भारतकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

२० श्रीमद्बादरायणप्रणीतब्रह्मसूत्राणां— अ. पा. सूत्रं. स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् .. ३ ४ २१ स्थानविशेषात्प्रकाशादिवत् .. .. ३ २ ३५ स्थानादिव्यपदेशाच्च .. .. १ २ १४ स्थित्यदनाभ्यां च .. .. १ ३ ७ स्थितिमाह दर्शयतश्चैवं प्रत्यक्षानुमाने .. ४ ४ २१ स्पष्टो ह्येकेषाम् .. .. .. ४ २ १३ स्मरणाच्च .. .. .. ३ १ २३ स्मरन्ति च .. .. .. २ ३ ४७ ” ” .. .. .. ३ १ १५ ” ” .. .. .. ४ १ १० स्मर्यते च .. .. .. ४ २ १४ स्मर्यतेऽपि च लोके .. .. ३ १ २० स्मर्यमाणमनुमानं स्यादिति .. .. १ २ २५ स्मृतेश्च .. .. .. १ २ ६ ” ” .. .. .. ४ ३ ११ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यन- } २ १ १ वकाशदोषप्रसङ्गात् .. .. } स्यादेकस्य ब्रह्मशब्दवत् .. .. २ ३ ५ स्वपक्षदोषाच्च .. .. .. २ १ ११ ” ” .. .. .. २ १ ३० स्वशब्दान्मानाभ्यां च .. .. २ ३ २३ स्वात्मना चोत्तरयोः .. .. २ ३ २१ स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च ३ ३ ३ स्वाप्ययसंपत्त्योरन्यतरापेक्षमाविष्कृतं हि ४ ४ १६ स्वाप्ययात् .. .. .. १ १ ९ स्वामिनः फलश्रुतेरित्यात्रेयः .. .. ३ ४ ४४ ह हस्तादयस्तु स्थितेऽतो नैवम् .. .. २ ४ ७ हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दस्तुत्युप- } ३ ३ २७ गानवत्तदुक्तम् .. .. } हृद्यपेक्षया तु मनुष्याधिकारत्वात् .. १ ३ २५ हेयत्वावचनाच्च .. .. .. १ १ ८

॥ श्रीगुरुभ्यो नमः ॥ ॥ ॐ ॥ ॥ ब्रह्मसूत्रभाष्यम् ॥ श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं ⸻ ꕤ ⸻ ( १ ) नारायणं गुणैस्सर्वै- रुदीर्णं दोषवर्जितम् । ॥ भाष्यदीपिका ॥ श्री जगन्नाथयतिविरचिता . ⸻ ꕤ ⸻ जिज्ञास्यं जन्मरक्षाक्षयनियतिमतिप्रत्यगज्ञानबन्ध- श्रेयोदं शास्त्रगम्यं श्रुतिगतवचनैर्मुख्यवृत्त्याऽभिधेयम् । भैष्मीसत्यासमेतं बहुगुणवपुषं भीतिपूर्वार्द्दूरं भक्तिश्रुत्यादिचिन्त्यं भजनपरगतिं भावये वेणुकृष्णम् ॥ १ ॥ अश्मस्तम्भात्समागत्य ताम्रतुण्डाभिहत्य यः । तं नौमि जगन्नाथं कण्ठोऽपात्तं नृकेसरी ॥ २ ॥ अनधीत्य महाभाष्यं यस्य व्याकृप्यनुग्रहात् । तमुपासे नृसिंहार्कं प्रत्यूहतिमिरापहम् ॥ ३ ॥ पूर्णबोधगुरून्वन्दे जयार्यान् व्यासदेशिकान् । रामचन्द्रगुरून्वार्यान् लक्ष्मीकान्तगुरूनपि ॥ ४ ॥ येनायं निरणायि मध्वगुरुसद्भाष्यप्रकाशाशयः प्राखण्डि प्रतिवादिदर्शनगणः प्राबन्धि गुर्वर्णवः । शिष्येभ्यस्समदायि वित्तमुभयं प्रालम्भि विद्यासनं सोयं श्रीरघुनाथतीर्थगुरुराट् शुद्धिं विदध्यान्मतेः ॥ ५ ॥ जयार्यरचितां टीकामनुसृत्य यथामति ।

२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ज्ञेयं गम्यं गुरुंश्चापि जगन्नाथाख्ययतिना क्रियते भाष्यदीपिका ॥ ६ ॥ क्वचिद्भाष्यविवृत्यैव टीकार्थोऽपि विविच्यते । तत्त्वप्रदीपतात्पर्यचन्द्रिकायुक्तमार्गतः ॥ ७ ॥ (१) परमानन्दाद्यात्मकस्य परमात्मनः प्रतिबिम्बतया स्वत- श्चिदानन्दाद्यात्मकस्य जीवस्य अनाद्यविद्याकामकर्मदिनिमित्तबन्ध- ध्वंसाय निखिलजीवजडात्मकात् प्रपञ्चात् परमार्थतोऽत्यन्तभिन्नत- या निखिलगुणोदारतया निरस्तसमस्तदोषतया परमपुरुषमवगमयि- तुं सकलसदागमानां प्रवृत्तिरिति तत्त्वम् । यदाहुः— अदुःखमितरत्सर्वं जीवा एव तु दुःखिनः । तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तते ॥ इति । ‘प्रवर्तते’ दुःखप्रहाणसाधनं परमात्मानं प्रतिपादयतीत्य- र्थः । तेषां चार्थनिर्णयाय ब्रह्मसूत्राणि चकार भगवान् बादरायणः । तानि च पटलपिहितनयनवत् यथावदर्थावेत्तृभिः अविद्याख्यपटलपि- हितनयनपङ्कोकससदृशैः अन्यैरन्यथाव्याख्यातानि यथावद्व्याचिख्या- सुर्भगवान्‌आनन्दतीर्थाचार्यः समङ्गलस्यैव सफल

