भारतकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 296, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 296

२५४ रसतरङ्गिणी भा.टी.—एक कांच की चौड़ी प्याली में और लवणद्राव डालकर उसमें एक रत्ती हरताल की भस्म भी डाल दें, अब इस कांचपात्र को सुरादीप के ऊपर त्रिपादिका पर रखकर गरम करें तो इस जल में से पीतवर्ण का निक्षेप पात्र के तल में बैठना आरम्भ हो जायगा । ऐसी अवस्था में यह हरताल की भस्म ही है ऐसा निश्चय करना चाहिये । यदि ऐसा निक्षेप नीचे न आये तो अन्य किसी धातु आदि की भस्म समझनी चाहिये ॥ ५७–५६ ॥ अथ तालकस्य आमयिकः प्रयोगः वासायाः कण्टकार्या वा रसेन परिशीलितम् । तालकं नाशयेत्कासं श्वासं परमदारुणम् ॥६०॥ आम्रगन्धहरिद्रायाः स्वरसेन च शीलितम् । सर्वरक्तविकाराणां तालकं परमौषधम् ॥६१॥ वचाजीरकचूर्णाभ्यामपस्मारहरं परम् । पञ्चतिक्तकषायेण कुष्ठरोगं विनाशयेत् ॥६२॥ देवदालीद्रवेणोह तालकं परिशीलितम् । वातरक्तकृतान् रोगान् सर्वानैव विनाशयेत् ॥६३॥ वन्ध्याकर्कोटकीद्रावैर्विंसर्पं दारुणं हरेत् । कुमारीस्वरसेनेह त्वग्रोगानाशु नाशयेत् ॥६४॥ चेतकीचूर्णयोगेन हरेदर्शांसि सत्वरम् । हरिद्रास्वरसेनाशु पाण्डुरोगं विनाशयेत् ॥६५॥ गुडूचीसत्त्वसंयुक्तं तालं वातास्रनाशनम् । ताम्बूलेन क्षयं हन्यात्प्रमेहं सुरसारसैः ॥६६॥ अजामूत्रेण संयुक्तं हरेत्तूर्णं जलोदरम् । पिप्पलीमधुसंयुक्तं वह्निमान्द्यं विनाशयेत् ॥६७॥ मरिचकज्जलीयुतं विषान्वितं च तालकम् । समं विमर्द्य वारिणा वटी तु गुञ्जासंमिता ॥६८॥ कृता निषेविता ततः प्रलापमोहसंयुतम् । निहन्ति दुर्जयज्वरं ज्वरं च सान्निपातिकम् ॥६६॥ सतुत्थशंखतालकं यथोत्तरं विवर्द्धितम् । सहारसेन पेषितं विपाचितं विधानतः ॥७०॥ यवोन्मितं तु सेवितं यथानुपानयोगतः । निहन्ति दुर्जयज्वरं ज्वरं च भूतसङ्गजम् ॥७१॥