रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 145, कुल 799 में से
संदर्भ में पढ़ेंउपचारात्, उपचर्य्यमाणं हि फलमेव तत्तत्क्रियया निर्देश्यम्, तथाच— सहकारिसंयोगविशेषद्रुतगन्धादिग्रासानां स्वरूपक्षयोत्तरं तथाविधः परिणामः फलं, तत्साधकङ्कर्म च जारणा, गन्धादिग्रासजारणसाधनत्वात् । अत एव गन्धकजी- र्णोऽभ्रजीर्णो हेमजीर्णो रस इति व्यवहारः । "ग्रस्तस्य चारणं गर्भे द्रावणं जारणन्तथा । इति त्रिरूपा निर्दिष्टा जारणा वरवार्तिकैः ॥” इत्यादिकन्तु पूर्वा- भिभूतं क्रियाकलापमपेक्ष्योक्तम् । चारणगर्भद्रावणयोः संस्कारान्तरत्वाच्च, अन्यथा संस्काराष्टादशत्वं भज्येत । तस्माद् “द्रुतग्रासपरीणामो जारणा" इति पुष्कलम् । तत्प्रकाराश्चानेके— "प्रकाराः शान्तिकोटिशः” इत्युक्तत्वात् । एता- वता च “गालनपातनव्यतिरेकेण" इत्यादिमाधवोक्तजारणलक्षणे गालनशब्दस्य वस्त्रादिगालनमर्थोऽनुसन्धेयः । अत्रच "द्रुतग्रासक्षय एव जारणा"। पूर्वावस्था- प्रतिपन्नत्वन्तु न लक्षणनिवेशायावश्यकं, तस्य ग्रासक्षयोत्तरं स्वतः सम्भवित्वात् । यच्च "मूर्च्छना जारणा चेत्यनर्थान्तरं प्रायः” इत्युक्तं तेन तदपि स्वोक्तिविरोधा- दुपेक्ष्यम् । “पूर्वावस्थाप्रतिपन्नात्वं जारण" इति तेनोक्तम् । मूर्च्छनायान्तु न पूर्वावस्थाप्रतिपन्नेतेति सुमहान् भेदः । मूर्च्छना च “भस्मभिन्नत्वे सति रसभक्ष- णयोग्यतापादकङ्कर्म ।” अवश्यव्याधिघातश्चास्याः फलमित्यलमधिकाम्रेडितेन ॥१॥ भा. टी.—गन्धक अथवा बिना गन्धक योग के ही पारद में जो निश्चित रोगनाशक शक्ति उत्पन्न करना है उसे मूर्च्छना कहा जाता है ॥ १ ॥ वक्तव्य—मूर्छना संस्कार से मूर्छना को भिन्न समझना चाहिए। क्योंकि मूर्छना संस्कार से पारद में निश्चित रोगनाशक शक्ति नहीं आती है; किन्तु मूर्च्छना संस्कार पारद की निश्चित रोगनाशक शक्ति की उत्पत्ति में सहायक है। मूर्च्छनाया द्वौः भेदौ निर्गन्धा च सगन्धा च मूर्च्छना द्विविधा मता । निर्गन्धा गन्धरहिता सगन्धा गन्धसंयुता ॥२॥ निर्गन्धा रसपुष्पादौ मूर्च्छना परिकीर्तिता । सगन्धा तु विशेषेण रससिन्दूरकादिषु ॥३॥ निर्गन्धसगन्धादिभेदेन मूर्च्छनाप्रकारा बहवः । रससिन्दूरकादिषु इत्यत्र आदिना पर्पट्यादिग्रहणम् । रसरत्नसमुच्चये पर्पट्यादयो बन्धभेदेपूक्ताः, वस्तु- तस्तु बन्धभेदविशेष एव फलविशेषान्मूर्च्छनाशब्दवाच्य इत्यवधेयम् ॥ २-३ ॥