[ अधि - १. सू - १. ] दीपिकासहितम्. ३ नत्वा सूत्रार्थ उच्यते ॥ य इति वा, अराणामाश्रयो न भवतीति वा, विषयतया नरविशेषसं- बन्धिज्ञानाश्रय इति वा, अरविधुरमुक्ताश्रय इति वा योगेनोत्कृष्टगुण वाचक इत्युक्तं भवति । तेन नारायण एव शास्त्रार्थ इति प्रदर्शितम् । अनेनैव विशेषणचतुष्टयेन वन्द्यताप्रयोजकानि बहुगुणत्व-निर्दोषत्व- शास्त्रज्ञेयत्व-शास्त्रगम्यत्वानि चोक्तानि ॥ यद्वा—अत्र नारायणमित्यादिपदपञ्चकेन समुद्रशायित्वस- र्ववसनोत्कर्षब्रीडाज्ञानादिगुणैरूच्चत्व-सम्यग्दोषकर्षण-प्रकृष्टद्युतिमय- त्व-ज्ञानिनः प्रति प्राप्तिनिरोधरहितत्वाख्यनिमित्तपञ्चकयुतेन नारा- यणवासुदेवसंकर्षणप्रद्युम्नानिरुद्धाख्यमूर्तय उच्यन्ते; तासामेतच्छा- स्त्राध्यायपादेषु प्रतिपिपादयिषितेतत्त्वात् । तथा च ‘नारायणं नत्वा गु- णैरुदीर्णं नत्वा दोषवर्जितं नत्वा’ इत्यादिका तत्त्वप्रदीपिकोक्तयोजना द्रष्टव्या ॥ ‘गुरोर्नाम न गृह्णीयाच्छिष्यो भार्या पतेरपि’ इति वचनाद्गुरोर्ना- म नाग्रहीदाचार्यः । न च ‘गुरून् नारायणशब्दवाच्यान् नारायणपदेनै- व गुरुनाम चोवाच, आसमन्तात् सो विशिष्ट एव हि व्यासः’ इति तत्त्वदीपिकाविरोध इति वाच्यम्; गुरुदेवतयोर्वास्तवभेदविवक्ष- या तदुपपत्तेः, योगरूढव्यासकृष्णाद्यसाधारणनामविवक्षयैवमुक्तत्वा- त् । गुरुत्वनिमित्तशास्त्रप्रभवत्व-शास्त्रसंप्रदायप्रवर्तकत्व-साक्षादुप- देशकत्वाख्यप्रकारबाहुल्यात् गौरवाद्वा बहुमानार्थं वा बहुवचनप्रयो- गः । यद्यपि गुरुर्व्यासः, इष्टदेवताऽपि स एवेति न तयोर्भेदः, तथाऽ- पि विशेषानुग्रहार्थं पृथङ्नतिरिति । एवं स्वस्य गुरुदेवतयोः भेदे अरु- चिसूचनार्थोऽपिशब्दः । तथा च - ‘अपि’ तथाऽपि गुरुदेवताभेदाभावे- ऽपीत्यर्थः । तत्त्वप्रदीपकृत्तु अपिशब्दात्सूत्रकारमपीत्याह । तस्यापि विशेषानुग्रहार्थं पृथङ्नतिरित्येवाभिप्रायः । यद्वा — ‘अपिशब्दः विशे- षणान्तरसमुच्चयार्थः, तद्विवरणमस्येत्यादि’ इति सुधोक्तरीत्या गुणपू- र्णत्वोपपादकजगज्जन्मादिकारणत्वादिरूपानुक्तविशेषणान्तरसमुच्चया- र्थोऽपिशब्दः ॥ अनेनैव श्लोकेन श्रोतृप्रवृत्त्यङ्गभूताः शास्त्राधिकारिविषयप्रयोज- नसंबन्धाश्च शिष्यशिक्षार्थं सूचिता भवन्ति ॥

४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( २ ) द्वापरे सर्वत्र ज्ञाने आकुलीभूते तन्निर्णयाय ब्रह्मरुद्रे- न्द्रादिभिरर्थितो भगवान्नारायणो व्यासत्वेनावततार । ( ३ ) अथेष्टानिष्टप्राप्तिपरिहारेच्छूनां तयोरगमविजानतां ( २ ) ननु ब्रह्मसूत्राणां प्रामाण्ये सत्येव प्रेक्षावदुपादेयत्वम्, प्रा- योऽस्य प्रामाण्यप्रयोज्यत्वात् । सत्येव तस्मिन् प्रतीतिकार्थनिरासेन यथावद्व्याख्येयत्वं संभवति । प्रामाण्यमेव कथमित्याशङ्क्य आप्तिमूल- त्वादिनैवेति परिहारमभिप्रेत्य वक्तृश्रोतृप्रसङ्गदोषाभावरूपाप्तिमूल- त्वोपपादनाय सूत्रागतिक्रममाह – 'द्वापरे' इत्यादिना । द्वावेव धर्म- पादौ पराववशिष्टौ यस्मिन्युगे, द्वाभ्यां युगाभ्यां परस्मिन्नुत्तरस्मिन् युगे इति वा

[अधि - १. सू - १. ] दीपिकासहितम्. ५ तज्ज्ञापनार्थं वेदममुत्सन्नं व्यञ्जयंश्चतुर्धा व्यभजत्, 'इष्टानिष्टप्राप्तिपरिहारेच्छूनां' इष्टप्राप्तिश्चानिष्टपरिहारश्च ताविच्छूना म् । तत्त्वप्रदीपेरीत्या अप्राप्तसुखप्राप्तिदुःखपरिहारेच्छूनावतामिति वा । मोक्षस्य पुरुषार्थतासमर्थनार्थं वादिविप्रतिपत्तेः तत्स्वरूपनिरूपणार्थं चैवमुक्तम् । अन्यथा मुमुक्षूणामित्येव ब्रूयात् । नैतावताऽलं 'आत्य न्तिक' इति चोपस्कर्तव्यम् । 'तद्योगं' तयोरुपायविशेषं निवृत्तधर्मे परापरतत्त्वज्ञानरूपं 'अविजानतां' अजानानां सज्जनानां 'तज्ज्ञाप नार्थं' इष्टानिष्टप्राप्तिपरिहारोपायज्ञापनार्थं । 'उत्सन्नं' अपपाठादिना तिरोहितं 'वेदं चतुर्धा' — 'व्यभजत्' इत्यावर्तते, 'ततः प्रागेव वि भक्तं' इति

६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] चतुर्विंशतिश्चैकशतधा सहस्रधा द्वादशधा च । (४) तदर्थनिर्णयाय ब्रह्मसूत्राणि चकार । (५) तच्चोक्तं स्कान्दे— स एव पञ्चधा जातो द्वापरं प्राप्य वै युगम् । उत्सन्नस्स कलिं प्राप्य वेदः प्रायेण सर्वशः ॥ इत्यथर्वणभाष्योदाहृतस्मृतौ कृतयुगे वेदैकत्वस्य त्रेतायां त्रैवि- ध्यमात्रस्य द्वापरे पञ्चविधत्वस्य चोक्तेः, तथा सर्वस्यापि वेदस्य क- लावेवोत्सादोक्तेः, अत्र तु 'वेदमुत्सन्नं' इत्यनेन त्रेतायुगे चतुर्धावि- भागस्य द्वापर एवोत्सादस्य चोक्तेर्विरोधो भाति । तथाऽपि अव्यक्त- मूलराश्यपेक्षया वेदैक्योक्तेः सम्भवात्, त्रेतायुगे प्राचुर्येण भगवद्वि- ज्यासाधनत्वविवक्षया त्रैविध्योक्तावपि वस्तुत अथर्वणाख्यप्रकारा- न्तरसत्त्वस्य अनिषेधेन विधान्तरस्यापि सत्त्वसंभवात्, द्वापरे अपौ- रुषेयस्य वेदस्य चतुर्विधत्वेऽपि पौरुषेयैरितिहासपुराणादिभिः सह प- ञ्चविधत्वस्यापि सम्भवात्, बाहुल्येन सर्वैः प्रकारैर्वेदस्य कलावुत्सा- देऽपि व्यासावतारात्पूर्वं द्वापरेऽप्यपपाठादिरूपोत्सादस्य सम्भवात् अविरोधः ॥ (४) एवमुपोद्घातमुक्त्वा प्रकृतमाह—'तदर्थनिर्णयाय' इति । तेषां सर्वेषां अर्थः तं उपक्रमादियुक्तिभिर्निर्णतुमित्यर्थः । 'ब्रह्म- सूत्राणि' ब्रह्म वेदः, तदर्थः परब्रह्म वा, तस्य सूत्राणि तत्स्वरूप- निर्णायिकानीत्यर्थः । गीताभाष्ये तु ब्रह्मसूत्राणि शारीरकसूत्राणीति रू- ढिरप्युक्ता । अत्र द्वापर इत्यादिना ब्रह्मसूत्राणि चकारेत्यन्तेन वक्तु- र्व्यासस्य नारायणावतारत्वोक्त्या प्रमादाज्ञानादिदोषाभावसाधनात्, तत्राप्रयोजकत्वशङ्कायाश्च भगवत्त्वोक्त्या परिहृतत्वात्, ब्रह्मादीना- मर्थितत्वोक्त्या च श्रोतृदोषाभावस्य वक्तरि तन्निमित्तविप्रलम्भाभाव- स्य चोक्तत्वात्, 'ज्ञान आकुलीभूते तन्निर्णयाय' इत्यनेन अज्ञाननिर्ह- रणस्य प्रसक्तत्वेन प्रसङ्गदोषाभावस्य तत एवानपहासस्य चोक्तत्वा- दाप्तिमूलता दर्शिता भवति । 'ब्रह्मसूत्राणि' इत्यनेन ब्रह्मपरश्रुतिव्या- ख्यानरूपत्वात् श्रुतिमूलत्वं, न्यायव्युत्पादकत्वाद्युक्तिमूलत्वं च सू- चितम् । तथा च सिद्धं ब्रह्मसूत्राणां प्रामाण्यमिति भावः ॥ (५) उक्तमेवार्थं प्रमाणेन स्थापयति — 'तच्च' इति । 'च' शब्द

