रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
( २ ) मूषायन्त्रं . . . ४४ गर्भयन्त्रं . . . ४५ वज्रमूषा . . . " वरमूषा . . . ४६ प्रकाशमूषा . . . " अन्धमूषा . . . " भस्ममूषा . . . ५० शुल्बादीनां विभिन्नवर्णाः ज्वालाः . ५१ कोष्ठकं . . . ५३ महूकः . . . ५४ पञ्चमः पटलः ओषधिनिर्णयः . ५६-६७ रसनियामकौषध्यः . . ५७-५८ रसनिर्जीविकार कौषध्यः . . ५८-६० रसमारकौषध्यः . . ६०-६१ रसबन्धकरौषध्यः . . ६१-६२ द्राविकाः . . ६२ क्रामिकाः . . ६२-६३ मूलिकाः . . ६३ रसशोधन जारणे पञ्चगवं . . ६३-
( २ ) अम्लगणः . ६४ लवणाः . " महाविषाः . ६५ उपविषाः . " तैलानि . " मूत्राणि . " पित्तानि . " वसाः . " विषः . " रक्तवर्गः . ६६ पीतवर्गः . " शुक्लवर्गः . " द्रावणानि . " शोधनानि . " षष्ठः पटलः—अभ्रकादिलक्षणसंस्कारनिर्णयः ६७-८४ शक्तिचतुष्टयम्—अभ्रक-कान्त-वज्र-वैक्रान्तरूपम् ६८-८४ अभ्रकस्य उत्पत्तिः भेदाः शोधनादीनि च , ६८-७५ कान्तस्य भेदाः शोधनादीनि च . ७६-८० वज्रस्य उत्पत्तिः भेदाः मारणादीनि च , ८०-८१ वैक्रान्तस्य उत्पत्तिः भेदाः सत्त्वादीनि च , ८१-८४
( ४ ) सप्तमः पटलः—महारसोपरस-लोहलक्षणा- संस्कार-रत्नद्रावणमारणा-निर्णयः . ९५-१२५ महारसाः (माक्षिकाद्यष्ट) . ९५-१०७ माक्षिकस्य उत्पत्तिः भेदाः शोधनादीनि पर्यायश्च ९५-९८ विमलस्य शोधनादीनि . ९९ शैलस्यः उत्पत्तिः शोधनं पर्यायश्च . ९९-१०० चपलस्य भेदाः शोधनञ्च . १००-१०१ रसकस्य भेदाः शोधनादीनि पर्यायश्च . १०१-१०३ सस्यकस्य उत्पत्तिः शोधनं पर्यायश्च . १०३-१०५ दरदस्य भेदाः शोधनं पर्यायश्च . १०५-१०७ स्रोतोऽञ्जनस्य शोधनं . १०७ उपरसाः (गन्धकाद्यष्ट) . १०७-११५ गन्धकस्य उत्पत्तिः भेदाः शोधनञ्च . १०८-११० तालकस्य भेदौ शोधनञ्च . ११०-१११ शिलायाः (मनःशिलायाः) शोधनं . १११-११२ सौराष्ट्रा भेदौ शोधनञ्च . . ११२ काङ्क्षीसस्य भेदाः शोधनञ्च . . ” गैरिकस्य भेदाः शोधनञ्च . . ” राजावर्त्तस्य भेदौ शोधनञ्च . . ११३ कङ्कुष्ठस्य सत्त्वं . . . ”
