भारतकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 451, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 451

सप्तदशस्तरङ्गः ४२५ कज्जलरससिन्दूरयुतं ताम्रं तु शीलितम् । आनीलङ्गं चातिफेनं परिश्रान्तकनीनिकम् ॥ ८४ ॥ सक्रन्दनं सचीत्कारं वारन्धाक्षेपमुल्बणम् । आरटत्प्रचलद्दन्तमपस्मारं विनाशयेत् ॥ ८५ ॥ लोहस्वर्णसमायुक्तं ताम्रं गन्धकजारितम् । शीलितं नाशयेत्याशु श्वासं परमदारुणम् ॥ ८६ ॥ प्रचुराक्षेपसंयुक्तमानीलमुखमण्डलम् । आश्वासपथसङ्कोचक्रियाप्रत्ययकारणम् ॥ ८७ ॥ तिक्तामृता पर्पटककिराताब्दकषायतः । ताम्रं तु शीलितं हन्ति पुनरावर्तकञ्ज्वरम् ॥ ८८ ॥ पुनर्नवानिशामेषशृङ्गीद्रवविभावितम् । ताम्रं गन्धहतं ख्यातं व्रणशोधनरोपणम् ॥ ८९ ॥ रविलोहं बलिहतं तोलकैकमितं शुभम् । तोलकाष्टमितं चैव सुघृष्टं रक्तचन्दनम् ॥ ९० ॥ भावितं भृङ्गुनीरेण तत्त्ववारं प्रयत्नतः । मधुनाञ्जनतः ख्यातं तिमिरापहमूत्तमम् ॥ ९१ ॥ तारताप्ययुतं ताम्रं चित्रकद्रवभावितम् । सूर्यावर्तादिकान् घोरान् शिरोरोगान् विनाशयेत् ॥ ९२ ॥ यवजाऽऽलसमायुक्तं रसगन्धकजारितम् । शीलितं रविलोहं तु मतं कुष्ठापहं परम् ॥ ९३ ॥ मृतताम्रस्य रोगयोग्यः प्रयोगः—समरसबलिनिम्बूद्रावपिष्टथा विपक्वमिति रीत्यानया सपारदं ताम्रभस्मैव कृतमपनयति वातरोगसङ्घमिति भावः । ताम्रभस्म ३ गुञ्जा, उशीररजः २ रक्तिका, नागकेसरम् १ गुञ्जा, शीतजलं पलैकमिति मूर्च्छानाशोपयोगियोगः । भ्रमाख्यं रजःपित्तानिलाज्जाता चक्रारूढस्येव चेष्टा शिरोधूर्णनप्रायका या भ्रमः, ननु मिथ्याज्ञानरूप इति । करञ्जबीजोत्थरजोकि- मिश्रमिति— आहुश्च—“एक एव कुबेराक्षो हन्ति शूलशतानि च । किम्पुनर्यदि लभ्येत ताम्रभस्मसमन्वितः ॥” इति । तदेतद् ध्वनितं नहि संशय इति । मासैक- निपेवणेन इत्यवधिः क्रमापचययोगदशकः प्लीहः । सूतिकामयः “अङ्गमर्द्दो ज्वरः कम्पः पिपासा गुरुगात्रता । शोफः शूलातिसारौ च सूतिकारोगलक्षणम् ॥” इत्युक्तः, कणा पिप्पली, वृत्तं शक्राशनिर्यथेति शीघ्रतायां दृष्टान्तः । नागपुष्पं

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक) · पृष्ठ 451, कुल 799 में से · BharatKosha