रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
रसायनखण्डान्तर्गतविषयानुक्रमणिका । विषयः पृ. पं. विषयः पृ. पं. प्रथमोपदेशः । क्षेत्रीकरणार्थमभ्रभक्षण- मङ्गलाचरणम् ... १ ७ विधिः ... ... ७ ७ देहसिद्धिप्रशंसा ... ,, १२ वज्रपञ्जररसः ... ... ,, १३ रसायनसेवनात्पूर्वं देह- वज्रेश्वररसः... ... ,, २४ शुद्धिकरणम् ... ,, १७ वज्रधारारसः ... ८ ९ रससेवने पथ्यानि ... २ ६ भैरवरसः ... ... ,, १९ ,, वर्ज्यानि ... ,, १९ शिलावीररसः ... ... ,, २७ रसायनव्यापदः, तच्चि- अमृतार्णवरसः ... ९ ७ कित्सा च ... ३ ४ उदयादित्यरसः ... ,, १६ रससंक्रामणम् ... ,, १७ गगनेश्वररसः ... १० ३ पारदमारणस्य प्रथमः प्रकारः,, २० वटेश्वररसः ... ... ,, ११ ,, द्वितीयः ,, ४ ५ अचलेश्वररसः ... ,, २२ ,, तृतीयः ,, ,, १४ परमेश्वररसः ... ११ २ ,, चतुर्थः ,, ,, २१ गन्धामृतरसः ... ,, ११ गर्भयन्त्रलक्षणम् ... ५ २ कालकण्टकरसः ... ,, १९ पारदमारणस्य पञ्चमः प्रकारः,, ८ अमृतेशरसः ... ,, २६ ,, षष्ठः ,, ,, १३ रसवीरमहारसः ... १२ ८ ,, सप्तमः ,, ,, १८ कात्यायनरसः ... ,, १८ ,, अष्टमः ,, ,, २३ परानन्दरसः ... १३ ३ ,, नवमः ,, ,, २७ महाकालरसः ... ,, ११ ,, दशमः ,, ६ ४ हेमपर्पटकरसः ... ,, २१ ,, एकादशः ,, ,, १० श्रीकण्ठरसः ... १४ ४ वज्रादिमारणविधेरतिदेशेन खेचरबद्धरसः ... ,, १७ कथनं ... ,, १८ स्वयमग्निरसः ... १५ २१ मृतरसगुणाः ... ,, २१ कक्षपुटरसः ... १६ १२ महाशक्तिरसः ... ,, २६ द्वितीयोपदेशः । नाटकेश्वररसः ... १७ १० देहरक्षणोपदेशः ... ७ २ बालसुन्दररसः ... ,, २५ ब्रह्मपञ्जररसः ... १८ ६
२ विषयः पृ. पं. विषयः पृ. पं. शिवामृतरसः । ... १८ १७ कालान्तरससिद्धिकरण- तृतीयोपदेशः । प्रकारः ... ... ३५ २० मृतसंजीवनी गुटिका १९ ११ चतुर्थोपदेशः । वज्रेश्वरी ,, २० ५ देहसिद्धौ मूलिकाप्रशंसा ३७ २३ वज्रसुन्दरी ,, ,, २६ कान्तादिमहारसायनम् ३८ २ हेमसुन्दरी ,, २१ १५ रसायना अभ्रकयोगाः ,, १४ वज्रखेचरी ,, ,, २२ रसायनाः कान्तयोगाः ३९ २० व्योमसुन्दरी ,, २२ ७ ब्रह्मवृक्षकल्पः ... ४१ १९ हाटकेश्वरी ,, ,, १९ श्वेतपलाशकल्पः ... ४३ २ अर्कप्रभावती ,, २३ २ मुण्डीकल्पः... ... ,, १३ सुरसुन्दरी ,, ,, १० देवदालीकल्पः ... ,, २२ वज्रतुण्डा ,, ,, १८ श्वेतार्ककल्पः ... ४४ १२ कामसुन्दरी ,, २४ ३ हस्तिकर्णकल्पः ... ,, २१ गान्धारी ,, ,, १२ रुदन्तीकल्पः ... ४५ १० मार्तण्डी ,, ,, २६ निर्गुण्डीकल्पः ... ,, २० तारकेश्वरी गुटिका ... २५ १८ रसायनं भल्लातकादितैलं ४६ १५ विद्यावागीश्वरी,, ... २६ २ ,, कृष्णजीरकादितैलं ,, २१ वज्रतुण्डा ,, ... ,, ११ ,, अङ्कोलतैलनस्यं ,, २५ गगनेश्वरी ,, ... ,, २६ रसायनः काकमाचीयोगः ४७ ४ आनन्दगुटिका ... २७ १४ रसायनं गुडूच्यादिचूर्णं ,, ३ वज्रखेचरी वटिका ... २८ ६ शुनकशाल्मिकाकल्पः ,, ८ रनेश्वरी गुटिका ... ,, १९ रसायनं काकमाच्यादिचूर्णं ,, २१ दिव्यखेचरी वटिका २९ १५ त्रिफलादिरसायनयोगः ४८ ७ स्वर्णवैक्रान्तबद्धरसः ३० ९ मूलिकाकल्पेषु पारदयोगः ,, १२ वैक्रान्तवटिका ... ,, १६ रसायनकल्पेषु मन्त्रयोगः ,, १६ दिव्यखेचरीगुटिका ... ३१ २ रसायनसेवनविधिः ... ,, २२ प्रचण्डखेचरी ,, ३२ ६ पञ्चमोपदेशः । कङ्कालखेचरी ,, ,, २४ पारदायुरुद्वर्तनम् ... ४९ ७ कालविध्वंसिकावटिका ३३ १४ वज्रकापालिनीमूलायुद्वर्तनं ,, १५ पञ्चाननगुटिका ... ३४ ३ उत्पलायुद्वर्तनं ... ,, १८ शतवेधिकादिकागुटिकाः ,, १५ द्वितीयं पारदायुरुद्वर्तनं ,, २३