( ५ ) लोहानि (सुवर्णादि षट्) • • ११५ सुवर्णस्य भेदाः शोधनञ्च • ११५-११६ रजतस्य भेदौ शोधनञ्च • . ११६ ताम्रस्य भेदौ शोधनञ्च • . ,, तीक्ष्णस्य भेदाः शोधनञ्च • , ११७ वङ्गस्य भेदौ • . . नागस्य (सीसकस्य) शोधनं • ११७-११८ लोहद्रावविधिः • • ११८-१२२ रत्नद्रावविधिः • • १२२-१२३ लोहमारणविधिः • • १२३-१२५ अष्टमः पटलः—बीजसाधनः • १२६-१४० महारसानां रागसंख्या • • १२६-१२८ बीजानां साधनं • . १२८-१३० द्वन्द्वमेलापनं – हेमाभ्रं, ताराभ्रं, वङ्गाभ्रं, नागाभ्रं, शुल्वाभ्रं, तीक्ष्णाभ्रं • १३०-१३२ बीजानां रञ्जनं • • १३३-१३४ पक्वबीजानि, तेषां रञ्जनञ्च • १३४-१४० नवमः पटलः—विड़कथनः • १४१-१४४ दशमः पटलः—रसशोधनः • १४५-१५६ रसस्य लक्षणं, नामानि, भेदाश्च • १४५-१४६
( ६ ) रसस्य स्वेदनं, मर्दनं, चारणं, जारणं, द्रावणं, रञ्जनं, सारणं, क्रामणं । स्वेदनात् तीव्रत्वं, मर्दनात् अमलत्वं, चारणात् बलकरणं, जारणात् बन्धनं, द्रावणात् एकत्वं, रञ्ज- नात् रक्तत्वं, सारणात् व्यापित्वं, क्राम- णात् क्रामित्वं . . १४६-१४७ रसस्य पञ्च गतयः पञ्च अवस्थाश्च . १४६ रस(पारद)दोषाः . १५० लिक्षादि-भारान्तानि परिमाणानि १५०-१५१ औषधस्वेदनं (समासं) . . १५२ सधानाम्लस्वेदनं . . ,, एकादशः पटलः—बालजारणाः १५६-१६३ रसस्य जारणा . . १५७ रसस्य बालजारणा . . १५७-१५८ अभ्रक (व्योम) जारणं . . १५८-१६३ अभ्रकसत्त्वस्य जारणं . १६३ रसस्य ग्रासदानं—जीर्णस्य च लक्षणम् १६४ त्रिविधा चारणा . . १६५ रसस्य ग्रासजारणं . . १६६
( ७ ) रसस्य सर्व्वदोषविनाशनं (जीर्णेन षड्गुणेन अभ्रकेण . . १६७ जीर्णाभ्रकस्य लक्षणं (पञ्च अवस्थाश्च) १६८ सर्व्वसत्त्वजारणं . . १६९ भूचरी जारणा . . १७०-१७२ खेचरी जारणा . . १७२-१७३ जारणान्तरं . . १७३-१७४ जारणाक्रमः . . १७४ रत्नजारणा . . १७६ सोमजारितरसस्य प्रभावः . १८१ सीसाभ्रजारणं . १८६ रसस्य संस्काराः (सप्त), तेषां च लक्षणानि १८८-१९० रसस्य शोधनादिक्रमाः-तज्ज्ञानेन च सिद्धिः १९१-१९३ द्वादशः पटलः- रसस्य बन्धनं . . १९४-१९८ रसस्य बन्धनान्तरं . . १९८-२०० रसस्य बन्धनान्तरं . . २०१-२०४ रसस्य बन्धनान्तरं . . २०४-२०६ रसस्य बन्धनान्तरं . . २०६-२०७ रसस्य बन्धनान्तरं . . २०७-२१०
)
- रसबन्धकरी उचटी (२१७)
- रक्तस्नुहीकल्पः (२१८)
- स्थूलपद्मिनीविधिः (२१६)
- कुमुदिनीविधिः (२२०)
- चित्रकविधिः (२२१)
- ज्योतिष्मतीतैलविधिः (२२३)
- रसबन्धकरी दग्धरोहा (२२४)
- रसबन्धकरी कटुतुम्बी (२२६)
- क्षीरकन्दविधिः (२२७)
- शाकवृक्षविधिः (२२८)
- देवदालीविधिः (२२८)
- श्वेतगुञ्जाविधिः (२३०)
- चन्द्रोदकेन रसबन्धनं (२३१)
- ... (२३४)
