रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
४ विषयः पृ. पं. | विषयः पृ. वीर्यस्तम्भकरः रक्तापामार्ग- | वीर्यस्तम्भकरःस्थलमीनयो. ६८ ,, मूलयोगः ... ६५ १९ | वनिताद्रावणार्थं जलौका- ,, पादलेपः ... ,, २२ | योगाः ... ... ,, ,, सर्पास्थिधारणयोगः ,, २५ | लिङ्गवर्धनार्थं पारदादियोगः ६९ ,, नाभिलेपः ... ६६ ३ | ,, वराहवसादिलेपः ,, ,, कोकिलाक्षादियोगः ,, ६ | ,, अश्वगन्धादितैलं ,, ,, द्वितीयो नाभिलेपः ,, १० | ,, जम्बूतैलादियोगः ७० ,, दीपयोगः ,, १३ | ,, मुशलीचूर्णादिलेपः ,, ,, शिवलिङ्गीबीजा- | ,, पिप्पल्यादियोगः ,, दियोगः... ... ,, १६ | ,, माहिषघृतादिलेपः ,, ,, श्लेष्मातकादियोगः ,, २० | ,, अश्वगन्धादियोगः ,, ,, सूरणादियोगः ,, २३ | ,, मांस्यादियोगः ,, ,, मार्जारनखादियोगः ,, २६ | ,, रोहितमत्स्यादियोगः ,, ,, द्वितीयः पादलेपः ६७ ४ | ,, हरिद्रादियोगः ,, ,, ,, लिङ्गलेपः ,, १० | ,, जम्बूकपित्तादियोगः ,, ,, पारदादियोगः ,, १७ | ,, गृहगोधादियोगः ७१ ,, हस्ते मुद्रिका- | अष्टमोपदेशः । धारणयोगः ... ,, २५ | श्रीशैलपर्वतसाधनम् ,,
आयुर्वेदीयग्रन्थमाला । श्रीनित्यनाथसिद्धविरचितरसरत्नाकरस्य चतुर्थो रसायनखण्डः । प्रथमोपदेशः । मङ्गलाचरणम् । जयति स रसराजो मृत्युशङ्कापहारी सकलगुणनिधानं कायकल्पाधिकारी । वलिपलितविनाशं सेवितो वीर्यवृद्धिं स्थिरमपि कुरुते यः कामिनीनां प्रसङ्गम् ॥ १ ॥ देहसिद्धेः प्रशंसा । अथातः संप्रवक्ष्यामि देहसिद्धिं सुशोभनाम् । यस्याः सिद्धौ मनुष्याणां जायन्ते सर्वसिद्धयः ॥ २ ॥ न देहेन विना किंचिदिष्टमस्ति जगत्त्रये । तस्मात्सर्वप्रयत्नेन तस्मिन् यत्नो विधीयताम् ॥ ३ ॥ रसायनसेवनस्य पूर्वकर्म । शुभनक्षत्रदिवसे वमने रेचने कृते । ततो विशेषशुद्ध्यर्थं केतकीस्तनजं द्रवम् ॥ ४ ॥ त्रिदिनं कुडवैकैकं लोणदोषहरं पिबेत् । विडङ्गं च वचा कुष्ठं केतकीस्तनसंयुतम् ॥ ५ ॥ क्वथितं त्रिदिनं पीतमम्लदोषहरं परम् । श्यामावह्निविडङ्गानि त्र्यूषणं त्रिफला वृषः ॥ ६ ॥ १ 'तस्याः' ख. । २ लवणभक्षणजनितदोषहरमित्यर्थः ।
२ आयुर्वेदौयग्रन्थमाला । [उपदेशः सैन्धवं देवदारुश्च मुस्ता चैतत्समं समम् । घृतैर्लेहं तु कर्षैकं सप्ताहात्सर्वदोषजित् ॥ ७ ॥ एवं विशुद्धदेहस्तु पूजयेद्देवतां गुरुम् । कुमारीं योगिनीचक्रं ततः कुर्याद्रसायनम् ॥ ८ ॥ रससेवने पथ्यानि । निर्वाते भूगृहे वाऽथ बाह्यचिन्ताविवर्जितः । जितेन्द्रियो जितक्रोधः क्षीरशाल्यन्नयुग्भवेत् ॥ ९ ॥ षष्ठ्योदनं यवान्नं च गोधूमं मुद्गयूषकम् । जाङ्गलं भक्षयेन्मांसं केवलं क्षीरमेव वा ॥ १० ॥ वलान्नं वाऽथ भुञ्जीत शाकलोणविवर्जितम् । अभ्यङ्गं मस्तुना कुर्यात् स्नानं चैव सुखाम्बुना ॥ ११॥ काकिनीं स्त्रीं भजेन्नित्यं स्वानुकूलां सुयौवनाम् । रसेन्द्रे भक्ष्यमाणे तु कामान्धो जायते नरः ॥ १२ ॥ मैथुनेन विना तस्य ह्यजीर्णो जायते रसः । अजीर्णे कम्पदाहार्ती हिक्का मूर्च्छा ज्वरोऽरतिः ॥१३॥ कासश्वासारुचिच्छर्दिभ्रममोहा भवन्ति हि । सेवेत सुभगां तस्माद्दुर्भागां परिवर्जयेत् ॥ १४ ॥ रसायने वर्ज्यानि । अभ्यङ्गं कटुतैलेन काञ्जिकं मदिरां दधि । कलिङ्गकारवल्ल्यम्लतैलकूष्माण्डराजिकाः ॥ १५ ॥ बिल्वच्छत्राकवार्ताकविदलं काकमाचिकाम् । मूलकं लशुनं तीक्ष्णं शीतमुष्णं च वर्जयेत् ॥ १६ ॥ १ 'देवताचक्रं' ख. । २ 'यस्यास्तु कुञ्चिताः केशाः श्यामा या पद्मलो- चना । सुरूपा तरुणी भिन्नविस्तीर्णजघनस्थला ॥ सङ्कीर्णहृदया पीनस्तनभारेण नामिता । चुम्बनालिङ्गनस्पर्शकोमल्या मृदुभाषिणी ॥ अश्वत्थपत्रसदृशयोनि- देशसुशोभिता । कृष्णपक्षे पुष्पवती सा नारी काकिनी स्मृता ॥ रसबन्धे प्रयोगे च उत्तमा सा रसायने' र. र. स. अ. ६ ॥ ३ -'दाहादि' ख. ।
