रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 141, कुल 799 में से
संदर्भ में पढ़ेंपञ्चमस्तरङ्गः ६६ इयतीत्युच्यते याऽसौ ग्रासमानं समीरितम् ॥ चतुःषष्ट्यंशकः पूर्वो द्वात्रिंशांशो द्वितीयकः । तृतीयः षोडशांशस्तु चतुर्थोऽष्टांश एव च ॥” एतद्विस्तारो रसार्ण- वादावनुसन्धेयः । एतस्योपयोगो गर्भद्रुतिसंस्कारे वक्ष्यमाणे । चारणा यथा— “रसस्य जठरे ग्रासक्षेपरां चारणा मता ॥” तत्प्रकारो रसपद्धत्यां—“तप्ते तीक्ष्णसमुद्भवे सुविमले खल्वेऽथ सूतं क्षिपेत् पादांशं कनकं विमर्च्य शनकैर्दत्वाऽ म्लजम्बीरकम् । पात्रे जम्बलवारिणा सुविपुले काचोद्भवे पूरिते स्थाप्यं सूर्य- खरातपे पटुतरं वस्त्रं ततो मर्दितम् ॥ तस्मिन्नेव दिने पुनर्ददीत विमलं सा चारणा संस्मृता••••॥” इति । अथ गर्भद्रुतिः—“ग्रस्तस्य द्रवणं गर्भे गर्भद्रुति- रुदाहृता।” इति लक्षिता । “व्योमसत्त्वं समांशेन ताप्यसत्त्वेन संयुतम् । साकल्येन चरेद्देवि गर्भद्रावी भवेद्रसः ॥” गर्भद्रुतिमन्तरेण च व्योमसत्त्वादिजारणा- भावात् आवश्यकतैतस्याः । तथा च—“वह्निव्यतिरेकेणापि रसग्रासीकृतानां लोहादीनां द्रवत्वं गर्भद्रुतिः” इति रसमाधवो व्याजहार । “शिलया निहतं नागम् ताप्यं वा सिन्धुना हतम् । ताभ्यान्तु मारितं बीजं सूतके द्रवति क्षणात् ॥” इति च “बीजानां संस्कारः कर्तव्यः कोऽपि तादृशः प्रथमम् । येन द्रवन्ति गर्भे राज- राजस्याम्लयोगेन ॥” इति च श्री गोविन्दभगवत्पादाचार्याः । अयञ्च गर्भ- द्रावको योगोऽनुसन्धेयः—“सैन्धवेन समं ताप्यं घर्मे मर्च्यं पुटे पचेत् । पुनर्मर्च्यं पुनः पाच्यं यावद् द्वादशवारकम् ॥ अस्य तुल्यं मृतं नागं सर्वमम्लेन पेषयेत् । अनेन वर्णपत्राणि लिप्तानि प्रधमेद् दृढम् ॥ द्रुतञ्च वापितं त्तत् सप्तवारं पुनः पुनः । एतद्बीजं रसेन्द्रस्य गर्भे द्रवति मर्दनात् ॥” तथा “शिला सौवर्चलं ताप्यं गन्धकासीसटङ्कणम् । मर्दयेच्चणकाम्लेन सर्वमेतद्दिनावधि ॥ रसस्यैतत् षोडशांशं दत्त्वा बीजं च दापयेत् । दीयते यत्र यत्रैवं तत्र द्रवति मर्दनात् ॥” इति । अथ बाह्या द्रुतिः—“बहिरेव द्रुतं कुर्यादभ्रसत्त्वादिकं खलु । जारणाय रसेन्द्रस्य सा बाह्या द्रुतिरुच्यते ॥” इत्युक्तरूपा, तद्दिङ्मात्रं यथा--“कपिति- न्दुवालफलैः समं धान्याभ्रकं दृढम् । मर्दयेद्दिनमेकन्तु काचकुप्यां निवेशयेत् ॥ नरकेशैर्मुखं रुध्वा कूपिकां लेपयेन्मृदा । पुटेत् पातालयन्त्रेण दिनान्ते द्रुतिमा- प्नुयात् ॥” इति । तथा “कुसुम्भतैलमध्ये तु संस्थाप्या द्रुतयः पृथक् । तिष्ठन्ति चिरकालन्तु प्राप्ते काले नियोजयेत् ॥” इति । एतत्फलन्तु—“बाह्यद्रुतिस्तु केवलं शुद्धमेव रसं मिलिता बध्नाति । फलमस्या दीर्घायुष्ट्वम् । पूर्वोक्तग्रासक्रम- जारणेन पूर्वोक्तफलप्रदत्वं वा ।” इत्यादिनोक्तं रसमाधवेन । केचित्तु लुप्तसम्प्र- दायत्वात्—“द्रुतयोऽपि न दृष्टास्ते शास्त्रे दृष्टा अपि ध्रुवम् । विना शम्भोः