रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 120, कुल 799 में से
संदर्भ में पढ़ें७८ रसतरङ्गिणी अथ रसपूजनम् अघोरेण च मन्त्रेण खल्वे संस्थापितं रसम्। गन्धधूपादिभिः प्राज्ञः पूजयेद्भिषजां वरः ॥ २० ॥ अघोरमन्त्रेणेति—अघोरमन्त्रश्च रुद्राध्यायोक्तः—"अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यश्च । सर्वतः सर्वसर्वेभ्यो नमस्ते रुद्ररूपेभ्यः” ॥ २० ॥ भा.टी.—शोधन करने से पूर्व पारद का खरल में डालकर सुगन्धि धूप, आदि के साथ अघोरमंत्र से पारद की पूजा करनी चाहिए ॥ २० ॥ वक्तव्य—रुद्राध्याय में वर्णित अघोरमन्त्र इस प्रकार पाया जाता है “अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यश्च । सर्वतः सर्वसर्वेभ्यो नमस्ते रुद्ररूपेभ्यः" । अथ रसस्य साधारणशोधनम् आधिव्याधिविनाशाथं प्रयोगार्थं रसेषु च । सामान्यं शोधनं शस्तं रसतन्त्रविशारदैः ॥ २१ ॥ साधारणशोधनफलमाधिव्याधिविनाशः रसप्रयोगयोग्यता चेत्यवधेयम्। २१। भा.टी.—शारीरिक तथा मानसिक रोगों को दूर करने तथा विभिन्न रसों में प्रयोग करने के लिये रसतन्त्रविशारद पारद का सामान्य शोधन करना आवश्यक बताते हैं ॥ २१ ॥ प्रथमः शोधनप्रकारः धूमेष्टिकादृष्टविलासिनिनां सोयैस्तु चूर्णैः परिमर्द्य सूतम् । प्रक्षालयेदम्लजलेन सम्यक् ततो रसो मुञ्चति नागदोषम् ॥२२॥ मृगेक्षणाङ्कोलविशोथचूर्णैः सूतो जहातीह तु वङ्गदोषम् । चित्रोऽग्निदोषं विनिहन्ति शीघ्रं दोषं मलोत्थं खलु राजवृक्षः ॥२३॥ चापल्यहारी खलु कृष्णधूर्तो विषापहर्त्री त्रिफला प्रशस्ता । दोषं गिरेस्त्र्यूषणमाशु हन्यात् त्रिकण्टको वह्न्यसहत्वदोषम् ॥२४॥ चूर्णं कलांशप्रमितं तु सूतात् सकन्यकं भाषितभेषजानाम् । विमर्दयेत्खल्वगतं दिनैकं प्रक्षालयेच्चापि ततोऽम्लतोयैः ॥ २५ ॥ रीत्यानया शोधित ईशसंज्ञः सत्यं भवेत्कञ्चुकदोषहीनः । इत्थं विशुद्धं खलु सूतराजं नियोजयेद्वैद्यवरो रसेषु ॥ २६ ॥ साधारणशोधनप्रकारमाह धूमेष्टिकेत्यादिना-धूमः महानसादौ इन्धनानि ष्ठाञः धूमनिःसारकान्तःसुषिरस्तम्भविलग्नो धूमः, इष्टिकापक्केष्टिका हट्टविला-