विषयः पृ. पं. वलीपलितनाशार्थं गन्ध- कयोगः ... ... ५० २ रसायनार्थं कुष्ठयोगः ,, ६ पलितनाशार्थे कान्तादियोगः ,, ९ ,, सीसकादियोगः ,, १७ केशरञ्जनार्थे नीलिका- दियोगः ... ,, २२ ,, गुञ्जादियोगः ,, २६ ,, हस्तिदन्तादियोगः ५१ ४ ,, त्रिफलादियोगः ,, ७ ,, लोहकिट्टादियोगः ,, ११ ,, सिन्दूरादियोगः ,, १७ ,, शतपुष्पादियोगः ,, २० ,,* चूर्णादियोगः ,, २४ ,, नील्यादियोगः ,, २७ ,, द्वितीयशृङ्गादियोगः ५२ ३ ,, कुरण्टपत्रादियोगः ,, ७ ,, आम्रास्थ्यादियोगः ,, १० ,, काकमाच्यादियोगः ,, १५ केशरञ्जनं घृतं ... ,, १८ केशरञ्जनार्थे जपापुष्प- रसनस्यं ... ... ,, २१ ,, त्रिफलादितैलं ,, २४ ,, काकतुण्डीबीजा- दियोगः... ... ५३ ६ ,, भृङ्गराजादियोगः ,, १४ ,, त्रिफलादियोगः ,, १९ ,, कृष्णजीरकयोगः ,, २३ ,, नील्यादितैलं... ५४ ४ ,, सीसकादियोगः ,, १६ कतिपयकेशशुक्लीकरणयोगाः ५५ २ षष्ठोपदेशः वाजीकरः मकरध्वजरसः ५६ ७ ,, मदनोदयरसः ,, १९ ,, मदनेश्वररसः ५७ ६ ,, कामकलाह्यरसः ,, १६ ,, कामदेवरसः ५८ २ ,, रतिकामरसः ,, १२ ,, मदनवर्धनरसः ,, २१ वाजीकरी अनङ्गसुन्दरी- वटिका ... ... ५९ २ वाजीकरः कामनायकरसः ,, ११ ,, पूर्णेन्दुरसः ... ,, २३ ,, मदनकामरसः ६० १७ ,, अभ्रकयोगः ६१ १५ ,, वानरीबीजाद्य- भ्रकयोगः ... ... ,, १८ ,, अश्वगन्धाद्यभ्रक- योगः ... ... ,, २४ ,, धात्रीलोहः ... ६२ ६ ,, पुनर्नवादियोगः ,, १२ ,, वटकयोगः ... ,, १९ ,, वालुकामत्स्ययोगः ,, २५ ,, नाभिलेपः ... ६३ ३ ,, माषयोगः ... ,, ६ ,, कामेश्वरमोदकः ,, १० सप्तमोपदेशः। वीर्यस्तम्भकरी ब्रह्माण्ड- गुटिका ... ... ६४ १३ वीर्यस्तम्भकरः लिङ्गलेपः ६५ ६ ,, दीपयोगः ... ,, ११ ,, इन्द्रवारुणीमूलादि- योगः ... ... ,, १४
४ विषयः पृ. पं. | विषयः पृ. वीर्यस्तम्भकरः रक्तापामार्ग- | वीर्यस्तम्भकरःस्थलमीनयो. ६८ ,, मूलयोगः ... ६५ १९ | वनिताद्रावणार्थं जलौका- ,, पादलेपः ... ,, २२ | योगाः ... ... ,, ,, सर्पास्थिधारणयोगः ,, २५ | लिङ्गवर्धनार्थं पारदादियोगः ६९ ,, नाभिलेपः ... ६६ ३ | ,, वराहवसादिलेपः ,, ,, कोकिलाक्षादियोगः ,, ६ | ,, अश्वगन्धादितैलं ,, ,, द्वितीयो नाभिलेपः ,, १० | ,, जम्बूतैलादियोगः ७० ,, दीपयोगः ,, १३ | ,, मुशलीचूर्णादिलेपः ,, ,, शिवलिङ्गीबीजा- | ,, पिप्पल्यादियोगः ,, दियोगः... ... ,, १६ | ,, माहिषघृतादिलेपः ,, ,, श्लेष्मातकादियोगः ,, २० | ,, अश्वगन्धादियोगः ,, ,, सूरणादियोगः ,, २३ | ,, मांस्यादियोगः ,, ,, मार्जारनखादियोगः ,, २६ | ,, रोहितमत्स्यादियोगः ,, ,, द्वितीयः पादलेपः ६७ ४ | ,, हरिद्रादियोगः ,, ,, ,, लिङ्गलेपः ,, १० | ,, जम्बूकपित्तादियोगः ,, ,, पारदादियोगः ,, १७ | ,, गृहगोधादियोगः ७१ ,, हस्ते मुद्रिका- | अष्टमोपदेशः । धारणयोगः ... ,, २५ | श्रीशैलपर्वतसाधनम् ,,
आयुर्वेदीयग्रन्थमाला । श्रीनित्यनाथसिद्धविरचितरसरत्नाकरस्य चतुर्थो रसायनखण्डः । प्रथमोपदेशः । मङ्गलाचरणम् । जयति स रसराजो मृत्युशङ्कापहारी सकलगुणनिधानं कायकल्पाधिकारी । वलिपलितविनाशं सेवितो वीर्यवृद्धिं स्थिरमपि कुरुते यः कामिनीनां प्रसङ्गम् ॥ १ ॥ देहसिद्धेः प्रशंसा । अथातः संप्रवक्ष्यामि देहसिद्धिं सुशोभनाम् । यस्याः सिद्धौ मनुष्याणां जायन्ते सर्वसिद्धयः ॥ २ ॥ न देहेन विना किंचिदिष्टमस्ति जगत्त्रये । तस्मात्सर्वप्रयत्नेन तस्मिन् यत्नो विधीयताम् ॥ ३ ॥ रसायनसेवनस्य पूर्वकर्म । शुभनक्षत्रदिवसे वमने रेचने कृते । ततो विशेषशुद्ध्यर्थं केतकीस्तनजं द्रवम् ॥ ४ ॥ त्रिदिनं कुडवैकैकं लोणदोषहरं पिबेत् । विडङ्गं च वचा कुष्ठं केतकीस्तनसंयुतम् ॥ ५ ॥ क्वथितं त्रिदिनं पीतमम्लदोषहरं परम् । श्यामावह्निविडङ्गानि त्र्यूषणं त्रिफला वृषः ॥ ६ ॥ १ 'तस्याः' ख. । २ लवणभक्षणजनितदोषहरमित्यर्थः ।
