भारतकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 450, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 450

४२४ रसतरङ्गिणी आर्द्रकस्वरसोपेतं ताम्रं तु परिशीलितम् । नागिनीवल्लमध्यस्थं गुल्मरोगं व्यपोहति ॥ ६९ ॥ रससिन्दूरसंयुक्तं रविलोहमनारतम् । कण्टकारीफलोद्भूतरजसा परिशीलितम् ॥ ७० ॥ सशब्दमाक्षेपयुतमानीलाननमण्डलम् । प्ररुद्धश्वासनिश्वासं कासं नाशयति द्रुतम् ॥ ७१ ॥ अत्यल्पमात्रया ताम्रं दग्धाश्वत्थत्वचाम्भसा । बर्हिपक्षविभूतिर्वा छर्दिं जयति दुर्जयाम् ॥ ७२ ॥ व्योषचित्रकणामूलमांसीभाङ्गींकषायतः । पिप्पल्यादिगणक्वाथयुतं वा रविलोहकम् ॥ ७३ ॥ तीव्रहृच्छूलसंयुक्तं तथाक्षेपसमन्वितम् । शीलितं नाशयत्याशु शूलं मक्कल्लसंज्ञकम् ॥ ७४ ॥ ताम्रं समस्वर्णयुतं जटामांसीरजोऽन्वितम् । शीलितं विनिहन्त्याशु त्वाक्षेपमतिदारुणम् ॥ ७५ ॥ प्रबद्धमुष्टिकं काममानीलाननमण्डलम् । पानाशानादिसमये घुर्घूरायितकण्ठकम् ॥ ७६ ॥ अत्यल्पकालिकं वापि दारुणं दीर्घकालिकम् । तथा पादोदरगतां खल्लीं खल्वतिदारुणाम् ॥ ७७ ॥ रेणुकाशुण्ठिकाकन्यासारदारुसितान्वितम् । अनारतं विशेषेण रविलाहं तु शीलितम् ॥७८॥ निम्नोदरे वक्षसि वा युतमाक्षेपपीडया । सचीत्कारं संप्रलापं दारुणाथ्यथान्वितम् ॥ ७९ ॥ सवर्मिं वा विषमिषायुतखल्लोसमन्वितम् । बाधकं वा रजारोधं विनाशयति सत्वरम् ॥ ८० ॥ रससिन्दूरसंयुक्तं सुमृतं ह्यमृतीकृतम् । शीलितं रविलोहे तु मर्कपूरसंयुतम् ॥८१॥ श्वेतातितरलात्यच्छमलां भूयस्तृषान्विताम् । पादयोरुदरे वापि भृशं खल्लीसमन्विताम् ॥ ८२ ॥ प्रक्षीणनाडिकां काममानीलाननमण्डलाम् । शीलितं शमयत्याशु दारुणां तु विषूचिकाम् ॥ ८३ ॥