रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 129, कुल 799 में से
संदर्भ में पढ़ेंपञ्चमस्तरङ्गः ८७ मर्दनस्य द्वितीयः प्रकारः इष्टिकाचूर्णं सैन्धवं यामिनी गेहधूमो गुडश्चासुरी नागरम् । षोडशांशं क्षिपेत्सर्वमेतद्रसान्मर्दयेत् पारदं वासराणां त्रयम् ॥५७॥ इष्टिकाचूर्णेत्यादिनाऽपरो मर्दनप्रकारो व्याख्यातः। केचित्त्वत्र हरिद्रानागर- स्थाने दधि प्रक्षिपन्ति, अपरे सप्तदिनान्यपि मर्दनमाहुः ॥ ५६ ॥ भा. टी.—ईंट-का चूर्ण, सैन्धानमक, हल्दी, घर का धुआँ, गुड़, राई तथा सोंठ को पारद से षोडशांश लेकर पारद के साथ खरल में तीन दिन तक मर्दन करें ॥ ५६ ॥ मूर्च्छनस्वरूपम् गृहकन्यादिभिर्द्रव्यैर्नष्टपिष्टत्वसाधनम् । दोषत्रयनिवृत्त्यर्थं तन्मूर्छनमिहोच्यते ॥५७॥ स्वरूपत्यागसहितं पिष्टत्वकरणं हि यत् । रसज्ञैर्जितसूतोऽसौ नष्टपिष्ट उदाहृतः ॥ ५८ ॥ मूर्च्छनस्वरूपम्—दोषत्रयाणां मलवह्निविषाणाम्, यदुक्तम्— “मर्दनेोद्दि- ष्टभैषज्यैर्नष्टपिष्टत्वकारकम् । तन्मूर्छनं हि वह्निमलविषकाञ्चुकनाशनम्” इति ॥ अथ नष्टपिष्टस्य लक्षणमाह—यत् स्वरूपस्य चाञ्चल्यादेः त्यागसहितं रसस्य पिष्टत्वकरणं असौ रसज्ञैर्नष्टपिष्ट उक्तः, स च फलतः जितसूतः चाञ्चल्या- दिविनिवारणादिति भावः ॥ ५७-५८ ॥ भा. टी.—पारद के मल, वह्नि तथा विष दोषों को दूर करने के लिये घीकुआर आदि द्रवों के साथ पारद का मर्दन करते हुए नष्टपिष्ट करना मूर्च्छन संस्कार कहा जाता है ॥ ५७-५८ ॥ मूर्च्छनस्य प्रथमः प्रकारः कुमारिका मलं हन्ति वरा दहननाशिनी । चित्रमूलं विषं हन्ति तस्मादेभिः प्रयत्नतः ॥५६॥ मर्दितं सूतकं द्रव्यैः सप्तवाराणि मूर्च्छयेत् । एवं सम्मूर्च्छितः सूतो दोषैः सर्वैः प्रमुच्यते ॥६०॥ मूर्च्छनस्य द्वितीयः प्रकारः यवाग्रजः स्वर्जिका च तथा लवणपञ्चकम् । अम्लोषधानि विबुधः प्रक्षिप्य सूतके दृढम् ॥६१॥