भारतकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 318, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 318

२७६ रसतरङ्गिणी गुरुदर्शितमार्गेण व्रणमेहमुपाचरेत्। व्रणं मेहव्रणं हन्ति पूयस्रावञ्च दारुणम् ॥ १६१ ॥ सितान्विता रक्तिमिता चूर्णिता स्फटिकारिका। अशिता नाशयत्याशु रक्तपित्तं सुदारुणम् ॥ १६२ ॥ स्फटीं गुञ्जाषट्कमितां पञ्चतोलकसंमिते। जले संद्राव्य युञ्जीत यत्नाद्वस्तिविधानतः ॥ १६३ ॥ गुदाङ्कुरान् चिरोद्भूतान् संकोचयति सत्वरम्। रक्तं च रोधयत्यत्र गुदभ्रंशञ्च नाशयेत् ॥ १६४ ॥ तरुण्या रक्तपुष्पायाः सलिले तु परिस्रुते। पञ्चकोलोन्मिते काङ्क्षीं चतुर्गुञ्जमितां क्षिपेत् ॥ १६५ ॥ तस्याम्भसस्तु नयने द्वित्रिबिन्दून् विनिक्षिपेत्। अभिष्यन्दं निहन्त्याशु शोथपाकादिसंयुतम् ॥ १६६ ॥ स्फटिकां तोलकमितां पञ्चाशत्तोलकोन्मिते। जले विद्राव्य युञ्जीत यत्नेनोत्तरबस्तिना ॥ १६७ ॥ गर्भाशयं प्रसूतायाः सव्यथं स्थानविच्युतम्। सङ्कोचयत्याशु तथा रक्तस्रावं रुणद्धि च ॥ १६८ ॥ योनिश्च शिथिलीभूता स्वस्थानन्तु प्रपद्यते। कण्डूतिकां हन्ति तथा श्वेतप्रदरजां रुजम् ॥ १६९ ॥ रससिन्दूरसंयुक्ता स्फटी गुञ्जोन्मिताशिता। अधोगमूर्ध्वगं वापि रक्तपित्तं हरेद् भृशम् ॥ २०० ॥ रक्तिद्वयमितां कांक्षीं भक्षयेत्सितया समम्। अपक्कनागशनजं शूलं हरति दारुणम् ॥ २०१ ॥ बकुलत्वग्भवक्षोदयुक्ता तु स्फटिकारिका। घर्षिता दन्तमूलेषु दन्तदार्ढ्यकरी मता ॥ २०२ ॥ स्फटीशक्रयवोपेता गुञ्जाद्वितयसंमिता। अशिता नाशयत्याशु त्वतिसारं सुदारुणम् ॥ २०३ ॥ लवंगैलासितोपेता चूर्णिता स्फटिकारिका। दन्तेषु घर्षिता कामं नाशयेद् दन्तशर्कराम् ॥ २०४ ॥ सैन्धवं तोलकमितं स्फटिका कर्षसंमिता। दन्तेषु घर्षणादेव दन्तपैच्छिल्यमुद्धरेत् ॥ २०५ ॥