[ अधि - १. सू - १० ] दीपिकासाहितम् ७ नारायणाद्विनिष्पन्नं ज्ञानं कृतयुगे स्थितम् । किञ्चित्तदन्यथा जातं त्रेतायां द्वापरेऽखिलम् ॥ ( ६ ) गौतमस्य ऋषेशापाज्ज्ञाने त्वज्ञानतां गते । एवार्थे । तथा च - यदस्माभिः 'द्वापरे' इत्यादिनाक्तं तत् स्कान्दपु राणोक्तमेवेति भावः । न केवलमस्माभिः किन्तु स्कान्दे चोक्तमिति समुच्चये वा 'च' शब्दः । तथोक्तं तत्त्वप्रदीपे - यद्यप्याचार्यः स्वो क्तार्थे स्वयमेव प्रमाणं, सर्वज्ञत्वादविप्रलम्भकत्वात् । तथाऽपि स्का न्दे चोक्तमिति प्रौढवादं करोतीति । 'न केवलमस्माभिः' इति प्रमे यदिपेऽपि । किमुक्तमित्यतस्तत्पठति - 'नारायणात्' इति । तदुपदे शादित्यर्थः । 'ब्रह्मादिद्वारा' इति शेषः । यद्वा - उत्पत्त्याद्यष्टके ज्ञा नस्य प्रविष्टत्वात् तस्य नारायणजन्यत्वोपपत्तिः । 'निष्पन्नं' उत्पन्नं 'अखिलं' सगुणत्वादिसर्वविषयकमित्यत्रापि सम्बध्यते । 'ज्ञानं' स म्यग्ज्ञानं 'स्थितं' यथोत्पन्नं तथैव संशयाद्यनास्कन्दितमेव स्थितम् । 'सत्सु' इति शेषः । ज्ञानविषये संशयादिकं नाभूदिति फलितार्थः । 'त्रेतायां' युगे 'तत्' ज्ञानं 'किञ्चित्' विषये 'अन्यथाजातं' इदमदो वे ति पूर्वोक्तसंशयविषयतां अन्यदेवेति मिथ्याज्ञानविषयतां च प्राप्तमि त्यर्थः । अत्र द्वापरवत् त्रेतादिरप्यष्टाविंशो ग्राह्यः । द्वापरे युगे अखि लं सर्वविषयं तदन्यथा जातमित्यन्वयः ॥ ( ६ ) ननु कालप्रयुक्तमन्यथात्वं चेत् द्वापरयुगे भागद्वयस्यैवान्य थात्वं युक्तं, न तु सर्वस्येत्यतो विशेषकारणं चाह - 'गौतमस्य' इ ति । 'तु' शब्दश्चार्थः शापे विशेषकारणत्वस्य ज्ञाने वा सम्यक्त्व स्य द्योतकः । तथा च गौतमस्य ऋषेः शापाच्च ज्ञाने गुणपूर्णत्वादि सम्यग्ज्ञाने अज्ञानतां नेदं तत्त्वज्ञानमिति तत्त्वज्ञानभिन्नत्वप्रकारकप्रती तिविषयतां संदेहविषयतां च गते प्राप्ते सति, ज्ञानविषये सम्यग्ज्ञानवि रुद्धसंशयविपर्ययविषयतां गते सतीति यावत् । 'ब्रह्मरुद्रपुरस्सराः' तदादयो 'देवाः' 'सङ्कीर्णबुद्धयः' अज्ञानादिमिश्रज्ञानिनः यद्विषये ज्ञाने जातं पुनस्तद्विषयगतप्रकारेषु अज्ञानसंशयादिमन्तः सन्तः 'श रण्यं' तत्र साधुं शरणेषु रक्षकेषु अग्र्यम् 'अनामयं' प्रमाणलक्षणटी कोक्तरीत्या अत्र आमयपदं रोगवाचकं दोषान्तरोपलक्षकं तथा च नि

तु भवान्" = "May you, sir, revive her!" Look at line 27: "तु भवान् इत्येवमनुतापिनं तमभिलप्यापसरतेत्युक्त्वा हेरम्बोऽम्बि" YES! Line 26 ends with: "तामु...जीवय" Line 27 starts with: "तु भवान्"! "तामु[ज्]जीवयतु भवान्"! The verb is definitely "उज्जीवयतु"! With 'ताम्' (accusative of तद्, referring to the cow): ताम् + उज्जीवयतु = तामुज्जीवयतु! Now, why does 'ज्जी' look strange? Let's look closely at 'तामुज्जीवय': Is it 'तामुज्जीवय'? Wait, what are the exact letters printed? Let's inspect: 'ता', 'म' with 'ु' ('मु'), then: Wait, is there an extra letter? Look at: ता (1) मु (2) Then a glyph: it looks like 'रु' or 'ज्'? Then 'जी'? No, wait! Could it be 'तामुज्जीवय'? Wait, look at the glyphs: ता | मु | [?] | जी | व | य Let's count characters in line 26: त (1) तो (2) ह (3) र (4)