२ आयुर्वेदौयग्रन्थमाला । [उपदेशः सैन्धवं देवदारुश्च मुस्ता चैतत्समं समम् । घृतैर्लेहं तु कर्षैकं सप्ताहात्सर्वदोषजित् ॥ ७ ॥ एवं विशुद्धदेहस्तु पूजयेद्देवतां गुरुम् । कुमारीं योगिनीचक्रं ततः कुर्याद्रसायनम् ॥ ८ ॥ रससेवने पथ्यानि । निर्वाते भूगृहे वाऽथ बाह्यचिन्ताविवर्जितः । जितेन्द्रियो जितक्रोधः क्षीरशाल्यन्नयुग्भवेत् ॥ ९ ॥ षष्ठ्योदनं यवान्नं च गोधूमं मुद्गयूषकम् । जाङ्गलं भक्षयेन्मांसं केवलं क्षीरमेव वा ॥ १० ॥ वलान्नं वाऽथ भुञ्जीत शाकलोणविवर्जितम् । अभ्यङ्गं मस्तुना कुर्यात् स्नानं चैव सुखाम्बुना ॥ ११॥ काकिनीं स्त्रीं भजेन्नित्यं स्वानुकूलां सुयौवनाम् । रसेन्द्रे भक्ष्यमाणे तु कामान्धो जायते नरः ॥ १२ ॥ मैथुनेन विना तस्य ह्यजीर्णो जायते रसः । अजीर्णे कम्पदाहार्ती हिक्का मूर्च्छा ज्वरोऽरतिः ॥१३॥ कासश्वासारुचिच्छर्दिभ्रममोहा भवन्ति हि । सेवेत सुभगां तस्माद्दुर्भागां परिवर्जयेत् ॥ १४ ॥ रसायने वर्ज्यानि । अभ्यङ्गं कटुतैलेन काञ्जिकं मदिरां दधि । कलिङ्गकारवल्ल्यम्लतैलकूष्माण्डराजिकाः ॥ १५ ॥ बिल्वच्छत्राकवार्ताकविदलं काकमाचिकाम् । मूलकं लशुनं तीक्ष्णं शीतमुष्णं च वर्जयेत् ॥ १६ ॥ १ 'देवताचक्रं' ख. । २ 'यस्यास्तु कुञ्चिताः केशाः श्यामा या पद्मलो- चना । सुरूपा तरुणी भिन्नविस्तीर्णजघनस्थला ॥ सङ्कीर्णहृदया पीनस्तनभारेण नामिता । चुम्बनालिङ्गनस्पर्शकोमल्या मृदुभाषिणी ॥ अश्वत्थपत्रसदृशयोनि- देशसुशोभिता । कृष्णपक्षे पुष्पवती सा नारी काकिनी स्मृता ॥ रसबन्धे प्रयोगे च उत्तमा सा रसायने' र. र. स. अ. ६ ॥ ३ -'दाहादि' ख. ।
१.] रसरत्नाकरस्य रसायनखण्डः । ३ रात्रौ जागरणं त्याज्यं दिवास्वापं च मैथुनम् । कलहोद्वेगचिन्ताश्च शोकं चैव विवर्जयेत् ॥ १७ ॥ रसायनव्यापच्चिकित्सा । अवर्जनाद्भवेच्छूलं निद्राऽऽलस्यं ज्वरोऽरतिः । त्र्यहं पिबेत्तत्प्रशान्त्यै वारिणा कर्कटीफलम् ॥ १८ ॥ शुण्ठीसैन्धवचूर्णं वा मातुलुङ्गाम्लकैर्लिहेत् । सौवर्चलं गवां मूत्रैः पिबेद्वा तत्प्रशान्तये ॥ १९ ॥ वन्ध्याकर्कोटकीं पुङ्खां पातालगरुडीं जलैः । क्वाथयेदष्टगुणितैस्तदष्टांशं ससैन्धवम् ॥ २० ॥ पिबेत्सर्वविकारघ्नं त्रिदिनं शिवभाषितम् । मूलं वा कारवल्याुत्थं सैन्धवं वा गवां जलैः ॥ २१ ॥ त्रिदिनं कर्षमात्रं तु पिबेत्सर्वविकारजित् । अपथ्यशीलिनामेतत् कथितं रससेविनाम् ॥ २२ ॥ अमुमेव विधिं कुर्याद्रसायनविधौ किल । अमृतं विधिसंयुक्तं विधिहीनं तु तद्विषम् ॥ २३ ॥ रससंक्रामणम् । चातुर्जातककर्पूरकङ्कोलं कटुकीफलम् । खादेत्ताम्बूलसंयुक्तं रससंक्रामणे हितम् ॥ २४ ॥ पारदमारणविधिः । अथात्र वक्ष्यते सम्यगादौ पारदमारणम् । समुखस्य रसेन्द्रस्य वासनामुक्तितस्य वा ॥ २५ ॥ क्रमेण जारयेत्स्वर्णं समांशं पूर्ववत्ततः । तत्तुल्यं गन्धकं तस्मिन् दत्त्वा दिव्यौषधिद्रवैः ॥ २६ ॥ मर्दयेत्रिदिनं खल्वे मूषायां चान्धितं ततः । करीषाग्नौ दिवारात्रं त्रिरात्रं वा तुषाग्निना ॥ २७ ॥ १ 'मातुलुङ्गाद्रकैर्लिहेत' ख. । २ पुङ्खामिति शरपुङ्खामित्यर्थः । ३ 'स्तत्पा- दांशेन सैन्धवम्' ख. ।
१. प्रथम उपदेश: पारद अष्ट-संस्कार, रस-बन्धन एवं जारण विधान
४ आयुर्वेदीयग्रन्थमाला । [ उपदेशः स्वेदितं मर्दयेद्भूयो बीजैर्दिव्यौषधोद्भवैः । तुल्यं खल्वे चतुर्यामं वज्रमूषान्वितं धमेत् ॥ २८ ॥ भस्मभूतं भवेत्तद्वै योज्यं सर्वरसायने । पारदमारणस्य द्वितीयः प्रकारः । शुद्धसूतं समं स्वर्णे याममम्लैर्विमर्दयेत् ॥ २९ ॥ प्रक्षाल्य ग्राहयेत् पिष्टीं पिष्ट्यर्थं शुद्धगन्धकम् । गन्धार्धं टङ्कणं दत्त्वा सर्वतुल्यां हरिद्रिकाम् ॥ ३० ॥ स्त्रीपुष्पेण तु तत्सर्वं मर्द्यं रम्भाद्रवान्वितम् । दिनान्ते गोलकं कृत्वा वालुकायन्त्रगं पचेत् ॥ ३१ ॥ दिनं मन्दाग्निना तं वै समुद्धृत्य विचूर्णयेत् । चूर्णांशं गन्धकं दत्त्वा गर्भयन्त्रे त्र्यहं पचेत् ॥ ३२ ॥ तुषाग्निना लघुत्वेन जायते भस्मसूतकः । पारदमारणस्य तृतीयः प्रकारः । शुद्धसूतत्रिभागः स्याद्भागैकं ताम्रचूर्णकम् ॥ ३३ ॥ दिनैकं मर्दयेदम्लैः क्षालितं पिष्टिमाहरेत् । माक्षिकाद्धौतसत्त्वं च पिष्टितुल्यं प्रकल्पयेत् ॥ ३४ ॥ तत्सर्वं त्रिदिनं मर्द्यं चक्रमर्ददलद्रवैः । तद्गोलं गर्भयन्त्रस्थं त्रिदिनं तुषवह्निना ॥ ३५ ॥ करीषाग्नौ दिवारात्रं पचेद्वा भस्मतां व्रजेत् । पारदमारणस्य चतुर्थः प्रकारः । शुद्धसूतं व्योमसत्त्वं सुवर्णं च समं समम् ॥ ३६ ॥ सर्वतुल्यं विडं दत्त्वा मर्द्यं रम्भाद्रवैर्दिनम् । बीजैर्दिव्यौषधीनां च तुल्यैर्मर्द्यं दिनद्वयम् ॥ ३७ ॥ गर्भयन्त्रगतं पच्यान्म्रियते पूर्ववत्पुटे । १ '-र्दिव्यौषधिद्रवैः' ख. । २ 'सूतभस्म' ख. । ३ 'गडुकायन्त्रगं' क. । ४ 'शुद्धसूतं त्रिधा गन्ध्यं मागैकं' ख. । ५ 'पचेदग्नौ' ख. ।