- ... (२३७)
- [विषतृणविधिः] (२४१-२४२)
- सञ्जीवनी(न)जलविधिः (२४२-२४७)
- उष्णोदकविधिः (२४७-२५१)
- शैलोदकविधिः (२५१-२६६)
This is from a major Rasashastra text! Look at the plants: उचटी, रक्तस्नुही, स्थूलपद्मिनी, कुमुदिनी, चित्रक, ज्योतिष्मती, दग्धरोहा, कटुतुम्बी, क्ष
( ९ ) गुटिकया अदृष्टत्वलाभः वर्षसहस्रजीवनञ्च २६३-२६६ रसभस्मरसायनं . . २६६-२७२ त्रयोदशः पटलः—द्रुतिबन्धनः . २७४-२८० वङ्गजारणा, त्रिविधबन्धनम् . २७४-२७६ द्रुतिबन्धः, द्रुतीनां मेलनम् . २७६-२८० चतुर्दशः पटलः—वज्रबन्धः . २८१-३१४ वज्रबन्धः (रसस्य) . . २८१-२८३ वज्रबन्धान्तरं (रसस्य) . . २८३-२८५ द्रव्यसंस्कारः . . २८५-२८६ वज्रभस्म . . . २८७-२८८ वङ्गभस्म . . . २८८-३०३ सिद्धरसः . . . ३०३-३०४ द्रुतबन्धः . . ३१२-३१४ पञ्चदशः पटलः—महारसोपरसलोहबन्धः ३१५-३५३ वैक्रान्तेन (महारसनाम्नापि ख्यातेन) रसबन्धः —वैक्रान्तबन्धः ३१६-३२४ वैक्रान्तसत्त्वेन रसबन्धः . ३१६ श्वेतवैक्रान्तेन ,, . . ३१८ रक्तवैक्रान्तेन ,, . . ३१८ कृष्णवैक्रान्तेन ,, . . ३२०
( १० ) पीतवैक्रान्तेन रसबन्धः . ३२१ नीलवैक्रान्तेन ,, . . ३२२ अयस्कान्तेन (महारसनाम्रापि ख्यातेन) —कान्तबन्धः . ३२४-३२५ चपलेन ,, —चपलबन्धः ३२५-३२७ गन्धकेन ,, —गन्धकबन्धः ३२७-३३५ तालकेन ,, —तालकबन्धः ३३५-३३६ कुनव्या (मनःशिलया) बन्धः ३३६-३३८ लोहैः माक्षिकादिभिश्च ,, ३३८-३५३ षोडशः पटलः—रसरञ्जनः . ३५४-३७२ रसद्रावणं . . ३५४-३५६ वज्रादिरत्नानां जारणं द्रावणञ्च . ३५६-३५८ जीर्णरसस्य कापालिरञ्जनम् . ३५८-३६० ,, नानाविधरञ्जनप्रकाराः ३६०-३७२ सप्तदशः पटलः—लोहवेधः . ३७३-३८६ रसस्य सारणं, प्रतिसारणम्, अनुसारणञ्च ३७३-३७४ रसस्य क्रामणं . . ३७४-३७५ हेमतारदलानि . . ३७५-३८७ तत्र हेमदलं . . ३७५-३८६ तथा तारदलं . . ३८६-३८७
( ११ ) रसवेधः . . . ३६७-३८८ उद्घाटः, रससिद्धनागः . . ३८८-३६६ अष्टादशः पटलः— . . ४००-४३६ देहशोधनं . . . ४००-४०१ आरोटसेवनम् . . . ४०१-४०२ श्वेतीकरणम् . . . ४०२-४०३ वज्रजीर्णरसभक्षणम् . . ४०३-४०४ लोहजीर्णभस्मरसभक्षणम् . . ४०४-४०५ हेमजीर्णभस्मरसभक्षणं वैक्रान्तजीर्णभस्मरसभक्षणञ्च . . ४०५-४०६ हेमादिजीर्णभस्मरसभक्षणफलम् . ४०६-४०९ रसवीर्यरक्षणोपायाः . . ४१०-४११ वज्रभस्मरसायनम् . . ४११-४१४ वज्रमत्त्वरसायने उपचारः . ४१४-४१५ मन्त्रहोमस्य दुर्गतिः . . ४१५-४१६ रसस्य क्रामणोपायाः . . ४१७-४१८ रससेवनकाले वर्जनीयानि . ४१८-४२० तत्काले सेवनीयानि . . ४२०-४२१ रसाजीर्णे अनिष्टानि . . ४२१-४२२ देहवेधः—त्वग्वेधः, मांसवेधः, रक्तवेधः,
