भारतकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 202, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 202

सव्योषेण तिलक्वाथेनामशूलं व्यपोहति । शम्बूकक्षारसहितः पक्तिशूलनिबर्हणः ॥५१॥ मूत्रयुतः कटुतिक्तकविश्वक्वाथयुतो हरतीह हि शोफम् । दारुनिशात्रिफलाक्वथिताढ्यः कामलिनां खलु मङ्गलकारी ॥५२॥ नवोद्धतस्नुहीक्षारद्रवभावितया भृशम् । हरीतक्या युतः सूतो जठरामयनाशनः । ५३॥ त्रिकटुत्रिफलामरिचप्रथितत्रिपुटीफलतैलयुतः पुरकः । मृतसूतयुतो नियतं त्वचिरात् चिरजां विनिहन्ति हि तुन्दिलताम् ॥५४॥ रसोनसिद्धेन तिलोद्भवेन तैलेन सार्द्धन्तु रसो निपीतः । वातोद्भवानत्र बहून् विकारान् निहन्ति घोरानपि वा चिरोत्थान् ॥५५॥ हरीतकी गुडूचिका जलं गुडः समं समम् । विचूर्णितेन योजितो हरेत्समीरशोणितम् ॥५६॥ विश्वभेषजरुबूकसंस्कृतः क्षीरकेण विनियोजितो रसः । गृध्रसीं हरति दीर्घकालजामन्धकारपटलीं यथा रविः ॥५७॥ शशाङ्कलेखया तथा फलत्रिकेण संयुतः । समार्कवो मृतो रसो निहन्ति वै किलासकम् ॥५८॥ कृमिघ्ननिम्बदाडिमत्रिपर्णचूर्णसंयुतः । समाक्षिकस्तु पारदो मृतो हरेत्कृमीन् द्रुतम् ॥५९॥ राजिकानलरसोननीलिकाभृङ्गराजमृदुपल्लवैः समम् । वीरवृक्षफलसंयुतं पचेत्तैलमत्र पयसा समन्वितम् ॥६०॥ अनेन तैलेन युतो रसेशः कुष्ठान्यशेषाणि निहन्ति शीघ्रम् । यथा मृगेन्द्रो वनमध्यचारी मृगानुपैतानिह निर्विशङ्कः ॥६१॥ वरोबलावाजिगन्धामोचामूलकषायकैः रसेश्वरो हरेत्कार्श्यं मासद्वयनिषेवितः ॥६२॥ सौवर्चलत्र्यूषणहिङ्गुमूत्रैर्विपाचितेनेह घृतेन युक्तः । रसेश्वरः सप्तदिनप्रयोगात् सर्वानपस्मारकफान्निहन्ति ॥६३॥ मधूकपारावतविड्-युतेन मनःशिलायाः खलु चूर्णकेन । रसाऽञ्जनाद्दारुणलक्षणान्यानुन्मादरोगान्विनिहन्ति शीघ्रम् ॥६४॥ मृतं रसेशं मधुना विलिह्य क्षौद्रान्वितं कोष्णजलं पिबेद्यः । स्थौल्यात्तु मेदःप्रभवान्नितान्तं चिरोत्थिताञ्चापि विमुच्यतेऽसौ ॥६५॥