१.] रसरत्नाकरस्य रसायनखण्डः । ३ रात्रौ जागरणं त्याज्यं दिवास्वापं च मैथुनम् । कलहोद्वेगचिन्ताश्च शोकं चैव विवर्जयेत् ॥ १७ ॥ रसायनव्यापच्चिकित्सा । अवर्जनाद्भवेच्छूलं निद्राऽऽलस्यं ज्वरोऽरतिः । त्र्यहं पिबेत्तत्प्रशान्त्यै वारिणा कर्कटीफलम् ॥ १८ ॥ शुण्ठीसैन्धवचूर्णं वा मातुलुङ्गाम्लकैर्लिहेत् । सौवर्चलं गवां मूत्रैः पिबेद्वा तत्प्रशान्तये ॥ १९ ॥ वन्ध्याकर्कोटकीं पुङ्खां पातालगरुडीं जलैः । क्वाथयेदष्टगुणितैस्तदष्टांशं ससैन्धवम् ॥ २० ॥ पिबेत्सर्वविकारघ्नं त्रिदिनं शिवभाषितम् । मूलं वा कारवल्याुत्थं सैन्धवं वा गवां जलैः ॥ २१ ॥ त्रिदिनं कर्षमात्रं तु पिबेत्सर्वविकारजित् । अपथ्यशीलिनामेतत् कथितं रससेविनाम् ॥ २२ ॥ अमुमेव विधिं कुर्याद्रसायनविधौ किल । अमृतं विधिसंयुक्तं विधिहीनं तु तद्विषम् ॥ २३ ॥ रससंक्रामणम् । चातुर्जातककर्पूरकङ्कोलं कटुकीफलम् । खादेत्ताम्बूलसंयुक्तं रससंक्रामणे हितम् ॥ २४ ॥ पारदमारणविधिः । अथात्र वक्ष्यते सम्यगादौ पारदमारणम् । समुखस्य रसेन्द्रस्य वासनामुक्तितस्य वा ॥ २५ ॥ क्रमेण जारयेत्स्वर्णं समांशं पूर्ववत्ततः । तत्तुल्यं गन्धकं तस्मिन् दत्त्वा दिव्यौषधिद्रवैः ॥ २६ ॥ मर्दयेत्रिदिनं खल्वे मूषायां चान्धितं ततः । करीषाग्नौ दिवारात्रं त्रिरात्रं वा तुषाग्निना ॥ २७ ॥ १ 'मातुलुङ्गाद्रकैर्लिहेत' ख. । २ पुङ्खामिति शरपुङ्खामित्यर्थः । ३ 'स्तत्पा- दांशेन सैन्धवम्' ख. ।
१. प्रथम उपदेश: पारद अष्ट-संस्कार, रस-बन्धन एवं जारण विधान
४ आयुर्वेदीयग्रन्थमाला । [ उपदेशः स्वेदितं मर्दयेद्भूयो बीजैर्दिव्यौषधोद्भवैः । तुल्यं खल्वे चतुर्यामं वज्रमूषान्वितं धमेत् ॥ २८ ॥ भस्मभूतं भवेत्तद्वै योज्यं सर्वरसायने । पारदमारणस्य द्वितीयः प्रकारः । शुद्धसूतं समं स्वर्णे याममम्लैर्विमर्दयेत् ॥ २९ ॥ प्रक्षाल्य ग्राहयेत् पिष्टीं पिष्ट्यर्थं शुद्धगन्धकम् । गन्धार्धं टङ्कणं दत्त्वा सर्वतुल्यां हरिद्रिकाम् ॥ ३० ॥ स्त्रीपुष्पेण तु तत्सर्वं मर्द्यं रम्भाद्रवान्वितम् । दिनान्ते गोलकं कृत्वा वालुकायन्त्रगं पचेत् ॥ ३१ ॥ दिनं मन्दाग्निना तं वै समुद्धृत्य विचूर्णयेत् । चूर्णांशं गन्धकं दत्त्वा गर्भयन्त्रे त्र्यहं पचेत् ॥ ३२ ॥ तुषाग्निना लघुत्वेन जायते भस्मसूतकः । पारदमारणस्य तृतीयः प्रकारः । शुद्धसूतत्रिभागः स्याद्भागैकं ताम्रचूर्णकम् ॥ ३३ ॥ दिनैकं मर्दयेदम्लैः क्षालितं पिष्टिमाहरेत् । माक्षिकाद्धौतसत्त्वं च पिष्टितुल्यं प्रकल्पयेत् ॥ ३४ ॥ तत्सर्वं त्रिदिनं मर्द्यं चक्रमर्ददलद्रवैः । तद्गोलं गर्भयन्त्रस्थं त्रिदिनं तुषवह्निना ॥ ३५ ॥ करीषाग्नौ दिवारात्रं पचेद्वा भस्मतां व्रजेत् । पारदमारणस्य चतुर्थः प्रकारः । शुद्धसूतं व्योमसत्त्वं सुवर्णं च समं समम् ॥ ३६ ॥ सर्वतुल्यं विडं दत्त्वा मर्द्यं रम्भाद्रवैर्दिनम् । बीजैर्दिव्यौषधीनां च तुल्यैर्मर्द्यं दिनद्वयम् ॥ ३७ ॥ गर्भयन्त्रगतं पच्यान्म्रियते पूर्ववत्पुटे । १ '-र्दिव्यौषधिद्रवैः' ख. । २ 'सूतभस्म' ख. । ३ 'गडुकायन्त्रगं' क. । ४ 'शुद्धसूतं त्रिधा गन्ध्यं मागैकं' ख. । ५ 'पचेदग्नौ' ख. ।