[अधि - १. सू - १०.] दीपिकासहितम्. ९ (७) तैर्विज्ञापितकार्यस्तु भगवान्पुरुषोत्तमः । अवतीर्णो महायोगी सत्यवत्यां पराशरात् । उत्सन्नान्भगवान्वेदानुज्जहार हरिःस्वयम् । चतुर्धा व्यभजत्तांश्च चतुर्विंशतिधा पुनः । शतधा चैकधा चैव तथैव च सहस्रधा । कृष्णो द्वादशधा चैव (८) पुनस्तस्यार्थवित्तये । त्ससौ मुनिस्तद्धत्याऽघात् विमुक्तश्च। अत एव गोदावरीति तस्याः सं ज्ञा समजनि। अथ विनायकचेष्टितं प्रतिबुध्य ऋषिभ्यश्चुक्रोध, अ शपच्च गौतमः यदस्मदन्ननिमित्तज्ञानबलादेते गां निरमंस्त तत् ज्ञा नमपैत्विति ॥ (७) देवैः प्रार्थितो भगवान् किमकरोदित्यत आह — 'तैः' इ ति । 'तुः' अवधारणे । 'महायोगी' मुनिरूपः महाशक्तिर्वा । 'पुरुषोत्तमः' क्षराक्षरचेतनाभ्यां उत्तमो 'भगवान्' नारायणः 'तैः' स्वशरणागतिं प्राप्तैरेव देवैः 'विज्ञापितकार्यः' सन् विज्ञापितं प्रति पादितं अवतारादिरूपं कार्यं यस्य सः, रूपेण 'महायोगी' नाम्ना कृ ष्णः 'पराशरात् सत्यवत्यामवतीर्णः' इत्यन्वयः । अवतारानन्तरिकप्र योजनमाह — 'उत्सन्नान्' इति । 'स्वयं' साक्षात् 'हरिः' 'भगवान्' ज्ञानादिगुणशाली व्यासः 'उत्सन्नान्' अपपाठादिना तिरोहितान् 'वेदान्' 'स्वयमेव' अन्योपदेशमन्तरेण 'उज्जहार' उच्चारणेन व्यक्ती चकार । तांश्च प्रागेव चतुर्धा विभक्तान्वेदान् पुनः 'चतुर्धा व्यभजत्' चतुर्भागानकरोत् । एकैकं च भागं 'पुनः' चतुर्विंशत्यादिशाखारूपे ण ऋग्वेदं 'चतुर्विंशतिधा', यजुर्वेदं 'एकशतधा' एकोत्तरशताख्यैक प्रकारेण, सामवेदं 'सहस्रधा' अथर्वणवेदं 'द्वादशधा च' व्यभज दित्यर्थः । भगवत्त्वस्य मुख्यत्वज्ञापनाय 'भगवान्' इति पुनरुक्तिः । 'एव' शब्दाः प्रकाराधिक्यव्यवच्छेदकाः । 'च' शब्दाः प्रकाराणां परस्परसमुच्चायकाः ॥ (८) प्रकृतमाह — 'पुनः' इति । पूर्वेणैवास्यान्वयः । यद्वा - उ त्तरेणाप्यन्वयः । वेदविभागानन्तरं इत्यर्थः । 'तस्य' वेदस्य 'अर्थ वित्तये' अर्थज्ञानाय । वेदानां बहुत्वेऽपि अर्थस्यैकत्वात्तद्विवक्षया ता २

१० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] चकार ब्रह्मसूत्राणि येषां सूत्रत्वमञ्जसा । ( ९ ) अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः । न्वेदानिति बहुवचननिर्दिष्टनामपि वेदानां तस्येत्येकवचनेन निर्देशो नानुपपन्नः, तस्येत्यस्य समुदायैकवचनत्वात् । नित्यसापेक्षत्वात् 'अ र्थवित्तये' इति समासस्साधुः । पुनश्शब्दस्यानन्तर्यार्थत्वं च 'पुनर प्रथमे भेदे' इत्यमरोक्त्या 'पुनरेव समभ्यसेत्' इत्यत्र पुनः निद्राप

  • गमानन्तरमिति सुधोक्त्या 'तृतीये पुनरेव च'इत्यत्र वरत्रयानन्तर मिति विश्वेशतीर्थोक्त्या च सिद्धम् । 'चकार' इत्यत्रापि 'कृष्णो व्यासः' इत्यनुषज्यते । ननु सूत्रान्तरैरेव वेदार्थनिर्णयसम्भवात्किं ब्रह्मसूत्रैरिति गतार्थताशङ्कापरिहारायाह—'येषां' इति । 'सूत्रत्वं' सू त्रशब्दप्रवृत्तिनिमित्तं 'अञ्जसा' मुख्यतोऽस्तीत्यर्थः । अस्य तानि 'चकार' इति पूर्वेण 'एवंविधानि' इत्युत्तरेण वा अन्वयः ॥ (९) किं तत् सूत्रत्वं यदञ्जस्यं ब्रह्मसूत्राणामित्यत आह—'अ ल्प' इति । यावदक्षरां विना श्रुत्यर्थाभ्यां विवक्षितार्थसिद्धिर्नास्ति तदर्थप्रतिपादनाय तावन्मात्राक्षरमसति नियामके ततोऽधिकाक्षररहितं 'अल्पाक्षरम्' । केचित्तु—अल्पाक्षरबह्वक्षरयुक्तपर्यायपदयोर्मध्ये अ ल्पाक्षरपदोपेतत्वं अल्पाक्षरत्वमित्याहुः । तट्टीकानुगुणम् । एवं च भवितुमर्हतीत्यनुच्यमानार्थं 'असन्दिग्धम्' असन्दिग्धार्थे निर्णीता र्थमिति तत्त्वप्रदीपोक्तेः । अनन्यलभ्योत्तमार्थयुक्तं 'सारवत्' । बहु शाखागतपदवाक्यार्थनिर्णायकं 'विश्वतोमुखम्' । तत्त्वप्रदीपे तु एकं प्रयोजनं प्रत्यपेक्षितार्थस्य कृत्स्नस्य प्रतिपादकं 'विश्वतोमुखं' इत्यु क्तम् । अर्थज्ञानमन्तरेण गानभागपूरणादिप्रयोजनान्तरगार्थाक्षररहितं 'अस्तोभम्' । शब्दार्थदोषविधुरं 'अनवद्यम्' । यदेतावद्विशेषणयुतं तदेव 'सूत्रं' इति 'सूत्रविदः' सूत्रलक्षणाज्ञाः 'विदुः' अभ्युपयन्तीत्य र्थः । अत्र भाष्यनिर्णयहेतुशून्यवाक्यं कुशलपुरुषोक्तलौकिकवार्तादि कं भगवन्नाममन्त्रादिकं अर्थाप्रतिपादकत्वेऽपि ऋगक्षराव्याप्तगानभा गपरिपूरकसामगतस्तोभाक्षराणि अपशब्दोपेततादृशवाक्यं च व्या वर्तयितुं क्रमेण विशेषणानीति पदप्रयोजनं तत्त्वप्रदीपोक्तमनुसन्धेयम् । अत्र सर्वत्र धर्मिकथनेऽपि तद्वारा सूत्रपदप्रवृत्तिनिमित्तमप्युक्तमिति व भावस्कूतिः ॥

