रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 423, कुल 799 में से
संदर्भ में पढ़ेंषोडशस्तरङ्गः ३६७ यवानीचित्रकक्वाथयुतं तु परिशीलितम् ॥ ६४ ॥ गृध्रसीं चैव विश्वाचीं तथैव त्रिकवेदनाम् । विविधस्थानसम्भूतं नाडीशूलं व्यपोहति ॥ ६५ ॥ पर्पटोशीरधान्यादिपित्तघ्नक्वाथसंयुतम् । चन्द्रलोहं निहन्त्याशु पित्तं शाखासमाश्रितम् ॥ ६६ ॥ राजावर्तेसमायुक्तं रजतं परिशीलितम् । मदात्ययात्ययकरं समाख्यातं विशेषतः ॥ ६७ ॥ चोपचीनीसमायुक्तं रजतं परिशीलितम् । आध्मानं चिरसञ्जातं नाशयत्याशु निश्चितम् ॥ ६८ ॥ सितोपलायुतं रौप्यं यत्नतः परिशीलितम् । सत्वरं नाशयत्येव दाहं शाखाश्रितं ध्रुवम् ॥ ६९ ॥ सिताघृततैलासंयुक्तं रजतन्तु निषेवितम् । उन्मादं नाशयत्येव ह्यचिरादेव दारुणम् ॥ ७० ॥ त्रिजातकसमायुक्तं रजतं परिशीलितम् । प्रमेहादिकरोगांश्च द्रुतमेव निवारयेत् ॥ ७१ ॥ क्षीरकाकोलिकोपेतं चोपचीनीसमन्वितम् । रससिन्दूरसंयुक्तं रजतं परिशीलितम् ॥ ७२ ॥ गर्भाशयाज्जायमानं सशूलं कुसुमोद्गमम् । श्लैष्मिकन्तु कलास्रावं द्रुतमेव विनाशयेत् ॥ ७३ ॥ स्थिरात्मगुप्ताशतमूलिकाभिनिषेवितं वै खलु चन्द्रलोहम् । मासद्वयेनैव निहन्ति कार्श्यं बल्यञ्च वृष्यञ्च परं प्रदिष्टम् ॥७४॥ कृमिघ्नभल्लातकविश्वयुक्तै र्यत्नेन तारं परिशीलितन्तु । मासैकयोगेन हि सुन्दरीणां सौन्दर्यवृद्धिं जनयेन्नितान्तम् ॥७५॥ अथास्य रोगयोग्यः प्रयोगः—वरावारा त्रिफलाजलेन, डिम्बाशयो बीजाधारः “Ovary” इत्याङ्ग्लभाषायाम्, तस्मिन्नुद्भूता या तीव्रा वेदना तया युक्ता गर्भाशयस्य स्वस्थात् च्युतिं हरतीति । अत्र वामडिम्बाशय इत्युपलक्षणम्, तेन दक्षिणडिम्बाशयोद्भूतवेदनान्वितां गर्भाशयच्युतिमपि नाशयति इति ज्ञेयम्। अण्डधारभवामयः—“रमणातिशयाच्छैत्यादभिघाताद्विपादपि । अण्डधारगदः कृच्छ्रो जायते चाहिताशनात् ॥ उदरोरुव्यथा तीव्रा मूत्रस्याल्पत्वरक्तते। ज्वरारो- चकहृल्लासा अरतिर्बलसंक्षयः ॥ धमनी वेगिनी क्षुद्रा जिह्वा रक्तोत्पला तथा।