१.] रसरत्नाकरस्य रसायनखण्डः । ५ गर्भयन्त्रलक्षणम् । चतुरङ्गुलदीर्घं स्याद्विस्तारे चाङ्गुलत्रयम् ॥ ३८ ॥ मृन्मयं संपुटं कृत्वा छायाशुष्कं च कारयेत् । लवणं विंशभागं स्याद्भागमेकं तु गुग्गुलुम् ॥ ३९ ॥ सर्वं तोयैः प्रपिष्याथ तेनैव संपुटोदरम् । लिप्त्वा तत्र रसं रुन्ध्याद्गर्भयन्त्रमिदं भवेत् ॥ ४० ॥ पारदमारणस्य पञ्चमः प्रकारः । विमला पारदं शुद्धं तुल्यं निर्गुण्डिकाद्रवैः । मर्दयेत्त्रिदिनं तं वै काचकूप्यां निवेशयेत् ॥ ४१ ॥ काचकूप्या ह्यभावे तु निरुन्ध्याच्छावसंपुटे । पाचयेद्वालुकायन्त्रे चतुर्यामान्मृतो भवेत् ॥ ४२ ॥ पारदमारणस्य षष्ठः प्रकारः । माक्षिकाद्धौतसत्त्वं तु तत्समं शुद्धगन्धकम् । द्वाभ्यां तुल्यं शुद्धरसं दिनं निर्गुण्डिकाद्रवैः ॥ ४३ ॥ तत्सर्वं मर्दितं गोलं वज्रमूषान्वितं पचेत् । दिनैकं वालुकायन्त्रे मृतं स्याद्रक्तवर्णकम् ॥ ४४ ॥ पारदमारणस्य सप्तमः प्रकारः । उर्ध्वाधो गन्धकं तुल्यं दातव्यं शुद्धपारदे । उदरे पक्वमूषायाः काकमाचीद्रवं पुनः ॥ ४५ ॥ द्वाभ्यां चतुर्गुणं दत्त्वा तामाच्छाद्य पचेच्छनैः । क्रमाग्नौ वालुकायन्त्रे चतुर्यामान्मृतो भवेत् ॥ ४६ ॥ पारदमारणस्याष्टमः प्रकारः । स्नुह्या वा हेमवल्ल्या. वा क्षीरैः शुद्धरसं दिनम् । मर्दयेद्गन्धकं तुल्यं गर्भयन्त्रगतं पुटेत् ॥ ४७ ॥ पूर्ववत्क्रमयोगेन मृतं योगेषु योजयेत् । पारदमारणस्य नवमः प्रकारः । शुद्धमृतसमं गुञ्जालाक्षोर्णामधुटङ्कणम् ॥ ४८ ॥
६ आयुर्वेदीयग्रन्थमाला । [उपदेशः तत्सर्वं भृङ्गजैर्द्रवैर्दिनमेकं विमर्दयेत् । वज्रमूषान्वितं ध्मातं म्रियते शशिसंनिभम् ॥ ४९ ॥ पारदमारणस्य दशमः प्रकारः । द्रवैस्तु कीटमारिण्या ह्यजमोदाद्रवैश्च वा । अहिमार्या द्रवैर्वाऽथ किंवा श्वेताङ्कुलद्रवैः ॥ ५० ॥ मर्दयेत्पारदं शुद्धं समगन्धं दिनत्रयम् । संपुटे मृण्मये रुद्धा करीषाग्नौ दिवानिशि ॥ ५१ ॥ पचेत्तुषाग्निना वाऽथ त्रिदिनान्म्रियते ध्रुवम् । पारदमारणस्यैकादशः प्रकारः । शुद्धमूतं मृतं वज्रं समांशं तप्तखल्वके ॥ ५२ ॥ हंसपाद्या द्रवैर्मर्द्यं त्रिदिनान्ते समुद्धरेत् । बीजैर्दिव्यौषधीनां च वज्रमूषां प्रलेपयेत् ॥ ५३ ॥ तत्र पूर्वरसं रुद्धा त्रिदिनं तुषवह्निना । पाचयित्वा समुद्धृत्य तत्समं शुद्धपारदम् ॥ ५४ ॥ एकीकृत्य त्र्यहं मर्द्यं हंसपाद्या द्रवैर्दृढम् । तद्गोलं पूर्ववत्पच्यान्मृतं भवति शोभनम् ॥ ५५ ॥ वज्रादिमारणविधेरतिदेशेन कथनम् । वज्राभ्राद्यष्टलोहानां रसखण्डे यथोदितम् । मारणं वांदिखण्डे वा तथा ज्ञेयं रसायने ॥ ५६ ॥ मृतरसगुणाः । एवं मृतो रसवरः परमामृतः स्या- त्त्तसेवकाः सततमस्य दृढं तु तेषाम् । देहं करोति सहसा सुरसुन्दरीणां क्रीडाक्षमं परमसुन्दरमेव नित्यम् ॥ ५७ ॥ इति श्रीपार्वतीपुत्रनित्यनाथसिद्धविरचिते रसरत्नाकरे रसायनखण्डे रसमा- रणं नाम प्रथमोपदेशः ॥ १ 'वादखण्डे' ख. । २ 'पदं' ख. ।
ान् (-) 15. त (v) 16. सी (-) 17. मा (-) 18. व (v) 19. धि (v / -) Total syllables = 19! Shardulavikridita pattern: - - - v v - v - v v v - - - v - - v - (19 syllables) Pause at 12 and 7! Let's check: 1-3: सम् (-) यग् (-) दिव् (-) -> 3 heavy. 4-5: य (v) र (v) -> 2 light. 6: सा (-) -> 1 heavy. 7: य (v) -> 1 light. 8: ने (-) -> 1 heavy. 9-11: न (v) स (v) त (v) -> 3 light. 12: तं (-) -> 1 heavy. (Yati at 12!) 13-15: कल् (-) पान् (-) त (v) -> 2 heavy, 1 light. 16-17: सी (-) मा (-) -> 2 heavy. 18-19: व (v) धि (-) -> 1 light, 1 heavy. PERFECT SHARDULA-VIKRIDITA! (19 syllables).
