भारतकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 618, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 618

३८ द्वांविंशस्तरङ्गः ५६३ ङ्गीपूतीकनक्तमालमोरटाग्निमन्थसैरेयकद्वयबिम्बीवसुकवसिरचित्रकशतावरीबिल्वा- जशृङ्गीदर्भा बृहतीद्वयं च ॥ वरुणादिर्गणो ह्येष कफमेदो निवारणः । विनिहन्ति शिरःशूलगुल्माभ्यन्तरविद्रधीन् ॥” अमृतादिकषायस्तु-“अमृतं नागरं धात्री वाजिगन्धा त्रिकण्टकम् । प्रपिबेद्धातरोगातैः सशूली मूत्रकृच्छ्र- वान् ॥” इत्युक्तः । ससितमित्यादिप्रयोगे शैलेयं शिलाजतु । काकोल्यादिग- णश्च-“काकोलीक्षीरकाकोलीजिवकर्षभकमुद्गपर्णीमेदामहामेदाच्छिन्नरुहाकर्कट- शृङ्गीतुगाक्षीरीपद्मकप्रपौण्डरीकर्द्धिवृद्धिमृद्वीकाजीवन्त्यो मधुकं चेति ।” इति सुश्रुतोक्तः । गुणाश्चास्य “काकोल्यादिरयं पित्तशोणितानिलनाशनः । जीवनो वृंहणो वृष्यः स्तन्यः श्लेष्मकरस्तथा”। वीरतर्वादिकोऽपि गणः सुश्रुताभिहित एव । यथा--“वीरतरुसहचरद्वयदर्भेक्षुन्नादनी-गुन्द्रानलकुशकाशाश्मभेदकाग्निमन्थमो- रटवसुकवसिरभल्लूककुरण्टकेन्दीवरकपोतवङ्गा श्वदंष्ट्रा चेति । वीरतर्वादिरित्येष गणो वातविकारनुत् । अश्मरीशर्करामूत्रकृच्छ्राघातरुजापहः ॥” पुरो गुग्गुलुः, विश्वं शुण्ठी । शालसारादिगणोऽपि सुश्रुतोक्तः--“शालसाराजकर्णखदिर- कदरकालस्कन्धक्रमुकभूर्जमेषशृङ्गितिनिशचन्दनकुचन्दनशिशपाशिरीषासनधवा- र्जुनतालशाकनक्तमालपूतीकाश्चकर्णगुरूण कालीय कं चेति । शालसारादिरित्येष गणः कुष्ठविनाशनः । मेहपाण्ड्वामयहरः कफमेदोविशोधनः ॥” मागधिका पिप्पली । सचन्द्रः सकर्पूरक्षोदः । शोणकायज्वरो नाम सपदि सर्वकायस्य शोण- वर्णप्रदो ज्वरविशेषः “Scarlet Fever” इत्याङ्गलभाषायाम् । स्पष्टमन्यत् । दिङ्मात्रमत्रोदाहृतः प्रयोगः । यच्चाधुना दृश्यते प्रायशो वार्द्धक्ये रक्तवहा धमन्यः खरतां गताः रक्तवेगासहाः सत्यः शिरोरुग्भ्रममनोदेहेन्द्रियादिदौर्बल्यादिलक्षणा- नन्यांश्च कांश्चिद्दारुणानुपद्रवान् पक्षाघादीन् जनयन्तस्तत्रापि वातपित्तहरैमूत्रलैर्वा द्रव्यैः सह शिलाजतुनः प्रयोगः सुखकरं भवतीति । तथा-“ज्वरी ज्वरघ्नाम्बुदपर्पटादेः काथेन रक्ती मधुयष्टिकायाः । शोषी रसैः क्रव्यभुगामिषोत्थैर्मायूरमांसैः पयसा च काश्यें । मध्वम्बुना मेदसि सम्प्रवृद्धे क्षीरेण पर्याकुलबुद्धिसत्त्वः । पाण्ड्वामयार्तावुदरे सशोफे पिबेच्छिलाजं महिषीजलेन ॥ अश्मरीं वीरतराद्येन कुष्ठं खदिरवारिणा । विषं विषघ्नैरगदैः हन्त्येवं तद् यथामयम् ॥” इति च वाग्भटोक्तमनुसन्धेयमिति । तथा चास्य प्रयोगानन्तरमपि पथ्यापथ्ये विशेषः--“व्यायामातपमारुतचेतः सन्तापगुरुविदाह्यादि । उपयोगादपि परतो द्विगुणं परिवर्जयेत् कालम् ॥ कुलत्थान् काकमाचीं च कपोतांश्च सदा त्यजेत् । पिवेन्माहेन्द्रमुदकं कौपं प्रस्रवणाम्बु वा ॥” इति च ॥ ८८-१०६ ॥ भा.टी.-दो रत्ती शुद्ध शिलाजीत को मधु में मिलाकर सेवन कराने से शुक्रावरोध के कारण होनेवाले मूत्रकृच्छ्र में आराम आता है । अष्ठीलिका, वात-