( १२ ) अस्थिवेधः, मज्जवेधः, नाड़ीवेधः, धातुवेधः, कवचवेधः . ४२३-४२४ एतेषां वेधानां फलानि . ४२३-४२४ तक्रादिमर्दनम् . . ४२४ अजरामरत्वलाभः . . ४२५ वज्राङ्गसुन्दरीगुटिका . . ४२७ सर्व्वसिद्धिदा गुटिका . . ४२८ रसशास्त्रज्ञानविहीनस्य निन्दा . ४२६ अन्यत् गोलबन्धनम् . . ४३० अन्यः वज्रबन्धः . . ४३२ बद्धरसप्रभावकथनम्—तप्तकटाहे रससिद्धस्य पुंसः देहक्षेपणं, तत उत्थानम् , दिव्य- कन्यागमनम् , तया सह सिद्धलोके गमनम् , तत्र सर्व्वसुखभोगः, प्रलये विलयश्च . . . ४३३-४३६ ———
रसार्णवम् पारदादिरसोपरसविषयकं तन्त्रम् श्रीलश्रीयुक्त- वङ्गदेशीयासियाटिकसमितेरनुज्ञया कलिकाता-प्रेसिडेन्सीकलेजे रसायनोध्यापकेन डि. एस्सि.—पि. एच्. डि.—उपाधिद्वयधारिणा हिन्दुरसायनेतिहासप्रणेत्रा श्रीप्रफुल्लचन्द्र-रायेण तथा तस्यैव कलेजस्य संस्कृताध्यापकचरेण श्रीहरिश्चन्द्र-कविरत्नेन संकलितं संशोधितञ्च । कलिकाता-राजधान्याम् धौपवर्त्मनि २७ संख्यक-भवने सत्ययन्त्रे श्रीचितप्रसन्नशोपाध्यायेन मुद्रितम् पार्कवर्त्मस्थ-५७-संख्यकभवनात् प्रकाशितञ्च । शकाब्दाः १८३२ । Title Page of the first edition of Rasārṇava
The provided image is completely blank and contains no visible text to transcribe. Please upload a clear image of the page.
रसार्णवम् ।
ॐ श्रीगणेशाय नमः । प्रथमः पटलः । यस्मिन् सर्व्वं यतः सर्व्वं यः सर्व्वं सर्व्वतश्च यः । यश्च सर्व्वमयो नित्यं तस्मै सर्व्वात्मने नमः ॥ १ ॥¹ कैलासशिखरे रम्ये नानारत्नविभूषिते । नानाद्रुमलताकीर्णे गुप्तसंबन्धवर्जिते ॥ २ ॥ देवदेवं सुखासीनं नीलकण्ठं त्रिलोचनम् । प्रणम्य शिरसा देवी पार्व्वती परिपृच्छति ॥ ३ ॥ श्रीदेव्युवाच । देवदेव महादेव काल कामाङ्गदाहक । कुलकौल-महाकौल-सिद्धकौलादिनाशन ॥ ४ ॥
(1) The portion from the first śloka to the first hemistich of the 54th is wanting in the Bíkánír MS. (B). Ślokas from first to the 43rd are wanting in the Madras MS. (M). Rasārṇava, Vol. I. Fasc. I.