Now let's apply Shardulavikridita (1
८ आयुर्वेदियग्रन्थमाला । [उपदेशः द्वाभ्यां तुल्यं मृतं कान्तं कान्ततुल्यं मृताभ्रकम् । तत्सर्वं भृङ्गजैर्द्रवैर्मर्दितं भावयेत्त्र्यहम् ॥ १० ॥ त्र्यहं गोक्षुरकद्रावैः क्षौद्रैर्माषं ततो लिहेत् । रसो वज्रेश्वरो नाम वज्रकायकरो नृणाम् ॥ ११ ॥ चतुर्मासैर्जरां हन्ति जीवेद्ब्रह्मदिनं किल । भृङ्गराजस्य पञ्चाङ्गं चूर्णयेत्त्रिफलासमम् ॥ १२ ॥ पलैकं मधुना लेह्यं क्रामकं परमं रसे । वज्रधारारसः । वज्रमृताभ्रहेम्नां तु भस्म शुद्धं तु माक्षिकम् ॥ १३ ॥ तुल्यं सप्तदिनं मर्द्यं दिव्यौषधिरसैर्दृढम् । रुद्ध्वा तं त्रिदिनं पच्याद्वालुकायन्त्रगं पुनः ॥ १४ ॥ उद्धृत्य त्रिदिनं भाव्यं भृङ्गसर्पाक्षिजैर्द्रवैः । माषेकं मधुसर्पिर्भ्यां वज्रधारारसं लिहेत् ॥ १५ ॥ मासषट्कप्रयोगेण रुद्रतुल्यो भवेन्नरः । वलीपलितनिर्मुक्तो वायुवेगो महाबलः ॥ १६ ॥ पुनर्नवाभृङ्गतिलवाजिगन्धाः समांशकाः । सर्वतुल्या सिता योज्या चूर्णितं भक्षयेत्पलम् ॥ १७ ॥ भैरवरसः । सुवर्णं पारदं कान्तं मृतं सर्वं समं भवेत् । शतावर्याः शिफाद्रावैर्भावयेद्दिवसत्रयम् ॥ १८ ॥ त्रिदिनं त्रिफलाक्वाथैर्भृङ्गद्रावैर्दिनत्रयम् । भावितं मधुसर्पिर्भ्यां भक्षयेद्भैरवं रसम् ॥ १९ ॥ माषेकैकं वर्षमात्रं जीवेच्चन्द्रार्कतारकम् । मूलचूर्णं शतावर्याः कृष्णाजपयसा युतम् ॥ २० ॥ पलैकैकं पिबेच्चानु क्रामकं परमं हितम् । शिलावीररसः । रसभस्म समं गन्धं शिलाजत्वम्लवेतसम् ॥ २१ ॥
२.] रसरत्नाकरस्य रसायनखण्डः । ९ यामैकं मर्दयेत्सर्वं मधुसर्पिर्युतं लिहेत् । निष्कैकैकं वर्षमात्रं शिलावीरो महारसः ॥ २२ ॥ जराकालं निहन्त्याशु जीवेद्वर्षशतत्रयम् । पलार्धं मुशलीचूर्णं भृङ्गराजरसैः पिबेत् ॥ २३ ॥ धात्रीफलरसैर्वाऽथ क्रामकं ह्यनुपानकम् । अमृतार्णवरसः । मेघनादद्रवैर्मर्द्यं शुद्धसूतं दिनत्रयम् ॥ २४ ॥ विडङ्गं द्विनिशं व्योषं समं चूर्णं प्रकल्पयेत् । आरग्वधस्य मूलं तु चूर्णस्य द्विगुणं भवेत् ॥ २५ ॥ चूर्णस्य द्विगुणं चाज्यं क्षौद्रं चैव चतुर्गुणम् । सर्वं पूर्वरसे क्षिप्त्वा मृद्वग्नौ चालयन् पचेत् ॥ २६ ॥ तत्पिण्डं कर्षमेकैकं भक्षयेदमृतार्णवः । वर्षमात्राज्जरां हन्ति जीवेद्वर्षशतत्रयम् ॥ २७ ॥ बाकुचीचूर्णकर्षैकं धात्रीफलरसैः पिबेत् । उदयादित्यरसः । पारदाद्द्विगुणं गन्धं शुद्धं सर्वं विमर्द्येत् ॥ २८ ॥ मुण्ड्यार्द्रकरसैः खल्वे त्रिसप्ताहं पुनः पुनः । एतत्तुल्यं शुद्धताम्रं संपुटे तन्निरोधयेत् ॥ २९ ॥ वेष्टयेद्वस्त्रखण्डेन वज्रमृत्तिकया बहिः । लिप्त्वा विशोषयेत्तं वै सम्यग्गजपुटे पचेत् ॥ ३० ॥ उद्धृत्य संपुटं चूर्ण्यं देवदाल्या द्रवैस्त्र्यहम् । भङ्गीपुनर्नवाद्रवैः पृथग्भाव्यं त्र्यहं त्र्यहम् ॥ ३१ ॥ तत्तुल्यं नागराच्चूर्णं क्षिप्त्वा मध्वाज्यसंयुक्तम् । लिहेन्माषद्वयं नित्यं यावत्संवत्सरावधि ॥ ३२ ॥ रसोऽयमुदयादित्यो जरामृत्युहरः परः । पुनर्नवादेवदालीभृङ्गचूर्णं समं समम् ॥ ३३ ॥
१० आयुर्वेदीयग्रन्थमाला । [उपदेशः मध्वाज्याभ्यां लिहेत्कर्षमनु स्यात्क्रामणं परम् । गगनेश्वररसः । पारदो गगनं कान्तं तीक्ष्णं च मारितं समम् ॥ ३४ ॥ भृङ्गधात्रीफलद्रावैश्छायायां भावयेत्त्र्यहम् । सितामध्वाज्यकैस्तुल्यं सर्वं भाण्डे निरोधयेत् ॥ ३५ ॥ धान्यराशौ स्थितं मासं ततो निष्कत्रयं समम् । भक्षयेच्च पिबेत्क्षीरं कर्षैकं त्रिफलामनु ॥ ३६ ॥ रात्रौ शुण्ठीं कणां खादेद्वर्षैकादमरो भवेत् । जीवेद्ब्रह्मदिनं वीरः स्याद्रसो गगनेश्वरः ॥ ३७ ॥ वटेश्वररसः । वटक्षीरैस्त्र्यहं मर्द्य गन्धं शुद्धरसं समम् । वटकाष्ठाग्निना पच्यान्मृत्पात्रे यामपञ्चकम् ॥ ३८ ॥ क्षिपन् क्षिपन् वटक्षीरं तत्काष्ठेनैव चालयेत् । समुद्धृत्य त्र्यहं भाव्यं देवदालीदलद्रवैः ॥ ३९ ॥ उष्णकाले तु गुञ्जैंकं ताम्बूलपत्रसंयुक्तम् । चन्द्रवृद्ध्या सदा भक्ष्यं यावत् षोडशगुञ्जकम् ॥ ४०॥ चूर्णमुत्तरवारुण्या बाकुच्या देवदालिजम् । मध्वाज्याभ्यां लिहेत्कर्षं क्रामकं ह्यनुपानकम् ॥ ४१ ॥ वर्षमात्राज्जरां हन्ति जीवेद्वर्षशतत्रयम् । रसो वटेश्वरो नाम वज्रकायकरो नृणाम् ॥ ४२ ॥ अचलेश्वररसः । मृतं सूतं शुद्धगन्धं त्रिफलां गुगुग्लुं समम् । सर्वं वातारितैलेन मिश्रं कर्षं लिहेत्सदा ॥ ४३ ॥ षण्मासेन जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् । तस्य मूत्रपुरीषेण शुल्वं भवति काञ्चनम् ॥ ४४ ॥ अजस्य वृषणं पाच्यं गवां क्षीरेण तं निशि । सितायुक्तं पिबेच्चानु रसोऽयमचलेश्वरः ॥ ४५ ॥
२.] रसरत्नाकरस्य रसायनखण्डः। ११ परमेश्वररसः । रसं वज्रं स्वर्णकान्ते मुण्डं च मारितं समम् । माक्षिकं गन्धकं शुद्धं सर्वं जम्बीरजैर्द्रवैः ॥ ४६ ॥ सप्ताहं मर्दयेत्खल्वे तद्गोलं चान्धितं पुटेत् । भूधरे दिनमेकं तु ख्यातः सिद्धरसः परः ॥ ४७ ॥ मार्षकं मधुना लेह्यं वर्षान्मृत्युजरापहम् । दिव्यकायो नरः सिद्धो भवेद्विष्णुपराक्रमः ॥ ४८ ॥ श्वेतपौर्नर्नवं मूलं क्षीरपिष्टं सदा पिवेत् । भक्षयेद्वा सिता सार्धं क्रामकं पैरमे रसे ॥ ४९ ॥ गन्धामृतरसः । मृतसूतस्य द्विगुणं शुद्धं गन्धं विमिश्रयेत् । दिनैकं कन्यकाद्रावैर्मर्दयित्वा निरोधयेत् ॥ ५० ॥ दिनैकं मधुना पच्यान्निष्कैंकं मधुना लिहेत् । गन्धामृतो रसो नाम वत्सरान्मृत्युजिद्भवेत् ॥ ५१ ॥ समूलं भृङ्गराजं तु छायाशुष्कं विचूर्णयेत् । तत्समं त्रिफलाचूर्णं सर्वतुल्या सिता भवेत् ॥ ५२ ॥ एकीकृत्य पलैकैकं भक्षयेदनुपानकम् । कालकण्टकरसः । पारदाभ्रं मृतं तुल्यं द्वाभ्यां तुल्यं तु गन्धकम् ॥ ५३॥ तत्सर्वं भृङ्गजैर्द्रवैर्मर्दयेद्दिनसप्तकम् । षड्वारं चोङ्गुलीतैलैर्भावयित्वाऽथ भक्षयेत् ॥ ५४ ॥ माषमात्रं तु वर्षेकं रसोऽयं कालकण्टकः । पिष्ट्वा करञ्जपत्राणि गवां क्षीरैः पिबेदनु ॥ ५५ ॥ जरामृत्युविनिर्मुक्तो जीवेद्ब्रह्मदिनं नरः । अमृतेशरसः । मृतसूताभ्रकं कान्तं विषं ताप्यं शिलाजतु ॥ ५६ ॥ १ 'परमेश्वरे' ख. । २ 'बाकुचीतैलै-' ख. ।
१२ आयुर्वेदीयग्रन्थमाला । [उपदेशः तुल्यांशं मधुसर्पिर्भ्यां लिहेद्गुञ्जात्रयं सदा । षण्मासेन जरां हन्ति जीवेद्ब्रह्मदिनं नरः ॥ ५७ ॥ अश्वगन्धामूलचूर्णं सप्तभागघृतैः समम् । भागाष्टकं गुडं तस्मिन् क्षिपेद्भागं च पिप्पलीम् ॥५८॥ मृद्वग्निना च तत्सर्वं पिण्डितं भक्षयेत् पलम् । क्रामकं ह्यमृतेशस्य रसराजस्य सिद्धये ॥ ५९ ॥ रसवीरमहारसः । त्रिगुणं शुद्धसूतस्य योजयेच्छुद्धगन्धकम् । लोहपर्पटिकाचूर्णं सूततुल्यं विनिक्षिपेत् ॥ ६० ॥ स्नुह्यर्कपयसा मर्द्य तत्सर्वं दिवसत्रयम् । तच्छुष्कं चान्धितं पच्यात्करीषाग्नौ दिवानिशम् ॥६१॥ ततश्च टङ्कणं काचं दत्त्वा रुद्ध्वा धमेदृढम् । गुञ्जैकं मधुना खादेद्रसवीरो महारसः ॥ ६२ ॥ अब्देकेन जरां हन्ति जीवेदाचन्द्रतारकम् । मुशलीमूलचूर्णं तु गुञ्जापत्रद्रवैः पिबेत् ॥ ६३ ॥ छागीमूत्रेण वा तं वै कर्षैकं क्रामकं परम् । काञ्चायनरसः । मृतमृतसमं गन्धं काकमाच्या द्रवैर्दिनम् ॥ ६४ ॥ मर्दितं चान्धितं पच्यात्करीषाग्नौ दिवानिशम् । दिव्यौषधदलद्रावैर्दिनं मर्द्य तमन्धयेत् ॥ ६५ ॥ ध्मातं तस्मात्समुद्धृत्य तत्तुल्यं हाटकं मृतम् । एकीकृत्य घृतैर्लेह्यं माषैकं वत्सरावधि ॥ ६६ ॥ जरां मृत्युं निहन्त्याशु सत्यं काञ्चायनो रसः । काकमाचीद्रवैर्भाव्यं चूर्णं धात्रीफलोद्भवम् ॥ ६७ ॥