१.] रसरत्नाकरस्य रसायनखण्डः । ५ गर्भयन्त्रलक्षणम् । चतुरङ्गुलदीर्घं स्याद्विस्तारे चाङ्गुलत्रयम् ॥ ३८ ॥ मृन्मयं संपुटं कृत्वा छायाशुष्कं च कारयेत् । लवणं विंशभागं स्याद्भागमेकं तु गुग्गुलुम् ॥ ३९ ॥ सर्वं तोयैः प्रपिष्याथ तेनैव संपुटोदरम् । लिप्त्वा तत्र रसं रुन्ध्याद्गर्भयन्त्रमिदं भवेत् ॥ ४० ॥ पारदमारणस्य पञ्चमः प्रकारः । विमला पारदं शुद्धं तुल्यं निर्गुण्डिकाद्रवैः । मर्दयेत्त्रिदिनं तं वै काचकूप्यां निवेशयेत् ॥ ४१ ॥ काचकूप्या ह्यभावे तु निरुन्ध्याच्छावसंपुटे । पाचयेद्वालुकायन्त्रे चतुर्यामान्मृतो भवेत् ॥ ४२ ॥ पारदमारणस्य षष्ठः प्रकारः । माक्षिकाद्धौतसत्त्वं तु तत्समं शुद्धगन्धकम् । द्वाभ्यां तुल्यं शुद्धरसं दिनं निर्गुण्डिकाद्रवैः ॥ ४३ ॥ तत्सर्वं मर्दितं गोलं वज्रमूषान्वितं पचेत् । दिनैकं वालुकायन्त्रे मृतं स्याद्रक्तवर्णकम् ॥ ४४ ॥ पारदमारणस्य सप्तमः प्रकारः । उर्ध्वाधो गन्धकं तुल्यं दातव्यं शुद्धपारदे । उदरे पक्वमूषायाः काकमाचीद्रवं पुनः ॥ ४५ ॥ द्वाभ्यां चतुर्गुणं दत्त्वा तामाच्छाद्य पचेच्छनैः । क्रमाग्नौ वालुकायन्त्रे चतुर्यामान्मृतो भवेत् ॥ ४६ ॥ पारदमारणस्याष्टमः प्रकारः । स्नुह्या वा हेमवल्ल्या. वा क्षीरैः शुद्धरसं दिनम् । मर्दयेद्गन्धकं तुल्यं गर्भयन्त्रगतं पुटेत् ॥ ४७ ॥ पूर्ववत्क्रमयोगेन मृतं योगेषु योजयेत् । पारदमारणस्य नवमः प्रकारः । शुद्धमृतसमं गुञ्जालाक्षोर्णामधुटङ्कणम् ॥ ४८ ॥
६ आयुर्वेदीयग्रन्थमाला । [उपदेशः तत्सर्वं भृङ्गजैर्द्रवैर्दिनमेकं विमर्दयेत् । वज्रमूषान्वितं ध्मातं म्रियते शशिसंनिभम् ॥ ४९ ॥ पारदमारणस्य दशमः प्रकारः । द्रवैस्तु कीटमारिण्या ह्यजमोदाद्रवैश्च वा । अहिमार्या द्रवैर्वाऽथ किंवा श्वेताङ्कुलद्रवैः ॥ ५० ॥ मर्दयेत्पारदं शुद्धं समगन्धं दिनत्रयम् । संपुटे मृण्मये रुद्धा करीषाग्नौ दिवानिशि ॥ ५१ ॥ पचेत्तुषाग्निना वाऽथ त्रिदिनान्म्रियते ध्रुवम् । पारदमारणस्यैकादशः प्रकारः । शुद्धमूतं मृतं वज्रं समांशं तप्तखल्वके ॥ ५२ ॥ हंसपाद्या द्रवैर्मर्द्यं त्रिदिनान्ते समुद्धरेत् । बीजैर्दिव्यौषधीनां च वज्रमूषां प्रलेपयेत् ॥ ५३ ॥ तत्र पूर्वरसं रुद्धा त्रिदिनं तुषवह्निना । पाचयित्वा समुद्धृत्य तत्समं शुद्धपारदम् ॥ ५४ ॥ एकीकृत्य त्र्यहं मर्द्यं हंसपाद्या द्रवैर्दृढम् । तद्गोलं पूर्ववत्पच्यान्मृतं भवति शोभनम् ॥ ५५ ॥ वज्रादिमारणविधेरतिदेशेन कथनम् । वज्राभ्राद्यष्टलोहानां रसखण्डे यथोदितम् । मारणं वांदिखण्डे वा तथा ज्ञेयं रसायने ॥ ५६ ॥ मृतरसगुणाः । एवं मृतो रसवरः परमामृतः स्या- त्त्तसेवकाः सततमस्य दृढं तु तेषाम् । देहं करोति सहसा सुरसुन्दरीणां क्रीडाक्षमं परमसुन्दरमेव नित्यम् ॥ ५७ ॥ इति श्रीपार्वतीपुत्रनित्यनाथसिद्धविरचिते रसरत्नाकरे रसायनखण्डे रसमा- रणं नाम प्रथमोपदेशः ॥ १ 'वादखण्डे' ख. । २ 'पदं' ख. ।
ान् (-) 15. त (v) 16. सी (-) 17. मा (-) 18. व (v) 19. धि (v / -) Total syllables = 19! Shardulavikridita pattern: - - - v v - v - v v v - - - v - - v - (19 syllables) Pause at 12 and 7! Let's check: 1-3: सम् (-) यग् (-) दिव् (-) -> 3 heavy. 4-5: य (v) र (v) -> 2 light. 6: सा (-) -> 1 heavy. 7: य (v) -> 1 light. 8: ने (-) -> 1 heavy. 9-11: न (v) स (v) त (v) -> 3 light. 12: तं (-) -> 1 heavy. (Yati at 12!) 13-15: कल् (-) पान् (-) त (v) -> 2 heavy, 1 light. 16-17: सी (-) मा (-) -> 2 heavy. 18-19: व (v) धि (-) -> 1 light, 1 heavy. PERFECT SHARDULA-VIKRIDITA! (19 syllables).
