रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 402, कुल 799 में से
संदर्भ में पढ़ें३७६ रसतरङ्गिणी वयस्यं बल्यं विषमज्वरहरं त्वन्त्रशोषक्षयघ्नम् । रुच्यं पुष्यं पवनशमनं दीपनञ्चातिकेश्यं हन्यादेतन्नियतमचिरादेव रोगानशेषान् ॥ ७० ॥ मधुरं अत्यन्तमधुरम् । अशेषान् रोगान् हन्यादिति, तथा संस्मरुः प्राञ्चः “सर्वौषधिप्रयोगेण व्याधयो न गता हि ये । कर्मभिः पञ्चभिश्चापि सुवर्णं तेषु योजयेत् ॥ शिलाजतुप्रयोगैस्तु ताप्यसूतकयोस्तथा । अन्यै रसायनैश्चापि प्रयोगो हेम्न उत्तमः” ॥ ७० ॥ भा.टी.—स्वर्ण की भस्म स्निग्ध, अत्यन्त मधुर, वृष्य, आयु के लिये अत्यन्त हितकारक, उत्तमवर्णोत्पादक, बलकारक, सर्वशरीरगत-विषनाशक, आँतों के क्षय के लिये उत्तम, रुचिकारक, पवित्र (सत्त्वगुणोत्पादक), वातप्रकोप- शामक, दीपक, बालों के लिये अत्यन्त हितकारक होती है। इसके अतिरिक्त स्वर्ण रसायन होने तथा बल्य होने से सब रोगों को नष्ट करती है ॥ ७० ॥ विशिष्टा गुणाः मृतं सुवर्णं शिशिरं वयःस्थापनमुत्तमम् । स्मृतिप्रदं परञ्चैव त्रिदोषज्वरनाशनम् ॥ ७१ ॥ सौन्दर्यमुखलावण्यं ललनानां विवर्धयेत् । पित्तहारित्वमङ्गेषु जनयेच्च विशेषतः ॥ ७२ ॥ मृतं सुवर्णं सुस्निग्धं वाग्विशुद्धिकरं परम् । चिन्ताशोकभयक्रोधसम्भूतामयनाशनम् ॥ ७३ ॥ शिरोदेशे प्रवृद्धांस्तु रक्तसञ्चरणक्रियाम् । आत्मघाताभिलाषं च प्राबल्येन समुत्थितम् ॥ ७४ ॥ अस्थिक्षतं त्वस्थिशोथं तथा जङ्घास्थिवेदनाम् । फिरङ्गजां मुष्कमांसवृद्धिञ्चापि चिरन्तनीम् ॥ ७५ ॥ उन्मादमथ वैचित्यं योषापस्मारकं तथा । चित्तोद्वेगं भ्रमं ग्लानिं नाशयेदविकल्पतः ॥ ७६ ॥ हृल्लेपनप्रशमनं मुष्कशोथप्रणाशनम् । अस्थिशोषहरं चैव मूर्च्छार्त्तिपरिकृन्तनम् ॥ ७७ ॥ कासश्वासप्रशमनं परमोजोविवर्द्धनम् । अतिसारग्रहणिपाण्ड्वामयनिषूदनम् ॥ ७८ ॥