१ 'खादेन् करवीरो' ख. ।
२.] रसरत्नाकरस्य रसायनखण्डः । १३ मधुना भक्षयेत्कर्षमनु स्यात्कामकं परम् । परानन्दरसः । मृतसूताभ्रकं गन्धं तुल्यं सप्तदिनावधि ॥ ६८ ॥ शिग्रुमूलद्रवैर्मर्द्यं तद्गोलं भाण्डमध्यगम् । रुद्ध्वा पच्याल्लघुत्वेन शाककाष्ठैर्दिनावधि ॥ ६९ ॥ परानन्दो रसो नाम घृतैर्निष्कं सदा लिहेत् । दिनैकं त्रिफलाक्वाथैः कुष्ठं सम्यग्विपाचयेत् ॥ ७० ॥ तच्छुष्कं चूर्णितं कर्षं मध्वाज्याभ्यां लिहेदनु । संवत्सरप्रयोगेण जीवेदाचन्द्रतारकम् ॥ ७१ ॥ महाकालरसः । मृतसूताभ्रकं तुल्यं मृतलोहं तयोः समम् । लोहांशं शोधितं गन्धं भावयेद्दिनसप्तकम् ॥ ७२ ॥ तत्सर्वं त्रिफलाक्वाथैर्भृङ्गशिग्रुकचित्रकैः । द्रवैः पृथक्पृथग्भाव्यं सप्तधा सप्तधा क्रमात् ॥ ७३ ॥ सप्तधा कटुकीक्वाथैर्भावितं चूर्णयेत्पुनः । चूर्णतुल्यं कणाचूर्णं पुरातनगुडैः समैः ॥ ७४ ॥ सर्वमेकीकृतं खादेन्निष्कैकं वत्सरावधि । महाकालो रसो नाम जराकालभयङ्करः ॥ ७५ ॥ तिलकोरण्टपत्राणि गुडेन भक्षयेदनु । हेमपर्पटरसः । मृतपारदसंतुल्यं लोहपर्पटकं भवेत् ॥ ७६ ॥ त्रिगुणं गन्धकं सूतात्सर्वं दिव्यौषधद्रवैः । मर्दितं तद्दिनं रुद्ध्वा ध्मातो बद्धो भवेद्रसः ॥ ७७ ॥ तस्मिन् पादं मृतं स्वर्णं क्षिप्त्वा वह्न्यार्द्रकद्रवैः । मर्द्यं यामं विचूर्ण्याथ व्योषजीरकसैन्धवैः ॥ ७८ ॥ तुल्यं पूर्वरसं तुल्यं निष्कैकैकं च भक्षयेत् । जरामृत्युं निहन्त्याशु हेमपर्पटको रसः ॥ ७९ ॥ २
१४ आयुर्वेदीयग्रन्थमाला । [उपदेशः अश्वगन्धासमां यष्टिं धात्रीफलरसैर्दिनम् । भावितां लेहयेत्क्षौद्रैः पलैकां क्रामकं परम् ॥ ८० ॥ श्रीकण्ठरसः । स्वर्णतारार्ककान्तं च तीक्ष्णं वा मारितं समम् । कृष्णाभ्रसत्त्वमाक्षीकं प्रत्येकं स्वर्णतुल्यकम् ॥ ८१ ॥ तत्सर्वं चान्धितं धाम्यं तत्खोटं मृतपारदम् । समं मृतामृतं वज्रं पादांशं तत्र योजयेत् ॥ ८२ ॥ सर्वं जम्बीरजैर्द्रवैस्तप्तखल्वे विमर्दयेत् । दिनैकं तं निरुध्याथ भूधरे पाचयेद्दिनम् ॥ ८३ ॥ उद्धृत्य गन्धकं तुल्यं दत्त्वा रुद्ध्वा धमेद्द्रुतम् । तच्चूर्णं मधुनाऽऽज्येन माषमात्रं लिहेत्सदा ॥ ८४ ॥ रसः श्रीकण्ठनामाऽयं खेचरत्वं प्रयच्छति । संवत्सरप्रयोगेण जीवेत्कल्पान्तमेव च ॥ ८५ ॥ तस्य मूत्रपुरीषाभ्यां सर्वलोहानि काञ्चनम् । पलैकं गन्धकं क्षीरैः क्रामकं चानु पाययेत् ॥ ८६ ॥ खेचरबद्धरसः । शुद्धताम्रस्य भागैकं द्विपद् शुद्धरसस्य च ॥ त्रयं भूनागसत्त्वस्य भागमेकत्र कारयेत् ॥ ८७ ॥ सर्वं मर्द्यं तप्तखल्वे जम्बीराणां द्रवैर्दिनम् । तत्सर्वं कच्छपे यन्त्रे क्षिप्त्वा तत्रैव गन्धकम् ॥ ८८ ॥ कासमर्दरसैः पिष्टं तुल्यं दत्त्वा निरुध्य च । यावज्जीर्णे पुटे पच्यादेवं षड्गुणगन्धकम् ॥ ८९ ॥ जारयेत्क्रमयोगेन समुद्धृत्याथ मर्दयेत् । यामं जम्बीरजैर्द्रवैस्ततो निश्चन्द्रमभ्रकम् ॥ ९० ॥ अम्लवेतससंतुल्यं मर्दितं दापयेद्रसे । षोडशांशं तप्तखल्वे चणकाम्लं च तालकम् ॥ ९१ ॥