Now let's apply Shardulavikridita (1
८ आयुर्वेदियग्रन्थमाला । [उपदेशः द्वाभ्यां तुल्यं मृतं कान्तं कान्ततुल्यं मृताभ्रकम् । तत्सर्वं भृङ्गजैर्द्रवैर्मर्दितं भावयेत्त्र्यहम् ॥ १० ॥ त्र्यहं गोक्षुरकद्रावैः क्षौद्रैर्माषं ततो लिहेत् । रसो वज्रेश्वरो नाम वज्रकायकरो नृणाम् ॥ ११ ॥ चतुर्मासैर्जरां हन्ति जीवेद्ब्रह्मदिनं किल । भृङ्गराजस्य पञ्चाङ्गं चूर्णयेत्त्रिफलासमम् ॥ १२ ॥ पलैकं मधुना लेह्यं क्रामकं परमं रसे । वज्रधारारसः । वज्रमृताभ्रहेम्नां तु भस्म शुद्धं तु माक्षिकम् ॥ १३ ॥ तुल्यं सप्तदिनं मर्द्यं दिव्यौषधिरसैर्दृढम् । रुद्ध्वा तं त्रिदिनं पच्याद्वालुकायन्त्रगं पुनः ॥ १४ ॥ उद्धृत्य त्रिदिनं भाव्यं भृङ्गसर्पाक्षिजैर्द्रवैः । माषेकं मधुसर्पिर्भ्यां वज्रधारारसं लिहेत् ॥ १५ ॥ मासषट्कप्रयोगेण रुद्रतुल्यो भवेन्नरः । वलीपलितनिर्मुक्तो वायुवेगो महाबलः ॥ १६ ॥ पुनर्नवाभृङ्गतिलवाजिगन्धाः समांशकाः । सर्वतुल्या सिता योज्या चूर्णितं भक्षयेत्पलम् ॥ १७ ॥ भैरवरसः । सुवर्णं पारदं कान्तं मृतं सर्वं समं भवेत् । शतावर्याः शिफाद्रावैर्भावयेद्दिवसत्रयम् ॥ १८ ॥ त्रिदिनं त्रिफलाक्वाथैर्भृङ्गद्रावैर्दिनत्रयम् । भावितं मधुसर्पिर्भ्यां भक्षयेद्भैरवं रसम् ॥ १९ ॥ माषेकैकं वर्षमात्रं जीवेच्चन्द्रार्कतारकम् । मूलचूर्णं शतावर्याः कृष्णाजपयसा युतम् ॥ २० ॥ पलैकैकं पिबेच्चानु क्रामकं परमं हितम् । शिलावीररसः । रसभस्म समं गन्धं शिलाजत्वम्लवेतसम् ॥ २१ ॥
२.] रसरत्नाकरस्य रसायनखण्डः । ९ यामैकं मर्दयेत्सर्वं मधुसर्पिर्युतं लिहेत् । निष्कैकैकं वर्षमात्रं शिलावीरो महारसः ॥ २२ ॥ जराकालं निहन्त्याशु जीवेद्वर्षशतत्रयम् । पलार्धं मुशलीचूर्णं भृङ्गराजरसैः पिबेत् ॥ २३ ॥ धात्रीफलरसैर्वाऽथ क्रामकं ह्यनुपानकम् । अमृतार्णवरसः । मेघनादद्रवैर्मर्द्यं शुद्धसूतं दिनत्रयम् ॥ २४ ॥ विडङ्गं द्विनिशं व्योषं समं चूर्णं प्रकल्पयेत् । आरग्वधस्य मूलं तु चूर्णस्य द्विगुणं भवेत् ॥ २५ ॥ चूर्णस्य द्विगुणं चाज्यं क्षौद्रं चैव चतुर्गुणम् । सर्वं पूर्वरसे क्षिप्त्वा मृद्वग्नौ चालयन् पचेत् ॥ २६ ॥ तत्पिण्डं कर्षमेकैकं भक्षयेदमृतार्णवः । वर्षमात्राज्जरां हन्ति जीवेद्वर्षशतत्रयम् ॥ २७ ॥ बाकुचीचूर्णकर्षैकं धात्रीफलरसैः पिबेत् । उदयादित्यरसः । पारदाद्द्विगुणं गन्धं शुद्धं सर्वं विमर्द्येत् ॥ २८ ॥ मुण्ड्यार्द्रकरसैः खल्वे त्रिसप्ताहं पुनः पुनः । एतत्तुल्यं शुद्धताम्रं संपुटे तन्निरोधयेत् ॥ २९ ॥ वेष्टयेद्वस्त्रखण्डेन वज्रमृत्तिकया बहिः । लिप्त्वा विशोषयेत्तं वै सम्यग्गजपुटे पचेत् ॥ ३० ॥ उद्धृत्य संपुटं चूर्ण्यं देवदाल्या द्रवैस्त्र्यहम् । भङ्गीपुनर्नवाद्रवैः पृथग्भाव्यं त्र्यहं त्र्यहम् ॥ ३१ ॥ तत्तुल्यं नागराच्चूर्णं क्षिप्त्वा मध्वाज्यसंयुक्तम् । लिहेन्माषद्वयं नित्यं यावत्संवत्सरावधि ॥ ३२ ॥ रसोऽयमुदयादित्यो जरामृत्युहरः परः । पुनर्नवादेवदालीभृङ्गचूर्णं समं समम् ॥ ३३ ॥
