भारतकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 331, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 331

२० द्वादशस्तरङ्गः ३०५ अस्य गुणा मात्रा च समुद्रफेनः शिशिरो लेखनः पाचनः सरः । चक्षुष्यो दीपनश्चैव श्रुतिस्रावहरः परम् ॥११३॥ विषदोषप्रशमनः कषायः कफनाशनः । कुष्ठरोगहरोऽत्यर्थं मात्रा रक्तिकद्वयोन्मिता ॥११४॥ शिशिरो वीर्ये, लेखनो दोषाणाम्, पाचनं आमस्य । मात्रा रक्तिकद्वयोन्मिता भक्षणाय ॥११३, ११४॥ भा.टी.—समुद्रफेन शीतवीर्य, लेखन (दोषों को पतला कर निकालने- वाला), पाचक, आंतों की गति को बढ़ानेवाला, नेत्र रोग में लाभदायक, अग्नि-दीपक, कान से बहनेवाले स्राव (पीप जल आदि) को सुखानेवाला, विषदोषशामक, कषायरस, कफनाशक और कुष्ठरोगहर है। इसकी साधारण मात्रा दो रत्ती की होती है ॥११३, ११४॥ अस्य आमयिकः प्रयोगः समुद्रफेनचूर्णान्तु सितया श्लक्ष्णपिष्टया । नेत्रशुक्रं निहन्त्याशु चिरजातमपि ध्रुवम् ॥११५॥ शंखसैन्धवसंयुक्तः सुफेनोऽर्कशलाकया । नेत्रयोरञ्जनादाशु शुक्रादीन् शस्त्रवल्लिखेत् ॥११६॥ पिप्पलीसैन्धवोपेतः फेनको मधुनाञ्जनात् । विनाशयेच्छुक्रदोषं दृशोश्चिरसमुत्थितम् ॥११७॥ तुत्थषड्गुणितः फेनः पथ्यया तुत्थतुल्यया । वर्तिः कृताञ्जनद्वारा पोथक्यादिर्विनाशिनी ॥११८॥ रालसैन्धवरसाञ्जनान्वितः फेनकस्तु वटकीकृतोऽञ्जनात् । क्लिन्नवर्त्मविनिवारणः परं पद्मरोहणकरश्च कीर्तितः ॥११९॥ चूर्णितं त्वब्धिफेनं तु प्रध्मातं श्रुतिसम्पुटे । विनाशयेत् श्रुतिस्रावं चिरजातमपि द्रुतम् ॥१२०॥ सूतगन्धकसंयुक्तस्त्वथवा हिङ्गुलान्वितः । समुद्रफेनस्त्वशनात्कफपित्तज्वरापहः ॥१२१॥ मृदारशृङ्गसंयुक्तं त्वब्धिफेनं सुचूर्णितम् । मधुना व्रणसंलेपादुत्तमं व्रणरोपणम् ॥१२२॥ कोकिलाक्षककालेयकटुफलोशीरकेचुकैः । शृतैर्वा चूर्णितैर्लीढो डिण्डीरः शुक्रशोधनः ॥१२३॥