[ अधि - १. सू - १० ] दीपिकासहितम्. ११ ( १० ) निर्विशेषितसूत्रत्वं ब्रह्मसूत्रस्य चाप्यतः । यथा व्यासत्वमेकस्य कृष्णस्यान्ये विशेषणात् । ( ११ ) सविशेषणसूत्राणि ह्यपराणि विदो विदुः । ( १० ) नन्वेतत्सूत्रत्वं कुतो ब्रह्मसूत्राणामाञ्जस्येनेत्यत आह— 'निर्विशेषित' इति । 'ब्रह्मसूत्रस्य' इति समुदायैकवचनम् । चोऽव धारणे यत इत्यर्थे च । 'अपि' शब्दो मुख्यसूत्रत्वसमुच्चये । तथाच यतो ब्रह्मसूत्राणां मुख्यसूत्रत्वमस्ति अत एव हि 'निर्विशेषितसूत्रत्वं' निर्गता विशेषा यस्मात्तन्निर्विशेषं तथाख्यातं निर्विशेषितं तादृशं सू त्रपदं यस्य तस्य भावः । यद्वा — विशेषो विशेषणं, तस्याभावोऽस्य सञ्जातः तादृशः सूत्रशब्दो यस्य तस्य भावो निर्विशेषितसूत्रत्वम् । विशेषणरहितकेवलसूत्रपदवाच्यत्वमस्ति पुराणादावुक्तम् । अन्यथा तन्न स्यात्, व्यापकाभावे व्याप्याभावनियमादित्यर्थः । अत्राद्यपक्षे त थाख्यातमित्यर्थे ण्यन्तात्कर्मणि क्तः, द्वितीये तद्धितः 'इतच्' इति विवे कः । अनेन ब्रह्मसूत्राणां मुख्यसूत्रत्वे निर्विशेषितशब्दवाच्यत्वादिति हेतुरुक्तो भवति । अत्र हेतोरप्रयोजकत्वमाशङ्क्य व्याप्तिवचनेन तां प रिहर्तुं तत्र प्रथमं यद्यन्न निर्विशेषितं तत्तन्न मुख्यमित्यन्वयव्याप्तिमभि प्रेत्य तत्र दृष्टान्तमाह --- 'यथा' इति । 'एव' इत्यनुवर्तते । तेनैक शब्दार्थस्य मुख्यत्वस्य व्यापकता लभ्यते । तथाच यथा एकस्यैव सतः कृष्णस्य वेदव्यासस्य व्यासत्वं निर्विशेषितव्यासपदवाच्यत्वम स्तीत्यर्थः । तथाच निर्विशेषितत्वान्मुख्यसूत्रत्वं ब्रह्मसूत्राणामिति वाक्यशेषः । इदानीं ये अमुख्याः न ते निर्विशेषपदवाच्याः किन्तु स विशेषपदवाच्याः इति व्यतिरेकव्याप्तिमभिप्रेत्य तत्र दृष्टान्तमाह — 'अन्ये' इति । 'यथा' इत्यनुवर्तते । पूर्वमेकशब्दश्रवणादत्रामुख्या इति लभ्यते । 'व्यासः' इति शेषः । तथाच - यथा कृष्णात् 'अन्ये' द्रौण्यादयो ये ऽमुख्यास्ते 'विशेषणात्' एव विशेषणमपेक्ष्यैव व्या साः न तन्नैरपेक्ष्येण । तृतीयार्थे वा पञ्चमी, सविशेषणव्यासपदवा च्या एवेति योजना ॥ ( ११ ) नन्वस्तु ब्रह्मसूत्राणां मुख्यत्वं, तथाऽपि तदन्येषामप्यस्ति, न तेषामेव, इतरेषाममुख्यत्वे कारणाभावादित्याशङ्क्य, तत्र निर्विशे षितत्वहेतोः समव्याप्तिपरेण तदर्थमेव प्रागुक्तव्यतिरेकव्याप्तिदृष्टान्तव

१२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( १२ ) मुख्यस्य निर्विशेषेण शब्दोऽन्येषां विशेषतः । ( १३ ) इति वेदविदः प्राहुः शब्दतत्त्वार्थवेदिनः । ( १४ ) सूत्रेषु येषु सर्वेऽपि निर्णयास्समुदीरिताः । चनेनोपपादितान्वयव्याप्तिकमनुमानं नियामकत्वेनाह — ‘सविशेष ण’ इति । ‘अतः’ इत्यनुवर्तते । अपराणीति चावर्तते । ‘हि’ शब्दो हेत्वर्थे । तथाच - यतः ‘अपराणि’ ब्रह्मसूत्रेभ्योऽन्यानि सूत्राणि ‘अपराणि’ अमुख्यानि अत एव ‘विदो’ ज्ञानिनः ‘अपराणि’ ‘सवि शेषणसूत्राणि’ विशेषणसहितसूत्रपदवाच्यानीति ‘विदुः’ उपजान न्तीत्यर्थः । तथाच अन्यसूत्राणां सविशेषणसूत्रत्वात् अमुख्यत्वमेव, न मुख्यत्वमिति भावः ॥ ( १२ ) निर्विशेषितत्वमुख्यत्वयोः सविशेषणत्वामुख्यत्वयोश्च दृष्टा न्तमुखेनोपपादितां व्याप्तिं दृष्टान्ते मुख्यत्वामुख्यत्वयोः वेदविभागग्र न्थविस्तरकर्तृत्वतत्साहश्यादिरूपान्यकारणप्रयोज्यत्वसम्भवादसि द्धा व्याप्तिरित्याशङ्कापरिहाराय प्रमाणेन साधयति—‘मुख्यस्य’ इ ति । सावधारणमेतत् । एवं ‘अन्येषां’ इत्यपि । तेन मुख्यत्वामुख्य त्वयोर्व्यापकतासिद्धिः । वाचकत्वं षष्ठ्यर्थः । तथाच यतो मुख्यस्यै व ‘निर्विशेषेण’ विशेषाभावेन ‘वाचकशब्दोऽस्ति’ निर्विशेषितशब्दवा च्यत्वमस्तीति यावत् । ‘अन्येषां’ अमुख्यानामेव ‘विशेषतो’ विशे षणमपेक्ष्य, विशेषणेनेति वा, ‘शब्दो’ वाचकः। सविशेषणपदवाच्यत्व मिति यावत् ॥ ( १३ ) ‘इति’ एवंप्रकारेण ‘शब्दतत्त्वार्थवेदिनः’ शब्दस्य यथाभू तार्थज्ञानिनो ‘वेदविदो’ वेदार्थज्ञाः वृद्धाः ‘प्राहुः’ वदन्तीत्यर्थः । अ स्य “अतो ‘येषां सूत्रत्वमञ्जसा’ ‘सविशेषणसूत्राणि अपराणि अ मुख्यानि’ इत्युक्तं युक्तं” इति वाक्यशेषेणान्वयः । ‘विशेषितः’ इ ति क्वचित्पाठः । विशेषणं प्राप्त इति तस्यार्थः । तथाच मुख्यामुख्य योर्निर्विशेषणसविशेषणशब्दवाच्यत्वे वेदो वृद्धव्यवहारश्च प्रमाणमि त्युक्तत्वान्न तयोः कारणान्तरं शङ्क्यमिति भावः ॥ ( १४ ) अस्त्वेतत्सूत्रत्वमञ्जसा ब्रह्मसूत्राणाम् । तथाऽपि वेदार्थनि र्णयस्य सूत्रान्तरैरेव सम्भवात् किं ब्रह्मसूत्रैरिति चोद्यस्य कथं ‘ये षाम्’ इत्यनेन परिहार उक्तइत्यतस्तद्वाक्योक्तं विवृणोति—‘सूत्रेषु’

(१५) शब्दजातस्य सर्वस्य यत्प्रमाणञ्च निर्णयः ।

इति। निमित्तसप्तमी इयम्। अपिः अभिव्याप्तौ सङ्कोचनिवर्तकः। निर्ण- यस्य सर्वत्वं विषयद्वारा तस्य च शब्दद्वारा बोध्यम्। तथाच ये- भ्यः सूत्रेभ्यः सर्वे निर्णयाः सर्वशाखार्थनिर्णयाः भाव्यतया समुदीरि- ताः, येषां सर्वशाखानिर्णायकत्वमुक्तं प्रमाण इत्यर्थः। यद्वा—निर्णी- यन्त इति निर्णयाः निर्णेतव्यार्थाः। अयं भावः — ‘येषां’ इति वाक्ये तावत् ब्रह्मसूत्राणामेवाञ्जसा सूत्रत्वमित्युक्तम्। सति चैवं तदन्तर्गतं सूत्रधर्मतयोक्तं विश्वतोमुखत्वमपि तेषामेवाञ्जसा भवति। यदा चैवं तदा तेषामसङ्कुचितसर्वशाखानिर्णायकत्वमुक्तं भवेत्, कतिपयशाखा- निर्णायकत्वे आञ्जस्यानुपपत्तेः। यत एवमतः सर्ववेदशाखार्थनिर्णाय- कानां ब्रह्मसूत्राणां असर्वनिर्ण