२ रसार्णवे त्वत्प्रसादाच्छ्रुतं सर्व्वमशेषमवधारितम् । यदि तेऽहमनुग्राह्या यद्यहं तव वल्लभा ॥ ५ ॥ सूचिता सर्व्वतन्त्रेषु या पुनर्न प्रकाशिता । जीवन्मुक्तिरियं नाथ कीदृशी वक्तुमर्हसि ॥ ६ ॥ श्रीभैरव उवाच । साधु साधु महाभागे साधु पर्व्वतनन्दिनि । साधु पृष्टं त्वया देवि भक्तानां हितकाम्यया ॥ ७ ॥ अजरामरदेहस्य शिवतादात्म्यवेदनम् । जीवन्मुक्तिर्महादेवि देवानामति दुर्लभा ॥ ८ ॥ पिण्डपाते च यो मोक्षः स च मोक्षो निरर्थकः । पिण्ड तु पतिते देवि गर्दभोऽपि विमुच्यते ॥ ९ ॥ यदि मुक्तिर्भवेत्क्षोभे किं न मुञ्चन्ति¹ गर्दभाः । अजाश्च वृषभाश्चैव किन्न मुक्ता गणाम्बिके ॥ १० ॥ तस्मात् संरक्षयेत्² पिण्डं रसेन्द्रैव रसायनैः
प्रथमः पटलः । ३ शून्यपापो मन्त्रयाजी^१ न पिण्डं धारयेत् क्वचित् । देवानामपि देवेशि दुर्लभं पिण्डधारणम् ॥ १४ ॥ किं पुनर्म्मानुषाणान्तु धरणीतलवासिनाम् । धर्म्मे नष्टे कुतो धर्म्मी धर्म्मि नष्टे कुतः क्रिया ॥ १५ ॥ क्रियानष्टे^२ कुतो योगः योगे नष्ट कुतो गतिः । गतिनष्टे^२ कुतो मोक्षो मोक्षे नष्टे न किञ्चन ॥ १६ ॥ (तेन पिण्डो महाभाग रक्षणीयः प्रयत्नतः ।)^३ श्रीदेव्युवाच । जीवन्मुक्तिस्वरूपं तु देवदेव श्रुतं मया । तत्प्रत्युपायं मे ब्रूहि यद्यस्ति करुणा मयि ॥ १७ ॥ श्रीभैरव उवाच । कर्म्मयोगेन देवेशि प्राप्यते पिण्डधारणम् । रसश्च पवनश्चेति कर्म्मयोगो द्विधा स्मृतः^४ ॥ १८ ॥ मूर्च्छितो हरते व्याधिं^५ मृतो जीवयति स्वयम् । बद्धः खेचरतां कुर्य्यात् रसो वायुश्च भैरवि ॥ १६ ॥^६ ज्ञानान्मुक्तः सुरेशाने ज्ञानं पवनधारणात् । (1) K reads शून्यपायामन्त्रजायी, which seems to be grammatically incorrect. (2) क्रियानष्टे - क्रियानाशे , गतिनष्टे - गतिप्रवृत्तौ [तु किञ्चन] K reads गती नष्टे, which is inc. (3) K adds the line within brackets without affixing a serial number to it. (4) स. द. सं. and रसकण्ठ- भरण read मृत. (5) स. द. सं. reads हरति व्यथान्. (6) The 18th and the 19th ślokas are quoted in स. द. सं.
