रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 422, कुल 799 में से
संदर्भ में पढ़ें३६६ रसतरङ्गिणी भाग गला, कण्ठ, नासिका मुख आदि भाग में प्रकुपित कफ को शान्त करता है । बुद्धि, स्मृति तथा साहसहीन मनुष्यों के लिये, शिर में चक्कर आने से दुःखी मनुष्यों के लिये यह उत्तम औषधि है। निरन्तर अध्ययन-अध्यापन कार्य करने- वाले युवापुरुषों तथा बालकों के लिये रजतभस्म अत्यन्त उपयोगी औषधि है ॥ ५२, ५३ ॥ मृतरजतस्य मात्रानिरूपणम् रक्तिकायास्तुरीयांशाद्रक्तिकैकमितं परम् । मृतं तारं नियुञ्जीत बलकालाद्यपेक्षया ॥ ५४ ॥ मात्रानिरूपणं बलकालापेक्षया योग्यमेव ॥ ५४ ॥ भा.टी.—चौथाई गुञ्जा से लेकर १ गुञ्जा तक बल, काल के अनुसार रजत भस्म की मात्रा बतायी गयी है ॥ ५४ ॥ अस्य आमयिकः प्रयोगः यवानिकादेवपुष्पचूर्णेन रजतं मृतम् । शीलितं नाशयत्याशु कोष्ठवातं चिरोत्थितम् ॥५५॥ एलाचूर्णयुतं तारं सततं परिशीलितम् । अजीर्णरोगजनितं हृदयस्पन्दनं हरेत् ॥ ५६ ॥ एलासितोपलाचूर्णयुतं तारं तु शोलितम् । सूर्यापवर्तञ्च तथा निहन्त्यर्धावभेदकम् ॥ ५७ ॥ रससिन्दूरलोहाढ्यं सशिलाजतुताप्यकम् । शीलितं चन्द्रलोहं तु वरावार। विशेषतः ॥ ५८ ॥ वामडिम्बाशयोद्भूततीव्रवेदनयान्वितम् । गर्भाशयच्युतिं घोरां नाशयत्यविलम्बितम् ॥५६॥ द्वङ्गाभ्ररससिन्दूरसंयुक्तं चन्द्रलोहकम् । युक्तं बलावराक्वाथैस्तीव्ररुव्यथयान्वितम् ॥६०॥ वामडिम्बाशयोद्भूतव्यथया ह्युपलक्षितम् । विजिहन्ति विशेषेण त्वण्डाधारभवामयम् ॥ ६१ ॥ रससिन्दूर सौभाग्यसंयुक्तं चन्द्रलोहकम् । शीलितं रजनीवारा सप्ताहद्वितयोन्मितम् ॥६२॥ क्षतान्वितं चातिमात्रं पूनिस्रावसमायुतम् । गर्भाशयस्य संकोचं नाशयत्यविकल्पतः ॥ ६३ ॥ तारं सलोहं माक्षीकरससिन्दूरसंयुक्तम् ।