भारतकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 203, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 203

वरागिरिजतुव्योषैः शृङ्गवेररसभावितैः । मृतः सूतो हरेत्सत्यं प्रमेहान् सकलानपि ॥ ६६ ॥ मूर्वास्वरससंयुक्तो मृतः सूतोऽतिदारुणाम् । मसूरिकां निहन्त्येव लेपनाद् भक्षणादपि ॥ ६७ ॥ कन्यामूलरसेनाथ तण्डुलीयजलेन वा । मृतः सूतो द्रुतं हन्याद् विषं स्थावरजंगमम् ॥६८॥ तण्डुलोदकसंयुक्तो यथाविधि मृतो रसः । नस्ये पाने विशेषेण विषार्तस्य प्रशस्यते ॥६९॥ गोपुरीषसलिलेन भावयेत् सप्तधेह घनसारमुत्तमम् । तद्युतः खलु मृतो रसेश्वरः स्थावरादिविषभेदनाशनः ॥७०॥ नृमूत्रपिष्टेन पुनर्नवायाः बीजेन मूलेन रसान्वितेन । मृतो रसेशः खलु लेपनेन विषं सदा वृश्चिकजं निहन्ति ॥७१॥ वन्ध्याकर्कोटकामूलफलेनापि समन्वितः । सूतः सुदारुणं हन्ति विषं स्थावरजंगमम् ॥७२॥ कपित्थफलसंयुतोऽथ खलु देवदालीयतः सधूममदनोऽथवा तु शरपुङ्खबीजान्वितः । मृतः खलु रसेश्वरो ह्यविरतं प्रलेपादिना निहन्ति भृशदारुणां प्रमदमूषिकाणां विषम् ॥७३॥ नागिनीरसपिष्टेन नागरेणोह कांस्यके समन्वितो रसो हन्याद् वृश्चिकार्ति सुदारुणाम् ॥७४॥ “रसायनं त्रिदोषघ्नी योगवाह्यतिशुक्रलः। भस्मसूतोऽखिलातङ्कनाशनस्त्वनु- पानतः ॥” इति हि प्राञ्च आहुः, तस्मादनुपानविशेषानुदाहरति दिङ्मात्रम् । पांशुरिति-पांशुः पर्पटम्, सुरसा तुलसी, सिंहिका बृहती, क्षीरवृक्षा न्यग्रोधोदुम्बरा- श्वत्थप्लक्षकवेतसपादपाः, पञ्चपल्लवं आम्रजम्बूकपित्थबीजपूरबिल्वानां पत्राणि, रसालः आम्रः, कणा पिप्पली, जलं वालकम् , वैदेही पिप्पली, शम्बूकः क्षुद्रशङ्खस्तस्य क्षारं भस्मेति यावत् , कटुः कटुकी, तिक्तकं पटोलं निम्बो वा, कटुतिक्तकं वा भूनिम्बः, विश्वं शुण्ठी, त्रिपुटीफलतैलं एरण्डस्य तैलम् , पुरकः गुग्गुलः, समीरशोणितं वातरक्तम्, रुबूकः एरण्डः, शशाङ्कलेखा सोमराजी, मार्कवो भृङ्गराज, किलासं श्वित्रम् । कृमिघ्नो विडङ्गः, त्रिपर्णा पलाशस्तस्य बीजानि ग्राह्याणि, माक्षिकं मधु । वीरवृक्षो भल्लातकः, वरी शतावरी, मोचामूलं