कासीसं च दशांशेन दत्त्वा मर्द्यं दिनावधिः । तत्सर्वं पक्वमूषायां क्षिप्त्वा वस्त्रेण बन्धयेत् ॥ ९२ ॥ दोलायन्त्रे सारनाले त्र्यहं लघ्वग्निना पचेत् । उद्धृत्य क्षालयेदुष्णैः काञ्जिकैर्जीर्यते यदि ॥ ९३ ॥ अजीर्णं चेत्पचेद्यन्त्रे कच्छपाख्ये विडान्वितम् । एवं पुनः पुनर्जार्यं गगनं सूततुल्यकम् ॥ ९४ ॥ शिखिपित्तप्रलिप्तानि स्वर्णपत्राणि तस्य वै । चतुःषष्ठ्यंशयोगेन दत्त्वा खल्वे विमर्दयेत् ॥ ९५ ॥ स्वेदयेत्पूर्ववद्यन्त्रे जीर्णे स्वर्णं च दापयेत् । इत्येवं षोडशांशं तु स्वर्णं जार्यं रसस्य वै ॥ ९६ ॥ ततो जार्यं मृतं वज्रं षोडशांशं च हेमवत् । तालकासीसजम्बीरयुक्तं मर्द्यं च तत्परम् ॥ ९७ ॥ ततो दिव्यौषधद्रावैस्तं मृतं मर्दयेत्त्र्यहम् । वज्रमूषानिधतं धाम्यं बद्धं स्याच्चूर्णयेत्पुनः ॥ ९८ ॥ मधुशर्करया सार्धं गुञ्जामात्रं च भक्षयेत् । रसः खेचरबद्धोऽयं षण्मासान्मृत्युजिद्भवेत् ॥ ९९ ॥ वलीपलितनिर्मुक्तो महाबलपराक्रमः । सप्ताहं भृङ्गजैर्द्रावैर्नीलीमुण्डीफलत्रयम् ॥ १०० ॥ भावयेन्मधुसर्पिर्भ्यां कर्षमात्रं लिहेदनु । स्वयमग्निरसः । शुद्धसूतं द्विधा गन्धं कुर्यात्खल्वेन कज्जलम् ॥ १०१ ॥ तयोस्तुल्यं कान्तचूर्णं तीक्ष्णं वा मुण्डमेव वा । सर्वमेकीकृतं खल्वे मर्दयेत्कन्यकाद्रवैः ॥ १०२ ॥ दिनैकं गोलकं कृत्वा ताम्रपात्रे निवेशयेत् । आच्छाद्यैरण्डपत्रैस्तु यामार्धेऽत्युष्णतां व्रजेत् ॥ १०३ ॥ धान्यराशौ न्यसेत्तं तु द्विदिनान्ते समुद्धरेत् ।
१६ आयुर्वेदनायग्रन्थमाला । [उपदेशः कन्याभृङ्गीकाकमाचीमुण्डीनिर्गुण्डिचित्रकम् ॥१०४॥ कोरण्टवाकुचीब्राह्मीसहदेवीपुनर्नवाः । शाल्मलीविजयाधूर्ता द्रवैरेषां पृथक्पृथक् ॥ १०५ ॥ सप्तधा सप्तधा भाव्यं सप्तधा त्रिफलोद्भवैः । कषायैर्भावितं चूर्णं जातीफललवङ्गकम् ॥ १०६ ॥ त्रिकटु त्रिफला चैला चूर्णयेन्नवकं समम् । तच्चूर्णं पूर्वचूर्णं च समं क्षौद्रेण कर्षकम् ॥ १०७ ॥ वर्षैकं लेहयेन्नित्यं जराकालप्रशान्तये । खयमग्निरसो नाम सिद्धानां सुमुखागतः ॥ १०८ ॥ तिलाश्वगन्धयोश्चूर्णं पलार्धं मधुना लिहेत् । कक्षपुटरसः । निर्गुण्डी नीलिका वज्री ब्रह्मदण्डी त्रिदण्डिका ॥१०९॥ शतपुष्पा मुद्गपर्णी श्वेताकर्को वानरी जया । पेटारीकृष्णधत्तूरविजयाक्षीरकन्दकम् ॥ ११० ॥ एतैः समस्तैर्व्यस्तैर्वा द्रव्यैर्मर्द्यं दिनत्रयम् । शुद्धसूतं तप्तखल्वे तत्कल्कं क्षीरकन्दके ॥ १११ ॥ वज्रकन्देऽथवा रुद्ध्वा तन्मज्जाभिर्मृदा पुनः । तं कन्दं वज्रमूषायां रुद्ध्वा लघुपुटे पचेत् ॥ ११२ ॥ पुनर्मर्द्यं पुनः पाच्यमित्येवं सप्तधा क्रमात् । रसः कक्षपुटो नाम गुञ्जैकं मधुना लिहेत् ॥ ११३ ॥ जीवेद्ब्रह्मदिनैकं तु वलीपलितवर्जितः । वर्षैकेन न संदेहो रसकायो भवेन्नरः ॥ ११४ ॥ भल्लातबीजचूर्णं च हयगन्धामृताघृतैः । पलैकं भक्षयेच्चानु क्रामकं परमं हितम् ॥ ११५ ॥ महाशक्तिरसः । मृतमृताभ्रकं वज्रं कान्ततारार्कहाटकम् । तीक्ष्णं च तुल्यतुल्यांशं सर्वेषां गन्धकं समम् ॥११६॥
रसरत्नाकरस्य रसायनखण्डः । १७ सर्वं पालाशतैलेन मर्दयेद्दिनसप्तकम् । महाशक्तिरसो नाम क्षौद्रैर्माषं लिहेत्सदा ॥ ११७ ॥ षण्मासेन जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् । वत्सरात्सप्तकल्पानि जीवत्येव न संशयः ॥ ११८ ॥ इच्छावेगी महासिद्धः पराशक्तिसमो भवेत् । तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् ॥ ११९ ॥ पालाशबीजजं तैलं क्षौद्रैर्लेह्यं पलाष्टकम् । क्रामकं ह्यनुपानं स्यात्सम्यक्छक्त्या प्रकाशितम् ॥१२०॥ नाटकेश्वररसः । लोहितं वाऽथ वा कृष्णं वैक्रान्तं मारितं पलम् । स्वर्णचूर्णपलैकं च द्विपलं शुद्धपारदम् ॥ १२१ ॥ बालरण्डाजमूत्राभ्यां तत्सर्वं मर्दयेद्दिनम् । शरपुङ्खा मेषशृङ्गी सर्पाक्षीकटुतुम्बिका ॥ १२२ ॥ इन्द्रवारुणिका चैषां द्रवैर्मर्द्यं दिनत्रयम् । तद्गोलं गर्भयन्त्रे तु रुद्ध्वा पच्याद्दिनत्रयम् ॥ १२३ ॥ तुषाग्निना लघुत्वेन समुद्धृत्य विचूर्णयेत् । सप्तधा भृङ्गजैर्द्रवैर्भावितं चूर्णयेत्पुनः ॥ १२४ ॥ त्रिफलात्र्यूषमध्वाज्यैः समं चूर्ण विमिश्रयेत् । माषैकैकं सदा खादेद्रसोऽयं नाटकेश्वरः ॥ १२५ ॥ सर्वरोगजरामृत्यून् वत्सरान्नाशयत्यलम् । दिव्यतेजा महाकायो जीवेदाचन्द्रतारकम् ॥ १२६ ॥ मूलत्वचं ब्रह्मवृक्षाच्छायाशुष्कां विचूर्णिताम् । पिबेन्निष्कद्वयां तक्रैः क्रामकं परमं शुभम् ॥ १२७ ॥ बालसुन्दररसः । सुशुद्धं श्वेतवैक्रान्तं सप्ताहं भाव्यमातपे । अम्लवेतससंपिष्टं तेनैव द्रुतिमाप्नुयात् ॥ १२८ ॥ त्रैफलोषणमध्वाज्यैः' ख. । २ 'हाटकेश्वरः' क. ।
१८ आयुर्वेदीयग्रन्थमाला । [ उपदेशः एतद्द्रुतिं शुद्धसूतं समं क्षौद्रैर्दिनत्रयम् । मर्दितं लेहयेन्माषं मासाद्बालो भवेन्नरः ॥ १२९ ॥ वत्सराद्ब्रह्मतुल्यः स्याद्रसोऽयं बालसुन्दरः । बाकुचीबीजकर्षैकं मध्वाज्याभ्यां लिहेदनु ॥ १३० ॥ ब्रह्मपञ्जररसः । चतुःपलं शुद्धसूतं पलैकं मृतहाटकम् । पलाशकुड्मलद्रावैस्तत्तैलैश्च दिनत्रयम् ॥ १३१ ॥ मर्दयेत्तप्तखल्वे तु स्वर्णतुल्यं च गन्धकम् । शोधितं निक्षिपेत्तस्मिन् पूर्वोक्तैर्मर्दयेद्दिनम् ॥ १३२ ॥ माषमात्रां वटीं खादेद्वत्सरान्मृत्युजिद्भवेत् । जीवेद्ब्रह्मादिनं वीरो रसोऽयं ब्रह्मपञ्जरः ॥ १३३ ॥ वानरीकाकतुण्ड्युत्थबीजचूर्णं समं समम् । शाल्मलीत्वग्दलद्रावैर्भावयेद्दिवसत्रयम् ॥ १३४ ॥ त्र्यहं च भृङ्गजैर्द्रावैर्भावितं चूर्णयेत्ततः । पुरातनगुडैस्तुल्यं कर्षकमनु भक्षयेत् ॥ १३५ ॥ शिवामृतरसः । रक्तभूमौ तु भूनागान् ग्राहयित्वा परीक्षयेत् । छेदे निर्याति रक्तं चेत्तान् स्वीकुर्यात्प्रयत्नतः ॥ १३६ ॥ कृष्णवर्णगवाज्येन समेन सह तान् पचेत् । लोहजे चालयन् पात्रे यावत्सिन्दूरवर्णकम् ॥ १३७ ॥ तत्सर्वं जायते भस्म तत्तुल्यं मृतपारदम् । मधुनाऽऽलोडितं सर्वं गुञ्जाधार्धं विवर्धयन् ॥ १३८ ॥ पञ्चाङ्गुञ्जां सदा खादेद्यावत्संवत्सरावधि । शिवामृतो रसो नाम जरामृत्युहरो नृणाम् । आयुर्ब्रह्मादिनं दत्ते शिवाम्बु पाययेदनु ॥ १३९ ॥
१ 'तिलैः सह' ख. ।
३.] रसरत्नाकरस्य रसायनखण्डः । १९ एवं दिव्यरसायनैः समुचितैः सारातिसारैः शुभैः सिद्धं देहमनेकसाधनवलाद्येषां तु दृष्टं मया । तानाराध्य च तेषु सारमखिलं संगृह्य शास्त्रादपि भूपानां विदुषां महामतिमतां प्रोक्तं हितार्थाय वै ॥ १४० इति श्रीपार्वतीपुत्रनित्यनाथसिद्धविरचिते रसरत्नाकरे चतुर्थे रसायनखण्डे दिव्यरसदेहसाधनं नाम द्वितीय उपदेशः ॥ २ ॥ * अथ तृतीयोपदेशः । दिव्ययोगगुटिकारसायनं क्रामणेन रहितं न सिध्यति । शीघ्रसिद्धिकरमेव१ सेव्यतां क्रामणार्थमनुपानमत्र वै ॥ १ ॥ मृतसंजीवनीगुटिका । काकतुम्ब्री काकमाची निर्गुण्डी च कुमारिका । गोजिह्वा सैन्धवं गुञ्जा ह्यार्द्रकं च समं समम् ॥ २ ॥ पिष्ट्वा तेन प्रलेप्तव्या मूषा सर्वाऽङ्गुलावधि । पारदं व्योमसत्त्वं च कान्तं तीक्ष्णं च मुण्डकम् ॥ ३ ॥ ताप्यसत्त्वं च तुल्यांशं सर्वं संचूर्ण्य मर्दयेत् । दिनं जम्बीरजैर्द्रवैस्तन्मूषायां विनिक्षिपेत् ॥ ४ ॥ आच्छाद्यालेप्य कल्केन चान्धयित्वा विशोषयेत् । करीषाग्नौ दिवारात्रं पुटे पक्त्वा समुद्धरेत् ॥ ५ ॥ पुनः प्रलिप्तमूषायां क्षिप्त्वा रुद्ध्वा पुटेत्ततः । इत्येवं दशमूषासु प्रलिप्तासु विपाचयेत् ॥ ६ ॥ जायते गुटिका दिव्या मृतसंजीवनी परा । वक्त्रे शिरसि कण्ठे वा कर्णे वा२ धारिता करे ॥ ७ ॥ हेम्ना सुवेष्टिता सम्यग्वयःस्तम्भकरी परा । वलीपलितकालाग्निमृत्युशङ्काविनाशिनी ॥ ८ ॥ १ 'देहसिद्धिकरमेव' ख. । २ 'बाधां हरेदियम्' ख. ।