भारतकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 449, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 449

सप्तदशस्तरङ्गः ४२३ गुञ्जार्द्धमात्रं खलु सूर्यलोहं द्विरक्तिकोशीररजोविमिश्रम् । सनागपुष्पं शिशिरेण वारा पीतं हरत्येव जवेन मूर्च्छाम् ॥५४॥ रविप्रियं शीलितमाज्ययुक्तं दुरालभाक्वाथविमिश्रितन्तु । विन्नाशयत्याशु गदं भ्रमाख्यं यथा समीरः खलु मेघवृन्दम् ॥५५॥ करञ्जबीजोत्थरजोविमिश्रं गुञ्जार्द्धमात्रं मृतसूर्यलोहम् । पित्तोद्भवं वापि कफोत्थितं वा शूलं निहन्यान्नहि संशयोऽत्र ॥ ५६॥ कटुत्रिकाख्यं मृतशङ्खयुक्तं गुञ्जार्द्धमात्रं खलु सूर्यलोहम् । प्लीहानमत्युग्ररुजं समन्ताद् निहन्ति मासैकनिषेवणेन ॥५७॥ वराटभस्मसंयुक्तं द्विगुञ्जजीरकान्वितम् । रविप्रियन्तु शीलितं निहन्ति सूतिकामयम् ॥ ५८ ॥ कणाचूर्णसमायुक्तं मधुना परिशीलितम् । रविप्रियं समाख्यातं त्वग्निसन्दीपनं परम् ॥५९॥ धात्रीचूर्णसमायुक्तं ताम्रं गुञ्जाद्वैसम्मितम् । अम्लपित्तं निहन्त्याशु वृक्षं शक्राशनिर्यथा ॥६०॥ भार्ङ्गीवभीतकोपेतं गुञ्जार्द्धप्रमितं मृतम् । ताम्रं क्षौद्रेण संलीढं कासश्वासं व्यपोहति ॥६१॥ नागपुष्पाभयामिश्रं ताम्रकं मधुसंयुतम् । शीलितं मासमात्रेण सर्व्वाण्यर्शांसि नाशयेत् ॥ ६२ ॥ अश्वत्थवल्कभस्माढ्यं रविलोहन्तु शीलितम् । गुञ्जापादांशमात्रेण छर्दिं जयति दारुणाम् ॥६३ ॥ बीजपूरद्रवोपेतं रविलोहं समाक्षिकम् । निषेवितं निहन्त्याशु हिक्काः पञ्च सुदारुणाः ॥६४॥ रविलोहं तु सुमृतं केवलं बलिजारितम् । अञ्जनाद्विनिहन्त्याशु दोषान्पटलसंश्रितान् ॥ ६५ ॥ कटुत्रिकाख्यं खलु सूर्यलोहं कणाशिफाचूर्णयुतं तु लीढम् । क्षौद्रेण सप्ताहनिषेविते तु द्रुतं यकृद्दाल्युदरं निहन्ति ॥६६॥ कटुत्रिकक्षोदयुतं सघृतं रविलोहकम् । निहन्ति मधुना गुल्मतीसारांन् विशेषतः ॥ ६७ ॥ ताम्रं समविषं धूत्तद्रवेण परिभावितम् । शीलितं त्वार्द्रकद्रावैः सन्निपातं व्यपोहति ॥६८॥