१४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( १६ ) एवंविधानि सूत्राणि कृत्वा व्यासो महायशाः । ( १७ ) ब्रह्मरुद्रादिदेवेषु मनुष्यपितृपक्षिषु । ( १८ ) ज्ञानं संस्थाप्य भगवान् क्रीडते पुरुषोत्तमः । इत्यादि । ( १६ ) 'एवंविधानि' इति । अञ्जसा विश्वतोमुखत्वाद्युपेतानीत्य र्थः । अस्योपसंहाररूपत्वान्न 'तानि चकार' इत्यनेन पुनरुक्तिः ॥ ( १७ ) 'देवेषु' इत्यनेन कर्मजाजानजदेवदेवगन्धर्वा अपि सङ्गृही ताः । मनुष्यपदं “निवीतं मनुष्याणां" * इत्यादाविव मननशील र्षिपरम् । पान्तीति पाः चक्रवर्तिनः । क्षीति क्षयार्थस्य क्षेः रूपं मनु ष्योत्तमवाचकम्, तेषामितरापेक्षया अत्यल्पायुष्ट्वात् । मनुष्यगन्धर्वा णामप्युपलक्षकमेतत् । मनुष्याश्च पितरश्च पाश्च क्षयश्चेति विग्रहः । अनेन देवर्षिपिट्टपनराः इत्युक्ताः पञ्चविधा अपि मुक्तियोग्याः सङ्गृ हीता भवन्ति । पक्षीत्यस्याखण्डत्वे पक्षिशब्दो जरितार्यादियोग्य तिर्यक्परः ॥ ( १८ ) 'ज्ञानं' सम्यग्ज्ञानं विशेषज्ञानं 'संस्थाप्य' उत्पाद्य दृढी कृत्येति वा । दृढीकरणं नाम ज्ञानविषये संशयविपर्ययनिरासः । तथा च पुरुषोत्तमो महायशाः उत्तमश्लोको भगवान् व्यासो येषु सूत्रेषु सर्वे निर्णयाः समुदीरिताः, येषां सर्वशाखानिर्णायकत्वमुक्तम्, तथा सर्वैः शब्दसमूहैः जैमिन्यादिसूत्रान्तरात्मकैर्निर्णायकैः स्मृत्या दिभिश्च क्रियमाणो लोककर्तृकवेदैकदेशावान्तरतात्पर्यनिर्णयो यन्मू लको यज्जन्यसर्ववेदमहातात्पर्यनिर्णयमूलकः तदुपजीवी — तं वि ना अवान्तरतात्पर्यज्ञानमात्रेण मुक्तिफलासिद्धेरिति चोक्तं 'येषां' इ ति पूर्ववाक्ये प्रमाणे च—एवंविधानि एतादृक्प्रकाराणि सूत्राणि कृ त्वा ब्रह्मरुद्रादिदेवेषु मनुष्यपितृपक्षिषु ज्ञानं संस्थाप्य क्रीडते इति म हावाक्ययोजना । 'क्रीडते परमेश्वरः' इति पाठे ऐश्वर्यं एवंविधसूत्र करणे असामर्थ्यशङ्कानिरासकतयोक्तमिति ध्येयम् । अत्र ब्रह्मादिषु ज्ञा नसंस्थापनं नाम पूर्वं स्थितस्यैव ज्ञानस्य विशेषयुक्त्यादिभिः दृढीक रणं किञ्चिदप्राप्तलाभश्चोच्यते, 'जानन्तोऽपि विशेषार्थज्ञानाय स्था पनाय वा' इति गीतातत्पर्योदाहृतवचनात् । न च 'एवं ज्ञानं पुनः

  • तै. सं. २-५-११.

[ अधि - १. सू - १. ] दीपिका सहितम्. १५ ( १९ ) सू— ॐ ॥ ॐ अथातो ब्रह्मजिज्ञासा ॥ ॐ ॥ १ ॥ प्रापुर्देवाश्च ऋषयस्तथा' इति भारततात्पर्यनिर्णयविरोधः, अत्र पुन शब्दात्सर्वदेवादीनां अज्ञातविस्मृतार्थज्ञानप्राप्तेरुक्तत्वादिति वाच्य म्, तस्याप्युक्तार्थत्वात् । विरिञ्चेतेरेषां तिरोहितार्थज्ञानलाभो वा ऽत्रोच्यते, यत आहुर्गीतातात्पर्ये आचार्याः- "ब्रह्मणस्तु प्रायो नाप्रति भासितं" इति । 'इत्यादि' इत्यस्य 'तच्चोक्तं' इत्यनेनान्वयः । लुप्त विभक्तिकोऽयं निर्देशः ॥ (१९.) प्रमाणाभावेन जीवचैतन्यातिरिक्तब्रह्मणोऽभावात्, जीवस्य च स्वप्रकाशत्वेनासन्दिग्धत्वात्, तथाच विषयाभावात् प्रत्यग्रूपे ब्रह्मण्यहमिति प्रतीयमानेऽपि मोक्षानुपलम्भेन प्रयोजनाभावात् तत एव तत्प्रतिबद्धाधिकार्यभावाच्च न ब्रह्मजिज्ञासा कर्तव्येति प्राप्ते सिद्धा न्तितं भगवता सूत्रकारेण 'ॐ अथातो ब्रह्मजिज्ञासा ॐ' इति । इदमेकं सूत्रमेकमधिकरणम् । अधिकरणं नाम विषयसंशयपूर्वप क्षसिद्धान्तप्रयोजनरूपपञ्चाङ्गसमुदायः । यथाऽत्रैव जिज्ञासाधिकर णे "तद्विजिज्ञासस्व" इति जिज्ञासाभिधायकवाक्यविहिता श्रवणा दिरूपा जिज्ञासा विषयः । कर्तव्या न वेति सन्देहः । न कर्तव्येति पू र्वः पक्षः । अस्मिन् पक्षे च शास्त्रस्यानारम्भणीयत्वनिश्चयः फलम् । कर्तव्येति सिद्धान्तः । तत्र चारम्भणीयत्वनिर्णयः फलं, न्यायानुसन्धा नात्मकमीमांसारूपजिज्ञासायाः अकर्तव्यत्वे न्यायग्रथनात्मकमीमां साशास्त्रस्यानारम्भणीयत्वावश्यंभावात् । एवमन्यत्रापि । एकस्याधिकरणस्य सङ्गतिपञ्चकम् । तच्च—शास्त्रसङ्गतिः, अ ध्यायसङ्गतिः, पादसङ्गतिः, पूर्वाधिकरणसङ्गतिः, तद्विषयवाक्यसङ्ग तिश्चेत्येवंरूपम् । सङ्गतिरपि सामान्यतो द्विविधा, अन्तर्भावरूपा आ नन्तर्यलक्षणा चेति । तत्र शास्त्राध्यायपादैरन्तर्भावरूपा सङ्गतिः । पू र्वाधिकरणतद्विषयवाक्याभ्यां तु आनन्तर्यरूपा । साऽपि आक्षेपिकी आतिदेशिकी औपोद्धातिकी आपवादिकी प्रासङ्गिकी इत्यादिरूपेण ब हुविधा । तत्र पञ्चाधिकरणपर्यन्तं शास्त्रसङ्गतिमात्रं, नाध्यायपाद सङ्गतिः । समन्वयैकत्योरध्यायेन सङ्गतिसत्त्वेऽपि पादेनाभावात्सङ्ग त्योरभावः पञ्चाधिकरणीसाधारणः । तथा पूर्वाधिकरणतद्विषयसङ्ग ती अपि नैतदधिकरणस्य भवतः, अस्यैवाद्याधिकरणत्वात् श्रुतिकि

