रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 506, कुल 799 में से
संदर्भ में पढ़ें३१ एकोनविंशत्तरङ्गः ४८१ मृतगगनसमेतं शीलितं क्षौद्रयुक्तं सुमृतयशदचूर्णं रक्तिकैकप्रमाणम् । हरति झटिति कासं श्वासकृच्छ्रोग्रवेगं व्यपनयति विशेषाद् राजरोगोत्थकासम् ॥ १३३ ॥ आर्द्रकस्वरसोपेतं सक्षौद्रं यशदं मृतम् । शीलितं नाशयत्याशु श्वासं परमदारुणम् ॥ १३४ ॥ आत्मगुप्ताशिफारास्नाबल्लैरण्डकषायतः । कम्पयुक्तं पक्षवधं यशदं हन्ति शीलितम् ॥ १३५ ॥ लौहाभ्रकसमायुक्तं यशदं परिशीलितम् । कणाक्षौद्रेण हन्त्याशु श्वासं प्रतमकाभिधम् ॥ १३६ ॥ स्वर्णवङ्कसमायुक्तं यशदं परिशीलितम् । चित्तावसादसंयुक्तं स्वप्नमेहं व्यपोहांत ॥ १३७ ॥ अशोकत्वक्कषायेण यशदं परिशीलितम् । त्रिचतुर्माससम्भूतरजरोधसमुत्थितम् ॥ १३८ ॥ अति-बलवेगेन जायमानं सुदारुणम् । तीव्रवेदनयोपेतं रजःस्रावं निवारयेत् ॥ १३९ ॥ लोहसर्जैरसोपेतं यशदं परिशीलितम् । निहन्ति शुक्लप्रदरं रजोरोधसमुत्थितम् ॥ १४० ॥ यशदं रससिन्दूरयुतं कर्पूरसंयुतम् । सःलापं कम्पवातं हन्ति वै सान्निपातिकम् ॥ १४१ ॥ टङ्काभ्रवंशजायुक्तं यशदं परिशीलितम् । श्वासं निवारयत्याशु संकष्टं कफनिगमम् ॥ १४२ ॥ यशदं रससिन्दूस्त्युतं क्षौद्रेण शीलितम् । हन्ति मस्तिष्कदौर्बल्यं विषादश्रमसंयुक्तम् ॥ १४३ ॥ सुवर्णभस्मसंयुक्तं यशदं परिशीलितम् । समाख्यातं विशेषेण योषापस्मारनाशनम् ॥ १४४ ॥ सतारताप्यं यशदं चित्रककाथयोग-: । अर्धावभेदकं सूर्यावर्तं संनाशयत्यलम् ॥ १४५ ॥ अथास्य रोगांयोग्यः प्रयोगः प्राचीनतन्त्रानुक्तोऽपि अल्पायासो बहुफलश्चेति । पत्रं तेजपत्रम्, पुराणं नेति विशेषः । न चात्रात्यन्तं पुराणं कुम्भाह्वयं सर्पिर्ग्राह्यमिति