५ रसार्णवे तत्र देवि स्थिरं पिण्डं यत्र स्थैर्ये रसः प्रभुः ॥ २० ॥ अचिराज्जायते देवि शरीरमजरामरम् । मनसश्च यथा ध्यानं¹ रसयोगादवाप्यते ॥ २१ ॥ सत्यं स² लभते देवि ज्ञानं विज्ञानपूर्व्वकम्³ । तस्य⁴ मन्त्राश्च सिध्यन्ति योऽश्नाति⁵ मृतसूतकम् ॥ २२ ॥ यावन्न शक्तिपातस्तु न यावत् पाश⁶कृन्तनम् । तावत्तस्य कुतो बुद्धिः⁷ जायते मृतसूतके ॥ २३ ॥ मद्यमांसरता नित्यं भगलिङ्गेषु ये रताः । तेषां विनष्टबुद्धीनां रसज्ञानं सुदुर्लभम् ॥ २४ ॥ कुलशासनहीनानां सङ्घर्षणमकाङ्क्षिणाम् । न सिध्यति रसो देवि पिबन्ति मृगतृष्णिकाम् ॥ २५ ॥ गोमांसं भक्षयेद्यस्तु पिबेदमरवारुणीम् । कुलोनं⁸ तमहं मन्ये रसज्ञमपरेऽधमाः ॥ २६ ॥ न गर्भेः संप्रदायार्थे⁹ रसो गर्भो विधीयते । तेनायं लभते सिद्धिं न सिद्धिः सूतकं विना ॥ २७ ॥
(1) र. चि. reads समाधानम्. (2) सत्त्वञ्च, a variant in र. चि. (3) र. चि. reads विज्ञान ज्ञानपूर्व्वकम्. (4) सत्य, a variant in र. चि. which is not appropriate here. (5) K reads अश्नुते in the sense of अश्नाति. (6) र. चि. reads शक्ति, which is tautological. (7) र. चि. reads शुद्धिः. (8) अहं तं कुलोनं कुकार्य्यलीनं कदाचारं मन्ये , कुलीनशब्दादुत्पन्नं कौलीनं लोकनिन्दा इत्यर्थः । अन्ये अधमाः त रसज्ञं मन्यन्ते इत्यर्थः । (9) We have adopted the reading in र. चि.
प्रथमः पटलः । ५ यावन्न हरबीजन्तु भक्षयेत् पारदं रसम् । तावत्तस्य कुतो मुक्तिः कुतः पिण्डस्य धारणम् ॥ २८ ॥¹ मद्यमांसरताप्रज्ञा² मोहिताः³ शिवमायया । जल्पन्ति च वयं मुक्ता यास्यामः शिवमन्दिरम् ॥ २९ ॥ पिण्डधारणयोगे च निस्पृहा मन्दबुद्धयः । खण्डज्ञानेन देवेशि रञ्जितं सचराचरम् ॥ ३० ॥ स्वदेहे खेचरत्वं च शिवत्वं येन लभ्यते । तादृशे तु रसज्ञाने नित्याभ्यासं कुरु प्रिये ॥ ३१ ॥ श्रीदेव्युवाच । अवतारं रसेन्द्रस्य माहात्म्यं तु सुरेश्वर । श्रोतुमिच्छामि देवेश वक्तुमर्हसि तत्त्वतः ॥ ३२ ॥ श्रीभैरव उवाच । साधु पृष्टं महाभागे गुह्याद्गुह्यतरं त्वया । अनुग्रहकरं ध्यानं लोकानामुपकारकम् ॥ ३३ ॥ त्वं माता सर्व्वभूतानां पिता चाहं सनातनः⁴ । द्वयोश्च यो रसो देवि महामैथुनसम्भवः ॥ ३४ ॥ स्वैरतः सम्भवाद्देवि⁵ पारदः कीर्त्तितो महः⁶ । (1) र. चि. exactly quotes this śloka. (2) K reads मद्यमांसरता प्रज्ञा, which is inc. (3) K reads मोहिता, which seems to be an error of the scribe. (4) K reads सनातनम्, which is inc. This śloka (34th) is also found in र. चि. (5) K reads स्वरत्सम्भवोद्देवि, which is absurd, being gram. untenable. (6) K reads महा, which is inc.
