रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 436, कुल 799 में से
संदर्भ में पढ़ें४१० रसतरङ्गिणी नेपालस्य लक्षणम् घनघातसहं स्निग्धं कोमलं गुरु लोहितम् । निर्मलं गुणकृच्चैव नैपालं ताम्रमुच्यते ॥८॥ नेपालम्लेच्छकयोः यथाक्रमं लक्षणञ्च व्याख्यातं प्रायपाठमिति ॥८॥ भा.टी.—हथौड़े की चोट को सहनेवाले, स्निग्ध (चिकना), कोमल, गुरुभार और रक्तवर्ण, निर्मल तथा यथोक्त गुणसम्पन्न ताम्र को नेपालताम्र कहा जाता है ॥८॥ म्लेच्छकस्य स्वरूपम् कृष्णच्छायं सुकठिनं सितञ्चारुणकं तथा । सुधौतमपि कृष्णं स्यान्म्लेच्छकं ताम्रमुच्यते ॥६॥ भा.टी.—जिसमें दूर से काली चमक नजर आये, जो कठिन हो और रंग में सफेद और लाल मिश्रित हो और अच्छी तरह साफ करने पर भी फिर थोड़ी देर में काला पड़ जानेवाला हो, वह ताम्र म्लेच्छ कहा जाता है ॥६॥ ताम्रशोधनस्य प्रयोजनम् ताम्रं निहन्ति विमलं खलु कायकान्तिं नूनं नितान्तमचिराज्जनयेच्च वान्तिम् । भ्रान्तिं तथा जनयतीह हि नैति शान्तिं चेत्ताम्रकं त्वविमलं खलु मारितं स्यात् ॥१०॥ शुल्वं विवर्द्धयति सर्गजगात्रतापं क्षिप्रं नयत्याप च शषमशेषधातून । कामं विरेचयति वै जनयेच्च मूर्च्छां संशुद्धिहीनमिह चेत्खलु मारितं स्यात् ॥११॥ ताम्रशोधनप्रयोजनम्—विमलां शरीरशोभां निहन्ति रक्तविकारहेतुत्वात् । अचिरात् शीघ्रम्, नितान्तं अत्यर्थम्, नूनं अव्यभिचारेण अवश्यमित्यर्थः । नैति शान्ति अशुद्धताम्रभक्षक इति शेषः, मनस्तापकत्वादित्यर्थः । उक्तञ्च—"न विषं विषममित्याहुस्ताम्रन्तु विषमुच्यते । एको दोषो विषे ताम्रे त्वष्टौ दोषाः प्रकीर्तिताः॥ भ्रमो मूर्च्छा विदाहश्च स्वेदक्लेदनवान्तयः । अरुचिश्चत्तसन्ताप एते दोषा विषो- पमाः ॥” इति । “तैलतक्रादिशुद्धस्य तद्दोषविनिवृत्तये । शुल्वस्य शोधनं प्राज्ञै- र्विशेषात्समुदाहृतम् ॥” इति च स्पष्टमन्यत ॥१०, ११॥ भा.टी.—अशुद्धताम्रभस्म का सेवन करने से शरीर की सुंदर शोभा नष्ट हो