रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 473, कुल 799 में से
संदर्भ में पढ़ेंअष्टादशस्तरङ्गः ४४७ लघुशाल्मलिमूलोत्थचूर्णेन परिशीलितम् । स्मभ्रकं शुक्रमो हन्तु शुक्रमञ्जननं परम् ॥ ५६ । वङ्गन्तु शर्करोपेतं पित्तघ्नं समुदाहृतम् । निम्बूकरससोपेतं देहदाहहरं मतम् ॥ ६० ॥ तुलसीदलसंयुक्तं वङ्गं मेहान् निवारयेत् । नागनीस्वरसोपेतं विवन्धं नाशयेद् ध्रुवम् ॥ ६१ ॥ लोहशुक्तिकयोपेतं वङ्गं तु परिशीलितम् । द्विगुञ्जं रालसहितं श्वेतप्रदरनाशनम् ॥ ६२ ॥ वङ्गं शशासृजा वापि निशाकुङ्कुमचन्दनैः । महिषाक्षीरसम्पिष्टं मुखच्छायां व्यपोहति ॥ ६३ ॥ रससिन्दूरसंयुक्तं वङ्गन्तु परिशीलितम् । नाशयत्यचिरादेव प्रमेहं क्षीणशुक्रताम् ॥ ६४ ॥ तालमूलिकयोपेतं वङ्गन्तु परिशोलितम् । मासमात्रप्रयोज्ञेन शुक्रतारल्यहृत्परम् ॥ ६५ ॥ नृपावर्तायसयुतं रससिन्दूरमंयुतम् । चन्दनक्वाथसं पीतं जीर्णज्वरमपोहति ॥ ६६ ॥ ताप्यतारसमायुक्तं वङ्गं तु परिशीलितम् । ऊर्ध्वजत्रुसमुद्भूतं नाड़ीशूलं व्यपोहति ॥ ६७ ॥ रोगयोग्यः प्रयोगोऽस्य गुडूचिकेत्यादिना । वङ्गभस्म २ गुंजे, अमृतासत्त्वम् ४ गुञ्जाः, मधु २ माषौ, लीढं प्रमेहरोगशान्त्यै प्रभवति । शिलाजतु ४ गुञ्जाः, वङ्गं २ गुञ्जामितं, मासं यावत् मधुना लीढं शुक्रशोधनम् । साज्यं घृतयुक्तम्, द्रुतं शीघ्रम् । सौभाग्यचूर्णं वह्निभृष्टटङ्कणोदः, पूगयुतं वङ्गमजीर्णं शमयतीत्यन्वयः । ऊर्ध्वमारुतम्— “अधः प्रतिहतो वायुः श्लेष्मणा वायुनाऽथवा । करोति भृश- मुद्गारमूर्ध्ववातः स उच्यते ॥” इति । आर्द्र्रा सरसाया निशा हरिद्रा तस्य वारा जलेने । षण्ढत्वं नपुंसकताम् । नागनीस्वरसः ताम्बूलदलरसः । लोहशुक्तिवङ्गसर्ज्जा- रसान् समभागान् सम्मेल्य ततः द्विगुञ्जा मात्रास्यौषधस्य कल्पनीया । शशासृजा शशकरुधिरेण, नृपावर्तः राजावर्तः क्षुद्रमणिविशेषः वक्ष्यमाणपरिचयः । आयसं लौहम् । ताप्यं स्वर्णमाक्षिकम् ॥ ४७-६७ ॥ आ.टी.—वंगमस्म को गुडूचीसत्त्व में मिलाकर शहद से चाटने अथवा