१० आयुर्वेदीयग्रन्थमाला । [उपदेशः मध्वाज्याभ्यां लिहेत्कर्षमनु स्यात्क्रामणं परम् । गगनेश्वररसः । पारदो गगनं कान्तं तीक्ष्णं च मारितं समम् ॥ ३४ ॥ भृङ्गधात्रीफलद्रावैश्छायायां भावयेत्त्र्यहम् । सितामध्वाज्यकैस्तुल्यं सर्वं भाण्डे निरोधयेत् ॥ ३५ ॥ धान्यराशौ स्थितं मासं ततो निष्कत्रयं समम् । भक्षयेच्च पिबेत्क्षीरं कर्षैकं त्रिफलामनु ॥ ३६ ॥ रात्रौ शुण्ठीं कणां खादेद्वर्षैकादमरो भवेत् । जीवेद्ब्रह्मदिनं वीरः स्याद्रसो गगनेश्वरः ॥ ३७ ॥ वटेश्वररसः । वटक्षीरैस्त्र्यहं मर्द्य गन्धं शुद्धरसं समम् । वटकाष्ठाग्निना पच्यान्मृत्पात्रे यामपञ्चकम् ॥ ३८ ॥ क्षिपन् क्षिपन् वटक्षीरं तत्काष्ठेनैव चालयेत् । समुद्धृत्य त्र्यहं भाव्यं देवदालीदलद्रवैः ॥ ३९ ॥ उष्णकाले तु गुञ्जैंकं ताम्बूलपत्रसंयुक्तम् । चन्द्रवृद्ध्या सदा भक्ष्यं यावत् षोडशगुञ्जकम् ॥ ४०॥ चूर्णमुत्तरवारुण्या बाकुच्या देवदालिजम् । मध्वाज्याभ्यां लिहेत्कर्षं क्रामकं ह्यनुपानकम् ॥ ४१ ॥ वर्षमात्राज्जरां हन्ति जीवेद्वर्षशतत्रयम् । रसो वटेश्वरो नाम वज्रकायकरो नृणाम् ॥ ४२ ॥ अचलेश्वररसः । मृतं सूतं शुद्धगन्धं त्रिफलां गुगुग्लुं समम् । सर्वं वातारितैलेन मिश्रं कर्षं लिहेत्सदा ॥ ४३ ॥ षण्मासेन जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् । तस्य मूत्रपुरीषेण शुल्वं भवति काञ्चनम् ॥ ४४ ॥ अजस्य वृषणं पाच्यं गवां क्षीरेण तं निशि । सितायुक्तं पिबेच्चानु रसोऽयमचलेश्वरः ॥ ४५ ॥
२.] रसरत्नाकरस्य रसायनखण्डः। ११ परमेश्वररसः । रसं वज्रं स्वर्णकान्ते मुण्डं च मारितं समम् । माक्षिकं गन्धकं शुद्धं सर्वं जम्बीरजैर्द्रवैः ॥ ४६ ॥ सप्ताहं मर्दयेत्खल्वे तद्गोलं चान्धितं पुटेत् । भूधरे दिनमेकं तु ख्यातः सिद्धरसः परः ॥ ४७ ॥ मार्षकं मधुना लेह्यं वर्षान्मृत्युजरापहम् । दिव्यकायो नरः सिद्धो भवेद्विष्णुपराक्रमः ॥ ४८ ॥ श्वेतपौर्नर्नवं मूलं क्षीरपिष्टं सदा पिवेत् । भक्षयेद्वा सिता सार्धं क्रामकं पैरमे रसे ॥ ४९ ॥ गन्धामृतरसः । मृतसूतस्य द्विगुणं शुद्धं गन्धं विमिश्रयेत् । दिनैकं कन्यकाद्रावैर्मर्दयित्वा निरोधयेत् ॥ ५० ॥ दिनैकं मधुना पच्यान्निष्कैंकं मधुना लिहेत् । गन्धामृतो रसो नाम वत्सरान्मृत्युजिद्भवेत् ॥ ५१ ॥ समूलं भृङ्गराजं तु छायाशुष्कं विचूर्णयेत् । तत्समं त्रिफलाचूर्णं सर्वतुल्या सिता भवेत् ॥ ५२ ॥ एकीकृत्य पलैकैकं भक्षयेदनुपानकम् । कालकण्टकरसः । पारदाभ्रं मृतं तुल्यं द्वाभ्यां तुल्यं तु गन्धकम् ॥ ५३॥ तत्सर्वं भृङ्गजैर्द्रवैर्मर्दयेद्दिनसप्तकम् । षड्वारं चोङ्गुलीतैलैर्भावयित्वाऽथ भक्षयेत् ॥ ५४ ॥ माषमात्रं तु वर्षेकं रसोऽयं कालकण्टकः । पिष्ट्वा करञ्जपत्राणि गवां क्षीरैः पिबेदनु ॥ ५५ ॥ जरामृत्युविनिर्मुक्तो जीवेद्ब्रह्मदिनं नरः । अमृतेशरसः । मृतसूताभ्रकं कान्तं विषं ताप्यं शिलाजतु ॥ ५६ ॥ १ 'परमेश्वरे' ख. । २ 'बाकुचीतैलै-' ख. ।
१२ आयुर्वेदीयग्रन्थमाला । [उपदेशः तुल्यांशं मधुसर्पिर्भ्यां लिहेद्गुञ्जात्रयं सदा । षण्मासेन जरां हन्ति जीवेद्ब्रह्मदिनं नरः ॥ ५७ ॥ अश्वगन्धामूलचूर्णं सप्तभागघृतैः समम् । भागाष्टकं गुडं तस्मिन् क्षिपेद्भागं च पिप्पलीम् ॥५८॥ मृद्वग्निना च तत्सर्वं पिण्डितं भक्षयेत् पलम् । क्रामकं ह्यमृतेशस्य रसराजस्य सिद्धये ॥ ५९ ॥ रसवीरमहारसः । त्रिगुणं शुद्धसूतस्य योजयेच्छुद्धगन्धकम् । लोहपर्पटिकाचूर्णं सूततुल्यं विनिक्षिपेत् ॥ ६० ॥ स्नुह्यर्कपयसा मर्द्य तत्सर्वं दिवसत्रयम् । तच्छुष्कं चान्धितं पच्यात्करीषाग्नौ दिवानिशम् ॥६१॥ ततश्च टङ्कणं काचं दत्त्वा रुद्ध्वा धमेदृढम् । गुञ्जैकं मधुना खादेद्रसवीरो महारसः ॥ ६२ ॥ अब्देकेन जरां हन्ति जीवेदाचन्द्रतारकम् । मुशलीमूलचूर्णं तु गुञ्जापत्रद्रवैः पिबेत् ॥ ६३ ॥ छागीमूत्रेण वा तं वै कर्षैकं क्रामकं परम् । काञ्चायनरसः । मृतमृतसमं गन्धं काकमाच्या द्रवैर्दिनम् ॥ ६४ ॥ मर्दितं चान्धितं पच्यात्करीषाग्नौ दिवानिशम् । दिव्यौषधदलद्रावैर्दिनं मर्द्य तमन्धयेत् ॥ ६५ ॥ ध्मातं तस्मात्समुद्धृत्य तत्तुल्यं हाटकं मृतम् । एकीकृत्य घृतैर्लेह्यं माषैकं वत्सरावधि ॥ ६६ ॥ जरां मृत्युं निहन्त्याशु सत्यं काञ्चायनो रसः । काकमाचीद्रवैर्भाव्यं चूर्णं धात्रीफलोद्भवम् ॥ ६७ ॥
१ 'खादेन् करवीरो' ख. ।
२.] रसरत्नाकरस्य रसायनखण्डः । १३ मधुना भक्षयेत्कर्षमनु स्यात्कामकं परम् । परानन्दरसः । मृतसूताभ्रकं गन्धं तुल्यं सप्तदिनावधि ॥ ६८ ॥ शिग्रुमूलद्रवैर्मर्द्यं तद्गोलं भाण्डमध्यगम् । रुद्ध्वा पच्याल्लघुत्वेन शाककाष्ठैर्दिनावधि ॥ ६९ ॥ परानन्दो रसो नाम घृतैर्निष्कं सदा लिहेत् । दिनैकं त्रिफलाक्वाथैः कुष्ठं सम्यग्विपाचयेत् ॥ ७० ॥ तच्छुष्कं चूर्णितं कर्षं मध्वाज्याभ्यां लिहेदनु । संवत्सरप्रयोगेण जीवेदाचन्द्रतारकम् ॥ ७१ ॥ महाकालरसः । मृतसूताभ्रकं तुल्यं मृतलोहं तयोः समम् । लोहांशं शोधितं गन्धं भावयेद्दिनसप्तकम् ॥ ७२ ॥ तत्सर्वं त्रिफलाक्वाथैर्भृङ्गशिग्रुकचित्रकैः । द्रवैः पृथक्पृथग्भाव्यं सप्तधा सप्तधा क्रमात् ॥ ७३ ॥ सप्तधा कटुकीक्वाथैर्भावितं चूर्णयेत्पुनः । चूर्णतुल्यं कणाचूर्णं पुरातनगुडैः समैः ॥ ७४ ॥ सर्वमेकीकृतं खादेन्निष्कैकं वत्सरावधि । महाकालो रसो नाम जराकालभयङ्करः ॥ ७५ ॥ तिलकोरण्टपत्राणि गुडेन भक्षयेदनु । हेमपर्पटरसः । मृतपारदसंतुल्यं लोहपर्पटकं भवेत् ॥ ७६ ॥ त्रिगुणं गन्धकं सूतात्सर्वं दिव्यौषधद्रवैः । मर्दितं तद्दिनं रुद्ध्वा ध्मातो बद्धो भवेद्रसः ॥ ७७ ॥ तस्मिन् पादं मृतं स्वर्णं क्षिप्त्वा वह्न्यार्द्रकद्रवैः । मर्द्यं यामं विचूर्ण्याथ व्योषजीरकसैन्धवैः ॥ ७८ ॥ तुल्यं पूर्वरसं तुल्यं निष्कैकैकं च भक्षयेत् । जरामृत्युं निहन्त्याशु हेमपर्पटको रसः ॥ ७९ ॥ २
१४ आयुर्वेदीयग्रन्थमाला । [उपदेशः अश्वगन्धासमां यष्टिं धात्रीफलरसैर्दिनम् । भावितां लेहयेत्क्षौद्रैः पलैकां क्रामकं परम् ॥ ८० ॥ श्रीकण्ठरसः । स्वर्णतारार्ककान्तं च तीक्ष्णं वा मारितं समम् । कृष्णाभ्रसत्त्वमाक्षीकं प्रत्येकं स्वर्णतुल्यकम् ॥ ८१ ॥ तत्सर्वं चान्धितं धाम्यं तत्खोटं मृतपारदम् । समं मृतामृतं वज्रं पादांशं तत्र योजयेत् ॥ ८२ ॥ सर्वं जम्बीरजैर्द्रवैस्तप्तखल्वे विमर्दयेत् । दिनैकं तं निरुध्याथ भूधरे पाचयेद्दिनम् ॥ ८३ ॥ उद्धृत्य गन्धकं तुल्यं दत्त्वा रुद्ध्वा धमेद्द्रुतम् । तच्चूर्णं मधुनाऽऽज्येन माषमात्रं लिहेत्सदा ॥ ८४ ॥ रसः श्रीकण्ठनामाऽयं खेचरत्वं प्रयच्छति । संवत्सरप्रयोगेण जीवेत्कल्पान्तमेव च ॥ ८५ ॥ तस्य मूत्रपुरीषाभ्यां सर्वलोहानि काञ्चनम् । पलैकं गन्धकं क्षीरैः क्रामकं चानु पाययेत् ॥ ८६ ॥ खेचरबद्धरसः । शुद्धताम्रस्य भागैकं द्विपद् शुद्धरसस्य च ॥ त्रयं भूनागसत्त्वस्य भागमेकत्र कारयेत् ॥ ८७ ॥ सर्वं मर्द्यं तप्तखल्वे जम्बीराणां द्रवैर्दिनम् । तत्सर्वं कच्छपे यन्त्रे क्षिप्त्वा तत्रैव गन्धकम् ॥ ८८ ॥ कासमर्दरसैः पिष्टं तुल्यं दत्त्वा निरुध्य च । यावज्जीर्णे पुटे पच्यादेवं षड्गुणगन्धकम् ॥ ८९ ॥ जारयेत्क्रमयोगेन समुद्धृत्याथ मर्दयेत् । यामं जम्बीरजैर्द्रवैस्ततो निश्चन्द्रमभ्रकम् ॥ ९० ॥ अम्लवेतससंतुल्यं मर्दितं दापयेद्रसे । षोडशांशं तप्तखल्वे चणकाम्लं च तालकम् ॥ ९१ ॥
