भारतकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 224, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 224

१८४ रसतरङ्गिणी

चूर्णमुष्णनारिकेलतैलेन सह लेपात् पामां नाशयति । शालनिर्यासः रालः । सौभाग्यादीनां निम्बूकरसैः सह लेपाद् दद्रुनाशः । अथाय प्रसङ्गात् प्राचीनतम- रसतन्त्रनिर्दिष्टान् गन्धयोगान् उदाहरामः सतां लाभाय—"वरातोये भृंगरसे घृते दुग्धे त्रिधा त्रिधा । एरंडतैलेनैकेन सप्तधा शोधयेद्भिषक् ॥ मुक्तदोषं विदित्वाथ सेव्येच्च निरन्तरम् । तस्यानुपानं वक्ष्यामि रहस्यं महदादरात् ॥ त्रिफलाशर्करायुक्तो हन्ति रक्तसमुद्भवन् । तथा च कुरुते दीप्तिमनलस्य तु केवलम् ॥ भृंगचूर्णेन संयुक्तः क्षेमायुर्बलवर्द्धनः । विजयाधूर्तसंयुक्तः स्तम्भकृद्रतिवर्द्धनः ॥ सितया नवनीतेन वयःस्थापन उच्यते । विश्वाग्निसहितं खादेद् ग्रहणीप्लीहनाशनः ॥ शोथं वृक्षीरया कुष्ठं सोमराज्या च संयुतः । मोचाफलेन संयुक्तः सोमरोगहरः परः ॥ खर्जूरफलसंयुक्तो वातक्षयनिवारणः । हरिद्रात्रिफलायुक्तो मेहमूलनिवारणः ॥ मुण्डीचूर्णेन संयुक्तो वृष्ययोगकरः परः । शुंठीगर्भशाकाभ्यां कासश्वासहरः परः ॥ सदेवपुष्पं मरिचं गन्धकं त्वग्निवर्द्धनम् । निम्बूतोयेन संपिष्टो विषूची- शूलनाशः ॥ गन्धकवटी—गन्धकं रसराजश्च मृताभ्रं स्वर्णमाक्षिकम् । अहिफेनश्च दरदं कस्तूरी विजया मधु ॥ नागवल्लीरसेनैव भृंगराजरसे तथा । मर्दयित्वा दिनं सर्वे घर्मे संशोष्य यत्नतः ॥ कर्कन्धुमात्रां वटिकां भक्षयेत्पयसा सह । शुक्रक्षयं न लभते नारी चेद्दश वेश्मनि ॥ अशीतिं वातजान् रोगान् सर्वान् हन्ति न संशयः । यो भुंक्ते सर्वरोगेभ्यो मुक्तो भूयान्न संशयः ॥ अतीव गुणकृज्ज्ञेयः सदा सेव्यो विजानतां । इह जन्मन्यरोगत्वं परं ब्रह्मपदं व्रजेत् ॥ तिलतैलं राजिकाञ्च काञ्जी- माषञ्च मूलकम् । सर्षपं कारवेल्लञ्च त्यजेद् गन्धकसेवकः ॥ गन्धकरसायनम्—धत्तूरं केतकी भृंगं कुमारी च पुनर्नवा । मेघनादश्च गोक्षीरं घृतञ्च श्रीफलं मधु ॥ एवं दशविधं प्रोक्तं गन्धकस्य तु शोधनम् । षट्पलं गन्धकं शुद्धं त्रिफला चापि तत्समा ॥ त्रिकटु त्रिसुगन्धञ्च कणा भल्लातबीजकम् । एकैकं निष्कमात्रन्तु चूर्णितं वस्त्रगालितम् ॥ दिवादौ मधुना पेष्यं नवनीतेन लेहयेत् । कदलीफलसारेण सितया शर्करेण वा ॥ तैलाम्लं लवणाञ्चैव वर्जयेत्सर्षपं तथा । सर्वरोगहरञ्चैतद् गन्धकाख्यं रसायनम् ॥" इति ॥ ४०-५८ ॥ भा. टी.—शुद्ध गन्धक को आमवात के शोथयुक्त स्थान तथा गृध्रसी के पीडायुक्त स्थान पर लेप करने से इन रोगों में आराम आता है । गन्धक को त्रिफला कषाय से सेवन कराने से नाक, कान, मुख के रोगों में तथा अग्निमांद्य रोग में आराम आता है । अडूसे के कषाय के साथ गन्धक-प्रयोग करने पर यह नूतन क्षय रोग को नष्ट करता है । श्वास तथा कास में गन्धक को कण्टकारी-