भारतकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 617, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 617

५६२ रसतरङ्गिणी वीरतर्वादिगणभेषजक्वाथसंयुतम् । गिरिजं शीलितं हन्ति मूत्रकृच्छ्रादिकान् गदान् ॥९६॥ सिताक्षीरयुतं प्रातः शीलितं तु शिलाजतु । विनिहन्ति विशेषेण प्रमेहजनितां व्यथाम् ॥९७। शिलाजतु सगोमूत्रं पुरविश्वकणायुतम् । ऊरुस्तम्भं महाघोरं नाशयत्यविलम्बितम् ॥९८॥ लोहभस्मयुतं नित्यं शिलाजतु समाक्षिकम् । शीलितं तु विशेषेण रक्तसञ्जननं परम् ॥९९॥ अर्जुनक्वाथसंयुक्तं शिलाजतु निषेवितम् । मासमात्रप्रयोगेण विनिहन्ति हृदामयम् ॥ १०० ॥ अग्निमन्थरसोपेतं शिलाजतु निषेवितम् । मासद्वयप्रयोगेण स्थौल्यं नाशयति ध्रुवम् ॥ १०१ ॥ शालसारादितोयेन शैलेयं परिभावितम् । तेनैव च कषायेण द्विमासं परिशीलितम् ॥ १०२ ॥ विनाशयेच्चिरोद्भूतं मधुमेहं विशेषतः । तथैव नाशयत्याशु त्वश्मरीं मूत्रशर्कराम् ॥ १०३ ॥ कणापाषाणभेदैलासंयुक्तस्तण्डुलाम्भसा । शिलामयः शीलितस्तु प्रमेहं विनिवारयेत् ॥ १०४ ॥ एलामागधिकायुक्ता शिलालाक्षा तु शीलिता । मूत्राघातं मूत्रकृच्छ्रं नाशयत्यविकल्पतः ॥ १०५ ॥ शिलामयः शिलाघृष्टः सचन्द्रः परिपूरणात् । क्षतं सद्योऽभिघातोत्थं विना पाकं प्ररोपयेत् ॥ १०६ ॥ रजनीरजोपेता शिलालाक्षा तु शीलिता । गोमूत्रेण समाख्याता कुम्भकामलिनां हिता ॥ १०७ ॥ लोहकाञ्चनभस्माढ्यः सर्ज्जकद्रवभावितः । शिलामयो गुञ्जमितः सततं परिशीलितः ॥ १०८ ॥ मसूरिकाज्वरं स्फोटं शोणकायज्वरं तथा । नाशयत्यचिरादेव वृत्तमिन्द्रोऽशनिर्यथा ॥ १०९ ॥ शिलामयस्य रोगयोग्यः प्रयोगः—वाताकुण्डलिका मूत्राघातविशेषः वरुणादिगणस्तु सुश्रुतोक्तः । तद्यथा—“वरुणार्र्तगलशिग्रुमधुशिग्रुतर्कारीमेषशृ-