रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 513, कुल 799 में से
संदर्भ में पढ़ें४८८ रसतरङ्गिणी
तत्रादौ लोहभेदाः यद्यपि प्राचीनाचार्यैः बहुविधाः सन्ति निर्दिष्टास्तथापि उपलभ्यमानप्रायिकलोहभेदाभिप्रायेणैव मुण्डं तीक्ष्णं कान्तमिति त्रेधा लोह- संख्यानमुक्तमाचार्यैरिति । जातिभेदेन लोहगुणविनिर्णयविस्तरस्तु लोहसर्व- स्वादावनुसन्धेयः । प्रकृते तु यथाप्राप्तं लौहत्रिकमेवादाय समन्वय इति । एषु चोत्तरोत्तरं गुणप्रकर्ष इत्याह मुण्डात्तीक्ष्णं ततः कान्तमिति ॥ १ ॥ भा.टी.—मुण्डलोह, तीक्ष्णलौह तथा कान्तलौह भेद से लौह के तीन भेद माने जाते हैं। इनमें मुण्डलोह की अपेक्षा तीक्ष्णलौह और तीक्ष्णलौह की अपेक्षा कान्तलौह उत्तम माना जाता है ॥ १ ॥ मुण्डलोहस्य नामानि मुण्डं तथा मुण्डलोहं कृषिलोहं शिलात्मजम् । कृष्णायसं दृप्तसारमायसञ्च निगद्यते ॥ २ ॥ भा.टी.—मुण्डलोह को मुण्ड, कृषिलौह (खेती के काम आनेवाला लोहा), शिलात्मज, कृष्णायस, दृप्तसार तथा आयस नाम से व्यवहार किया जाता है॥२॥ तीक्ष्णलौहस्य नामानि लोहो लौहं लोहकञ्च शस्त्रलोहञ्च तीक्ष्णकम् । सारलोहं काललोहं त्रयश्च तदिहोच्यते ॥ ३ ॥ भा.टी.—लोह, लौह, लोहक, शस्त्रलोह (औजारों के काम आनेवाला), तीक्ष्णक, सारलोह, काललोह और अयः, ये सब नाम तीक्ष्णलौह (फौलाद) के कहे जाते हैं ॥ २ ॥ कान्तलोहस्य नामानि कान्तलोहं तथा कान्तं त्वयस्कान्तञ्च तन्मतम् । कान्तायसं महालोहं तदेव विनिगद्यते ॥ ४ ॥ एतेषां नामानि कानिचित्स्वरूपनिर्णायकानि तन्त्रे व्यवहारार्थञ्चेति ॥ ४ ॥ भा.टी.—कान्तलोह, कान्त, अयस्कान्त, कान्तायस और महालोह, ये सब नाम कान्तलौह के कहे जाते हैं ॥ ४ ॥ मुण्डलोहादीनां परिचयः कटाहपिष्टपचनखल्वादीनां विशेषतः । निर्माणाय मुण्डलोहं साम्प्रतं विनियुज्यते ॥ ५ ॥ कृपाणादिविनिर्माणे तीक्ष्णलोहं प्रयुज्यते । कान्तलोहञ्च कथितं बुधैः परमदुर्लभम् ॥ ६ ॥