रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 492, कुल 799 में से
संदर्भ में पढ़ें४६६ | रसतरङ्गिणी मृतसीसकस्य मात्रा पादांशतो रक्तिकाया रक्तिकैकमितं शुभम् । मृतं सीसं प्रयुञ्जीत बलकालाद्यपेक्षया ॥ ४६ ॥ मृतसीसकमात्रा देशकालापेक्षयावधानीयेति प्राह-पादांशतो रक्तिकायाः, इत्यादिना ॥ ४६ ॥ आ.टी.- रोग और रोगी के बल, दोष, काल आदि का सम्यक विचार करके चौथाई रत्ती से एक रत्ती तक सीसकभस्म प्रयोग की जाती है ॥४६ ॥ अथ मृतसीसकस्य आमयिकः प्रयोगः गुञ्जैकप्रमितं सीसं निशामलकसंयुक्तम् । मधुना शीलितं तूर्णं प्रमेहं विनिवारयेत् ॥ ४७ ॥ अशोकक्वाथसंयुक्तं मृतं सीसन्तु शीलितम् । अचिरादेव चिरजं रक्तप्रदरमुद्धरेत् ॥ ४८ ॥ गुञ्जैकप्रमितं सीसं नागकेशरसंयुतम् । रक्ताशसं निहन्त्याशु वृत्तमिन्र्दाशनिर्यथा ॥४६॥ गुडूचिकासत्त्वरजोभिर्मिश्र मृतन्तु सीसं मधुनावलीढम् । विनाशयेन्नातिचिरेण नूनं बलासवातप्रभवन्तु मेहम् ॥५०॥ सुवर्णरससिन्दूरताम्राढ्यं खलु सीसकम् । शीलितं विनिहन्त्याशु त्वन्त्रशोथं सुदारुणम् ॥ ५१ ॥ आत्मगुप्ताबलामूलमांसीक्वाथेन सीसकम् । वृक्षशाथसमुद्भूतमाक्षेपं नाशयत्यलम् ॥ ५२ ॥ रससिन्दूरताम्राढ्य सीसकं परिशीलितम् । सर्वाङ्गकम्पनारब्धं हन्ति पक्षवधामयम् ॥ ५३ ॥ प्रसारणीबलारास्नाकपिकच्छूकषायतः । सतारं यशदं सीसं सुमृतं परिशीलितम् ॥ ५४ ॥ अङ्गप्रसारिणीपेशीगतदोषसमुत्थितम् । विनिहन्ति विशेषेण पक्षाघातं सुदारुणम् ॥ ५५ ॥ रोगयोग्यः प्रयोगः--निशा हरिद्रा । बलासवातप्रभवमिति बलासः कफः, ततश्च कफवातजातमित्यर्थः । अन्त्रशोथवृकसमुद्भूताक्षेपादिनिवारकोऽस्य गुणः प्राचीनार्पारभाषितोऽप्यनुभवादुक्तः अङ्गप्रसारिणीपेशीगतो दोषो वातसंस्थानदुष्टि- हेतुः, तस्माज्जातं पक्षाघातम् ॥ ४७-५५ ॥