६ रसार्णवे पारदो गदितो यश्च परार्थं साधकोत्तमैः ॥ ३५ ॥ सूतोऽयं¹ मत्समो देवि मम प्रत्यङ्गसम्भवः । मम देहरसो यस्मात् रसस्तेनायमुच्यते² ॥ ३६ ॥ दर्शनात् स्पर्शनात् तस्य भक्षणात् स्मरणादपि³ । पूजनाच्च प्रदानाच्च⁴ दृश्यते षड्विधं फलम् ॥ ३७ ॥ केदारादीनि लिङ्गानि पृथिव्यां यानि कानि च⁵ । तानि दृष्ट्वा तु यत्पुण्यं तत्पुण्यं रसदर्शनात् ॥ ३८ ॥ चन्दनागुरुकर्पूरकुङ्कुमान्तर्गतो रसः । मूर्च्छितः शिवपूजायां⁶ शिवसान्निध्यसिद्धये ॥ ३९ ॥ भक्षणात् परमेशानि हन्ति पापत्रयं रसः । तथा तापत्रयं हन्ति रोगान् दोषत्रयोद्भवान् ॥ ४० ॥ दुर्लभं ब्रह्मनिष्ठातैः⁷ प्राप्यतं परमं पदम् । हृद्व्योमकर्णिकान्तःस्थ-रसेन्द्रस्य महेश्वरि ॥ ४१ ॥⁸ स्मरणान्मुच्यते⁹ पापैः सद्यो जन्मान्तरार्जितैः ॥ ४२ ॥ स्वयंभूलिङ्गसाहस्रैः¹⁰ यत्फलं सम्यगर्च्यनात् । (1) स. द. सं. reads सुतोऽयम्. (2) K reads रसमेनं समुच्यते, which is gram. inc. We have adopted the variant in स. द. सं. (3) र. चि. reads स्मरणात् प्रिये. (4) स. द. सं. reads पूजनात् रसदानाच्च. This variant exactly agrees with that in र. चि. (5) स. द. सं. and र. चि. read कानिचित्. (6) शिवपूजा सा, a variant in र. चि. (7) र. चि. reads ब्रह्मविष्ण्वाद्यैः. (8) The reading in र. चि. is as follows :—तद्वोमकर्णिका- न्तःस्थं रसेन्द्रं परमेश्वरि. (9) स्मरन् विमुच्यते, a variant in र. चि. (10) K reads साहस्तैः,;which is inc.
प्रथमः पटलः । ७
तत्फलं कोटिगुणितं रसलिङ्गार्च्चनाद्भवेत् ॥ ४३ ॥ अधमः खगवादस्तु¹ बिलवादस्तु मध्यमः । उत्तमो मन्त्रवादस्तु रसवादो महोत्तम² ॥ ४४ ॥ मन्त्रतन्त्रपरिज्ञाने रसयोगस्य³ दूषकाः⁴ । प्रयान्ति नरकं⁵ सर्व्वे कृत्वा सुकृतसञ्चयम् ॥ ४५ ॥ रसविद्या परा विद्या त्रैलोक्येऽपि सुदुर्लभा⁶ । भुक्तिमुक्तिकरी यस्मात् तस्माद्धेया गुणान्वितैः ॥ ४६ ॥ अस्तीति भाषते कश्चित् कश्चिन्नास्तीति भाषते । आस्तिके तु भवेत्सिद्धिः⁸ तस्य सिद्ध्यति भूतले ॥ ४७ ॥ नास्तिकेनानुभावेन⁹ नास्ति नास्तीति यो वदेत् । तस्य नास्ति प्रिये सिद्धिर्जन्मकोटिशतैरपि ॥ ४८ ॥ ब्रह्मज्ञानिन मुक्ताऽसौ पापी यो¹⁰ रसनिन्दकः ।
(1) M reads खन्यवादस्तु. रससार reads शून्यवाद in place of खगवाद, and क्षेत्रवाद in place of बिलवाद. (2) रसवादात्तमोत्तमः, a variant in M, which is gram. inc. (3) रसो योगस्य, a variant in K, which seems to be inc. M reads रसवादस्य. (4) K reads दूषकः, which is inc. M reads भूषकाः, which deteriorates the sense. (5) K reads रसकं, which has no sense here. (6) M reads च दुर्लभा, which agrees with र. चि. (7) मुक्ति- भुक्तिकरी यस्मात् तस्माज्ज्ञेया गुणान्विता is the reading in र. चि. (8) अस्तीति भाषते यंस्तु, a variant in M. (9) नास्तिकेन तु वादेन, a variant in M. (10) M reads पापीयान्. सोऽयुक्तो यः पापी, a variant in र. चि.