१६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( २० ) अथशब्दो मङ्गळार्थोऽधिकारानन्तर्यार्थश्च । अत- श्शब्दो हेत्वर्थः । चारस्याद्याप्यनारब्धत्वाच्च; किन्त्वितरेषां चतुर्णामिति ध्येयम् । अत्र सूत्रे आद्यन्तयोरोङ्कारः उच्चारणीयः । तत्राद्य एक एव दृष्टादृष्टोभयार्थः अत एव सूत्रावयवः सर्वसूत्रेषु अनुवृत्त्यर्थमसंहितत- योच्चार्यते । अथ वा - आदौ ॐकारद्वयं अदृष्टार्थं दृष्टार्थञ्चेति । अ- न्ते तु पक्षद्वयेऽपि अदृष्टार्थ एक एवोङ्कारः । अदृष्टार्थत्वं नाम केवलं श्रवणविशरणरूपदोषपरिहारार्थत्वम् । दृष्टार्थत्वं तु अन्वेतव्यपदार्थ- प्रतिपादकत्वम् । तत्रादिसूत्रावयवभूतं 'ॐ' इत्येतत् अव्ययं ब्रह्मश- ब्दविशेषणं गुणपूर्णत्ववाचि । ब्रह्मशब्दोऽपि विद्वद्रूढ्या महायोगेन च विष्णुवाची । 'अथ' शब्द आनन्तर्यार्थः । योग्यतया 'अधिकारा- त्' इति सम्बध्यते । कर्तव्येति शेषः । तथाच 'अथ' अध्ययनशम- दमादिरूपाधिकारानन्तरं 'अतः' स्वजन्यज्ञानजन्यप्रसादजन्यमोक्षा- ख्यफलयुक्तत्वात् 'ॐ' गुणपूर्णस्य 'ब्रह्मणो' विष्णोः 'जिज्ञासा' श्रवणादिरूपो विचारः कर्तव्य इति सूत्रार्थः । विष्णोः प्रसादादिति 'अतः' शब्दस्यार्थान्तरम् । अस्य जिज्ञासादिकार्यं भवेदिति वाक्य- शेषेणान्वयः । ॐब्रह्मशब्दयोरुभयोर्यौगिकत्वेऽपि एकस्य रूढत्वेन वि- शेष्यवाचित्वं अन्यस्य यौगिकत्वेन विशेषणवाचित्वमाश्रित्यान्वया- ङ्गीकारान्नान्यतरवैयर्थ्यम् । "ॐमित्येतदक्षरमुद्गीथमुपासीत" "त- द्विजिज्ञासस्व । तद्ब्रह्मेति" इत्याद्यनेकविषयवाक्यसङ्ग्रहाय चोभयोः प्रयोगः ॥ ( २० ) ग्रन्थादौ मङ्गळाचरणस्यावश्यं कर्तव्यत्वेन मङ्गळप्रयोजक- तया अथ शब्दं व्याचष्टे - 'अथ' इति । मङ्गळं विघ्नोत्सारणसाधा- रणकारणानुष्ठेयविष्णुस्मरणाथशब्दोच्चारणरूपमर्थः प्रयोजनं यस्य, तथा प्रशस्तरूपानुष्ठेयमङ्गळात्मको विष्णुः तद्गुणो वाऽभिधेयो यस्य स तथोक्तः । अथशब्दस्य मङ्गळफलकत्वं तु- ॐङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ॥ इति मनुस्मृतिसिद्धम् । मुक्त्यर्थिमात्रस्य ब्रह्मजिज्ञासायां प्रवृत्तिनिर-

[ अधि - १. सू - १. ] दीपिकासहितम्. १७ ( २१ ) उक्तं च गारुडे— ( २२ ) अथातश्शब्दपूर्वाणि सूत्राणि निखिलान्यपि । ( २३ ) प्रारभन्ते नियत्यैव तत्किमत्र नियामकम् ॥ सनतात्पर्येणापि प्रयुक्तस्याखण्डाथशब्दस्य वाच्यमर्थमाह — ‘अ धिकार’ इति । च शब्दोऽनुष्ठेयाननुष्ठेयाक्षरार्थविवक्षया समुच्चये, न केवलं मङ्गलप्रयोजनकः किन्त्वानन्तर्याभिधायकश्चेति विषमसमुच्चये वा । यद्वा—अवधारणे चशब्दः । तेनानुष्ठेयमङ्गलारम्भप्रश्नकात्स्न्र्यार्थनि रासः । तत्प्रकारस्तु चन्द्रिकायामुक्तः । तथा चाधिकारानन्तर्यमर्थोऽ भिधेयो यस्य स तथोक्तः । अथशब्दस्यानन्तर्यमात्रार्थत्वेऽपि अधि कारेतिपदस्य योग्यतया सम्बन्धात् एवमुक्तिः । अनेनानधिकारिणो मुक्त्यर्थमात्रस्य ब्रह्मविचारे प्रवृत्तिर्निरस्ता भवति । ब्रह्मजिज्ञासायाः प्रयोजनकारणशून्यताशङ्कानिवर्तकतया अतःशब्दं व्याचष्टे—‘अतः’ इति । ‘हेत्वर्थः’ इति । हेतुर्लिङ्गमर्थो यस्य, हेतुः कारणं प्रसादाख्य मर्थो यस्येति वा, स तथोक्तः । ( २१ ) नन्वथातः शब्दपूर्वकत्वं सूत्राणां किं निमित्तं विघ्ननिवर्तक शब्दोच्चारणादेः “मङ्गळं ततः” इति शब्दान्तरोच्चारणेनापि सम्भवा दित्याशङ्कां पुराणवचनेनैव निराकरोति—‘उक्तञ्च’ इति । यदेतत् “अथशब्दः” इत्यादिनाक्तं तद्गारुडपुराणे उक्तमेवेत्यर्थः । न केवलम स्माभिः, किंतु गारुडे चेति समुच्चये वा चशब्दः । ( २२ )—( २३ ) किमुक्तमित्यतस्तत्पठति — ‘अथ’ इति । यादृ च्छिकत्वापरपर्यायानियतत्वशङ्कावारणाय ‘नियत्यैव’ इति । ‘निखि लानि’ इत्येतत् ‘सूत्राणि’ इत्यस्य सङ्कोचवारकं विशेषणम् । अपिर भिव्याप्तौ । एवकारोऽनियमव्यावृत्त्यर्थः । भिन्नक्रमो वा । तथा च — हे ‘विद्वन्’ आदिकवे ‘ब्रह्मन्’ चतुर्मुख ‘निखिलान्यपि’ व्यासजैमि न्यादिकृतानि सर्वाण्यप्यादिसूत्राणि ‘नियत्यैव’ नियमेनैव कल्पा न्तरेपि ‘अथातश्शब्दपूर्वाणि’ एव, अथातश्शब्दौ पूर्वौ प्रथमप्रयोज्यौ येषु तथाविधान्येव ‘प्रारभन्ते’ सूत्रकाराः । ‘अत्र’ प्रथमप्रयोज्यत्वे नियमेन प्रथमप्रयोगे केन चिन्नियामकेन भाव्यं, तन्नियामकं किमिति प्रश्नवाक्ययोजना । ३

१८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]


(२४) कश्चार्थश्च तयोर्विद्वन् कथमुत्तमता तयोः । (२५) एतदाख्याहि मे ब्रह्मन् यथा ज्ञास्यामि तत्त्वतः ॥ (२६) एवमुक्तो नारदेन ब्रह्मा प्रोवाच सत्तमः । (२७) आनन्तर्येऽधिकारस्य मङ्गलार्थे तथैव च ॥


