रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 407, कुल 799 में से
संदर्भ में पढ़ेंपञ्चदशस्तरङ्गः ३८१
षण्मासमात्रं तु निषेव्येण मेधाभिवृद्धिं जनयेन्नित्तान्तम् ॥१०१॥ मृतं सुवर्णं परिशीलयन्तः स्थिराविदारीवरदाजराभिः । मासत्रयेणैव कृशाः पुमांसः प्रपुष्टदेहाश्च बहुप्रजाः स्युः ॥१०२॥ सुवर्णचूर्णं परिशीलयन्तो धात्रीस्थिराविश्वपुनर्नवाभिः । अधृष्यदेहा बलिभिर्भवन्ति तारुण्यलावण्यविलासपूर्णाः ॥१०३॥ जीवनीयगणोद्दिष्टभेषजैः परिशीलितम् । सुवर्णं सर्वदा पुंसां जीवनीयं परं स्मृतम् ॥ १०४ ॥ नागकेशरचूर्णेन सुवर्णं परिशीलितम् । ऋतौ सीमन्तिनीनान्तु गर्भधारणमुत्तमम् ॥ १०५ ॥ काकोल्यादिगणोद्दिष्टैर्यथासम्भवयोजितैः । भेषजैरञ्चितं स्वर्णं स्तन्यसंवर्द्धनं परम् ॥ १०६ ॥ सताप्यभसितं स्वर्णं सितया सुविमिश्रितम् । नानायोगसमुद्भूतां विषबाधां व्यपोहति ॥ १०७ ॥ निर्विषीचूर्णसंयुक्तं तपनीयं निषेवितम् । अचिरादेव नियतं विषबाधां व्यपोहति ॥ १०८ ॥ पाटलाफलनीरेण सक्षौद्रं मृतकाञ्चनम् । निषेवितं निहन्त्याशु हिक्कां दोषत्रयोद्भवाम् ॥ १०६ ॥ सितोपलासमायुक्तं सुवर्णं परिशीलितम् । अस्थिशोषं त्वस्थिशोथं तथैवास्थिगतञ्ज्वरम् ॥ ११० ॥ स्तनन्धयानां बालानां विशेषादस्थिवक्रताम् । दारुणामस्थिपीड़ां च नाशयत्यविकलपतः ॥ १११ ॥ ( गीतिका ) जटिलारजोविमिश्रं परिशीलितं सुवर्णम् । विनिहन्ति शीर्षदेशे विततं प्रसादवातम् ॥ ११२ ॥ त्रिगुणाभ्रलोहमिश्रं वरुणाम्भसा सुवर्णम् । विनिहन्ति वृक्कतोगं खलु दाहशोथयुक्तम् ॥ ११३ ॥ गिरिजत्वचोविमिश्रं रजतान्वितं सुवर्णम् । श्वयथुं जरायुसंस्थं विनिहन्ति सोपसर्गम् ॥ ११४ ॥ गगनायसा समेतं परिशीलितं सुवर्णम् । जठरस्थितं मलाख्यं विनिहन्ति वातमारात् ॥११५॥