कासीसं च दशांशेन दत्त्वा मर्द्यं दिनावधिः । तत्सर्वं पक्वमूषायां क्षिप्त्वा वस्त्रेण बन्धयेत् ॥ ९२ ॥ दोलायन्त्रे सारनाले त्र्यहं लघ्वग्निना पचेत् । उद्धृत्य क्षालयेदुष्णैः काञ्जिकैर्जीर्यते यदि ॥ ९३ ॥ अजीर्णं चेत्पचेद्यन्त्रे कच्छपाख्ये विडान्वितम् । एवं पुनः पुनर्जार्यं गगनं सूततुल्यकम् ॥ ९४ ॥ शिखिपित्तप्रलिप्तानि स्वर्णपत्राणि तस्य वै । चतुःषष्ठ्यंशयोगेन दत्त्वा खल्वे विमर्दयेत् ॥ ९५ ॥ स्वेदयेत्पूर्ववद्यन्त्रे जीर्णे स्वर्णं च दापयेत् । इत्येवं षोडशांशं तु स्वर्णं जार्यं रसस्य वै ॥ ९६ ॥ ततो जार्यं मृतं वज्रं षोडशांशं च हेमवत् । तालकासीसजम्बीरयुक्तं मर्द्यं च तत्परम् ॥ ९७ ॥ ततो दिव्यौषधद्रावैस्तं मृतं मर्दयेत्त्र्यहम् । वज्रमूषानिधतं धाम्यं बद्धं स्याच्चूर्णयेत्पुनः ॥ ९८ ॥ मधुशर्करया सार्धं गुञ्जामात्रं च भक्षयेत् । रसः खेचरबद्धोऽयं षण्मासान्मृत्युजिद्भवेत् ॥ ९९ ॥ वलीपलितनिर्मुक्तो महाबलपराक्रमः । सप्ताहं भृङ्गजैर्द्रावैर्नीलीमुण्डीफलत्रयम् ॥ १०० ॥ भावयेन्मधुसर्पिर्भ्यां कर्षमात्रं लिहेदनु । स्वयमग्निरसः । शुद्धसूतं द्विधा गन्धं कुर्यात्खल्वेन कज्जलम् ॥ १०१ ॥ तयोस्तुल्यं कान्तचूर्णं तीक्ष्णं वा मुण्डमेव वा । सर्वमेकीकृतं खल्वे मर्दयेत्कन्यकाद्रवैः ॥ १०२ ॥ दिनैकं गोलकं कृत्वा ताम्रपात्रे निवेशयेत् । आच्छाद्यैरण्डपत्रैस्तु यामार्धेऽत्युष्णतां व्रजेत् ॥ १०३ ॥ धान्यराशौ न्यसेत्तं तु द्विदिनान्ते समुद्धरेत् ।
१६ आयुर्वेदनायग्रन्थमाला । [उपदेशः कन्याभृङ्गीकाकमाचीमुण्डीनिर्गुण्डिचित्रकम् ॥१०४॥ कोरण्टवाकुचीब्राह्मीसहदेवीपुनर्नवाः । शाल्मलीविजयाधूर्ता द्रवैरेषां पृथक्पृथक् ॥ १०५ ॥ सप्तधा सप्तधा भाव्यं सप्तधा त्रिफलोद्भवैः । कषायैर्भावितं चूर्णं जातीफललवङ्गकम् ॥ १०६ ॥ त्रिकटु त्रिफला चैला चूर्णयेन्नवकं समम् । तच्चूर्णं पूर्वचूर्णं च समं क्षौद्रेण कर्षकम् ॥ १०७ ॥ वर्षैकं लेहयेन्नित्यं जराकालप्रशान्तये । खयमग्निरसो नाम सिद्धानां सुमुखागतः ॥ १०८ ॥ तिलाश्वगन्धयोश्चूर्णं पलार्धं मधुना लिहेत् । कक्षपुटरसः । निर्गुण्डी नीलिका वज्री ब्रह्मदण्डी त्रिदण्डिका ॥१०९॥ शतपुष्पा मुद्गपर्णी श्वेताकर्को वानरी जया । पेटारीकृष्णधत्तूरविजयाक्षीरकन्दकम् ॥ ११० ॥ एतैः समस्तैर्व्यस्तैर्वा द्रव्यैर्मर्द्यं दिनत्रयम् । शुद्धसूतं तप्तखल्वे तत्कल्कं क्षीरकन्दके ॥ १११ ॥ वज्रकन्देऽथवा रुद्ध्वा तन्मज्जाभिर्मृदा पुनः । तं कन्दं वज्रमूषायां रुद्ध्वा लघुपुटे पचेत् ॥ ११२ ॥ पुनर्मर्द्यं पुनः पाच्यमित्येवं सप्तधा क्रमात् । रसः कक्षपुटो नाम गुञ्जैकं मधुना लिहेत् ॥ ११३ ॥ जीवेद्ब्रह्मदिनैकं तु वलीपलितवर्जितः । वर्षैकेन न संदेहो रसकायो भवेन्नरः ॥ ११४ ॥ भल्लातबीजचूर्णं च हयगन्धामृताघृतैः । पलैकं भक्षयेच्चानु क्रामकं परमं हितम् ॥ ११५ ॥ महाशक्तिरसः । मृतमृताभ्रकं वज्रं कान्ततारार्कहाटकम् । तीक्ष्णं च तुल्यतुल्यांशं सर्वेषां गन्धकं समम् ॥११६॥