(२४) नन्ववश्यवक्तव्यार्थत्वं स्वरूपोत्तमत्वं अर्थतआधिक्यं वा नियामकं भविष्यतीत्याशङ्कयाद्यपक्षे पृच्छति — ‘कश्च’ इति । चः प्रश्नसमुच्चये, अवधारणे वा । द्वितीयस्तुशब्दार्थः अर्थस्यावश्यक वक्तव्यत्वरूपविशेषमाह । तुशब्दपाठस्तु स्वरसः । तथा च—‘तयोः’ अथा तःशब्दयोः कोसाववश्यवक्तव्योर्थः येन प्राथम्यमित्यर्थः । द्वितीयमा क्षिपति — ‘कथं’ इति । ‘उत्तमता’ स्वरूपतश्चाधिक्यम् । न कथ मपीत्यर्थः । एवं कथंशब्दस्य प्रश्नपरत्वमङ्गीकृत्य तृतीयपक्षप्रश्नपरत्वे नापि कथमित्येतद्योजनीयम् । अर्थत इति शेषः । तथा च-तयोरथातः शब्दयोः अर्थतः उत्तमता आधिक्यं कथमित्यर्थः । अत्र आद्यतृतीयप क्षयोरवश्यवक्तव्यार्थतार्थाधिक्ययोस्तदभावयोश्च लोके शब्दान्तरेषु दर्शनात् अथातःशब्दयोस्तत्सन्देहात् प्रश्न एव न त्वाक्षेपः । द्वितीय पक्षे तु स्वरूपाधिक्यस्य शब्दान्तरेष्वदर्शनात् आक्षेप एवेति ध्येयम् । अत्रोङ्कारस्य प्रश्नाद्यविषयत्वं सर्वशास्त्रादिसूत्रावयवत्वाभावात् , ‘स्रवति’इति श्रुत्या ‘सिसृक्षोः’ इत्यादिस्मृत्या चैतच्छास्त्रमात्रमुख्यादित्वे न सिद्धत्वाच्चेत्यवधेयम् ॥ (२५-२६) ‘एतत्’ प्रश्नाक्षेपविषयीभूतं नियामकं ‘अहं तत्त्वतो’ याथार्थ्येन ‘यथा ज्ञास्यामि’ तथा ‘मे’ मह्यं ‘आख्याहि’ ब्रूहीति ‘एवं नारदेनोक्तः’ पृष्टः आक्षिप्तश्च ‘सत्तमः’ सर्वजीवोत्तमः ‘ब्रह्मा’ प्रत्युवाचेत्यर्थः । (२७) जिज्ञासाधिकारस्यावश्यवक्तव्यत्वेन तद्धेतुतासाधकानन्त र्यस्य जिज्ञासाहेतोस्तत्कर्तव्यताहेतोश्चावश्यवक्तव्यत्वात्तदर्थकत्वात्त योः प्रथमप्रयोग इति परिहारमभिप्रेत्यावश्यवक्तव्यार्थत्वं अथातश्श ब्दयोर्दर्शयति — ‘आनन्तर्ये’ इति । परस्परसमुच्चये तथाचशब्दौ । एवकारो भिन्नक्रमः ; तेनाभिधेयान्तरं व्यावत्र्यते । तथा च-- सौत्रा थशब्दः ‘अधिकारस्यानन्तर्ये’ अधिकारनिरूपितानन्तर्यरूपार्थे तद्धि

[ अधि - १. सू - १. ] दीपिकासहितम्. १९ (२८) अथशब्दस्त्वतःशब्दो हेत्वर्थे समुदीरितः । (२९) परस्य ब्रह्मणो विष्णोः प्रसादादिति वा भवेत् ॥ षये तन्मात्रवाचकत्वाभिप्रायेणैव सूत्रकारैः 'समुदीरितः' प्रयुक्तो न मङ्गलादिवाचकत्वेनेत्यर्थः । अवश्यकर्तव्यप्रयोजकत्वाच्च प्रथमम- थशब्दप्रयोग इति भावेनाथशब्दो मङ्गलार्थ इति स्वोक्तार्थे प्रमाणं द- र्शयति — 'मङ्गलार्थे' इति । चतुर्थ्यर्थे सप्तमीयं, अव्ययं वा । अर्थ- शब्दः प्रयोजनवाची। तथा च—मङ्गलारूपप्रयोजनार्थ चाथशब्दः सूत्र- कारैस्समुदीरितः प्रयुक्तो भवेदित्यर्थः । विष्णुवाचकाकारघटिताथश- ब्दोच्चारणरूपमङ्गलस्य तत्साध्यत्वादिति भावः । 'आनन्तर्य' इतिवत् 'मङ्गले' इत्यनुक्त्वा 'अर्थ' इति वचनं तद्वैषम्यसूचनार्थम् । स्ववा- क्ये प्रमाणक्रमातिक्रमस्तु मङ्गलस्य प्रथममनुष्ठेयत्वात् कृतः ॥ (२८) एवमथशब्दस्य अवश्यवक्तव्यार्थत्वरूपं प्रथमप्रयोगनिया- मकं प्रदर्श्य अतःशब्दस्यापि तद्दर्शयति---' अतःशब्दस्तु हेत्वर्थे' इति । तुशब्दो विशेषार्थः । हेतुर्लिङ्गं कारणं च स चासावर्थोऽभिधे- यश्च तस्मिन् तद्विषये तद्वाचकतया सूत्रकारैः 'समुदीरितः' इत्य- र्थः । गुर्वर्थदीपिकायान्तु "हेत्वर्थ इति स्ववाक्ये प्रमाणे च 'तद्धेतु- त्वं वदन्' इत्युत्तरवाक्यानुसारात् भावप्रधानो निर्देशः" इत्युक्तम् । तन्निष्फलम् । तथा च व्याख्यास्यामः । हेतावित्यनुक्त्वा अर्थशब्दग्र- हणं शब्दाधिक्यादर्थाधिक्यमिति न्यायेन प्रकृतेर्हेतुरर्थः प्रत्ययस्य तु हेतुत्वमर्थ इति प्रकृतिप्रत्ययोभयार्थकथनार्थम् । यद्वा — अर्थशब्द- स्योभयत्र श्रवणात्स पूर्वत्राप्यनुषञ्जनीय इति ज्ञापनाय, तदर्थमात्रं भिन्नमिति ध्येयम् । (२९) अत्र अतःशब्दस्यावश्यवक्तव्यमर्थान्तरं चाह—'परस्य' इति । वाशब्दः समुच्चये । उक्तं हि प्रमेयदीपे "वाशब्दश्चार्थः" इति। उक्तं हि "यदि वा भेदभिन्नयोः" इति विष्णुत्तत्त्वनिर्णयटीकायां "वाश- ब्दस्समुच्चयार्थः" इति । तथा तत्त्वप्रदीपेऽपि "सुप्तौ मोक्षे वा" इत्यत्र "वाशब्दस्समुच्चयार्थः" इति । अनेन 'अतः' इत्येतत् 'अ' शब्दप्रकृति- कं तसिल्लन्तं पदम्, प्रकृत्यर्थो विष्णुः, 'प्रसादात्' इति तु लब्धा- र्थकथनं, कारणत्वं प्रत्ययार्थ इत्युक्तं भवति । अपरव्यावृत्त्यर्थं 'परस्य' इति । "अ इति ब्रह्म" (ऐ-आ-२-३-८-७) इति श्रुतिं सूचयति परब्रह्म