भारतकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 613, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 613

५८८ रसतरङ्गिणी अपरं परीक्षणम् सलिले या विनििक्षिप्ता तन्तुप्रस्रवकारिणी । आस्वादे कटुतिक्ता च शिलालाक्षा तु साऽमला ॥८३॥ भा.टी.-अथवा जिस शिलाजीत को थोड़ा-सा लेकर जल में डाला जाय यदि वह जल में इधर-उधर को तार से होकर फैलने लगे और स्वाद में कटु और तिक्त हो तो वह भी शुद्ध शिलाजीत होती है ॥८३॥ शिलामयस्य गुणाः शिलाजतु मतं तिक्तं विपाके कटुकं तथा । मूत्रलञ्च विशेषेण योगवाहि रसायनम् ॥८४॥ भा.टी.-शिलाजीत तिक्त प्रधान रस, विपाक में कटु, मूत्र अधिक लाने वाला योगवाही और रसायन द्रव्य है ॥८४॥ अपि च- शिलास्वेदो बल्यः श्वयथुशमनः पाण्डुहरणः क्षयश्वासप्लीहज्वरदहनमान्द्यापहरतः । अपस्मारोन्मादोदरगुदजकृच्छ्रप्रशमनः समीरस्थौल्योरुक्षतहृदयशूलैकदलनः ॥८५॥ प्रमेहकरिकेशरी प्रबलशूलकालानलः कृमिप्रशमनः परं सुवितताश्मरीशैलभित् । सकुष्ठवमिगुल्मजित् प्रबलवातरक्तप्लुतं स्मृतो रसविशारदैः खलु शिलामयो निर्मलः ॥८६॥ गुणाः- उक्तमन्यत्रापि "शिलाह्वं कटुतिक्तोष्णं कटुपाकं रसायनम् । छेदि योगावहं हन्ति कफमेहाश्मशर्कराः ॥ मूत्रकृच्छ्रं क्षयं श्वासं वातास्राशांसि पाण्डुताम् । अपस्मारं तथोन्मादं शोथकुष्ठोदरकृमीन्" इति । स्यादेतत् शिशिरं हि शिलाजतु इति पूर्वमुक्तमत्र च शिलाह्वं कटुतिक्तोष्णमिति उष्णवीर्य- मुच्यते विरुद्धम् ? अत्र ब्रूमहे-न वयं सर्वं शिलाजतु शीतवीर्यमिति प्रतिजानीमहे, यावता भवतैवं पर्यनुयुज्येमहि, अपितु ताम्रमुष्णवीर्यं सौवर्णं राजतं लौहञ्च शीतवीर्यमिति, "शिलाभ्यो यस्य यज्जातं धातोस्तत्तद्गुणं वदेत्" इति वृद्धवाग्भ- टस्मरणात् । यत्तु अनुभवसिद्धमस्योष्णत्वमिति तत्र च "सर्वञ्च तिक्तकटुकं नात्युष्णं कटुपाकतः" इति गृहाण । कटुपाकतः इति हेतुपञ्चम्यास्तसिल् । इदमयुक्तं भवति कटुपाकप्रभावाद् उष्णत्वमपि स्वधातुगुणयोगात् शीतलं सत् नात्युष्णं

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक) · पृष्ठ 613, कुल 799 में से · BharatKosha