस्सिन्धुमिव स्रवन्त्या(l.1) तया तटाकं तमपूरि देवः ॥ पुष्करमरण्यमाकाशं च तत्र संचारिणी या चन्द्रनदी(l.2) गङ्गेव प्रसिद्धा तया नद्या स राजा तं तटाकमपूरयत् भगीरथस्समुद्रमिव . पूरेर्णि- जन्तस्य चिण्यपूरिति(l.3) रूपम् ॥ 23. पयोभिरीशानकिरीटचन्द्र- पेयूषगर्भैः परि