रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 142, कुल 799 में से
संदर्भ में पढ़ें१०० रसतरङ्गिणी प्रसादेन न सिद्ध्यन्ति कदाचन ॥” इत्याहुः । अत्र विशेषश्चिन्तनीय एवेति । जारणलक्षणा मुक्तम्प्राक् । तत्प्रकारस्त्वेवंविधः स्मृत आचार्यै रसरत्नाकरे--“स्वर्णं नागं समावर्त्य माषमात्रन्तु घर्षयेत् । तप्तखल्वे ततस्तस्मिन् पलमेकं रसं क्षिपेत् ॥ सिद्धमूलीद्रवं दत्वा मर्दयेत् काञ्जिकैर्दिनम् । घर्मे वा तप्तखल्वे वा ततो ग्रासन्तु दापयेत् ॥ चतुःषष्ट्यंशकं पूर्वं द्वन्द्वसत्त्वं सुभावितम् । दत्वा धर्मे दिनैकञ्च चारणायन्त्रके क्षिपेत् ॥ सजम्बीरे दिनं घर्मे धारितश्चरति ध्रुवम् । त्रिछारं पञ्च- लवणमम्लवर्गः स्नुहीपयः ॥ गोमूत्रैर्गोलयेत्सर्वं तेन वस्त्रं घनं दिहेत् । तन्मध्ये धारितं सूतं बद्ध्वा भूर्जेन वेष्टयेत् ॥ सिद्धमूल्यम्लसंयुक्ते दोलायन्त्रे त्र्यहं पचेत् । उद्धृत्योष्णारेनालेन क्षालयेल्लोहपात्रके ॥ वस्त्रपूतं ततः कृत्वा सोष्णे पात्रे विमर्दयेत् । हस्तेनैव भवेच्छुष्कं यावत्तं पारदं पुनः ॥ चतुर्गुणेन वस्त्रेण गाल- येन्निर्मलो भवेत् । अजीर्णांशे त्पुनर्मर्द्यमम्लं दत्वा दिनावधि ॥ दोलायां स्वेद- येत्तावद्द्रवेज्जीर्णान्न संशयः ॥” इति । अत्र च चरति ध्रुवमित्यन्तं चारणाप्रकारः, त्रिछारं पञ्चलवणमित्यारभ्य च जारणाप्रकारोऽनुसन्धेयः । अयञ्च बीजजारणा- प्रकारो मूलेऽनुक्तः कथितः । गन्धकजारणप्रकारस्तु मूल एवोक्त इति नेहोक्तो माभूत्कालस्य व्यत्यय इति । इयञ्च समुखा जारणा, बीजावापयोगात् । निर्मुखा जारणा तु दिव्यौषधिसमायोगात्प्राचीनपरम्पराप्रसिद्धा इदानीं लुप्तप्राया चेति॑ । अथ रञ्जनम्-“सुसिद्धबीजधात्वादिजारणेन रसस्य हि । पीतादिरागजननं रञ्जनं परिकीर्तितम् ॥” “केवलं निर्मलं ताम्रं वापितं दरदेन तु । कुरुते त्रिगुणं जीर्णे लाक्षारसन्निभं रसम् ॥” इत्यादिनाऽनुसन्धेयम् । विस्तरस्तु--“खर्परस्थे द्रुते नागे ब्रह्मबीजदलानि तु । क्षिप्त्वाग्निं ज्वालयेच्चण्डं ब्रह्मदण्डेन चालयेत् ॥ चतुर्थ्यामात्तु तद्भस्म जातं पात्रात्समुद्धरेत् । तद्भस्म गन्धकं तुल्यं याममम्लेन मर्दयेत् ॥ रुद्ध्वा गजपुटे पश्चात् पादांशं गन्धकं पुनः । दत्वाम्लैर्मर्दितं पश्चादेवं वारांश्चतुर्दश ॥ रक्तवर्णो भवेद्भस्म तद्भागं खर्परं क्षिपेत् । भागत्रयं शिलाचूर्णं पृथक्पात्रे विनिक्षिपेत् ॥ पञ्चाङ्गवासकाच्चूर्णं त्वक्चूर्णाञ्चार्जुनस्य च । शाककिंशुककोरटशिग्रूणां पुष्पमाहरेत् ॥ नागिनी नागकन्या च कुमारी चाहिमारकः । सर्वेषां प्रतिभागेकं शिलामध्ये विनिक्षिपेत् ॥ तेभ्यश्चतुर्गुणैर्मूत्रै- श्छागगैः क्वाथमाहरेत् । पूर्वोक्तं भस्म नागस्य खर्परस्य च संक्षिपेत् ॥ चालयन् पाचयेच्चुल्ल्यां यावत्सप्तदिनावधि । अनेन मृतनागेन वापो देयो द्रुतस्य च ॥ पञ्चबीजस्य भागांस्त्रीन् रञ्जितं जायते शुभम् ॥” इत्यादिना रसरत्नाकरादौ कण्ठोक्त्यावलोकनीयः । सारणा--“सूते सतैल-यन्त्रस्थे