रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 549, कुल 799 में से
संदर्भ में पढ़ें५२४ रसतरङ्गिणी तृतीयो मारणप्रकारः सुचूर्णिते तु माक्षिके विशोधितं तु हिंगुलम् । क्षिपेत्तदष्टमांशिकं ततस्तु निम्बुकाम्बुना ॥ २३ ॥ सुपेष्य सम्पुटीकृतं पचेद्दर्दीर्घचक्रिकम् । विपक्वमष्टधैव वै प्रकीर्त्तितेन वर्त्मना ॥ २४ ॥ प्रयाति पञ्चतां परं जवेन हेममाक्षिकम् । क्षिपेत्तु हिंगुलं पुनः पुनर्निंरुक्तमानतः ॥ २५ ॥ हिंगुलल्लेपादेवाष्टवारं पुटितं भस्म जायत इति । क्वचित्तु एरण्डतैलेन घर्षणं विधाय पुटनमुक्तं प्राचीनैः, तद्रक्तवर्णम् । तथा कुलत्थक्वाथेन तैलेन अजामूत्रेण तक्रेण वा पुटितं म्रियते तच्च कृष्णाभं भवति ॥ २३–२५ ॥ भा.टी.—शुद्ध स्वर्णमाक्षिकचूर्ण एक भाग में शुद्ध हिंगुलचूर्ण आठवाँ भाग मिलाकर नींबू के रस से मर्दन करके इसको गोल-गोल टिकिया-सी बना लें और धूप में सुखा लें । अब इन टिकियाओं को सम्पुट में बन्द करके पुट में फूँक देवें । इस विधि से आठ बार पुट देने से शीघ्र ही स्वर्णमाक्षिक की भस्म हो जाती है । प्रत्येक बार पुट देने में आठवाँ भाग हिंगुलचूर्ण अवश्य मिलाना चाहिये ॥ २३–२५ ॥ अथ स्वर्णमाक्षिकस्य गुणाः सुवर्णमाक्षिकं वृष्यं मधुरं तु रसायनम् । तिक्तं स्त्रयँञ्च चक्षुष्यं त्रिदोषघ्नं परं मतम् ॥ २६ ॥ क्षयमर्शांसि मेहानि विविधा बस्तिवेदनाः । पाण्डुश्वयथुकुष्ठानि विषदोषादिकान् हरेत् ॥ २७ ॥ जीर्णज्वरमपस्मारं मन्दानलमरोचकम् । अनिद्रां नाशयत्याशु योगवाहि परं मतम् ॥ २८ ॥ अथ माक्षिकगुणाः सुवर्णमाक्षिकं वृष्यमित्यादिना । तथा हि—“सुवर्णमाक्षिकं स्वादु तिक्तं वृष्यं रसायनम् । चक्षुष्यं बस्तिरुक्कुष्ठपाण्डुमेहविषोदरम् ॥ अर्शः शोफं क्षयं कण्डूं त्रिदोषमपि नाशयेत् ।” इति । किञ्च—“माक्षिकं तिक्तमधुरं मेहार्शक्षयकुष्ठनुत् । कफपित्तहरं शीतं योगवाहि रसायनम् ॥” इत्युक्तम् । अपि च—“माक्षीकधातुः सकलामयघ्नः प्राणो रसेंद्रस्य परं हि वृष्यः । दुर्मेहलोहद्वय- मेलकश्च गुणोत्तरः सर्वरसायनाग्र्यः ॥” इति । तथा च—“नैतन्निषेवीजरसाभिभूयते