रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 495, कुल 799 में से
संदर्भ में पढ़ेंएकोनविंशस्तरङ्गः ४६६ अथ आरनालीयसीसकस्य नामानि काञ्जिकाम्लीयसीसञ्च त्वारनालीयसीसकम् । तदेव च समाख्यात काञ्जिकाम्लीयनागकम् ॥ ६५ ॥ आरनालीयसीसकस्य निर्माणप्रकारः चत्वारिंशद्भागिकन्तु सुतीव्रं काञ्जिकाम्लकम् । परिस्रुतञ्च विमलं जलं विंशतिभागिकम् ॥ ६६ ॥ मृदारशृङ्गचूर्णन्तु चतुर्विंशतिभागिकम् । काचपात्रे सुविमले स्थापयेद्भिषजां वरः ॥ ६७ ॥ चुल्लिकायां निधायाथ कामं मन्दाग्निना पचेत् । द्रवीभूतं ततो ज्ञात्वा चुल्लीतस्त्ववतारयेत् ॥ ६८ ॥ ततः सारकपत्रेण स्रावयेदतियत्नतः । पुनर्मन्दानलेनैव स्रावितं सलिलं पचेत् ॥ ६९ ॥ किञ्चिज्जलांशशेषे च पात्रमाश्र्ववतारयेत् । स्वाङ्गशोतं समालोक्य ततः पात्रतलस्थितान् ॥ ७० ॥ आरनालीयसीसस्य हिमकुन्देन्दुसन्निभान् । सूक्ष्मान् कणान् निपतितान् गृह्णीयाद्भिषजांवरः ॥७१ ॥ अथ नवीनपरिभाषित आरनालीयसीसकनिर्माणप्रकारः—तत्रादौ आरना- लीयसीसकनामानि काञ्जिकाम्लीयसीसकमित्यादिना। सुतीव्रं काञ्जिकाम्लकं अनुपपदं वक्ष्यमाणप्रकारम् । मन्दाग्निना पाको मृद्दारशृंगान्तर्गतनागभागद्रव- सम्पादनार्थः, उक्तमानञ्चित्पजलशेषे हि यथा नागभागद्रुतिर्जायेत, न च प्रागेव नागद्रवात् जलांशशोपः स्यादिति भावः । अतियत्नतः सारणञ्च सारितजल- स्यात्यन्तनिर्मलतातत्पर्य्येणोक्तम् ॥ ६५–७१ ॥ भा.टो.—काञ्जिकाम्लीयसीसा, आरनालीयसीसा, काञ्जिकाम्लीयनाग, यह आरनालीयसीसक का पर्याय नाम है । चालीस भाग तीव्र सिरकाम्ल में बीस भाग शुद्ध परिस्रुत जल और चौबीस भाग मुरदासंग चूर्ण मिलाकर एक कांच के पात्र में चूल्हे अथवा सुरा प्रदीप पर मन्द-मन्द अग्नि देकर पकायें । जब मुरदासंग जल में घुल जाय तो पात्र को चूल्हे से नीचे उतार लें और इस घोल को सारक पत्र (फिल्टर