रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 406, कुल 799 में से
संदर्भ में पढ़ें३८० रसतरङ्गिणी शीलितं नाशयेत्तूर्णंमतीसारमसंशयम् ॥८६॥ रसपर्पटिकोपेतं सुवर्णं परिशीलितम् । ग्रहणीं चिरसञ्जातां नाशयेदविकल्पतः ॥८७॥ गुडूचिकासत्त्वरजोविमिश्रं स्वर्णं सलोहं परिशीलितन्तु । नवोत्थितं वा सुचिरोत्थितं वा पाण्ड्वामयं नातिचिरान्निहन्यात्॥८८॥ साभ्रकं वा ससिन्दूरं समौक्तिकमथापि वा । सुवर्णं नाशयेत्तूर्णं राजयक्ष्माणमुल्बणम् ॥८९॥ क्षीरकाकोलिकोपेतं चोपचीनीसमन्वितम् । सुबर्णं शोधयेत्तूर्णं गर्भाशयमसंशयम् ॥९०॥ गुडूचिकाकुङ्कुमसारिवाद्यैर्वनौषधैः शोणितशोधनीयैः । स्वर्णं प्रयुक्तं रसपुष्पयुक्तं हरेत्फिरङ्गं चिरजन्तु तूर्णम् ॥९१॥ शट्यादिभिः श्वासहरैर्द्रव्यैस्तु चरकोदितैः । स्वर्णं नातिचिरादेव नाशयेच्छ्वासमुल्बणम् ॥९२॥ धात्रीचूर्णसमायुक्तं सुवर्णं खलु शीलितम् । अम्लपित्तं निहन्त्याशु चिरोत्थमपि दारुणम् ॥९३॥ सिन्दूराभ्रसमायुक्तं सुवर्णं शङ्खिनीयुतम् । अपस्मारं निहन्त्याशु योषापस्मारकं तथा ॥९४॥ रससिन्दूरसंयुक्तं सुवर्णं परिशीलितम् । बलाक्वाथेन नियतं शीर्षवेपथुनाशनम् ॥९५॥ पुनर्नवाकज्जलिकायुक्तं सुमृतकाञ्चनम् । गोमूत्रेण प्रयुक्तं तु मुष्कशोथं विनाशयेत् ॥९६॥ द्राक्षाकणाकट्फलयष्टिकाभिः सुवर्णचूर्णस्य निषेवणेन । वाणी जयत्याशु रुतं विशेषात् पुंस्कोकिलानां मधुमादितानाम् ॥९७॥ रक्ताङ्गतुङ्गोत्पलयष्टिकाभिः सितासमङ्गारुधिरादिभिर्वा । स्वर्णं प्रयुक्तं खलु सुन्दरीणां लावण्यवृद्धिं प्रकरोत्यनल्पाम् ॥९८॥ विश्वलवङ्गमरिचैः सचौद्रैस्तु निषेवितम् । सुवर्णं नाशयेत्तूर्णं मुन्मादन्तु त्रिदोषजम् ॥९९॥ धात्रीचूर्णयुतं स्वर्णं गायत्रीरसभावितम् । शीलितं चरमे काले हन्ति रिष्टान्यशेषतः ॥१००॥ सुवर्णचूर्णं परिशीलितन्तु वचामृताविश्वशतावरीभिः ।