भारतकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 223, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 223

अष्टमस्तरङ्गः १८३ ज्योतिष्काबीजतैलं खलु विधिविहितं श्लक्ष्णचूर्णं वचायाः गव्यञ्चाज्यं नवीनं दधिभवममलं तुल्यमेतत्त्रयं स्यात् । पामारिनष्टगन्धद्वितयपरिमितः सेवितो मासमात्रं यक्ष्माणञ्चान्त्रशोषं हरति हि चपलं गण्डमालाञ्चभीष्माम् ॥ ४७ ॥ दिव्या दृष्टिः सन्ततं वार्यवृद्धिश्चिरो तुष्टिर्निर्भरं देहपुष्टिः । शौर्योत्कर्षो जायते वज्रमुष्टिर्नष्टातङ्को मासमात्रप्रयोगात् ॥ ४८ ॥ कोलैकप्रमितं गन्धमूर्ध्वपातनशोधितम् । नवकोलप्रमितया स्वच्छया सितया सह ॥ ४९ ॥ श्लक्ष्णं पिष्ट्वा निर्मलायां काचकुप्यां भिषग्वरः । न्यस्य काचपिधानेन मुखं त्वस्याः प्ररोधयेत् ॥ ५० ॥ गुञ्जैकप्रमिता मात्रा शीतलेन जलेन वै । काले संसेविता तूर्णं शुक्रदोषं विनाशयेत् ॥ ५१ ॥ जलवत्तद्रवं शुक्रं नष्टगन्धं तथैव च । विशुद्धं फलवत्सान्द्रं मधुगन्धि करोति हि ॥ ५२ ॥ मृदारशृङ्गं सौभाग्यं कर्पूरं गन्धकन्तथा । सर्व मेतत्समं ग्राह्यं चूर्णमेषां प्रकल्पयेत् ५३ ॥ नारिकेलस्य तैलेन परिलिप्ता ह्यनारतम् । पामा नश्यति सप्ताहाच्चिरजापि सुदारुणा ॥ ५४ ॥ सौभाग्यं शालनिर्यासः स्फुटिका च सुगन्धिकः । सर्वं समं समादाय चूर्णयेद् भिषजाग्रणीः ॥ ५५ ॥ निम्बूकस्वरसेनाथ सततं परिलेपनात् । विद्रावयति दद्रूणि द्रुतं नास्तीह संशयः ॥ ५६ ॥ शाल्मलीलघुमूलस्य चूर्णेन विमलं बलिम् । भक्षयेन्मासमेकन्तु शौर्यं वीर्यं विवर्धयेत् ॥ ५७ ॥ विशोधितं गन्धकं तु मधुना परिशीलितम् । धात्रीरसानुपानेन गलत्कुष्ठं निहन्त्यलम् ॥ ५८ ॥ अथास्य रोगयोग्यः प्रयोगः—एवं शुद्धो गन्धः लेपनाद् आमवातगृध्रसीना- शकः । ऊर्ध्वगान् ऊर्ध्वजत्रूत्थान् । सिंहपर्णी आटरूषकः । वह्निश्चित्रकः । कौशिकः गुग्गुलुः । ज्योतिष्का ज्योतिष्मती, दधिभवं नवीनमाज्यं हैयङ्गवीनं, पामारिः गन्धकः । वज्रमुष्टिः दृढमुष्टिः । मृद्दारशृङ्गादिचतुर्द्रव्याणां मुशलक्ष-

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक) · पृष्ठ 223, कुल 799 में से · BharatKosha