भारतकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 472, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 472

४४६ रसतरङ्गिणी अस्य मात्रानिरूपणं देशकालापेक्षया ज्ञापितम् ॥ ४६ ॥ भा.टी.—वंगभस्म की एक रत्ती से लेकर दो रत्ती पर्यन्त पूर्ण मात्रा समझनी चाहिये ॥ ४६ ॥ अस्य आमयिकः प्रयोगः गुडूचिकासत्त्वरजोविमिश्रं मृतन्तु वङ्गं मधुनावलीढम् । विनाशयेन्नातिचिरेण मेहान् मत्तद्विपानन्न यथा मृगेन्द्रः ॥४७॥ वङ्गं शिलाजतुयुतं मधुनावलीढं मास निषेवितमलं विनिहन्ति मेहान् । क्षीणालपशुष्ककृशदूषितरेतसाञ्च वीर्याभिवृद्धेनविशुद्धिविधौ च शस्तम ॥४८॥ साज्यं वङ्गं शालिन्ततु द्रुतं पाण्ड्वामयं हरेत् । सौभाग्यचूर्णाख्ययुक्तं गुल्मञ्चापि विनाशयेत् ॥४९॥ पिप्पलीचूर्णसंयुक्तं वङ्गन्तु परिशी लतम् । अग्निमान्द्यं निहन्त्याशु त्वजीर्णां पूगसंयुतम् ॥५०॥ हरिद्रया निषेवितं मृतन्तु वङ्गमुद्धरेत् । निकाममूर्ध्वमारुतं तथैव रक्तपित्तकम् ॥५१॥ रससिन्दूरसंयुक्तं वङ्गं तु परिशीलितम् । काममार्द्दनिशावारा व्रणमेहं व्यपोहति ॥५२॥ वरुणादिगणशिष्टभेषजक्वाथयोगतः । शीलितं वङ्गभासतं मतं व्रणहरं परम् ॥५३॥ चम्पकस्वरसोपेतं सकर्पूरमथापि वा । वङ्गं निषेवितं हन्यान्मुखदौर्गन्ध्यमुल्बणम् ॥५४॥ वङ्गं कस्तूरिकोपेतं वार्य्यस्तम्भकर परम् । जातीफलक्षौद्रयुतं शुक्रपुष्टिकरं परम् ॥५५॥ खदिरकथितेनेह वङ्गं चर्मामयं हरेत् । समुद्रफेनसंयुक्तं दुष्टं शुक्र विशोधयेन् ॥५६॥ अपामार्गस्य चूर्णेन वङ्गन्तु परिशीलितम् । रक्तिद्वयमितं यत्नात् षाण्ढ्यमाशु विनाशयेत् ॥५७॥ शाल्मलीमूलसंयुक्तं वङ्गं रक्तिद्वयोन्मितम् । सक्षौद्र सहरिद्रञ्च वीय्यवृद्धिकरं परम् ॥५८॥